भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.2.37

2.2.37.1

॥ ब्रह्मोवाच ॥
वीरभद्रोथ युद्धे वै विष्णुना स महाबलः ॥
संस्मृत्य शंकरं चित्ते सर्वापद्विनिवारणम् ॥

2.2.37.2

आरुह्य स्यंदनं दिव्यं सर्ववैरिविमर्दनः ॥
गृहीत्वा परमास्त्राणि सिंहनादं जगर्ज ह

2.2.37.3

विष्णुश्चापि महाघोषं पांचजन्या भिधन्निजम् ॥
दध्मौ बली महाशंखं स्वकीयान् हर्षयन्निव

2.2.37.4

तच्छ्रुत्वा शंखनिर्ह्रादं देवा ये च पलायिताः ॥
रणं हित्वा गताः पूर्वं ते द्रुतं पुनराययुः

2.2.37.5

वीरभद्र गणैस्तेषां लोकपालास्सवासवाः ॥
युद्धञ्चक्रुस्तथा सिंहनादं कृत्वा बलान्विताः

2.2.37.6

गणानां लोकपालानां द्वन्द्वयुद्धं भयावहम् ॥
अभवत्तत्र तुमुलं गर्जतां सिंहनादतः

2.2.37.7

नन्दिना युयुधे शक्रोऽनलो वै वैष्णवास्तथा॥
कुबेरोपि हि कूष्माण्डपतिश्च युयुधे बली

2.2.37.8

तदेन्द्रेण हतो नन्दी वज्रेण शतपर्वणा

2.2.37.9

नन्दिना च हतश्शक्रस्त्रिशूलेन स्तनांतरे

2.2.37.2.2.37.10

बलिनौ द्वावपि प्रीत्या युयुधाते परस्परम् ॥
नानाघातांश्च कुर्वंतौ नन्दिशक्रौ जिगीषया

2.2.37.11

शक्त्या जघान चाश्मानं शुचिः परमकोपनः ॥
सोपि शूलेन तं वेगाच्छितधारेण पावकम्

2.2.37.12

यमेन सह संग्रामं महालोको गणाग्रणीः ॥
चकार तुमुलं वीरो महादेवं स्मरन्मुदा

2.2.37.13

नैरृतेन समागम्य चंडश्च बलवत्तरः ॥
युयुधे परमास्त्रैश्च नैरृतिं निबिडं वयन्

2.2.37.14

वरुणेन समं वीरो मुंडश्चैव महाबलः ॥
युयुधे परया शक्त्या त्रिलोकीं विस्मयन्निव

2.2.37.15

वायुना च हतो भृंगी स्वास्त्रेण परमोजसा ॥
भृंगिणा च हतो वायुस्त्रिशूलेन प्रतापिना

2.2.37.16

कुबेरेणैव संगम्य कूष्मांडपतिरादरात् ॥
युयुधे बलवान् वीरो ध्यात्वा हृदि महेश्वरम्

2.2.37.17

योगिनीचक्रसंयुक्तो भैरवीनायको महान् ॥
विदीर्य्य देवानखिलान्पपौ शोणितमद्भुतम्

2.2.37.18

क्षेत्रपालास्तथा तत्र बुभुक्षुः सुरपुंगवान् ॥
काली चापि विदार्यैव तान्पपौ रुधिरं बहु

2.2.37.19

अथ विष्णुर्महातेजा युयुधे तैश्च शत्रुहा ॥
चक्रं चिक्षेप वेगेन दहन्निव दिशो दश

2.2.37.2.2.37.20

क्षेत्रपालस्समायांतं चक्रमालोक्य वेगतः ॥
तत्रागत्यागतो वीरश्चाग्रसत्सहसा बली

2.2.37.21

चक्रं ग्रसितमालोक्य विष्णुः परपुरंजयः ॥
मुखं तस्य परामृज्य तमुद्गालितवानरिम्॥।

2.2.37.22

स्वचक्रमादाय महानुभावश्चुकोप चातीव भवैकभर्त्ता ॥
महाबली तैर्युयुधे प्रवीरैस्सक्रुद्धनानायुधधारकोस्त्रैः

2.2.37.23

चक्रे महारणं विष्णुस्तैस्सार्द्धं युयुधे मुदा ॥
नानायुधानि संक्षिप्य तुमुलं भीमविक्रमम्

2.2.37.24

अथ ते भैरवाद्याश्च युयुधुस्तेन भूरिशः ॥
नानास्त्राणि विमुंचंतस्संकुद्धाः परमोजसा

2.2.37.25

इत्थं तेषां रणं दृष्ट्वा हरिणातुलतेजसा ॥
विनिवृत्य समागम्य तान्स्वयं युयुधे बली

2.2.37.26

अथ विष्णुर्महातेजाश्चक्रमुद्यम्य मूर्च्छितः ॥
युयुधे भगवांस्तेन वीरभद्रेण माधवः

2.2.37.27

तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् ॥
महावीराधिपत्योस्तु नानास्त्रधरयोर्मुने

2.2.37.28

विष्णोर्योगबलात्तस्य देवदेव सुदारुणाः॥
शङ्खचक्रगदाहस्ता असंख्याताश्च जज्ञिरे

2.2.37.29

ते चापि युयुधुस्तेन वीरभद्रेण भाषता ॥
विष्णुवत् बलवंतो हि नानायुधधरा गणाः

2.2.37.2.2.37.30

तान्सर्वानपि वीरोसौ नारायणसमप्रभान् ॥
भस्मीचकार शूलेन हत्वा स्मृत्वा शिवं प्रभुम्

2.2.37.31

ततश्चोरसि तं विष्णुं लीलयैव रणाजिरे ॥
जघान वीरभद्रो हि त्रिशूलेन महाबली

2.2.37.32

तेन घातेन सहसा विहतः पुरुषोत्तमः ॥
पपात च तदा भूमौ विसंज्ञोभून्मुने हरिः

2.2.37.33

ततो यज्ञोद्भुतं तेजः प्रलयानलसन्निभम् ॥
त्रैलोक्यदाहकं तीव्रं वीराणामपि भीकरम्

2.2.37.34

क्रोधरक्तेक्षणः श्रीमान् पुनरुत्थाय स प्रभुः ॥
प्रहर्तुं चक्रमुद्यम्य ह्यतिष्ठत्पुरुषर्षभः

2.2.37.35

तस्य चक्रं महारौद्रं काला दित्यसमप्रभम् ॥
व्यष्टंभयददीनात्मा वीरभद्रश्शिवः प्रभुः

2.2.37.36

मुने शंभोः प्रभावात्तु मायेशस्य महाप्रभोः ॥
न चचाल हरेश्चक्रं करस्थं स्तंभितं ध्रुवम्

2.2.37.37

अथ विष्णुर्गणेशेन वीरभद्रेण भाषता ॥
अतिष्ठत्स्तंभितस्तेन शृंगवानिव निश्चलः

2.2.37.38

ततो विष्णुः स्तंभितो हि वीरभद्रेण नारद ॥
यज्वोपमंत्रणमना नीरस्तंभनकारकम्

2.2.37.39

ततस्स्तंभननिर्मुक्तः शार्ङ्गधन्वा रमेश्वरः ॥
शार्ङ्गं जग्राह स क्रुद्धः स्वधनुस्सशरं मुने

2.2.37.2.2.37.40

त्रिभिश्च धर्षितो बाणैस्तेन शार्ङ्गं धनुर्हरेः ॥
वीरभद्रेण तत्तात त्रिधाभूत्तत्क्षणान्मुने

2.2.37.41

अथ विष्णुर्मया वाण्या बोधितस्तं महागणम् ॥
असह्यवर्चसं ज्ञात्वा ह्यंतर्धातुं मनो दधे॥

2.2.37.42

ज्ञात्वा च तत्सर्वमिदं भविष्यं सतीकृतं दुष्प्रसहं परेषाम् ॥
गताः स्वलोकं स्वगणान्वितास्तु स्मृत्वा शिवं सर्वपतिं स्वतंत्रम्

2.2.37.43

सत्यलोकगतश्चाहं पुत्र शोकेन पीडितः ॥
अचिंतयं सुदुःखार्तो मया किं कार्यमद्य वै

2.2.37.44

विष्णौ मयि गते चैव देवाश्च मुनिभिस्सह ॥
विनिर्जिता गणैस्सर्वे ये ते यज्ञोपजीविनः

2.2.37.45

समुपद्रवमालक्ष्य विध्वस्तं च महामखम् ॥
मृगस्वरूपो यज्ञो हि महाभीतोऽपि दुद्रुवे

2.2.37.46

तं तदा मृगरूपेण धावंतं गगनं प्रति॥
वीरभद्रस्समादाय विशिरस्कमथाकरोत्

2.2.37.47

ततः प्रजापतिं धर्मं कश्यपं च प्रगृह्य सः ॥
अरिष्टनेमिनं वीरो बहुपत्रमुनीश्वरम्

2.2.37.48

मुनिमांगिरसं चैव कृशाश्वं च महागणः ॥
जघान मूर्ध्नि पादेन दत्तं च मुनिपुंगवम्

2.2.37.49

सरस्वत्याश्च नासाग्रं देवमास्तु तथैव च ॥
चिच्छेद करजाग्रेण वीर भद्रः प्रतापवान्

2.2.37.2.2.37.50

ततोन्यानपि देवादीन् विदार्य पृथिवीतले ॥
पातयामास सोयं वै क्रोधाक्रांतातिलोचनः

2.2.37.51

वीरभद्रो विदार्य्यापि देवान्मुख्यान्मुनीनपि ॥
नाभूच्छांतो द्रुतक्रोधः फणिराडिव मंडितः

2.2.37.52

वीरभद्रोद्धृतारातिः केसरीव वनद्विपान् ॥
दिशो विलोकयामास कः कुत्रास्तीत्यनुक्षणम्

2.2.37.53

व्यपोथयद्भृगुं यावन्मणिभद्रः प्रतापवान् ॥
पदाक्रम्योरसि तदाऽकार्षीत्तच्छ्मश्रुलुंचनम्

2.2.37.54

चंडश्चोत्पाटयामास पूष्णो दंतान् प्रवेगतः ॥
शप्यमाने हरे पूर्वं योऽहसद्दर्शयन्दतः

2.2.37.55

नन्दी भगस्य नेत्रे हि पातितस्य रुषा भुवि ॥
उज्जहार स दक्षोक्ष्णा यश्शपंतमसूसुचत्

2.2.37.56

विडंबिता स्वधा तत्र सा स्वाहा दक्षिणा तथा॥
मंत्रास्तंत्रास्तथा चान्ये तत्रस्था गणनायकैः

2.2.37.57

ववृषुस्ते पुरीषाणि वितानाऽग्नौ रुषा गणाः॥
अनिर्वाच्यं तदा चक्रुर्गणा वीरास्तमध्वरम्

2.2.37.59

अंतर्वेद्यंतरगतं निलीनं तद्भयाद्बलात् ॥
आनिनाय समाज्ञाय वीरभद्रेः स्वभूश्चुतम्५८॥
कपोलेऽस्य गृहीत्वा तु खड्गेनोपहृतं शिरः ॥
अभेद्यमभवत्तस्य तच्च योगप्रभावतः

2.2.37.2.2.37.60

अभेद्यं तच्छिरो मत्वा शस्त्रास्त्रैश्च तु सर्वशः ॥
करेण त्रोटयामास पद्भ्यामाक्रम्य चोरसि

2.2.37.61

तच्छिरस्तस्य दुष्टस्य दक्षस्य हरवैरिणः ॥
अग्निकुंडे प्रचिक्षेप वीरभद्रो गणाग्रणीः

2.2.37.62

रेजे तदा वीरभद्रस्त्रिशूलं भ्रामयन्करे ॥
क्रुद्धा रणाक्षसंवर्ताः प्रज्वाल्य पर्वतोपमाः (?) ॥

2.2.37.63

अनायासेन हत्वैतान् वीरभद्रस्ततोऽग्निना ॥
ज्वालयामास सक्रोधो दीप्ताग्निश्शलभानिव

2.2.37.64

वीरभद्रस्ततो दग्धान्दृष्ट्वा दक्षपुरोगमान् ॥
अट्टाट्टहासमकरोत्पूरयंश्च जगत्त्रयम्

2.2.37.65

वीरश्रिया वृतस्तत्र ततो नन्दनसंभवा ॥
पुष्पवृष्टिरभूद्दिव्या वीरभद्रे गणान्विते

2.2.37.66

ववुर्गंधवहाश्शीतास्सुगन्धास्सुखदाः शनैः ॥
देवदुंदुभयो नेदुस्सममेव ततः परम्

2.2.37.67

कैलासं स ययौ वीरः कृतकार्य्यस्ततः परम् ॥
विनाशितदृढध्वांतो भानुमानिव सत्वरम्

2.2.37.68

कृतकार्यं वीरभद्रं दृष्ट्वा संतुष्टमा नसः ॥
शंभुर्वीरगणाध्यक्षं चकार परमेश्वरः

2.2.37.37

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां द्वितीये सतीखंडे यज्ञविध्वं सवर्णनो नाम सप्तत्रिंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc