भाषा

ENहिગુ
ग्रंथ पाठ

शिव गीता · अध्याय 10

10.1

श्रीराम उवाच
भगवन्नत्र जीवोऽसौ जन्तोर्देहेऽवतिष्ठते ॥
जायते वा कुतो जीवः स्वरूपं वास्य किं वद

10.2

देहान्ते व कुत्र याति गत्वा वा कुत्र तिष्ठति ।
कथमायाति वा देहं पुनर्नायाति वा वद

10.3

श्रीभगवानुवाच ।
साधु पृष्टं महाभाग गुह्याद्गुह्यतमं हि यत् ।
देवैरपि सुदुर्ज्ञेयमिन्द्राद्यैर्वा महर्षिभिः

10.4

अन्यस्मै नैव वक्तव्यं मयापि रघुनन्दन ।
त्वद्भक्त्याहं परं प्रीतो वक्ष्याम्यवहितः शृणु

10.5

सत्यज्ञानात्मकोऽनन्तः परमानन्दविग्रहः ॥
परमात्मा परं ज्योतिरव्यक्तो व्यक्तकारणम्

10.6

नित्यो विशुद्धः सर्वात्मा निर्लेपोऽहं निरञ्जनः ॥
सर्वधर्मविहीनश्च न ग्राह्यो मनसापि च

10.7

नाहँ सर्वेन्द्रियग्राह्यः सर्वेषां ग्राहको ह्यहम् ।
ज्ञाताहं सर्वलोकस्य मम ज्ञाता न विद्यते

10.8

दूरः सर्वविकाराणां परमाण्वादिकस्य च

10.9

यतो वाचो नेइवर्तन्ते अप्राप्य मनसा सह ।
अआनन्दं ब्रह्म मां ज्ञात्वा न बिभेति कुतश्चन

10.10

यस्तु सर्वाणि भूतानि मय्येवेति प्रपश्यति ।
मां च सर्वेषु भूतेषु ततो न् विजुगुप्सते

10.11

यस्य सर्वाणि भूतानि ह्यात्मैवाभूद्विजानतः ।
को मोहस्तत्र कः शोक एकत्वमनुपश्यतः

10.12

एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः

10.13

अनाद्यविद्यया युक्तस्तथाप्येकोऽहमव्ययः ।
अव्याकृतब्रह्मरूपो जगत्कर्ता महेश्वरः

10.14

ज्ञानमात्रे यथा दृश्यमिदं स्वप्ने जगत्रयम् ।
तद्वन्मयि जगत्सर्वं दृश्यतेऽस्ति विलीयते

10.15

नानाविद्यासमायुक्स्तो जीवत्वेन वसाम्यहम् ।
पञ्च कर्मेन्द्रियाण्येव पञ्च ज्ञानेन्द्रियाणि च ॥
मनो बुद्धिरहंकारश्चित्तं चेति चतुष्टयम्

10.16

वायवः पञ्च मिलिता यान्ति लिङ्गशरीरताम्

10.17

तत्राविद्यासमायुक्तं चैतन्यं प्रतिबिम्बितम् ॥
व्यावहारिकजीवस्तु क्षेत्रज्ञः पुरुषोऽपि वा

10.18

स एव जगतां भोक्ता नाद्ययो: पुण्यपापयोः ।
इहामुत्र गती तत्र जागृत्स्वप्नादिभोक्तृता

10.19

यथा दर्पणकालिम्ना मलिनं दृश्यते मुखम्।
तद्वदन्तःकरणगैर्दोषैरात्मापि दृश्यते

10.20

परस्पराध्यासवशात्स्यादन्तःकरणात्मनोः ।
एकीभावाभिमानेन परात्मा दुःखभागिआव

10.25

अधोमुखं च तत्रास्ति सूक्ष्मं सुषिरमुत्तमम् ॥
दहराकाशमित्युक्तं तत्र जीवोऽवतिष्ठते

10.26

वालाग्रशतभागास्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयुः स चानन्त्याय कल्पते

10.27

कदम्बकुसुमोद्वद्धकेशरा इव सर्वतः ।
प्रसृता हृदयान्नाङयो याभिर्व्यासं शरीरकम्

10.28

हितं बलं प्रयच्छन्ति तस्मात्तेन हिताः स्मृताः ।
द्वासप्सतिसहस्रैस्ताः संख्याता योगवित्तमैः

10.29

हृदयात्तास्तु निष्क्रान्ता यथार्काद्रश्मयस्तथा ।
एकोत्तरशतं तास्तु मुख्या विष्वग्विनिर्गताः

10.30

वहन्त्यम्भो यथा नद्यो। नाङयः कर्मफलं तथा ।
अनन्तैकोर्ध्वगा नाडी मूर्धपर्यन्तमञ्जसा

10.31

प्रतीन्द्रियं दशदश निर्गता विषयोन्मुखाः ॥
नाङयः शर्मादिहेतुत्वात्स्वप्नादिफलभुक्तये

10.32

सुषुम्नेति समादिष्टा तया गच्छन्विमुच्यते ।
तयोपचितचैतन्यं जीवात्मानं विदुर्बुधाः

10.33

यथा राहुरदृश्योऽपि दृश्यते चन्द्रमण्डले ।
तद्वत्सर्वगतोऽप्यात्मा लेइजुङ्देहेऽपि दृश्यते

10.34

दृश्यमाने यथा कुम्भे"घटाकाशोऽपि दृश्यते ।
तद्भत्सर्वगतोऽप्यात्मा लिङ्गदेहेऽपि दृश्यते

10.35

निश्चलः परिपूर्णोपि गच्छतीत्युपचर्यते ।
जाग्रत्काले यथा ज्ञेयमभिव्यक्तविशेषधीः

10.36

व्याप्नोति निष्क्रियः सर्वान् भानुर्दश दिशो यथा ।
नाडीभिर्वृत्तयो यान्ति लिङ्गदेहसमुद्भवाः

10.37

तत्तत्कर्मानुसारेण जाग्रद्भोगोपलब्धये ।
इदं लिङ्गशरीराख्यमामोक्षं न विनाशयति

10.38

आत्मज्ञानेन नष्टेऽस्मिन्साविद्ये स्वशरीरके ।
अआत्मस्वरूपावस्थानं मुक्तिरित्यभिधीयते

10.39

उत्पादिते घटे यद्वद्धटाकाशत्वमृच्छति ।
घटे नष्टे यथाकाशं स्वरूपेणावतिष्ठते

10.40

जाग्रत्कर्मक्षयवशात्स्वप्नभोग उपस्थिते ।
बोध्यावस्थां तिरोधाय देहाद्याश्रयलक्षणामू

10.41

कर्मोद्भावितसंस्कारस्तत्र स्वप्नरिरंसया ।
अवस्थां च प्रयात्यन्यां मायावी चात्ममायाया

10.42

घटादिविषयान्सर्वान्बुद्ध्यादिकरणानि च ।
भूतानि कर्मवशतो वासनामात्रवस्थितान्

10.43

एतान्पशयन्स्वयंज्योतिः साक्ष्यात्मा व्यवतिष्ठते

10.44

अत्रान्तःकरणादीनां वासनाद्वासनात्मता ।
वासनामात्रसाक्षित्वं तेन तच्च परात्मनः

10.45

वासनाभिः प्रपञ्चोऽत्र दृशयते कर्मचोदितः ॥
जाग्रद्भूमौ यथा तद्वत्कर्तृकर्मक्रियात्मकः

10.46

निःशेषबुद्धिसाक्ष्यात्मा स्वयमेव प्रकाशते ।
वासनामात्रसाक्षित्वं साक्षिणः स्वाप उच्यते

10.47

भूतजन्मनि यद्भूतं कर्म तद्वासनावशात् ॥
नेदीयस्त्वाद्वयस्याद्ये स्वप्नं प्रायः प्रपशयति

10.48

मध्ये वयसि कार्कश्यात्करणानामिहादितः ।
प्रायेण वीक्षते स्वप्नं वासनाकर्मणोर्वशात्

10.49

इयासुः परलोकं तु कर्म विद्यादिसंभृतम् ॥
भाविनी जन्मनो रूपं स्वप्न अआत्मा प्रपशयति

10.50

यद्वत्प्रपतनाच्छ्ये: श्रान्तो गगनमण्डले ।
आकुञ्च्य पक्षौ यतते नीडे निलयनायू नी:

10.51

एव जाग्रत्स्वपनभूमौ श्रान्त अआत्माऽभिसचरन् ॥
आर्पीतकरणग्रामः कारणेनैति चैकताम्

10.52

नाडीमार्गैरिन्द्रियाणामाकृष्यादाय वासनाः ।
सर्वं ग्रसित्वा कार्य च विज्ञानात्मा विलीयते

10.53

ईश्वराख्येऽव्याकृतेऽथ यथा सुखमयो भवेत् ॥
कृत्स्नप्रपञ्चविलयस्तथा भवति चात्मनः

10.54

योषितः काम्यमानायाः संभोगान्ते यथासुखम् ।
स अआनन्दमयोऽबाह्यो नान्तरः केवलस्तथा

10.55

प्राज्ञात्मानं समासाद्य विज्ञानात्मा तथैव सः ।
विज्ञानात्मा कारणात्मा तथा तिष्ठन्नथापि सः

10.56

अविद्यासूक्ष्मवृत्त्यानुभवत्येव यथा सुखम् ॥
तथाहं सुखमस्वाप्सं नैव किंचिदवेदिषम्

10.57

अज्ञानमपि साक्ष्यादिवृत्तिभिश्चानुभूतये ।
इत्येवं प्रत्यभिज्ञापि पश्चात्तस्योपजायते

10.58

जाग्रत्स्वप्नसुषुप्त्याख्यमेवेहामुत्र लोकयोः ।
पश्चात्कर्मवशादेव विस्फुलिङ्गा, इवानलात्।
जायन्ते कारणादेव मनोबुद्ध्यादिकानि तु

10.59

पयःपूर्णघटो यद्वन्निमग्नः सलिलाशये ॥
तैरेवोद्धृत अआयाति विज्ञानात्मा तथैत्यजात्

10.60

विज्ञानात्मा कारणात्मा तथा तिष्ठंस्तथापि सः ।
दृश्यते सर्वमेष्वेव नष्टेष्वायात्यदृश्यताम्

10.61

एकाकारोऽर्यमा तत्तत्कार्येष्वेवं परः पुमान् ।
कूटस्थो दृश्यते तद्वद्गच्छत्यागच्छतीव सः

10.62

मोहमात्रान्तरायत्वात्सर्वं तस्योपपद्यते ।
देहाद्यतीत अआत्मापि स्वयंज्योतिः स्वभावतः ।
एवं जीवस्वरूपं ते प्रोक्तं। दशरथात्मज

मूल पाठ: śivagītā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc