भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.2.25

2.2.25.1

राम उवाच ॥
एकदा हि पुरा देवि शंभुः परमसूतिकृत् ॥
विश्वकर्माणमाहूय स्वलोके परतः परे

2.2.25.2

स्वधेनुशालायां रम्यं कारयामास तेन च ॥
भवनं विस्तृतं सम्यक् तत्र सिंहासनं वरम्

2.2.25.3

तत्रच्छत्रं महादिव्यं सर्वदाद्भुत मुत्तमम् ॥
कारयामास विघ्नार्थं शंकरो विश्वकर्मणा

2.2.25.4

शक्रादीनां जुहावाशु समस्तान्देवतागणान् ॥
सिद्धगंधर्वनागानुपदे शांश्च कृत्स्नशः

2.2.25.5

देवान् सर्वानागमांश्च विधिं पुत्रैर्मुनीनपि ॥
देवीः सर्वा अप्सरोभिर्नानावस्तुसमन्विताः

2.2.25.6

देवानां च तथर्षीणां सिद्धानां फणिनामपि॥
आनयन्मंगलकराः कन्याः षोडशषोडश

2.2.25.7

वीणामृदंगप्रमुखवाद्यान्नानाविधान्मुने॥
उत्सवं कारयामास वादयित्वा सुगायनैः

2.2.25.8

राजाभिषेकयोग्यानि द्रव्याणि सकलौषधैः
प्रत्यक्षतीर्थपाथोभिः पंचकुभांश्च पूरितान्

2.2.25.9

तथान्यास्संविधा दिव्या आनयत्स्वगणैस्तदा ॥
ब्रह्मघोषं महारावं कारयामास शंकरः

2.2.25.2.2.25.10

अथो हरिं समाहूय वैकुंठात्प्रीतमानसः॥
तद्भक्त्या पूर्णया देवि मोदतिस्म महेश्वरः

2.2.25.11

सुमुहूर्ते महादेवस्तत्र सिंहासने वरे ॥
उपवेश्य हरिं प्रीत्या भूषयामास सर्वशः

2.2.25.12

आबद्धरम्यमुकुटं कृतकौतुकमंगलम् ॥
अभ्यषिंचन्महेशस्तु स्वयं ब्रह्मांडमंडपे

2.2.25.13

दत्तवान्निखिलैश्वर्यं यन्नैजं नान्यगामि यत् ॥
ततस्तुष्टाव तं शंभुस्स्वतंत्रो भक्तवत्सलः

2.2.25.14

ब्रह्माणं लोककर्तारमवोचद्वचनं त्विदम् ॥
व्यापयन्स्वं वराधीनं स्वतंत्रं भक्तवत्सलः

2.2.25.15

महेश उवाच ॥
अतः प्रभृति लोकेश मन्निदेशादयं हरिः ॥
मम वंद्य स्वयं विष्णुर्जातस्सर्वश्शृणोति हि

2.2.25.17

सर्वैर्देवादिभिस्तात प्रणमत्वममुं हरिम् ॥
वर्णयंतु हरिं वेदा ममैते मामिवाज्ञया ॥ १६ ।
राम उवाच ॥
इत्युक्त्वाथ स्वयं रुद्रोऽनमद्वै गरुडध्वजम् ॥
विष्णुभक्तिप्रसन्नात्मा वरदो भक्तवत्सलः

2.2.25.18

ततो ब्रह्मादिभिर्देवैः सर्वरूपसुरैस्तथा ॥
मुनिसिद्धादिभिश्चैवं वंदितोभूद्धरिस्तदा

2.2.25.19

ततो महेशो हरयेशंसद्दिविषदां तदा ॥
महावरान् सुप्रसन्नो धृतवान्भक्तवत्सलः

2.2.25.2.2.25.20

महेश उवाच ॥
त्वं कर्ता सर्वलोकानां भर्ता हर्ता मदाज्ञया ॥
दाता धर्मार्थकामानां शास्ता दुर्नयकारिणाम्

2.2.25.21

जगदीशो जगत्पूज्यो महाबलपराक्रमः ॥
अजेयस्त्वं रणे क्वापि ममापि हि भविष्यसि

2.2.25.22

शक्तित्रयं गृहाण त्वमिच्छादि प्रापितं मया ॥
नानालीलाप्रभावत्वं स्वतंत्रत्वं भवत्रये

2.2.25.23

त्वद्द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः ॥
त्वद्भक्तानां मया विष्णो देयं निर्वाणमुत्तमम्

2.2.25.24

मायां चापि गृहाणेमां दुःप्रणोद्यां सुरादिभिः ॥
यया संमोहितं विश्वमचिद्रूपं भविष्यति

2.2.25.25

मम बाहुर्मदीयस्तं दक्षिणोऽसौ विधिर्हरे ॥
अस्यापि हि विधेः पाता जनितापि भविष्यसि

2.2.25.26

हृदयं मम यो रुद्रस्स एवाहं न संशयः ॥
पूज्यस्तव सदा सोपि ब्रह्मादीनामपि ध्रुवम्

2.2.25.27

अत्र स्थित्वा जगत्सर्वं पालय त्वं विशेषतः ॥
नानावतारभेदैश्च सदा नानोति कर्तृभिः

2.2.25.28

मम लोके तवेदं व स्थानं च परमर्द्धिमत् ॥
गोलोक इति विख्यातं भविष्यति महोज्ज्वलम्

2.2.25.29

भविष्यंति हरे ये तेऽवतारा भुवि रक्षकाः ॥
मद्भक्तास्तान् ध्रुवं द्रक्ष्ये प्रीतानथ निजाद्वरात

2.2.25.2.2.25.30

राम उवाच ॥
अखंडैश्वर्यमासाद्य हरेरित्थं हरस्स्वयम् ॥
कैलासे स्वगणैस्तस्मिन् स्वैरं क्रीडत्युमापतिः

2.2.25.31

तदाप्रभृति लक्ष्मीशो गोपवेषोभवत्तथा ॥
अयासीत्तत्र सुप्रीत्या गोपगोपोगवां पतिः

2.2.25.32

सोपि विष्णुः प्रसन्नात्मा जुगोप निखिलं जगत् ॥
नानावतारस्संधर्ता वनकर्ता शिवाज्ञया

2.2.25.33

इदानीं स चतुर्द्धात्रावातरच्छंकराज्ञया ॥
रामोहं तत्र भरतो लक्ष्मणश्शत्रुहेति च

2.2.25.34

अथ पित्राज्ञया देवि ससीतालक्ष्मणस्सति ॥
आगतोहं वने चाद्य दुःखितौ दैवतो ऽभवम्

2.2.25.35

निशाचरेण मे जाया हृता सीतेति केनचित् ॥
अन्वेष्यामि प्रियां चात्र विरही बंधुना वने

2.2.25.36

दर्शनं ते यदि प्राप्तं सर्वथा कुशलं मम ॥
भविष्यति न संदेहो मातस्ते कृपया सति

2.2.25.37

सीताप्राप्तिवरो देवि भविष्यति न संशयः ॥
तं हत्वा दुःखदं पापं राक्षसं त्वदनुग्रहात्

2.2.25.38

महद्भाग्यं ममाद्यैव यद्यकार्ष्टां कृपां युवाम् ॥
यस्मिन् सकरुणौ स्यातां स धन्यः पुरुषो वरः

2.2.25.39

इत्थमाभाष्य बहुधा सुप्रणम्य सतीं शिवाम् ॥
तदाज्ञया वने तस्मिन् विचचार रघूद्वहः

2.2.25.2.2.25.40

अथाकर्ण्य सती वाक्यं रामस्य प्रयतात्मनः ॥
हृष्टाभूत्सा प्रशंसन्ती शिवभक्तिरतं हृदि

2.2.25.41

स्मृत्वा स्वकर्म मनसाकार्षीच्छोकं सुविस्तरम् ॥
प्रत्यागच्छदुदासीना विवर्णा शिवसन्निधौ

2.2.25.42

अचिंतयत्पथि सा देवी संचलंती पुनः पुनः ॥
नांगीकृतं शिवोक्तं मे रामं प्रति कुधीः कृता

2.2.25.43

किमुत्तरमहं दास्ये गत्वा शंकरसन्निधौ ॥
इति संचिंत्य बहुधा पश्चात्तापोऽभवत्तदा

2.2.25.44

गत्वा शंभुसमीपं च प्रणनाम शिवं हृदा ॥
विषण्णवदना शोकव्याकुला विगतप्रभा

2.2.25.45

अथ तां दुःखितां दृष्ट्वा पप्रच्छ कुशलं हरः ॥
प्रोवाच वचनं प्रीत्या तत्परीक्षा कृता कथम्

2.2.25.46

श्रुत्वा शिववचो नाहं किमपि प्रणतानना ॥
सती शोकविषण्णा सा तस्थौ तत्र समीपतः

2.2.25.47

अथ ध्यात्वा महेशस्तु बुबोध चरितं हृदा ॥
दक्षजाया महायोगी नानालीला विशारदः

2.2.25.48

सस्मार स्वपणं पूर्वं यत्कृतं हरिकोपतः ॥
तत्प्रार्थितोथ रुद्रोसौ मर्यादा प्रतिपालकः

2.2.25.49

विषादोभूत्प्रभोस्तत्र मनस्येवमुवाच ह ॥
धर्मवक्ता धर्मकर्त्ता धर्मावनकरस्सदा

2.2.25.2.2.25.50

शिव उवाच ॥
कुर्यां चेद्दक्षजायां हि स्नेहं पूर्वं यथा महान् ॥
नश्येन्मम पणः शुद्धो लोकलीलानुसारिणः

2.2.25.51

ब्रह्मोवाच ॥
इत्थं विचार्य बहुधा हृदा तामत्यजत्सतीम् ॥
पणं न नाशयामास वेदधर्मप्रपालकः

2.2.25.52

ततो विहाय मनसा सतीं तां परमेश्वरः ॥
जगाम स्वगिरि भेदं जगावद्धा स हि प्रभुः

2.2.25.53

चलंतं पथि तं व्योमवाण्युवाच महेश्वरम् ॥
सर्वान् संश्रावयन् तत्र दक्षजां च विशेषतः

2.2.25.54

व्योमवाण्युवाच ॥
धन्यस्त्वं परमेशान त्वत्त्समोद्य तथा पणः ॥
न कोप्यन्यस्त्रिलोकेस्मिन् महायोगी महाप्रभुः

2.2.25.55

ब्रह्मोवाच ॥
श्रुत्वा व्योमवचो देवी शिवं पप्रच्छ विप्रभा॥
कं पणं कृतवान्नाथ ब्रूहि मे परमेश्वर

2.2.25.56

इति पृष्टोपि गिरिशस्सत्या हितकरः प्रभुः ॥
नोद्वाहे स्वपणं तस्यै कहर्यग्रेऽकरोत्पुरा

2.2.25.57

तदा सती शिवं ध्यात्वा स्वपतिं प्राणवल्लभम्॥
सर्वं बुबोध हेतुं तं प्रियत्यागमयं मुने

2.2.25.58

ततोऽतीव शुशोचाशु बुध्वा सा त्यागमात्मनः ॥
शंभुना दक्षजा तस्मान्निश्वसंती मुहुर्मुहुः

2.2.25.59

शिवस्तस्याः समाज्ञाय गुप्तं चक्रे मनोभवम् ॥
सत्ये पणं स्वकीयं हि कथा बह्वीर्वदन्प्रभुः

2.2.25.2.2.25.60

सत्या प्राप स कैलासं कथयन् विविधाः कथा ॥
वरे स्थित्वा निजं रूपं दधौ योगी समाधिभृत्

2.2.25.61

तत्र तस्थौ सती धाम्नि महाविषण्णमानसा ॥
न बुबोध चरित्रं तत्कश्चिच्च शिवयोर्मुने

2.2.25.62

महान्कालो व्यतीयाय तयोरित्थं महामुने ॥
स्वोपात्तदेहयोः प्रभ्वोर्लोकलीलानुसारिणोः

2.2.25.63

ध्यानं तत्याज गिरिशस्ततस्स परमार्तिहृत् ॥
तज्ज्ञात्वा जगदंबा हि सती तत्राजगाम सा

2.2.25.64

ननामाथ शिवं देवी हृदयेन विदूयता ॥
आसनं दत्तवाञ्शंभुः स्वसन्मुख उदारधीः

2.2.25.65

कथयामास सुप्रीत्या कथा बह्वीर्मनोरमाः ॥
निश्शोका कृतवान्सद्यो लीलां कृत्वा च तादृशीम्

2.2.25.66

पूर्ववत्सा सुखं लेभे तत्याज स्वपणं न सः ॥
नेत्याश्चर्यं शिवे तात मंतव्यं परमेश्वरे

2.2.25.67

इत्थं शिवाशिवकथां वदन्ति मुनयो मुने ॥
किल केचिदविद्वांसो वियोगश्च कथं तयोः

2.2.25.68

शिवाशिवचरित्रं को जानाति परमार्थतः ॥
स्वेच्छया क्रीडतस्तो हि चरितं कुरुतस्सदा

2.2.25.69

वागर्थाविव संपृक्तौ सदा खलु सतीशिवौ॥
तयोर्वियोगस्संभाव्यस्संभवेदिच्छया तयोः

2.2.25.25

इति श्रीशिवमहापुराणे द्द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीवियोगो नाम पंचविंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc