भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.1.20

2.1.20.1

ब्रह्मोवाच ॥
नारद त्वं शृणु मुने शिवागमनसत्तमम् ॥
कैलासे पर्वतश्रेष्ठे कुबेरस्य तपोबलात्

2.1.20.2

निधिपत्व वरं दत्त्वा गत्वा स्वस्थानमुत्तमम् ॥
विचिन्त्य हृदि विश्वेशः कुबेरवरदायकः

2.1.20.3

विध्यंगजस्स्वरूपो मे पूर्णः प्रलयकार्यकृत् ॥
तद्रूपेण गमिष्यामि कैलासं गुह्यकालयम्

2.1.20.4

रुद्रो हृदयजो मे हि पूर्णांशो ब्रह्मनिष्फलः ॥
हरि ब्रह्मादिभिस्सेव्यो मदभिन्नो निरंजन

2.1.20.5

तत्स्वरूपेण तत्रैव सुहृद्भूवा विलास्यहम् ॥
कुबेरस्य च वत्स्यामि करिष्यामि तपो महत्

2.1.20.6

इति संचिंत्य रुद्रोऽसौ शिवेच्छां गंतुमुत्सुकः ॥
ननाद तत्र ढक्कां स्वां सुगतिं नादरूपिणीम्

2.1.20.7

त्रैलोक्यामानशे तस्या ध्वनिरुत्साहकारकः ॥
आह्वानगतिसंयुक्तो विचित्रः सांद्रशब्दकः

2.1.20.8

तच्छ्रुत्वा विष्णुब्रह्माद्याः सुराश्च मुनयस्तथा॥
आगमा निगमामूर्तास्सिद्धा जग्मुश्च तत्र वै

2.1.20.9

सुरासुराद्यास्सकलास्तत्र जग्मुश्च सोत्सवाः ॥
सर्वेऽपि प्रमथा जग्मुर्यत्र कुत्रापि संस्थिताः

2.1.20.2.1.20.10

गणपाश्च महाभागास्सर्वलोक नमस्कृताः ॥
तेषां संख्यामहं वच्मि सावधानतया शृणु

2.1.20.11

अभ्ययाच्छंखकर्णश्च गणकोट्या गणेश्वरः ॥
दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च

2.1.20.12

चतुःषष्ट्या विशाखश्च नवभिः पारियात्रकः ॥
षड्भिः सर्वान्तकः श्रीमान्दुन्दुभोऽष्टाभिरेव च

2.1.20.13

जालंको हि द्वादशभिः कोटिभिर्गणपुंगवः ॥
सप्तभिस्समदः श्रीमाँस्तथैव विकृताननः

2.1.20.14

पंचभिश्च कपाली हि षड्भिः सन्दारकश्शुभः ॥
कोटिकोटिभिरेवेह कण्डुकः कुण्डकस्तथा

2.1.20.15

विष्टंभोऽष्टाभिरगमदष्टभिश्चन्द्रतापनः

2.1.20.16

महाकेशस्सहस्रेण कोटीनां गणपो वृतः

2.1.20.17

कुण्डी द्वादशभिर्वाहस्तथा पर्वतकश्शुभः ॥
कालश्च कालकश्चैव महाकालः शतेन वै

2.1.20.18

अग्निकश्शतकोट्या वै कोट्याभिमुख एव च ॥
आदित्यमूर्द्धा कोट्या च तथा चैव धनावहः

2.1.20.19

सन्नाहश्च शतेनैव कुमुदः कोटिभिस्तथा ॥
अमोघः कोकिलश्चैव कोटिकोट्या सुमंत्रकः

2.1.20.2.1.20.20

काकपादोऽपरः षष्ट्या षष्ट्या संतानकः प्रभुः ॥
महाबलश्च नवभिर्मधु पिंगश्च पिंगलः

2.1.20.21

नीलो नवत्या देवेशं पूर्णभद्रस्तथैव च ॥
कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः

2.1.20.22

कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृतः ॥
तत्राजगाम सर्वेशः कैलासगमनाय वै ।

2.1.20.23

काष्ठागूढश्चतुष्षष्ट्या सुकेशो वृषभस्तथा ॥
कोटिभिस्सप्तभिश्चैत्रो नकुलीशस्त्वयं प्रभुः

2.1.20.24

लोकांतकश्च दीप्तात्मा तथा दैत्यांतकः प्रभुः॥
देवो भृंगी रिटिः श्रीमान्देवदेवप्रियस्तथा

2.1.20.25

अशनिर्भानुकश्चैव चतुष्षष्ट्या सनातनः ॥
नंदीश्वरो गणाधीशः शतकोट्या महाबलः

2.1.20.26

एते चान्ये च गणपा असंख्याता महाबलः ॥
सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः

2.1.20.27

सर्वे चंद्रावतंसाश्च नीलकण्ठास्त्रिलोचनाः ॥
हारकुण्डलकेयूरमुकुटाद्यैरलंकृताः

2.1.20.28

ब्रह्मेन्द्रविष्णुसंकाशा अणिमादि गणैर्वृताः ॥
सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः

2.1.20.29

एते गणाधिपाश्चान्ये महान्मानोऽमलप्रभाः ॥
जग्मुस्तत्र महाप्रीत्या शिवदर्शनलालसाः

2.1.20.2.1.20.30

गत्वा तत्र शिवं दृष्ट्वा नत्वा चक्रुः परां नुतिम् ॥
सर्वे साञ्जलयो विष्णुप्रमुखा नतमस्तकाः

2.1.20.31

इति विष्ण्वादिभिस्सार्द्धं महेशः परमेश्वरः ॥
कैलासमगमत्प्रीत्या कुबेरस्य महात्मनः

2.1.20.32

कुबेरोप्यागतं शंभुं पूजयामास सादरम्॥
भक्त्या नानोपहारैश्च परिवारसमन्वितः

2.1.20.33

ततो विष्ण्वादिकान्देवान्गणांश्चान्यानपि ध्रुवम् ॥
शिवानुगान्समानर्च शिवतोषणहेतवे

2.1.20.34

अथ शम्भुस्तमालिंग्य कुबेरं प्रीतमानसः ॥
मूर्ध्निं चाघ्राय संतस्थावलकां निकषाखिलैः

2.1.20.35

शशास विश्वकर्माणं निर्माणार्थं गिरौ प्रभुः ॥
नानाभक्तैर्निवासाय स्वपरेषां यथोचितम्

2.1.20.36

विश्वकर्मा ततो गत्वा तत्र नानाविधां मुने ॥
रचनां रचयामास द्रुतं शम्भोरनुज्ञया

2.1.20.37

अथ शम्भुः प्रमुदितो हरिप्रार्थनया तदा

2.1.20.38

कुबेरानुग्रहं कृत्वा ययौ कैलासपर्वतम् ॥
सुमुहूर्ते प्रविश्यासौ स्वस्थानं परमेश्वरः

2.1.20.39

अकरोदखिलान्प्रीत्या सनाथान्भक्तवत्सलः ॥
अथ सर्वे प्रमुदिता विष्णुप्रभृतयस्सुराः ॥
मुनयश्चापरे सिद्धा अभ्यषिंचन्मुदा शिवम्

2.1.20.2.1.20.40

समानर्चुः क्रमात्सर्वे नानोपायनपाणयः॥
नीराजनं समाकार्षुर्महोत्सवपुरस्सरम्

2.1.20.41

तदासीत्सुमनोवृष्टिर्मंगलायतना मुने ॥
सुप्रीता ननृतुस्तत्राप्सरसो गानतत्पराः

2.1.20.42

जयशब्दो नमश्शब्दस्तत्रासीत्सर्वसंस्कृतः ॥
तदोत्साहो महानासीत्सर्वेषां सुखवर्धनः

2.1.20.43

स्थित्वा सिंहासने शंभुर्विराजाधिकं तदा ॥
सर्वैस्संसेवितोऽभीक्ष्णं विष्ण्वाद्यैश्च यथोचितम्

2.1.20.44

अथ सर्वे सुराद्याश्च तुष्टुवुस्तं पृथक्पृथक् ॥
अर्थ्याभिर्वाग्भिरिष्टाभिश्शकरं लोकशंकरम्

2.1.20.45

प्रसन्नात्मा स्तुतिं श्रुत्वा तेषां कामान्ददौ शिवः ॥
मनोभिलषितान्प्रीत्या वरान्सर्वेश्वरः प्रभुः

2.1.20.46

शिवाज्ञयाथ ते सर्वे स्वंस्वं धाम ययुर्मुने॥
प्राप्तकामाः प्रमुदिता अहं च विष्णुना सह

2.1.20.47

उपवेश्यासने विष्णुं माञ्च शम्भुरुवाच ह ॥
बहु सम्बोध्य सुप्रीत्यानुगृह्य परमेश्वरः

2.1.20.48

शिव उवाच ॥
हे हरे हे विधे तातौ युवां प्रियतरौ मम ॥
सुरोत्तमौ त्रिजगतोऽवनसर्गकरौ सदा

2.1.20.49

गच्छतं निर्भयन्नित्यं स्वस्थानश्च मदाज्ञया ॥
सुखप्रदाताहं वै वाम्विशेषात्प्रेक्षकस्सदा

2.1.20.2.1.20.50

इत्याकर्ण्य वचश्शम्भोस्सुप्रणम्य तदाज्ञया ॥
अहं हरिश्च स्वं धामागमाव प्रीतमानसौ

2.1.20.51

तदानीमेव सुप्रीतश्शंकरो निधिपम्मुदा ॥
उपवेश्य गृहीत्वा तं कर आह शुभं वचः

2.1.20.52

॥ शिव उवाच ॥
तव प्रेम्णा वशीभूतो मित्रतागमनं सखे ॥
स्वस्थानङ्गच्छ विभयस्सहायोहं सदानघ

2.1.20.53

इत्याकर्ण्य वचश्शम्भोः कुबेरः प्रीतमानसः ॥
तदाज्ञया स्वकं धाम जगाम प्रमुदान्वितः

2.1.20.54

स उवाच गिरौ शम्भुः कैलासे पर्वतोत्तमे॥
सगणो योगनिरतस्स्वच्छन्दो ध्यान तत्परः

2.1.20.55

क्वचिद्दध्यौ स्वमात्मानं क्वचिद्योगरतोऽभवत् ॥
इतिहासगणान्प्रीत्यावादीत्स्वच्छन्दमानसः

2.1.20.56

क्वचित्कैलास कुधरसुस्थानेषु महेश्वरः ॥
विजहार गणैः प्रीत्या विविधेषु विहारवित्

2.1.20.57

इत्थं रुद्रस्वरूपोऽसौ शंकरः परमेश्वरः॥
अकार्षीत्स्वगिरौ लीला नाना योगिवरोऽपि यः

2.1.20.58

नीत्वा कालं कियन्तं सोऽपत्नीकः परमेश्वरः ॥
पश्चादवाप स्वाम्पत्नीन्दक्षपत्नीसमुद्भवाम्

2.1.20.59

विजहार तया सत्या दक्षपुत्र्या महेश्वरः॥
सुखी बभूव देवर्षे लोकाचारपरायणः

2.1.20.2.1.20.60

इत्थं रुद्रावतारस्ते वर्णितोऽयं मुनीश्वर ॥
कैलासागमनञ्चास्य सखित्वान्निधिपस्य हि

2.1.20.61

तदन्तर्गतलीलापि वर्णिता ज्ञानवर्धिनी ॥
इहामुत्र च या नित्यं सर्वकामफलप्रदा

2.1.20.62

इमां कथाम्पठेद्यस्तु शृणुयाद्वा समाहितः ॥
इह भुक्तिं समासाद्य लभेन्मुक्तिम्परत्र सः

2.1.20.20

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे कैलासोपाख्याने शिवस्य कैलासगमनं नाम विंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc