भाषा

ENहिગુ
ग्रंथ पाठ

शतपथब्राह्मणम् · अध्याय 3.8.4

3.8.4.3.8.4.1

३.८.४.
त्रीणि ह वै पशोरेकादशानि । एकादश प्रयाजा एकादशानुयाजा एकादशोपयजो दश पाण्या अङ्गुलयो दश पाद्या दश प्राणाः प्राण उदानो व्यान इत्येतावान्वै पुरुषो यः परार्ध्यः पशूनां यं सर्वेऽनु पशवः -

3.8.4.3.8.4.2

तदाहुः । किं तद्यज्ञे क्रियते येन प्राणः सर्वेभ्योऽङ्गेभ्यः शिव इति -

3.8.4.3.8.4.3

यदेव गुदं त्रेधा करोति । प्राणो वै गुदः सोऽयं प्राङाततस्तमयं प्राणोऽनुसंचरति -

3.8.4.3.8.4.4

स यदेव गुदं त्रेधा करोति । तृतीयमुपयड्भ्यस्तृतीयं जुह्वां तृतीयमुपभृति तेन प्राणः सर्वेभ्योऽङ्गेभ्यः शिवः -

3.8.4.3.8.4.5

स ह त्वेव पशुमालभेत । य एनं मेधमुपनयेद्यदि कृशः स्याद्यदुदर्यस्य मेदसः परिशिष्यत तद्गुदे न्यृषेत्प्राणो वै गुदः सोऽयं प्राङाततस्तमयम्प्राणोऽनुसंचरति प्राणो वै पशुर्यावद्ध्येव प्राणेन प्राणिति तावत्पशुरथ यदास्मात्प्राणोऽपक्रामति दार्वेव तर्हि भूतोऽनर्थ्यः शेते -

3.8.4.3.8.4.6

गुदो वै पशुः । मेदो वै मेधस्तदेनं मेधमुपनयति यद्यु अंसलो भवति स्वयमुपेत एव तर्हि मेधं भवति -

3.8.4.3.8.4.7

अथ पृषदाज्यं गृह्णाति । द्वयं वा इदं सर्पिश्चैव दधि च द्वन्द्वं वै मिथुनं प्रजननं मिथुनमेवैतत्प्रजननं क्रियते-

3.8.4.3.8.4.8

तेनानुयाजेषु चरति । पशवो वा अनुयाजाः पयः पृषदाज्यं तत्पशुष्वेवैतत्पयो दधाति तदिदं पशुषु पयो हितं प्राणो हि पृषदाज्यमन्नं हि पृषदाज्यमन्नं हि प्राणः -

3.8.4.3.8.4.9

तेन पुरस्तादनुयाजेषु चरति । स योऽयं पुरस्तात्प्राणस्तमेवैतद्दधाति तेन पश्चादुपयजति स योऽयं पश्चात्प्राणस्तमेवैतद्दधाति ताविमा उभयतः प्राणौ हितौ यश्चायमुपरिष्टाद्यश्चाधस्तात् -

3.8.4.3.8.4.10

तद्वा एतदेको द्वाभ्यां वषट्करोति । अध्वर्यवे च यश्चैष उपयजत्यथ यद्यजन्तमुपयजति तस्मादुपयजो नामाथ यदुपयजति प्रैवैतज्जनयति पश्चाद्ध्युपयजति पश्चाद्धि योषायै प्रजाः प्रजायन्ते-

3.8.4.3.8.4.11

स उपयजति । समुद्रं गच्छ स्वाहेत्यापो वै समुद्र आपो रेतो रेत एवैतत्सिञ्चति -

3.8.4.3.8.4.12

अन्तरिक्षं गच्छ स्वाहेति । अन्तरिक्षं वा अनु प्रजाः प्रजायन्तेऽन्तरिक्षमेवैतदनुप्रजनयति -

3.8.4.3.8.4.13

देवं सवितारं गच्छ स्वाहेति सविता वै देवानां प्रसविता सवितृप्रसूत एवैतत्प्रजनयति -

3.8.4.3.8.4.14

मित्रावरुणौ गच्छ स्वाहेति । प्राणोदानौ वै मित्रावरुणौ प्राणोदानावेवैतत्प्रजासु दधाति-

3.8.4.3.8.4.15

अहोरात्रे गच्छ स्वाहेति । अहोरात्रे वा अनु प्रजाः प्रजायन्तेऽहोरात्रे एवैतदनुप्रजनयति -

3.8.4.3.8.4.16

छन्दांसि गच्छ स्वाहेति । सप्त वै छन्दांसि सप्त ग्राम्याः पशवः सप्तारण्यास्तानेवैतदुभयान्प्रजनयति -

3.8.4.3.8.4.17

द्यावापृथिवी गच्छ स्वाहेति । प्रजापतिर्वै प्रजाः सृष्ट्वा ता द्यावापृथिवीभ्याम्पर्यगृह्णात्ता इमा द्यावापृथिवीभ्यां परिगृहीतास्तथो एवैष एतत्प्रजाः सृष्ट्वा ता द्यावापृथिवीभ्यां परिगृह्णाति -

3.8.4.3.8.4.18

अथात्युपयजति । स यन्नात्युपयजेद्यावत्यो हैवाग्रे प्रजाः सृष्टास्तावत्यो हैव स्युर्न प्रजायेरन्नथ यदत्युपयजति प्रैवैतज्जनयति तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते -

मूल पाठ: śatapathabrāhmaṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc