भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 1.18

1.18.1

ऋषयः ऊचुः ।
बंधमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम ।
सूत उवाच ।
बंधमोक्षं तथोपायं वक्ष्येऽहं शृणुतादरात्

1.18.2

प्रकृत्याद्यष्टबंधेन बद्धो जीवः स उच्यते ।
प्रकृत्याद्यष्टबंधेन निर्मुक्तो मुक्त उच्यते

1.18.3

प्रकृत्यादिवशीकारो मोक्ष इत्युच्यते स्वतः ।
बद्धजीवस्तु निर्मुक्तो मुक्तजीवः स कथ्यते

1.18.4

प्रकृत्यग्रे ततो बुद्धिरहंकारो गुणात्मकः ।
पंचतन्मात्रमित्येते प्रकृत्याद्यष्टकं विदुः

1.18.5

प्रकृट्याद्यष्टजो देहो देहजं कर्म उच्यते ।
पुनश्च कर्मजो देहो जन्मकर्म पुनः पुनः

1.18.6

शरीरं त्रिविधं ज्ञेयं स्थूलं सूक्ष्मं च कारणम् ।
स्थूलं व्यापारदं प्रोक्तं सूक्ष्ममिंद्रि यभोगदम्

1.18.7

कारणं त्वात्मभोगार्थं जीवकर्मानुरूपतः ।
सुखं दुःखं पुण्यपापैः कर्मभिः फलमश्नुते

1.18.8

तस्माद्धि कर्मरज्ज्वा हि बद्धो जीवः पुनः पुनः ।
शरीरत्रयकर्मभ्यां चक्रवद्भ्राम्यते सदा

1.18.9

चक्रभ्रमनिवृत्यर्थं चक्रकर्तारमीडयेत् ।
प्रकृत्यादि महाचक्रं प्रकृतेः परतः शिवः

1.18.1.18.10

चक्रकर्ता महेशो हि प्रकृतेः परतोयतः ।
पिबति वाथ वमति जीवन्बालो जलं यथा

1.18.11

शिवस्तथा प्रकृत्यादि वशीकृत्याधितिष्ठति ।
सर्वं वशीकृतं यस्मात्तस्माच्छिव इति स्मृतः ।
शिव एव हि सर्वज्ञः परिपूर्णश्च निःस्पृहः

1.18.12

सर्वज्ञता तृप्तिरनादिबोधः स्वतंत्रता नित्यमलुप्तशक्तिः ।
अनंतशक्तिश्च महेश्वरस्य यन्मानसैश्वर्यमवैति वेदः

1.18.13

अतः शिवप्रसादेन प्रकृत्यादिवशं भवेत् ।
शिवप्रसादलाभार्थं शिवमेव प्रपूजयेत्

1.18.14

निःस्पृहस्य च पूर्णस्य तस्य पूजा कथं भवेत् ।
शिवोद्देशकृतं कर्म प्रसादजनकं भवेत्

1.18.15

लिंगे बेरे भक्तजने शिवमुद्दिश्य पूजयेत् ।
कायेन मनसा वाचा धनेनापि प्रपूजयेत्

1.18.16

पुजया तु महेशो हि प्रकृतेः परमः शिवः ।
प्रसादं कुरुते सत्यं पूजकस्य विशेषतः

1.18.17

शिवप्रसादात्कर्माद्यं क्रमेण स्ववशं भवेत् ।
कर्मारभ्य प्रकृत्यंतं यदासर्वं वशं भवेत्

1.18.18

तदामुक्त इति प्रोक्तः स्वात्मारामो विराजते ।
प्रसादात्परमेशस्य कर्म देहो यदावशः

1.18.19

तदा वै शिवलोके तु वासः सालोक्यमुच्यते ।
सामीप्यं याति सांबस्य तन्मात्रे च वशं गते

1.18.1.18.20

तदा तु शिवसायुज्यमायुधाद्यैः क्रियादिभिः ।
महाप्रसादलाभे च बुद्धिश्चापि वशा भवेत्

1.18.21

बुद्धिस्तु कार्यं प्रकृतेस्तत्सृष्टिरिति कथ्यते ।
पुनर्महाप्रसादेन प्रकृतिर्वशमेष्यति

1.18.22

शिवस्य मानसैश्वर्यं तदाऽयत्नं भविष्यति ।
सार्वज्ञाद्यं शिवैश्वर्यं लब्ध्वा स्वात्मनि राजते

1.18.23

तत्सायुज्यमिति प्राहुर्वेदागमपरायणाः ।
एवं क्रमेण मुक्तिः स्याल्लिंगादौ पूजया स्वतः

1.18.24

अतः शिवप्रसादार्थं क्रियाद्यैः पूजयेच्छिवम् ।
शिवक्रिया शिवतपः शिवमंत्रजपः सदा

1.18.25

शिवज्ञानं शिवध्यानमुत्तरोत्तरमभ्यसेत् ।
आसुप्तेरामृतेः कालं नयेद्वै शिवचिंतया

1.18.26

सद्यादिभिश्च कुसुमैरर्चयेच्छिवमेष्यति ।
ऋषय ऊचुः ।
लिंगादौ शिवपूजाया विधानं ब्रूहि सर्वतः

1.18.27

सूत उवाच ।
लिंगानां च क्रमं वक्ष्ये यथावच्छृणुत द्विजाः ।
तदेव लिंगं प्रथमं प्रणवं सार्वकामिकम्

1.18.28

सूक्ष्मप्रणवरूपं हि सूक्ष्मरूपं तु निष्फलम् ।
स्थूललिंगं हि सकलं तत्पंचाक्षरमुच्यते

1.18.29

तयोः पूजा तपः प्रोक्तं साक्षान्मोक्षप्रदे उभे ।
पौरुषप्रकृतिभूतानि लिंगानिसुबहूनि च

1.18.1.18.30

तानि विस्तरतो वक्तुं शिवो वेत्ति न चापरः ।
भूविकाराणि लिंगानि ज्ञातानि प्रब्रवीमि वः

1.18.31

स्वयं भूलिंगं प्रथमं बिंदुलिंगंद्वितीयकम् ।
प्रतिष्ठितं चरंचैव गुरुलिंगं तु पंचमम्

1.18.32

देवर्षितपसा तुष्टः सान्निध्यार्थं तु तत्र वै ।
पृथिव्यन्तर्गतः शर्वो बीजं वै नादरूपतः

1.18.33

स्थावरांकुरवद्भूमिमुद्भिद्य व्यक्त एव सः ।
स्वयंभूतं जातमिति स्वयंभूरिति तं विदुः

1.18.34

तल्लिंगपूजया ज्ञानं स्वयमेव प्रवर्द्धते ।
सुवर्णरजतादौ वा पृथिव्यां स्थिंडिलेपि वा

1.18.35

स्वहस्ताल्लिखितं लिंगं शुद्धप्रणवमंत्रकम् ।
यंत्रलिंगं समालिख्य प्रतिष्ठावाहनं चरेत्

1.18.36

बिंदुनादमयं लिंगं स्थावरं जंगमं च यत् ।
भावनामयमेतद्धि शिवदृष्टं न संशयः

1.18.37

यत्र विश्वस्य ते शंभुस्तत्र तस्मै फलप्रदः ।
स्वहस्ताल्लिख्यते यंत्रे स्थावरादावकृत्रिमे

1.18.38

आवाह्य पूजयेच्छंभुं षोडशैरुपचारकैः ।
स्वयमैश्वर्यमाप्नोति ज्ञानमभ्यासतो भवेत्

1.18.39

देवैश्च ऋषिभिश्चापि स्वात्मसिद्ध्यर्थमेव हि ।
समंत्रेणात्महस्तेन कृतं यच्छुद्धमंडले

1.18.1.18.40

शुद्धभावनया चैव स्थापितं लिंगमुत्तमम् ।
तल्लिंगं पौरुषं प्राहुस्तत्प्रतिष्ठितमुच्यते

1.18.41

तल्लिंगपूजया नित्यं पौरुषैश्वर्यमाप्नुयात् ।
महद्भिर्ब्राह्मणैश्चापि राजभिश्च महाधनैः

1.18.42

शिल्पिनाकल्पितं लिंगं मंत्रेण स्थापितं च यत् ।
प्रतिष्ठितं प्राकृतं हि प्राकृतैश्वर्यभोगदम्

1.18.43

यदूर्जितं च नित्यं च तद्धि पौरुषमुच्यते ।
यद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते

1.18.44

लिंगं नाभिस्तथा जिह्वा नासाग्रञ्च शिखा क्रमात् ।
कट्यादिषु त्रिलोकेषु लिंगमाध्यात्मिकं चरम्

1.18.45

पर्वतं पौरुषं प्रोक्तं भूतलं प्राकृतं विदुः ।
वृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः

1.18.46

षाष्टिकं प्राकृतं ज्ञेयं शालिगोधूमपौरुषम् ।
ऐश्वर्यं पौरुषं विद्यादणिमाद्यष्टसिद्धिदम्

1.18.47

सुस्त्रीधनादिविषयं प्राकृतं प्राहुरास्तिकाः ।
प्रथमं चरलिंगेषु रसलिंगं प्रकथ्यते

1.18.48

रसलिंगं ब्राह्मणानां सर्वाभीष्टप्रदं भवेत् ।
बाणलिंगं क्षत्रियाणां महाराज्यप्रदं शुभम्

1.18.49

स्वर्णलिंगं तु वैश्यानां महाधनपतित्वदम् ।
शिलालिंगं तु शूद्रा णां महाशुद्धिकरं शुभम्

1.18.1.18.50

स्फाटिकं बाणलिंगं च सर्वेषांसर्वकामदम् ।
स्वीयाभावेऽन्यदीयं तु पूजायां न निषिद्ध्यते

1.18.51

स्त्रीणां तु पार्थिवं लिंगं सभर्तृणां विशेषतः ।
विधवानां प्रवृत्तानां स्फाटिकं परिकीर्तितम्

1.18.52

विधवानां निवृत्तानां रसलिंगं विशिष्यते ।
बाल्येवायौवनेवापि वार्द्धकेवापि सुव्रताः

1.18.53

शुद्धस्फटिकलिंगं तु स्त्रीणां तत्सर्वभोगदम् ।
प्रवृत्तानां पीठपूजा सर्वाभीष्टप्रदा भुवि

1.18.54

पात्रेणैव प्रवृत्तस्तु सर्वपूजां समाचरेत् ।
अभिषेकांते नैवेद्यं शाल्यन्नेन समाचरेत्

1.18.55

पूजांते स्थापयेल्लिंगं संपुटेषु पृथग्गृहे ।
करपूजानि वृत्तानां स्वभोज्यं तु निवेदयेत्

1.18.56

निवृत्तानां परं सूक्ष्मलिंगमेव विशिष्यते ।
विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत्

1.18.57

पूजां कृत्वाथ तल्लिंगं शिरसा धारयेत्सदा ।
विभूतिस्त्रिविधा प्रोक्ता लोकवेदशिवाग्निभिः

1.18.58

लोकाग्निजमथो भस्मद्र व्यशुद्ध्यर्थमावहेत् ।
मृद्दारुलोहरूपाणां धान्यानां च तथैव च

1.18.59

तिलादीनां च द्र व्याणां वस्त्रादीनां तथैव च ।
तथा पर्युषितानां च भस्मना शिद्धिरिष्यते

1.18.1.18.60

श्वादिभिर्दूषितानां च भस्मना शुद्धिरिष्यते ।
सजलं निर्जलं भस्म यथायोग्यं तु योजयेत्

1.18.61

वेदाग्निजं तथा भस्म तत्कर्मांतेषु धारयेत् ।
मंत्रेण क्रियया जन्यं कर्माग्नौ भस्मरूपधृक्

1.18.62

तद्भस्मधारणात्कर्म स्वात्मन्यारोपितं भवेत् ।
अघोरेणात्ममंत्रेण बिल्वकाष्ठं प्रदाहयेत्

1.18.63

शिवाग्निरिति संप्रोक्तस्तेन दग्धं शिवाग्निजम् ।
कपिलागोमयं पूर्वं केवलं गव्यमेव वा

1.18.64

शम्यस्वत्थपलाशान्वा वटारम्वधबिल्वकान् ।
शिवाग्निना दहेच्छुद्धं तद्वै भस्म शिवाग्निजम्

1.18.65

दर्भाग्नौ वा दहेत्काष्ठं शिवमंत्रं समुच्चरन् ।
सम्यक्संशोध्य वस्त्रेण नवकुंभे निधापयेत्

1.18.66

दीप्त्यर्थं तत्तु संग्राह्यं मन्यते पूज्यतेपि च ।
भस्मशब्दार्थ एवं हि शिवः पूर्वं तथाऽकरोत्

1.18.67

यथा स्वविषये राजा सारं गृह्णाति यत्करम् ।
यथा मनुष्याः सस्यादीन्दग्ध्वा सारं भजंति वै

1.18.68

यथा हि जाठराग्निश्च भक्ष्यादीन्विविधान्बहून् ।
दग्ध्वा सारतरं सारात्स्वदेहं परिपुष्यति

1.18.69

तथा प्रपंचकर्तापि स शिवः परमेश्वरः ।
स्वाधिष्ठेयप्रपंचस्य दग्ध्वा सारं गृहीतवान्

1.18.1.18.70

दग्ध्वा प्रपंचं तद्भस्म् अस्वात्मन्यारोपयच्छिवः ।
उद्धूलनेन व्याजेन जगत्सारं गृहीतवान्

1.18.71

स्वरत्नं स्थापयामास स्वकीये हि शरीरके ।
केशमाकाशसारेण वायुसारेण वै मुखम्

1.18.72

हृदयं चाग्निसारेण त्वपां सारेण वैकटिम् ।
जानु चावनिसारेण तद्वत्सर्वं तदंगकम्

1.18.73

ब्रह्मविष्ण्वोश्च रुद्रा णां सारं चैव त्रिपुंड्रकम् ।
तथा तिलकरूपेण ललाटान्ते महेश्वरः

1.18.74

भवृद्ध्या सर्वमेतद्धि मन्यते स्वयमैत्यसौ ।
प्रपंचसारसर्वस्वमनेनैव वशीकृतम्

1.18.75

तस्मादस्य वशीकर्ता नास्तीति स शिवः स्मृतः ।
यथा सर्वमृगाणां च हिंसको मृगहिंसकः

1.18.76

अस्य हिंसामृगो नास्ति तस्मात्सिंह इतीरितः ।
शं नित्यं सुखमानंदमिकारः पुरुषः स्मृतः

1.18.77

वकारः शक्तिरमृतं मेलनं शिव उच्यते ।
तस्मादेवं स्वमात्मानं शिवं कृत्वार्चयेच्छिवम्

1.18.78

तस्मादुद्धूलनं पूर्वं त्रिपुंड्रं धारयेत्परम् ।
पूजाकाले हि सजलं शुद्ध्यर्थं निर्जलं भवेत्

1.18.79

दिवा वा यदि वारात्रौ नारी वाथ नरोपि वा ।
पूजार्थं सजलं भस्म त्रिपुंड्रेणैव धारयेत्

1.18.1.18.80

त्रिपुंड्रं सजलं भस्म धृत्वा पूजां करोति यः ।
शिवपूजां फलं सांगं तस्यैव हि सुनिश्चितम्

1.18.81

भस्म वै शिवमंत्रेण धृत्वा ह्यत्याश्रमी भवेत् ।
शिवाश्रमीति संप्रोक्तः शिवैकपरमो यतः

1.18.82

शिवव्रतैकनिष्ठस्य नाशौचं न च सूतकम् ।
ललाटेऽग्रे सितं भस्म तिलकं धारयेन्मृदा

1.18.83

स्वहस्ताद्गुरुहस्ताद्वाशिवभक्तस्य लक्षणम् ।
गुणान्रुंध इति प्रोक्तो गुरुशब्दस्य विग्रहः

1.18.84

सविकारान्राजसादीन्गुणान्रुंधे व्यपोहति ।
गुणातीतः परशिवो गुरुरूपं समाश्रितः

1.18.85

गुणत्रयं व्यपोह्याग्रे शिवं बोधयतीति सः ।
विश्वस्तानां तु शिष्याणां गुरुरित्यभिधीयते

1.18.86

तस्माद्गुरुशरीरं तु गुरुलिंगं भवेद्बुधः ।
गुरुलिंगस्य पूजा तु गुरुशुश्रूषणं भवेत्

1.18.87

श्रुतं करोति शुश्रूषा कायेन मनसा गिरा ।
उक्तं यद्गुरुणा पूर्वं शक्यं वाऽशक्यमेव वा

1.18.88

करोत्येव हि पूतात्मा प्राणैरपि धनैरपि ।
तस्माद्वै शासने योग्यः शिष्य इत्यभिधीयते

1.18.89

शरीराद्यर्थकं सर्वं गुरोर्दत्त्वा सुशिष्यकः ।
अग्रपाकं निवेद्याग्रेभुंजीयाद्गुर्वनुज्ञया

1.18.1.18.90

शिष्यः पुत्र इति प्रोक्तः सदाशिष्यत्वयोगतः ।
जिह्वालिंगान्मंत्रशुक्रं कर्णयोनौ निषिच्यवै

1.18.91

जातः पुत्रो मंत्रपुत्रः पितरं पूजयेद्गुरुम् ।
निमज्जयति पुत्रं वै संसारे जनकः पिता

1.18.92

संतारयति संसाराद्गुरुर्वै बोधकः पिता ।
उभयोरंतरं ज्ञात्वा पितरं गुरुमर्चयेत्

1.18.93

अंगशुश्रूषया चापि धनाद्यैः स्वार्जितैर्गुरुम् ।
पादादिकेशपर्यंतं लिंगान्यंगानि यद्गुरोः

1.18.94

धनरूपैः पादुकाद्यैः पादसंग्रणादिभिः ।
स्नानाभिषेकनैवेद्यैर्भोजनैश्च प्रपूजयेत्

1.18.95

गुरुपूजैव पूजा स्याच्छिवस्य परमात्मनः ।
गुरुशेषं तु यत्सर्वमात्मशुद्धिकरं भवेत्

1.18.96

गुरोः शेषः शिवोच्छिष्टं जलमन्नादिनिर्मितम् ।
शिष्याणां शिवभक्तानां ग्राह्यं भोज्यं भवेद्द्विजाः

1.18.97

गुर्वनुज्ञाविरहितं चोरवत्सकलं भवेत् ।
गुरोरपि विशेषज्ञं यत्नाद्गृह्णीत वै गुरुम्

1.18.98

अज्ञानमोचनं साध्यं विशेषज्ञो हि मोचकः ।
आदौ च विघ्नशमनं कर्तव्यं कर्म पूर्तये

1.18.99

निर्विघ्नेन कृतं सांगं कर्म वै सफलं भवेत् ।
तस्मात्सकलकर्मादौ विघ्नेशं पूजयेद् बुधः

1.18.1.18.100

सर्वबाधानिवृत्त्यर्थं सर्वान्देवान्यजेद्बुधः ।
ज्वरादिग्रंथिरोगाश्च बाधा ह्याध्यात्मिका मता

1.18.101

पिशाचजंबुकादीनां वल्मीकाद्युद्भवे तथा ।
अकस्मादेव गोधादिजंतूनां पतनेपि च

1.18.102

गृहे कच्छपसर्पस्त्रीदुर्जनादर्शनेपि च ।
वृक्षनारीगवादीनां प्रसूतिविषयेपि च

1.18.103

भाविदुःखं समायाति तस्मात्ते भौतिका मता ।
अमेध्या शनिपातश्च महामारी तथैव च

1.18.104

ज्वरमारी विषूचिश्च गोमारी च मसूरिका ।
जन्मर्क्षग्रहसंक्रांतिग्रहयोगाः स्वराशिके

1.18.105

दुःस्वप्नदर्शनाद्याश्च मता वै ह्यधिदैविकाः ।
शवचांडालपतितस्पर्शाद्येंतर्गृहे गते

1.18.106

एतादृशे समुत्पन्ने भाविदुःखस्य सूचके ।
शांतियज्ञं तु मतिमान्कुर्यात्तद्दोषशांतये

1.18.107

देवालयेऽथ गोष्ठे वा चैत्ये वापि गृहांगणे ।
प्रादेशोन्नतधिष्ण्ये वै द्विहस्ते च स्वलंकृते

1.18.108

भारमात्रव्रीहिधान्यं प्रस्थाप्य परिसृत्य च ।
मध्ये विलिख्यकमलं तथा दिक्षुविलिख्य वै

1.18.109

तंतुना वेष्टितं कुंभं नवगुग्गुलधूपितम् ।
मध्ये स्थाप्य महाकुंभं तथा दिक्ष्वपि विन्यसेत्

1.18.1.18.110

सनालाम्रककूर्चादीन्कलशांश्च तथाष्टसु ।
पूरयेन्मंत्रपूतेन पंचद्र व्ययुतेन हि

1.18.111

प्रक्षिपेन्नव रत्नानि नीलादीन्क्रमशस्तथा ।
कर्मज्ञं च सपत्नीकमाचार्यं वरयेद्बुधः

1.18.112

सुवर्णप्रतिमां विष्णोरिंद्रा दीनां च निक्षिपेत् ।
सशिरस्के मध्यकुंभे विष्णुमाबाह्य पूजयेत्

1.18.113

प्रागादिषु यथामंत्रमिंद्रा दीन्क्रमशो यजेत् ।
तत्तन्नाम्ना चतुर्थ्यां च नमोन्ते न यथाक्रमम्

1.18.114

आवाहनादिकं सर्वमाचार्येणैव कारयेत् ।
आचार्य ऋत्विजा सार्धं तन्मात्रान्प्रजपेच्छतम्

1.18.115

कुंभस्य पश्चिमे भागे जपांते होममाचरेत् ।
कोटिं लक्षं सहस्रं वा शतमष्टोत्तरं बुधाः

1.18.116

एकाहं वा नवाहं वा तथा मंडलमेव वा ।
यथायोग्यं प्रकुर्वीत कालदेशानुसारतः

1.18.117

शमीहोमश्च शांत्यर्थे वृत्त्यर्थे च पलाशकम् ।
समिदन्नाज्यकैर्द्र व्यैर्नाम्ना मंत्रेण वा हुनेत्

1.18.118

प्रारंभे यत्कृतं द्र व्यं तत्क्रियांतं समाचरेत् ।
पुण्याहं वाचयित्वांते दिने संप्रोक्ष्ययेज्जलैः

1.18.119

ब्राह्मणान्भोजयेत्पश्चाद्यावदाहुतिसंख्यया ।
आचार्यश्च हविष्याशीऋत्विजश्च भवेद्बुधाः

1.18.1.18.120

आदित्यादीन्ग्रहानिष्ट्वा सर्वहोमांत एव हि ।
ऋत्विभ्यो दक्षिणां दद्यान्नवरत्नं यथाक्रमम्

1.18.121

दशदानं ततः कुर्याद्भूरिदानं ततः परम् ।
बालानामुपनीतानां गृहिणां वनिनां धनम्

1.18.122

कन्यानां च सभर्तृ-णां विधवानां ततः परम् ।
तंत्रोपकरणं सर्वमाचार्याय निवेदयेत्

1.18.123

उत्पातानां च मारीणां दुःखस्वामी यमः स्मृतः ।
तस्माद्यमस्य प्रीत्यर्थं कालदानं प्रदापयेत्

1.18.124

शतनिष्केण वा कुर्याद्दशनिष्केण वा पुनः ।
पाशांकुशधरं कालं कुर्यात्पुरुषरूपिणम्

1.18.125

तत्स्वर्णप्रतिमादानं कुर्याद्दक्षिणया सह ।
तिलदानं ततः कुर्यात्पूर्णायुष्यप्रसिद्धये

1.18.126

आज्यावेक्षणदानं च कुर्याद्व्याधिनिवृत्तये ।
सहस्रं भोजयेद्विप्रान्दरिद्रः शतमेव वा

1.18.127

वित्ताभावे दरिद्र स्तु यथाशक्ति समाचरेत् ।
भैरवस्य महापूजां कुर्याद्भूतादिशांतये

1.18.128

महाभिषेकं नैवेद्यं शिवस्यान्ते तुकारयेत् ।
ब्राह्मणान्भोजयेत्पश्चाद्भूरिभोजनरूपतः

1.18.129

एवं कृतेन यज्ञेन दोषशांतिमवाप्नुयात् ।
शांतियज्ञमिमं कुर्याद्वर्षे वर्षे तु फाल्गुने

1.18.1.18.130

दुर्दर्शनादौ सद्यो वै मासमात्रे समाचरेत् ।
महापापादिसंप्राप्तौ कुर्याद्भैरवपूजनम्

1.18.131

महाव्याधिसमुत्पत्तौ संकल्पं पुनराचरेत् ।
सर्वभावे दरिद्र स्तु दीपदानमथाचरेत्

1.18.132

तदप्यशक्तः स्नात्वा वै यत्किंचिद्दानमाचरेत् ।
दिवाकरं नमस्कुर्यान्मन्त्रेणाष्टोत्तरं शतम्

1.18.133

सहस्रमयुतं लक्षं कोटिं वा कारयेद् बुधः ।
नमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः

1.18.134

त्वत्स्वरूपेर्पिता बुद्धिर्नतेऽशून्ये च रोचति ।
या चास्त्यस्मदहंतेति त्वयि दृष्टे विवर्जिता

1.18.135

नम्रोऽहं हि स्वदेहेन भो महांस्त्वमसि प्रभो ।
न शून्यो मत्स्वरूपो वै तव दासोऽस्मि सांप्रतम्

1.18.136

यथायोग्यं स्वात्मयज्ञं नमस्कारं प्रकल्पयेत् ।
अथात्र शिवनैवेद्यं दत्त्वा तांबूलमाहरेत्

1.18.137

शिवप्रदक्षिणं कुर्यात्स्वयमष्टोत्तरं शतम् ।
सहस्रमयुतं लक्षं कोटिमन्येन कारयेत्

1.18.138

शिवप्रदक्षिणात्सर्वं पातकं नश्यति क्षणात् ।
दुःखस्य मूलं व्याधिर्हि व्याधेर्मूलं हि पातकम्

1.18.139

धर्मेणैव हि पापानामपनोदनमीरितम् ।
शिवोद्देशकृतो धर्मः क्षमः पापविनोदने

1.18.1.18.140

अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम् ।
क्रियया जपरूपं हि प्रणवं तु प्रदक्षिणम्

1.18.141

जननं मरणं द्वंद्वं मायाचक्रमितीरितम् ।
शिवस्य मायाचक्रं हि बलिपीठं तदुच्यते

1.18.142

बलिपीठं समारभ्य प्रादक्षिण्यक्रमेण वै ।
पदे पदांतरं गत्वा बलिपीठं समाविशेत्

1.18.143

नमस्कारं ततः कुर्यात्प्रदक्षिणमितीरितम् ।
निर्गमाज्जननं प्राप्तं नमस्त्वात्मसमर्पणम्

1.18.144

जननं मरणं द्वंद्वं शिवमायासमर्पितम् ।
शिवमायार्पितद्वंद्वो न पुनस्त्वात्मभाग्भवेत्

1.18.145

यावद्देहं क्रियाधीनः सजीवो बद्ध उच्यते ।
देहत्रयवशीकारे मोक्ष इत्युच्यते बुधैः

1.18.146

मायाचक्रप्रणेता हि शिवः परमकारणम् ।
शिवमायार्पितद्वंद्वं शिवस्तु परिमार्जति

1.18.147

शिवेन कल्पितं द्वंद्वं तस्मिन्नेव समर्पयेत् ।
शिवस्यातिप्रियं विद्यात्प्रदक्षिणं नमो बुधाः

1.18.148

प्रदक्षिणनमस्काराः शिवस्य परमात्मनः ।
षोडशैरुपचारैश्च कृतपूजा फलप्रदा

1.18.149

प्रदक्षिणाऽविनाश्यं हि पातकं नास्ति भूतले ।
तस्मात्प्रदक्षिणेनैव सर्वपापं विनाशयेत्

1.18.1.18.150

शिवपूजापरो मौनी सत्यादिगुणसंयुतः ।
क्रियातपोजपज्ञानध्यानेष्वेकैकमाचरेत्

1.18.151

ऐश्वर्यं दिव्यदेहश्च ज्ञानमज्ञानसंशयः ।
शिवसान्निध्यमित्येते क्रियादीनां फलं भवेत्

1.18.152

करणेन फलं याति तमसः परिहापनात् ।
जन्मनः परिमार्जित्वाज्ज्ञबुद्ध्या जनितानि च

1.18.153

यथादेशं यथाकालं यथादेहं यथाधनम् ।
यथायोग्यं प्रकुर्वीत क्रियादीञ्छिवभक्तिमान्

1.18.154

न्यायार्जितसुवित्तेन वसेत्प्राज्ञः शिवस्थले ।
जीवहिंसादिरहितमतिक्लेशविवर्जितम्

1.18.155

पंचाक्षरेण जप्तं च तोयमन्नं विदुः सुखम् ।
अथवाऽहुर्दरिद्र स्य भिक्षान्नंज्ञानदं भवेत्

1.18.156

शिवभक्तस्य भिक्षान्नंशिवभक्तिविवर्धनम् ।
शंभुसत्रमिति प्राहुर्भिक्षान्नंशिवयोगिनः

1.18.157

येन केनाप्युपायेन यत्र कुत्रापि भूतले ।
शुद्धान्नभुक्सदा मौनीरहस्यं न प्रकाशयेत्

1.18.158

प्रकाशयेत्तु भक्तानां शिवमाहात्म्यमेव हि ।
रहस्यं शिवमंत्रस्य शिवो जानाति नापरः

1.18.159

शिवभक्तो वसेन्नित्यं शिवलिंगं समाश्रितः ।
स्थाणुलिंगाश्रयेणैव स्थाणुर्भवति भूसुराः

1.18.1.18.160

पूजया चरलिंगस्य क्रमान्मुक्तो भवेद्ध्रुवम् ।
सर्वमुक्तं समासेन साध्यसाधनमुत्तमम्

1.18.161

व्यासेन यत्पुराप्रोक्तं यच्छ्रुतं हि मया पुरा ।
भद्र मस्तु हि वोऽस्माकं शिवभक्तिर्दृढाऽस्तुसा

1.18.162

य इमं पठतेऽध्यायं यः शृणोति नरः सदा ।
शिवज्ञानं स लभतेशिवस्य कृपया बुधाः

1.18.18

इति श्रीशैवेमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे शिवलिंगमहिमावर्णनं नामाष्टादशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc