भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 1.12

1.12.1

सूत उवाच ।
शृणुध्वमृषयः प्राज्ञाः शिवक्षेत्रं विमुक्तिदम् ।
तदागमांस्ततो वक्ष्ये लोकरक्षार्थमेव हि

1.12.2

पंचाशत्कोटिविस्तीर्णा सशैलवनकानना ।
शिवाज्ञया हि पृथिवी लोकं धृत्वा च तिष्ठति

1.12.3

तत्र तत्र शिवक्षेत्रं तत्र तत्र निवासिनाम् ।
मो-क्षार्थं कृपया देवः क्षेत्रं कल्पितवान्प्रभुः

1.12.4

परिग्रहादृषीणां च देवानां परिग्रहात् ।
स्वयंभूतान्यथान्यानि लोकरक्षार्थमेव हि

1.12.5

तीर्थे क्षेत्रे सदाकार्यं स्नानदानजपादिकम् ।
अन्यथा रोगदारिद्र य्मूकत्वाद्याप्नुयान्नरः

1.12.6

अथास्मिन्भारते वर्षे प्राप्नोति मरणं नरः ।
स्वयंभूस्थानवासेन पुनर्मानुष्यमाप्नुयात्

1.12.7

क्षेत्रे पापस्य करणं दृढं भवति भूसुराः ।
पुण्यक्षेत्रे निवासे हि पापमण्वपि नाचरेत्

1.12.8

येन केनाप्युपायेन पुण्यक्षेत्रे वसेन्नरः ।
सिंधोः शतनदीतीरे संति क्षेत्राण्यनेकशः

1.12.9

सरस्वती नदी पुण्या प्रोक्ता षष्टिमुखा तथा ।
तत्तत्तीरे वसेत्प्राज्ञः क्रमाद्ब्रह्मपदं लभेत्

1.12.1.12.10

हिमवद्गिरिजा गंगा पुण्या शतमुखा नदी ।
तत्तीरे चैव काश्यादिपुण्यक्षेत्राण्यनेकशः

1.12.11

तत्र तीरं प्रशस्तं हि मृगे मृगबृहस्पतौ ।
शोणभद्रो दशमुखः पुण्योभीष्टफलप्रदः

1.12.12

तत्र स्नानोपवासेन पदं वैनायकं लभेत् ।
चतुर्वींशमुखा पुण्या नर्मदा च महानदी

1.12.13

तस्यां स्नानेन वासेन पदं वैष्णवमाप्नुयात् ।
तमसा द्वादशमुखा रेवा दशमुखा नदी

1.12.14

गोदावरी महापुण्या ब्रह्मगोवधनाशिनी ।
एकविंशमुखा प्रोक्ता रुद्र लोकप्रदायिनी

1.12.15

कृष्णवेणी पुण्यनदी सर्वपापक्षयावहा ।
साष्टादशमुखाप्रोक्ता विष्णुलोकप्रदायिनी

1.12.16

तुंगभद्रा दशमुखा ब्रह्मलोकप्रदायिनी ।
सुवर्णमुखरी पुण्या प्रोक्ता नवमुखा तथा

1.12.17

तत्रैव सुप्रजायंते ब्रह्मलोकच्युतास्तथा ।
सरस्वती च पंपा च कन्याश्वेतनदी शुभा

1.12.18

एतासां तीरवासेन इंद्र लोकमवाप्नुयात् ।
सह्याद्रि जा महापुण्या कावेरीति महानदी

1.12.19

सप्तविंशमुखा प्रोक्ता सर्वाभीष्टं प्रदायिनी ।
तत्तीराः स्वर्गदाश्चैव ब्रह्मविष्णुपदप्रदाः

1.12.1.12.20

शिवलोकप्रदा शैवास्तथाऽभीष्टफलप्रदाः ।
नैमिषे बदरे स्नायान्मेषगे च गुरौ रवौ

1.12.21

ब्रह्मलोकप्रदं विद्यात्ततः पूजादिकं तथा ।
सिंधुनद्यां तथा स्नानं सिंहे कर्कटगे रवौ

1.12.22

केदारोदकपानं च स्नानं च ज्ञानदं विदुः ।
गोदावर्यां सिंहमासे स्नायात्सिंहबृहस्पतौ

1.12.23

शिवलोकप्रदमिति शिवेनोक्तं तथा पुरा ।
यमुनाशोणयोः स्नायाद्गुरौ कन्यागते रवौ

1.12.24

धर्मलोके दंतिलोके महाभोगप्रदं विदुः ।
कावेर्यां च तथास्नायात्तुलागे तु रवौ गुरौ

1.12.25

विष्णोर्वचनमाहात्म्यात्सर्वाभीष्टप्रदं विदुः ।
वृश्चिके मासि संप्राप्ते तथार्के गुरुवृश्चिके

1.12.26

नर्मदायां नदीस्नानाद्विष्णुलोकमवाप्नुयात् ।
सुवर्णमुखरीस्नानं चापगे च गुरौ रवौ

1.12.27

शिवलोकप्रदमिति ब्राह्मणो वचनं यथा ।
मृगमासि तथा स्नायाज्जाह्नव्यां मृगगे गुरौ

1.12.28

शिवलोकप्रदमिति ब्रह्मणो वचनं यथा ।
ब्रह्मविष्ण्वोः पदे भुक्त्वा तदंते ज्ञानमाप्नुयात्

1.12.29

गंगायां माघमासे तु तथाकुंभगते रवौ ।
श्राद्धं वा पिंडदानं वा तिलोदकमथापिवा

1.12.1.12.30

वंशद्वयपितृ-णां च कुलकोट्युद्धरं विदुः ।
कृष्णवेण्यां प्रशंसंति मीनगे च गुरौ रवौ

1.12.31

तत्तत्तीर्थे च तन्मासि स्नानमिंद्र पदप्रदम् ।
गंगां वा सह्यजां वापि समाश्रित्य वसेद्बुधः

1.12.32

तत्कालकृतपापस्य क्षयो भवति निश्चितम् ।
रुद्र लोकप्रदान्येव संति क्षेत्राण्यनेकशः

1.12.33

ताम्रपर्णी वेगवती ब्रह्मलोकफलप्रदे ।
तयोस्तीरे हि संत्येव क्षेत्राणि स्वर्गदानि च

1.12.34

संति क्षेत्राणि तन्मध्ये पुण्यदानि च भूरिशः ।
तत्र तत्र वसन्प्राज्ञस्तादृशं च फलं लभेत्

1.12.35

सदाचारेण सद्वृत्त्या सदा भावनयापि च ।
वसेद्दयालुः प्राज्ञो वै नान्यथा तत्फलं लभेत्

1.12.36

पुण्यक्षेत्रे कृतं पुण्यं बहुधा ऋद्धिमृच्छति ।
पुण्यक्षेत्रे कृतं पापं महदण्वपि जायते

1.12.37

तत्कालं जीवनार्थश्चेत्पुण्येन क्षयमेष्यति ।
पुण्यमैश्वर्यदं प्राहुः कायिकं वाचिकं तथा

1.12.38

मानसं च तथा पापं तादृशं नाशयेद्द्विजाः ।
मानसं वज्रलेपं तु कल्पकल्पानुगं तथा

1.12.39

ध्यानादेव हि तन्नश्येन्नान्यथा नाशमृच्छति ।
वाचिकं जपजालेन कायिकं कायशोषणात्

1.12.1.12.40

दानाद्धनकृतं नश्येन्नाऽन्यथाकल्पकोटिभिः ।
क्वचित्पापेन पुण्यं च वृद्धिपूर्वेण नश्यति

1.12.41

बीजांशश्चैव वृद्ध्यंशो भोगांशः पुण्यपापयोः ।
ज्ञाननाश्यो हि बीजांशो वृद्धिरुक्तप्रकारतः

1.12.42

भोगांशो भोगनाश्यस्तु नान्यथा पुण्यकोटिभिः ।
बीजप्ररोहे नष्टे तु शेषो भोगाय कल्पते

1.12.43

देवानां पूजया चैव ब्रह्मणानां च दानतः ।
तपोधिक्याच्च कालेन भोगः सह्यो भवेन्नृणाम् ।
तस्मात्पापमकृत्वैव वस्तव्यं सुखमिच्छता

1.12.12

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्वादशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc