भाषा

ENहिગુ
ग्रंथ पाठ

शतपथब्राह्मणम् · अध्याय 4.1.3

4.1.3.4.1.3.1

४.१.३ ऐन्द्रवायवग्रहः
वाग्घ वा अस्यैन्द्रवायवः । एतन्न्वध्यात्ममिन्द्रो ह यत्र वृत्राय वज्रम्प्रजहार सोऽबलीयान्मन्यमानो नास्तृषीतीव बिभ्यन्निलयां चक्रे तदेवापि देवा अपन्यलयन्त -

4.1.3.4.1.3.2

ते ह देवा ऊचुः । न वै हतं वृत्रं विद्म न जीवं हन्त न एको वेत्तु यदि हतो वा वृत्रो जीवति वेति -

4.1.3.4.1.3.3

ते वायुमब्रुवन् । अयं वै वायुर्योऽयं पवते वायो त्वमिदं विद्धि यदि हतो वा वृत्रो जीवति वा त्वं वै न आशिष्ठोऽसि यदि जीविष्यति त्वमेव क्षिप्रम्पुनरागमिष्यसीति -

4.1.3.4.1.3.4

स होवाच । किं मे ततः स्यादिति प्रथमवषट्कार एव ते सोमस्य राज्ञ इति तथेत्येयाय वायुरैद्धतं वृत्रं स होवाच हतो वृत्रो यद्धते कुर्यात् तत्कुरुतेति -

4.1.3.4.1.3.5

ते देवा अभ्यसृज्यन्त । यथा वित्तिं वेत्स्यमाना एवं स यमेकोऽलभत स एकदेवत्योऽभवद्यं द्वौ स द्विदेवत्यो यं बहवः स बहुदेवत्यस्तद्यदेनम्पात्रैर्व्यगृह्णत तस्माद्ग्रहा नाम -

4.1.3.4.1.3.6

स एषामापूयत् । स एनाञ्छुक्तः पूतिरभिववौ स नालमाहुत्या आस नालं भक्षाय -

4.1.3.4.1.3.7

ते देवा वायुमब्रुवन् । वायविमं नो विवाहीमं नः स्वदयेति स होवाच किं मे ततः स्यादिति त्वयैवैतानि पात्राण्याचक्षीरन्निति तथेति होवाच यूयं तु मे सच्युपवातेति -

4.1.3.4.1.3.8

तस्य देवाः । यावन्मात्रमिव गन्धस्यापजघ्नुस्तं पशुष्वदधुः स एष पशुषु कुणपगन्धस्तस्मात्कुणपगन्धान्नापिगृह्णीत सोमस्य हैष राज्ञो गन्धः -

4.1.3.4.1.3.9

नो एव निष्ठीवेत् । तस्माद्यद्यप्यासक्त इव मन्येताभिवातं परीयाच्छ्रीर्वै सोमः पाप्मा यक्ष्मः स यथा श्रेयस्यायति पापीयान्प्रत्यवरोहेदेवं हास्माद्यक्ष्मः प्रत्यवरोहति -

4.1.3.4.1.3.10

अथेतरं वायुर्व्यवात् । तदस्वदयत्ततोऽलमाहुत्या आसालं भक्षाय तस्मादेतानि नानादेवत्यानि सन्ति वायव्यानीत्याचक्षते सोऽस्यैष प्रथमवषट्कारश्च सोमस्य राज्ञ एतान्यु एनेन पात्राण्याचक्षते -

4.1.3.4.1.3.11

इन्द्रो ह वा ईक्षां चक्रे । वायुर्वै नोऽस्य यज्ञस्य भूयिष्ठभाग्यस्य प्रथमवषट्कारश्च सोमस्य राज्ञ एतान्यु एनेन पात्राण्याचक्षते हन्तास्मिन्नपित्वमिच्छा इति -

4.1.3.4.1.3.12

स होवाच । वायवा माऽस्मिन्ग्रहे भजेति किं ततः स्यादिति निरुक्तमेव वाग्वदेदिति निरुक्तं चेद्वाग्वदेदा त्वा भजामीति तत एष ऐन्द्रवायवो ग्रहोऽभवद्वायव्यो हैव ततः पुरा -

4.1.3.4.1.3.13

स इन्द्रोऽब्रवीत् । अर्धं मेऽस्य ग्रहस्येति तुरीयमेव त इति वायुरर्धमेव म इतीन्द्रस्तुरीयमेव त इति वायुः -

4.1.3.4.1.3.14

तौ प्रजापतिं प्रति प्रश्नमेयतुः । स प्रजापतिर्ग्रहं द्वेधा चकार स होवाचेदं वायोरित्यथ पुनरर्धं द्वेधा चकार स होवाचेदं वायोरितीदं तवेतीन्द्रतुरीयमेव भाजयांचकार यद्वै चतुर्थं तत्तुरीयं तत एष ऐन्द्रतुरीयो ग्रहोऽभवत् -

4.1.3.4.1.3.15

तस्य वा एतस्य ग्रहस्य । द्वे पुरोरुचौ वायव्यैव पूर्वा ऐन्द्रवायव उत्तरा द्वे अनुवाक्ये वायव्यैव पूर्वैन्द्रवायव्युत्तरा द्वौ प्रैषौ वायव्य एव पूर्व ऐन्द्रवायव उत्तरो द्वे याज्ये वायव्यैव पूर्वैन्द्रवायव्युत्तरैवमेनं तुरीयं तुरीयमेव भाजयांचकार -

4.1.3.4.1.3.16

स होवाच । तुरीयंतुरीयं चेन्मामबीभजुस्तुरीयमेव तर्हि वाङ्निरुक्तं वदिष्यतीति तदेतत्तुरीयं वाचो निरुक्तं यन्मनुष्या वदन्त्यथैतत्तुरीयं वाचोऽनिरुक्तं यत्पशवो वदन्त्यथैतत्तुरीयं वाचोऽनिरुक्तं यद्वयांसि वदन्त्यथैतत्तुरीयं वाचोऽनिरुक्तं यदिदं क्षुद्रं सरीसृपं वदति -

4.1.3.4.1.3.17

तस्मादेतदृषीणाभ्यनूक्तम् । चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा येमनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्तीति -

4.1.3.4.1.3.18

अथातो गृह्णात्येव । आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार उपो तेऽअन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयं वायवे त्वेति -

4.1.3.4.1.3.19

अथापगृह्य पुनरानयति । इन्द्रवायू इमे सुता उप प्रयोभिरागतम्। इन्दवो वामुशन्ति हि । उपयामगृहीतोऽसि वायव इन्द्रवायुभ्यां त्वैष ते योनिः सजोषोभ्यां त्वेति सादयति स यदाह सजोषोभ्यां त्वेति यो वै वायुः स इन्द्रो य इन्द्रः स वायुस्तस्मादाहैष ते योनिः सजोषोभ्यां त्वेति -

मूल पाठ: śatapathabrāhmaṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc