भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.2.21

2.2.21.1

॥ नारद उवाच ॥
समीचीनं वचस्तात सर्वज्ञस्य तवाऽनघ ॥
महाद्भुतं श्रुतं नो वै चरितं शिवयोश्शुभम्

2.2.21.2

विवाहश्च श्रुतस्सम्यक् सर्वमोहापहारकः ॥
परमज्ञानसंपन्नो मंगलालय उत्तमः

2.2.21.3

भूय एव विवित्सा मे चरितं शिवयोश्शुभम् ॥
तद्वर्णय महाप्राज्ञ कृपां कृत्वाऽतुलामरम्

2.2.21.4

॥ ब्रह्मोवाच ॥
सम्यक्कारुणिकस्यैव मुने ते विचिकित्सितम् ॥
यदहं नोदितस्सौम्य शिवलीलानुवर्णने

2.2.21.5

विवाह्य दक्षजां देवीं सतीं त्रैलोक्यमातरम् ॥
गत्वा स्वधाम सुप्रीत्या यदकार्षीन्निबोध मे

2.2.21.6

ततो हरस्स स्वगणस्स्वस्थानं प्राप्य मोदनम ॥
देवर्षे तत्र वृषभादवातरदतिप्रियात्

2.2.21.7

यथायोग्यं निजस्थानं प्रविश्य स सतीसखः ॥
मुमुदेऽतीव देवर्षे भवाचारकरश्शिवः

2.2.21.8

ततो विरूपाक्ष इमां प्राप्य दाक्षायणीं गणान् ॥
स्वीयानिर्यापयामास नद्यादीन् गिरिकंदरात्

2.2.21.9

उवाच चैतास्तान् सर्वान्नंद्यादीनतिसूनृतम् ॥
लौकिकीं रीतिमाश्रित्य करुणासागरः प्रभुः

2.2.21.2.2.21.10

महेश उवाच ॥
यदाहं च स्मराम्यत्र स्मरणादरमानसाः ॥
समागमिष्यथ तदा मत्पार्श्वं मे गणा द्रुतम्

2.2.21.11

इत्युक्ते वामदेवेन नद्याद्यास्स्वगणाश्च ते ॥
महावेगा महावीरा नानास्थानेषु संययुः

2.2.21.12

ईश्वरोपि तया सार्द्धं तेषु यातेषु विभ्रमी ॥
दाक्षायण्या समं रेमे रहस्ये मुदितो भृशम्

2.2.21.3

कदाचिद्वन्य पुष्पाणि समाहृत्य मनोहराम् ॥
मालां विधाय सत्यास्तु हारस्थाने स योजयत्

2.2.21.14

कदाचिद्दर्पणे चैव वीक्षतीमात्मनस्सतीम् ॥
अनुगम्य हरो वक्त्रम् स्वीयमप्यवलोकयत

2.2.21.15

कदाचित्कुंडलं तस्या उल्लास्योल्लास्य संगतः॥
बध्नाति मोचयत्येव सा स्वयं मार्जयत्यपि

2.2.21.16

सरागौ चरणावस्याः पावकेनोज्ज्वलेन च ॥
निसर्गरक्तौ कुरुते पूर्णरागौ वृषध्वजः

2.2.21.17

उच्चैरपि यदाख्येयमन्येषां पुरतो बहु ॥
तत कर्णे कथयत्त्यस्याहरो द्रष्टुं तदाननम्

2.2.21.18

न दूरमपि गन्तासौ समागत्य प्रयत्नतः॥
अनुबध्नाति नामाक्षी पृष्ठदेशेन्यमानसाम्

2.2.21.19

अंतर्हितस्तु तत्रैव मायया वृषभध्वजः ॥
तामालिलिंग भीत्या स्वं चकिता व्याकुलाऽभवत्

2.2.21.2.2.21.20

सौवर्णपद्मकलिकातुल्ये तस्या कुचद्वये ॥
चकार भ्रमराकारं मृगनाभिविशेषकम्

2.2.21.21

हारमस्याः कुचयुगाद्वियोज्य सहसा हरः ॥
न्ययोजयच्च तत्रैव स्वकरस्पर्शनं मुहुः

2.2.21.22

अंगदान्वलयानूर्मान्विश्लेष्य च पुनः पुनः॥
तत्स्थानात्पुनरेवासौ तत्स्थाने प्रत्ययोजयत्

2.2.21.23

कालिकेति समायाति सवर्णा ते सखी त्विमाम् ॥
यास्यत्वस्यास्तथेक्षंत्याः प्रोत्तुंगौ साहसं कुचौ

2.2.21.24

कदाचिन्मदनोन्मादचेतनः प्रमथाधिपः ॥
चकार नर्म शर्माणि तथाकृत्प्रियया मुदा

2.2.21.25

आहृत्य पद्मपुष्पाणि रम्यपुष्पाणि शंकरः ॥
सर्वांगेषु करोति स्म पुष्पाभरणमादरात्

2.2.21.26

गिरिकुंजेषु रम्येषु सत्या सह महेश्वरः ॥
विजहार समस्तेषु प्रियया भक्तवत्सलः

2.2.21.27

तया विना स्म नो याति नास्थितो न स्म चेष्टते ॥
तया विना क्षममपि शर्म लेभे न शंकरः

2.2.21.28

विहृत्य सुचिरं कालं कैलासगिरिकुंजरे ॥
अगमद्धिमवत्प्रस्थं सस्मार स्वेच्छया स्मरन्

2.2.21.29

तस्मिन्प्रविष्टे कामे तु वसंतश्शंकरांतिके ॥
वितस्तार निजं भावं हार्दं विज्ञाय यत्प्रभो

2.2.21.2.2.21.30

सर्वे च पुष्पिता वृक्षा लताश्चान्याश्च पुष्पिताः।
अंभांसि फुल्लपद्मानि पद्मास्सभ्रमरास्तथा

2.2.21.31

प्रविष्टे तत्र सदृतौ ववौ स मलयो मरुत् ॥
सुगंधिगंधपुष्पेण मोदकश्च सुगंधियुक्

2.2.21.32

संध्यार्द्रचन्द्रसंकाशाः पलाशाश्च विरेजिरे ॥
कामास्त्रवत्सुमनसः प्रमोदात्पादपाधरः

2.2.21.33

बभुः पंकजपुष्पाणि सरस्सु संकलाञ्जनान् ॥
संमोहयितुमुद्युक्ता सुमुखी वायुदेवता

2.2.21.34

नागकेशरवृक्षाश्च स्वर्णवर्णैः प्रसूनकैः ॥
बभुर्मदनकेत्वाभा मनोज्ञाश्शंकरांतिके

2.2.21.35

लवंगवल्लीसुरभिगंधेनोद्वास्य मारुतम् ॥
मोहयामास चेतांसि भृशं कामिजने पुरा

2.2.21.36

चारु पावकचर्चित्सु सुस्वराश्चूतशालिनः ॥
बभुर्मदनबाणौघपर्यंकमदनावृताः

2.2.21.37

अंभांसि मलहीनानि रेजुः फुल्लकुशाशयाः ॥
मुनीनामिव चेतांसि प्रव्यक्तज्योतिरुद्गमम्

2.2.21.38

तुषारास्सूर्यरश्मीनां संगमादगमन् बहिः ॥
प्रमत्वानीक्ष्यतेक्षाश्च सलिलीहृदयास्तदा

2.2.21.39

प्रसन्नास्सह चन्द्रेण ननिषारास्तदाऽभवन् ॥
विभावर्यः प्रियेणैवं कामिन्यस्तु मनोहराः

2.2.21.2.2.21.40

तस्मिन्काले महादेवस्सह सत्या धरोत्तमे ॥
रेमे स सुचिरं छन्दं निकुंजेषु नदीषु च

2.2.21.41

तथा तेन समं रेजे तदा दाक्षायिणि मुने ॥
यथा हरः क्षणमपि शांतिमाप तया विना

2.2.21.42

संभोगविषये देवी सती तस्य मनः प्रिया ॥
विशतीव हरस्यांगे पाययन्निव तद्रसम्

2.2.21.43

तस्या कुसुममालाभिर्भूषयन्सकलां तनुम् ॥
स्वहस्तरचिताभिस्तु नवशर्माकरोच्च सः

2.2.21.44

आलापैर्वीक्षितैर्हास्यैस्तथा संभाषणैर्हरः ॥
तस्यादिदेश गिरिजां सपतीवात्मसंविदम्

2.2.21.45

तद्वक्त्रचंद्र पीयूषपानस्थिरतनुर्हरः ॥
नानावैशेषिकीं तन्वीमवस्थां स कदाचन

2.2.21.46

तद्वक्त्राम्बुजवासेन तत्सौन्दर्य्यैश्च नर्मभिः ॥
गुणैरिव महादंती बद्धो नान्यविचेष्टितः

2.2.21.47

इति हिमगिरिकुंजप्रस्थभागे दरीषु प्रतिदिनमभिरेमे दक्षपुत्र्या महेशः ॥
क्रतुभुजपरिमाणैः क्रीडतस्तस्य जाता दश दश च सुरर्षे वत्सराः पंच चान्ये

2.2.21.21

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहि तायां द्वितीये सतीखंडे सतीशिवक्रीडावर्णनं नामैकविंशोध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc