शिव पुराण · अध्याय 2.1.18
ब्रह्मोवाच ॥
श्रुत्वा तथा स वृत्तांतं प्राक्तनं स्वं विनिंद्य च ॥
कांचिद्दिशं समालोक्य निर्ययौ दीक्षितांगजः
कियच्चिरं ततो गत्वा यज्ञदत्तात्मजस्स हि ॥
दुष्टो गुणनिधिस्तस्थौ गतोत्साहो विसर्जितः
चिंतामवाप महतीं क्व यामि करवाणि किम् ॥
नाहमभ्यस्तविद्योऽस्मि न चैवातिधनोऽस्म्यहम्
देशांतरे यस्य धनं स सद्यस्सुखमेधते ॥
भयमस्ति धने चौरात्स विघ्नस्सर्वतोभवः
याजकस्य कुले जन्म कथं मे व्यसनं महत्॥
अहो बलीयान्हि विधिर्भाविकर्मानुसंधयेत्
भिक्षितुन्नाधिगच्छामि न मे परिचितिः क्वचित् ॥
न च पार्श्वे धनं किञ्चित्किमत्र शरणं भवेत्
सदानभ्युदिते भानौ प्रसूर्मे मिष्टभोजनम् ॥
दद्यादद्यात्र कं याचे न चेह जननी मम
ब्रह्मोवाच ॥ ॥
इति चिंतयतस्तस्य बहुशस्तत्र नारद ॥
अति दीनं तरोर्मूले भानुरस्ताचलं गतः
एतस्मिन्नेव समये कश्चिन्माहेश्वरो नरः ॥
सहोपहारानादाय नगराद्बहिरभ्यगात्
नानाविधान्महादिव्यान्स्वजनैः परिवारितः ॥
समभ्यर्चितुमीशानं शिवरात्रावुपोषितः
शिवालयं प्रविश्याथ स भक्तश्शिवसक्तधीः ॥
यथोचितं सुचित्तेन पूजयामास शंकरम्
पक्वान्नगंधमाघ्राय यज्ञदत्तात्मजो द्विजः ॥
पितृत्यक्तो मातृहीनः क्षुधितः स तमन्वगात्
इदमन्नं मया ग्राह्यं शिवायोपकृतं निशि ॥
सुप्ते शैवजने दैवात्सर्वस्मिन्विविधं महत्
इत्याशामवलम्ब्याथ द्वारि शंभोरुपाविशत् ॥
ददर्श च महापूजां तेन भक्तेन निर्मिताम्
विधाय नृत्यगीतादि भक्तास्सुप्ताः क्षणे यदा ॥
नैवेद्यं स तदादातुं भर्गागारं विवेश ह
दीपं मंदप्रभं दृष्ट्वा पक्वान्नवीक्षणाय सः ॥
निजचैलांजलाद्वर्तिं कृत्वा दीपं प्रकाश्य च
यज्ञदत्तात्मजस्सोऽथ शिवनैवेद्यमादरात् ॥
जग्राह सहसा प्रीत्या पक्वान्न वहुशस्ततः
ततः पक्वान्नमादाय त्वरितं गच्छतो बहिः ॥
तस्य पादतलाघातात्प्रसुप्तः कोप्यबुध्यत
कोऽयं कोऽयं त्वरापन्नो गृह्यतां गृह्यता मसौ ॥
इति चुक्रोश स जनो गिरा भयमहोच्चया
यावद्भयात्समागत्य तावत्स पुररक्षकैः ॥
पलायमानो निहतः क्षणादंधत्वमागतः
अभक्षयच्च नैवेद्यं यज्ञदत्तात्मजो मुने ॥
शिवानुग्रहतो नूनं भाविपुण्यबलान्न सः
अथ बद्धस्समागत्य पाशमुद्गरपाणिभिः ॥
निनीषुभिः संयमनीं याम्यैस्स विकटैर्भटैः
तावत्पारिषदाः प्राप्ताः किंकि णीजालमालिनः ॥
दिव्यं विमानमादाय तं नेतुं शूलपाणयः
शिवगणा ऊचुः ॥ ॥
मुंचतैनं द्विजं याम्या गणाः परम धार्मिकम् ॥
दण्डयोग्यो न विप्रोऽसौ दग्धसर्वाघसंचयः
इत्याकर्ण्य वचस्ते हि यमराजगणास्ततः ॥
महादेवगणानाहुर्बभूवुश्चकिता भृशम्
शंभोर्गणानथालोक्य भीतैस्तैर्यमकिंकरैः ॥
अवादि प्रणतैरित्थं दुर्वृत्तोऽयं गणा द्विजः
यमगणा ऊचुः ॥
कुलाचारं प्रतीर्य्यैष पित्रोर्वाक्यपराङ्मुखः ॥
सत्यशौचपरिभ्रष्टस्संध्यास्नानविवर्जितः
आस्तां दूरेस्य कर्मान्यच्छिवनिर्माल्यलंघकः ॥
प्रत्यक्षतोऽत्र वीक्षध्वमस्पृश्योऽयं भवादृशाम्
शिवनिर्माल्यभोक्तारश्शिवनिर्म्माल्यलंघकाः ॥
शिवनिर्माल्यदातारः स्पर्शस्तेषां ह्यपुण्यकृत्
विषमालोक्य वा पेयं श्रेयो वा स्पर्शनं परम्॥
सेवितव्यं शिवस्वं न प्राणः कण्ठगतैरपि
यूयं प्रमाणं धर्मेषु यथा न च तथा वयम् ॥
अस्ति चेद्धर्मलेशोस्य गणास्तं शृणुमो वयम्
इत्थं तद्वाक्यमाकर्ण्य यामानां शिवकिंकराः ॥
स्मृत्वा शिवपदाम्भोजं प्रोचुः पारिषदास्तु तान्
शिवकिंकरा ऊचुः ॥ ॥
किंकराश्शिवधर्मा ये सूक्ष्मास्ते तु भवादृशैः ॥
स्थूललक्ष्यैः कथं लक्ष्या लक्ष्या ये सूक्ष्मदृष्टिभिः
अनेनानेनसा कर्म यत्कृतं शृणुतेह तत् ॥
यज्ञदत्तात्मजेनाथ सावधानतया गणाः
पतंती लिंगशिरसि दीपच्छाया निवारिता ॥
स्वचैलांचलतोऽनेन दत्त्वा दीपदशां निशि
अपरोपि परो धर्मो जातस्तत्रास्य किंकरः ॥
शृण्वतः शिवनामानि प्रसंगादपि गृह्णताम्।ऽ।३६॥
भक्तेन विधिना पूजा क्रियमाणा निरीक्षिता ॥
उपोषितेन भूतायामनेनास्थितचेतसा
शिवलोकमयं ह्यद्य गंतास्माभिस्सहैव तु ॥
कंचित्कालं महाभोगान्करिष्यति शिवानुगः
कलिंगराजो भविता ततो निर्धूतकल्मषः॥
एष द्विजवरो नूनं शिवप्रियतरो यतः
अन्यत्किंचिन्न वक्तव्यं यूयं यात यथागतम् ॥
यमदूतास्स्वलोकं तु सुप्रसन्नेन चेतसा
॥ ब्रह्मोवाच ॥ ॥
इत्याकर्ण्य वचस्तेषां यमदूता मुनीश्वर ॥
यथागतं ययुस्सर्वे यमलोकं पराङ्मुखाः
सर्वं निवेदयामासुश्शमनाय गणा मुने ॥
तद्वृत्तमादितः प्रोक्तं शंभुदूतैश्च धर्मतः
॥ धर्मराज उवाच ॥ ॥
सर्वे शृणुत मद्वाक्यं सावधानतया गणाः ॥
तदेव प्रीत्या कुरुत मच्छासनपुरस्सरम्
ये त्रिपुण्ड्रधरा लोके विभूत्या सितया गणाः॥
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन
उद्धूलनकरा ये हि विभूत्या सितया गणाः ॥
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन
शिववेषतया लोके येन केनापि हेतुना॥
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन
ये रुद्राक्षधरा लोके जटाधारिण एव ये ॥
ते सवे परिहर्तव्या नानेतव्याः कदाचन
उपजीवनहेतोश्च शिववेषधरा हि ये ॥
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन॥
दंभेनापि च्छलेनापि शिववेषधरा हि ये ॥
ते सर्वे परिहर्तव्या नानेतव्याः कदाचन
एवमाज्ञापयामास स यमो निज किंकरान् ॥
तथेति मत्वा ते सर्वे तूष्णीमासञ्छुचिस्मिताः
॥ ब्रह्मोवाच ॥
पार्षदैर्यमदूतेभ्यो मोचितस्त्विति स द्विजः॥
शिवलोकं जगामाशु तैर्गणैश्शुचिमानसः
तत्र भुक्त्वाखिलान्भोगान्संसेव्य च शिवाशिवौ ॥
अरिंदमस्य तनयः कलिंगाधिपतेरभूत्
दम इत्यभिधानोऽभूच्छिवसेवापरायणः॥
बालोऽपि शिशुभिः साकं शिवभक्तिं चकार सः
क्रमाद्राज्यमवापाथ पितर्युपरते युवा ॥
प्रीत्या प्रवर्तयामास शिवधर्मांश्च सर्वशः
नान्यं धर्मं स जानाति दुर्दमो भूपतिर्दमः॥
शिवालयेषु सर्वेषु दीपदानादृते द्विजः
ग्रामाधीशान्समाहूय सर्वान्स विषयस्थितान् ॥
इत्थमाज्ञापयामास दीपा देयाश्शिवालये
अन्यथा सत्यमेवेदं स मे दण्ड्यो भविष्यति ॥
दीप दानाच्छिवस्तुष्टो भवतीति श्रुतीरितम्
यस्ययस्याभितो ग्रामं यावतश्च शिवालयाः॥
तत्रतत्र सदा दीपो द्योतनीयोऽविचारितम्
ममाज्ञाभंगदोषेण शिरश्छेत्स्याम्यसंशयम्॥
इति तद्भयतो दीपा दीप्ताः प्रतिशिवालयम्
अनेनैव स धर्मेण यावज्जीवं दमो नृपः ॥
धर्मर्द्धिं महतीं प्राप्य कालधर्मवशं गतः
स दीपवासनायोगाद्बहून्दीपान्प्रदीप्य वै ॥
अलकायाः पतिरभूद्रत्नदीपशिखाश्रयः
एवं फलति कालेन शिवेऽल्पमपि यत्कृतम् ॥
इति ज्ञात्वा शिवे कार्यं भजनं सुसुखार्थिभिः
क्व स दीक्षितदायादः सर्वधर्मारतिः सदा ॥
शिवालये दैवयोगाद्यातश्चोरयितुं वसु ॥
स्वार्थदीपदशोद्योतलिंगमौलितमोहरः
कलिंगविषये राज्यं प्राप्तो धर्मरतिं सदा ॥
शिवालये समुद्दीप्य दीपान्प्राग्वासनोदयात्
कैषा दिक्पालपदवी मुनीश्वर विलोकय ॥
मनुष्यधर्मिणानेन सांप्रतं येह भुज्यते
इति प्रोक्तं गुणनिधेर्यज्ञदत्तात्मजस्य हि ॥
चरितं शिवसंतोषं शृण्वतां सर्वकामदम्
सर्वदेवशिवेनासौ सखित्वं च यथेयिवान् ॥
तदप्येकमना भूत्वा शृणु तात ब्रवीमि ते
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्यु पाख्याने कैलाशगमनोपाख्याने गुणनिधिसद्गतिवर्णनो नामाष्टादशोऽध्यायः
मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0