शिव गीता · अध्याय 7
श्रीराम उवाच ।
भगवन्यन्मया पृष्टं तत्तथैव स्थितं विभो ।
अत्रोत्तरं मया लब्धं त्वत्तो नैव महेश्वर
परिच्छिन्नपरीमाणे देहे भगवतस्तव ।
उत्पत्तिः सर्वभूतानां स्थितिर्वा विलयः कथम्
स्वस्वाधिकारसंबद्धाः कथं नाम स्थिताः सुराः ॥
ते सर्वे त्वं कथं देव भुवनानि चतुर्दश
त्वत्तः श्रुत्वापि देवात्र संदेहो मे महानभूत् ।
अप्रत्यायितचित्तस्य संशयं छेत्तुमर्हसि
श्रीभगवानुवाच ।
वटबीजे सुसूक्ष्मेऽपि महावटतरुर्यथा ।
सर्वदास्तेऽन्यथा वृक्षः कुत आआयति, तद्वद ॥
तद्वन्मम तनौ राम भूतानामागतिर्लयः
महासैन्धवपिण्डोऽपि जले क्षिसो विलीयते ।
न दृश्यते पुनः पाकात्तत आयाति पूर्ववत्
प्रातःप्रातर्यथा लोको जायते सूर्यमण्डलात् ।
एवं मत्तो जगत्सर्वं जायतेऽस्ति विलीयते ।
मय्येव सकलं राम तद्वज्जानीहि सुव्रत
श्रीराम उवाच ।
कथितेऽपि महाभाग दिग्जडस्य यथा दिशि ।
निवर्तते भ्रमो नैव तद्वन्मम करोमि किम्
श्रीभगवानुवाच ।
मयि सर्वं यथा राम जगदेतच्चराचरम् ।
वर्तते तद्दर्शयामि न द्रष्टुं क्षमते भवान्
दिव्यं चक्षुः प्रदास्यामि तुभ्यं दशरथात्मज ।
तेन पश्य भयं त्यक्त्वा मत्तेजोमण्डलं ध्रुवम्
न चर्मचक्षुषा द्रष्टुं शक्यते मामकं महः ।
नरेण वा सुरेणापि तन्ममानुग्रहं विना
श्रीसूत उवाच ।
इत्युक्त्वा प्रददौ तस्मै दिव्यं चक्षुर्महेश्वरः ।
अथादर्शयदेतस्मै वक्त्रं पातालसंनिभम्
विद्युत्कोटिप्रतीकाशमतिभीमभयावहम्।
तदृष्ट्वैव भयाद्रामो जानुभ्यामवनिं गतः
प्रणम्य दण्डवद्भूमौ तुष्टाव च पुनःपुनः ॥
अथोत्थाय महावीरो यावदेव प्रपश्यति
वक्रं पुरभिदस्तावदन्तर्ब्रह्माण्डकोटयः ॥
चटका इव लक्ष्यन्ते ज्वालामालासमाकुलाः
मेरुमन्दरविन्ध्याद्या गिरयः सप्तसागराः ।
दृश्यन्ते चन्द्रसूर्याद्याः पञ्चभूतानि ते सुराः
अरण्यानि महानागा भुवनानि चतुर्दश ।
प्रतिब्रह्माण्डमेवं तु दृष्ट्वा दशरथात्मजः
सुरासुराणां संग्रामांस्तत्र पूर्वापरानपि ।
विष्णोर्दशावतारांश्च तत्कर्तव्यान्यपि द्विजाः
पराभवांश्च देवानां पुरदाहं महेशितुः ॥
उत्पद्यमानानुत्पन्नान्सर्वानपि विनश्यतः
दृष्ट्वा रामो भयाविष्टः प्रणनाम मुहुर्मुहुः ।
उत्पन्नतत्त्वज्ञानोऽपि बभूव रघुनन्दनः
अथोपनिषदां सारैरर्थैस्तुष्टाव शंकरम्
श्रीराम उवाच ।
देव प्रपन्नार्तिहर प्रसीद प्रसीद विश्वेश्वर विश्ववन्द्य ।
प्रसीद गङ्गाधर चन्द्रमौले मां त्राहि संसारभयादनाथम् २२
त्वत्तो हि जातं जगदेतदीश
त्वय्येव भूतानि वसन्ति नित्यम् ।
त्वय्येव शंभो विलयं प्रयान्ति
भूमौ यथा वृक्षलतादयोऽपि
ब्रह्मेन्द्ररुद्राश्च मरुद्गणाश्च
गन्धर्वयक्षासुरसिद्धसङ्घाः ।
गङ्गादिनद्यो वरुणालयाश्च
वसन्ति शूलिंस्तव वक्रमन्ति
त्वन्मायया कल्पितमिन्दुमौले
त्वय्येव दृश्यत्वमुपैति विश्वम् ॥
भ्
भ्रान्त्या जनः पश्यति सर्वमेत
च्छुक्तौ यथा रूप्यमहिं च रज्जौ
तेजोभिरापूर्य जगत्समग्रं प्रकाशमानः कुरुषे प्रकाशम् ।
विनाप्रकाशं तव देवदेव न दृश्यते विश्वमिदं क्षणेन
अल्पाश्रयो नैव बृहन्तमर्थ
धत्तेऽणुरेको नहि विन्ध्यशैलम् ॥
तद्वक्त्रमात्रे जगदेतदस्ति
त्वन्माययैवेति च निश्चिनोमि
रज्जौ भुजंगो भयदो यथैव
न जायते नास्ति न चैति नाशम् ॥
त्वन्मायया केवलमात्तरूपं
तथैव विश्वं त्वयि नीलकण्ठ
विचार्यमाणे तव यच्छरीर-
माधारभाव जगतामुपैति ।
तदप्यवश्यं मदविद्ययैव
पूर्णश्चिदानन्दमयो यतस्त्वम्
पूजेष्टपूर्तादिवरक्रियाणां
भोक्तुः फलं यच्छसि शस्तमेव ।
मृषैतदेवं वचनं पुरारे
त्वत्तोऽस्ति भिन्नं नच किंचिदेव
अज्ञानमूढा मुनयो वदन्ति
पूजोपचारादिबहिःक्रियाभिः ।
तोषं गिरीशो भजतीति मिथ्या
कुतस्त्वमूर्तस्य तु भोगलिप्सा
किंचिद्दलं वा चुलकोदकं वा ।
यत्त्वं महेश प्रतिगृह्य दत्से ।
त्रैलोक्यलक्ष्मीमपि तज्जनेभ्यः
सर्वं त्वविद्याकृतमेव मन्ये
व्याप्नोषि सर्वा विदिशो दिशश्व
त्वं विश्वमेकः पुरुषः पुराणः ॥
नष्टेऽपि तस्मिंस्तव नास्ति हानि-
र्घटे विनष्टे नभसो यथैव
यथैकमाकाशगमर्कबिम्बं
क्षुद्वेषु पात्रेषु जलान्वितेषु ।
भजत्यनेकप्रतिबिम्बभावं
तथा त्वमन्तःकरणेषु देव
सुसर्जने वाप्यर्वने विनाशे
विश्वस्य किंचित्तव नास्ति कार्यम् ।
अनादिभिर्देहभृतामदृष्टै-
स्तथापि तत्स्वप्नवदातनोषि
स्थूलस्य सूक्ष्मस्य जडस्य देह-
द्वयस्य शंभो न चिदं विनास्ति ।
अतस्त्वदारोपणमातनोति
श्रुतिः पुरारे सुखदुःखयोः सदा
नमः सच्चिदम्भोधिहंसाय तुभ्यं
नमः कालकण्ठाय कलात्मकाय ।
नमस्ते समस्ताघसंहारकर्त्रे
नमस्ते मृषाचित्तवृत्यैकभोक्त्रे
सूत उवाच ।
एवं प्रणम्य विश्वेशं पुरतः प्राञ्जलिः स्थितः ॥
विस्मितः परमेशानं जगदे रघुनन्दनः
श्रीराम उवाच ।
उपसंहर विश्वात्मन्विष्वरूपमिदं तव ।
प्रतीतं जगदैकात्म्यं शंभो भवदनुग्रहात्
श्रीभगवानुवाच ।
पश्य राम महाबाहो मत्तो नान्योऽस्ति कश्चन ।
सूत उवाच ।
इत्युक्त्वैवोपसंजह्रे स्वदेहे देवतादिकान्
मीलिताक्षः पुनर्हर्षाद्यावद्रामः प्रपश्यति ।
तावदेव गिरेः शृङ्गे व्याघ्रचर्मोपरि स्थितम्
ददर्श पञ्चवदनं नीलकण्ठं त्रिलोचनम् ॥
व्याघ्रचर्माम्बरधरं भूतिभूषितविग्रहम्
फणिकङ्कणभूषाढ्यं नागयज्ञोपवीतिनम्।
व्याघ्रचर्मीत्तरीयं च विद्युत्पिङ्गजटाधरम्
एकाकिनं चन्द्रमौलिंं वरेण्यमभयप्रदम् ।
चतुर्भुजं खण्डपरशुं मृगहस्तं जगत्पतिम्
अथाज्ञया पुरस्तस्य प्रणम्योपविवेश सः ।
अथाह रामं देवेशो यद्यत्प्रष्टुमभीच्छसि ।
तत्सर्वं पृच्छ राम त्वं मत्तो नान्योऽस्ति ते गुरुः
मूल पाठ: śivagītā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0