भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.1.10

2.1.10.1

परमेश्वर उवाच ॥
अन्यच्छृणु हरे विष्णो शासनं मम सुव्रत॥
सदा सर्वेषु लोकेषु मान्यः पूज्यो भविष्यसि

2.1.10.2

ब्रह्मणा निर्मिते लोके यदा दुखं प्रजायते ॥
तदा त्वं सर्वदुःखानां नाशाय तत्परो भव

2.1.10.3

सहायं ते करिष्यामि सर्वकार्ये च दुस्सहे ॥
तव शत्रून्हनिष्यामि दुस्साध्यान्परमोत्कटान्

2.1.10.4

विविधानवतारांश्च गृहीत्वा कीर्तिमुत्तमाम् ॥
विस्तारय हरे लोके तारणाय परो भव

2.1.10.5

गुणरूपो ह्ययं रुद्रो ह्यनेन वपुषा सदा ॥
कार्यं करिष्ये लोकानां तवाशक्यं न संशयः

2.1.10.6

रुद्रध्येयो भवांश्चैव भवद्ध्येयो हरस्तथा ॥
युवयोरन्तरन्नैव तव रुद्रस्य किंचन

2.1.10.7

वस्तुतश्चापि चैकत्वं वरतोऽपि तथैव च ॥
लीलयापि महाविष्णो सत्यं सत्यं न संशयः

2.1.10.8

रुद्रभक्तो नरो यस्तु तव निंदां करिष्यति ॥
तस्य पुण्यं च निखिलं द्रुतं भस्म भविष्यति

2.1.10.9

नरके पतनं तस्य त्वद्द्वेषात्पुरुषोत्तम ॥
मदाज्ञया भवेद्विष्णो सत्यं सत्यं न संशयः

2.1.10.2.1.10.10

लोकेऽस्मिन्मुक्तिदो नॄणां भुक्तिदश्च विशेषतः ॥
ध्येयः पूज्यश्च भक्तानां निग्रहानुग्रहौ कुरु

2.1.10.11

इत्युक्त्वा मां च धातारं हस्ते धृत्वा स्वयं हरिम् ॥
कथयामास दुःखेषु सहायो भव सर्वदा

2.1.10.12

सर्वाध्यक्षश्च सर्वेषु भुक्तिमुक्तिप्रदायकः ॥
भव त्वं सर्वथा श्रेष्ठस्सर्वकामप्रसाधकः

2.1.10.13

सर्वेषां प्राणरूपश्च भव त्वं च ममाज्ञया ॥
संकटे भजनीयो हि स रुद्रो मत्तनुर्हरे

2.1.10.14

त्वां यस्समाश्रितो नूनं मामेव स समाश्रितः॥
अंतरं यश्च जानाति निरये पतति ध्रुवम्

2.1.10.15

आयुर्बलं शृणुष्वाद्य त्रिदेवानां विशेषतः ॥
संदेहोऽत्र न कर्त्तव्यो ब्रह्मविष्णु हरात्मनाम्

2.1.10.16

चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ॥
रात्रिश्च तावती तस्य मानमेतत्क्रमेण ह

2.1.10.17

तेषां त्रिंशद्दिनेर्मासो द्वादशैस्तैश्च वत्सरः॥
शतवर्षप्रमाणेन ब्रह्मायुः परिकीर्तितम्

2.1.10.18

ब्रह्मणो वर्षमात्रेण दिनं वैष्णवमुच्यते ॥
सोऽपि वर्षशतं यावदात्ममानेन जीवति

2.1.10.19

वैष्णवेन तु वर्षेण दिनं रौद्रं भवेद्ध्रुवम्॥
हरो वर्षशते याते नररूपेण संस्थितः

2.1.10.2.1.10.20

यावदुच्छ्वसितं वक्त्रे सदाशिवसमुद्भवम् ॥
पश्चाच्छक्तिं समभ्येति यावन्निश्वसितं भवेत्

2.1.10.21

निःश्वासोच्छ्वसितानां च सर्वेषामेव देहिनाम् ॥
ब्रह्मविष्णुहराणां च गंधर्वोरगरक्षसाम्

2.1.10.22

एकविंशसहस्राणि शतैः षड्भिश्शतानि च॥
अहोरात्राणि चोक्तानि प्रमाणं सुरसत्तमौ

2.1.10.23

षड्भिच्छवासनिश्वासैः पलमेकं प्रवर्तितम् ॥
घटी षष्टि पलाः प्रोक्ता सा षष्ट्या च दिनं निशा

2.1.10.24

निश्वासोच्छ्वासितानां च परिसंख्या न विद्यते ॥
सदाशिवसमुत्थानमेतस्मात्सोऽक्षयः स्मृतः

2.1.10.25

इत्थं रूपं त्वया तावद्रक्षणीयं ममाज्ञया ॥
तावत्सृष्टेश्च कार्यं वै कर्तव्यं विविधैर्गुणैः

2.1.10.26

ब्रह्मोवाच॥
इत्याकर्ण्य वचश्शंभोर्मया च भगवान्हरिः॥
प्रणिपत्य च विश्वेशं प्राह मंदतरं वशी

2.1.10.27

विष्णुरुवाच ॥
शंकर श्रूयतामेतत्कृपासिंधो जगत्पते ॥
सर्वमेतत्करिष्यामि भवदाज्ञावशानुगः

2.1.10.28

मम ध्येयस्सदा त्वं च भविष्यसि न चान्यथा ॥
भवतस्सर्वसामर्थ्यं लब्धं चैव पुरा मया

2.1.10.29

क्षणमात्रमपि स्वामिंस्तव ध्यानं परं मम ॥
चेतसो दूरतो नैव निर्गच्छतु कदाचन

2.1.10.2.1.10.30

मम भक्तश्च यः स्वामिँस्तव निंदा करिष्यति ॥
तस्य वै निरये वासं प्रयच्छ नियतं ध्रुवम्

2.1.10.31

त्वद्भक्तो यो भवेत्स्वामिन्मम प्रियतरो हि सः ॥
एवं वै यो विजानाति तस्य मुक्तिर्न दुर्लभा

2.1.10.32

महिमा च मदीयोद्य वर्द्धितो भवता ध्रुवम् ॥
कदाचिदगुणश्चैव जायते क्षम्यतामिति

2.1.10.33

ब्रह्मोवाच ॥
तदा शंभुस्तदीयं हि श्रुत्वा वचनमुत्तमम् ॥
उवाच विष्णुं सुप्रीत्या क्षम्या तेऽगुणता मया

2.1.10.34

एवमुक्त्वा हरिं नौ स कराभ्यां परमेश्वरः ॥
पस्पर्श सकलांगेषु कृपया तु कृपानिधिः

2.1.10.35

आदिश्य विविधान्धर्मान्सर्वदुःखहरो हरः ॥
ददौ वराननेकांश्चावयोर्हितचिकीर्षया

2.1.10.36

ततस्स भगवाञ्छंभुः कृपया भक्तवत्सलः ॥
दृष्टया संपश्यतो शीघ्रं तत्रैवांतरधीयतः

2.1.10.37

तदा प्रकृति लोकेऽस्मिँल्लिंगपूजाविधिः स्मृतः ॥
लिंगे प्रतिष्ठितश्शंभुर्भुक्तिमुक्तिप्रदायकः

2.1.10.38

लिंगवेदिर्महादेवी लिंगं साक्षान्महेश्वरः ॥
लयनाल्लिंगमित्युक्तं तत्रैव निखिलं जगत्

2.1.10.39

यस्तु लैंगं पठेन्नित्यमाख्यानं लिंगसन्निधौ ॥
षण्मासाच्छिवरूपो वै नात्र कार्या विचारणा

2.1.10.2.1.10.40

यस्तु लिंगसमीपे तु कार्यं किंचित्करोति च ॥
तस्य पुण्यफलं वक्तुं न शक्नोमि महामुने

2.1.10.10

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं नाम दशमोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc