भाषा

ENहिગુ
ग्रंथ पाठ

शतपथब्राह्मणम् · अध्याय 3.6.2

3.6.2.3.6.2.1

३.६.२.
विजामानो हैवास्य धिष्ण्याः । इमे समङ्का ये वै समङ्कास्ते विजामान एतऽउ हैवास्यैत आत्मनः -

3.6.2.3.6.2.2

दिवि वै सोम आसीत् । अथेह देवास्ते देवा अकामयन्ता नः सोमो गच्छेत्तेनागतेन
यजेमहीति त एते माये असृजन्त सुपर्णीं च कद्रूं च वागेव सुपर्णीयं कद्रूस्ताभ्यां समदं चक्रुः -

3.6.2.3.6.2.3

ते हर्तीयमाने ऊचतुः । यतरा नौ दवीयः परापश्यादात्मानं नौ सा जयादिति तथेति
सा ह कद्रूरुवाच परेक्षस्वेति -

3.6.2.3.6.2.4

सा ह सुपर्ण्युवाच । अस्य सलिलस्य पारेऽश्वः श्वेत स्थाणौ सेवते तमहं पश्यामीति
तमेव त्वं पश्यसीति तं हीत्यथ ह कद्रूरुवाच तस्य वालो न्यषञ्जि तममुं वातो धूनोति तमहं पश्यामीति -

3.6.2.3.6.2.5

सा यत्सुपर्ण्युवाच । अस्य सलिलस्य पार इति वेदिर्वै सलिलं वेदिमेव सा तदुवाचाश्वः श्वेत स्थाणौ सेवत इत्यग्निर्वा अश्वः श्वेतो यूप स्थाणुरथ यत्कद्रूरुवाच तस्य वालो न्यषञ्जि तममुं वातो धूनोति तमहं पश्यामीति रशना हैव सा -

3.6.2.3.6.2.6

सा ह सुपर्ण्युवाच । एहीदं पताव वेदितुं यतरा नौ जयतीति सा ह कद्रूरुवाच त्वमेव पत त्वं वै न आख्यास्यसि यतरा नौ जयतीति -

3.6.2.3.6.2.7

सा ह सुपर्णी पपात । तद्ध तथैवास यथा कद्रूरुवाच तामागतामभ्युवाद त्वमजैषी३ रहा३ मिति त्वमिति होवाचैतद्व्याख्यानं सौपर्णीकाद्रवमिति -

3.6.2.3.6.2.8

सा ह कद्रूरुवाच । आत्मानं वै त्वाऽजैषं दिव्यसौ सोमस्तं देवेभ्य आहर तेन देवेभ्य ऽआत्मानं निष्क्रीणीष्वेति तथेति सा च्छन्दांसि ससृजे सा गायत्री दिवः सोममाहरत् -

3.6.2.3.6.2.9

हिरण्मय्योर्ह कुश्योरन्तरवहित आस । ते ह स्म क्षुरपवी निमेषं निमेषमभिसंधत्तो दीक्षातपसौ हैव ते आसतुस्तमेते गन्धर्वाः सोमरक्षा जुगुपुरिमे धिष्ण्या इमा होत्राः -

3.6.2.3.6.2.10

तयोरन्यतरां कुशीमाचिच्छेद । तां देवेभ्यः प्रददौ सा दीक्षा तया देवा अदीक्षन्त -

3.6.2.3.6.2.11

अथ द्वितीयां कुशीमाचिच्छेद । तां देवेभ्यः प्रददौ तत्तपस्तया देवास्तपऽउपायन्नुपसदस्तपो ह्युपसदः -

3.6.2.3.6.2.12

खदिरेण ह सोममाचखाद । तस्मात्खदिरो यदेनेनाखिदत्तस्मात्खादिरो यूपो भवति खादिर स्फ्योऽच्छावाकस्य हैनं गोपनायां जहार सोऽच्छावाकोऽहीयत -

3.6.2.3.6.2.13

तमिन्द्राग्नी अनुसमतनुताम् । प्रजानां प्रजात्यै तस्मादैन्द्राग्नोऽच्छावाकः -

3.6.2.3.6.2.14

तस्माद्दीक्षिता राजानं गोपायन्ति । नेन्नोऽपहरानिति तस्मात्तत्र सुगुप्तं चिकीर्षेद्यस्य ह गोपनायामपहरन्ति हीयते ह -

3.6.2.3.6.2.15

तस्माद्ब्रह्मचारिण आचार्यं गोपायन्ति । गृहान्पशून्नेन्नोऽपहरानिति तस्मात्तत्र सुगुप्तं चिकीर्षेद्यस्य ह गोपनायामपहरन्ति हीयते ह तेनैतेन सुपर्णी देवेभ्य आत्मानं निरक्रीणीत तस्मादाहुः पुण्यलोक ईजान इति -

3.6.2.3.6.2.16

ऋणं ह वै पुरुषो जायमान एव । मृत्योरात्मना जायते स यद्यजते यथैव तत्सुपर्णी देवेभ्य आत्मानं निरक्रीणीतैवमेवैष एतन्मृत्योरात्मानं निष्क्रीणीते -

3.6.2.3.6.2.17

तेन देवा अयजन्त । तमेते गन्धर्वाः सोमरक्षा अन्वाजग्मुस्तेऽन्वागत्याब्रुवन्ननु नो यज्ञ आभजत मा नो यज्ञादन्तर्गातास्त्वेव नोऽपि यज्ञे भाग इति -

3.6.2.3.6.2.18

ते होचुः । किं नस्ततः स्यादिति यथैवास्यामुत्र गोप्तारोऽभूमैवमेवास्यापीह गोप्तारो भविष्याम इति -

3.6.2.3.6.2.19

तथेति देवा अब्रुवन् । सोमक्रयणा व इति तानेभ्य एतत्सोमक्रयणाननुदिशत्यथैनानब्रुवंस्तृतीयसवने वो घृत्याहुतिः प्राप्स्यति न सौम्याऽपहृतो हि युष्मत्सोमपीथस्तेन सोमाहुतिं नार्हथेति सैनानेषा तृतीयसवन एव घृत्याहुतिः प्राप्नोति न सौम्या यच्छालाकैर्धिष्ण्यान्व्याघारयति -

3.6.2.3.6.2.20

अथ यदग्नौ होष्यन्ति । तद्वोऽविष्यतीति स यदग्नौ जुह्वति तदेनानवत्यथ यद्वः सोमं बिभ्रत उपर्युपरि चरिष्यन्ति तद्वोऽविष्यतीति स यदेनान्त्सोमं बिभ्रत उपर्युपरि चरन्ति तदेनानवति तस्मादध्वर्युः समया धिष्ण्यान्नातीयादध्वर्युर्हि सोमं बिभर्ति तमेते व्यात्तेन प्रत्यासते स एतेषां व्यात्तमापद्येत तमग्निर्वाभिदहेद्यो वाऽयं देवः पशूनामीष्टे स वा हैनमभिमन्येत तस्माद्यद्यध्वर्योः शालायामर्थः स्यादुत्तरेणैवाग्नीध्रीयं संचरेत् -

3.6.2.3.6.2.21

ते वा एते । सोमस्यैव गुप्त्यै न्युप्यन्त आहवनीयः पुरस्तान्मार्जालीयो दक्षिणत आग्नीध्रीय उत्तरतोऽथ ये सदसि ते पश्चात् -

3.6.2.3.6.2.22

तेषां वा अर्द्धानुपकिरन्ति । अर्द्धाननुदिशन्त्येत उ हैवैतद्दध्रिरेऽर्द्धान्न उपकिरन्त्वर्द्धाननुदिशन्तु तथा यस्माल्लोकादागताः स्मो दिवस्तथा तं लोकम्प्रतिप्रज्ञास्यामस्तथा न जिह्मा एष्याम इति -

3.6.2.3.6.2.23

स यानुपकिरन्ति । तेनास्मिँल्लोके प्रत्यक्षं भवन्त्यथ याननुदिशन्ति तेनामुष्मिँल्लोके प्रत्यक्षं भवन्ति -

3.6.2.3.6.2.24

ते वै द्विनामानो भवन्ति । एत उ हैवैतद्दध्रिरे न वा एभिर्नामभिररात्स्म येषां नः सोममपाहार्षुर्हन्त द्वितीयानि नामानि करवामहा इति ते द्वितीयानि नामान्यकुर्वत तैरराध्नुवन्यानपहृतसोमपीथान्त्सतोऽथ यज्ञ आभजंस्तस्माद्द्विनामानस्तस्माद्ब्राह्मणोऽनृध्यमाने द्वितीयं नाम कुर्वीत राध्नोति हैव य एवं विद्वान्द्वितीयं नाम कुरुते -

3.6.2.3.6.2.25

स यदग्नौ जुहोति । तद्देवेषु जुहोति तस्माद्देवाः सन्त्यथ यत्सदसि भक्षयन्ति तन्मनुष्येषु जुहोति तस्मान्मनुष्याः सन्त्यथ यद्धविर्धानयोर्नाराशंसाः सीदन्ति तत्पितृषु जुहोति तस्मात्पितरः सन्ति -

3.6.2.3.6.2.26

या वै प्रजा यज्ञेऽनन्वाभक्ताः । पराभूता वै ता एवमेवैतद्या इमाः प्रजा अपराभूतास्ता यज्ञ आभजति मनुष्याननु पशवो देवाननु वयांस्योषधयो वनस्पतयो यदिदं किं चैवमु तत्सर्वं यज्ञ आभक्तं ते ह स्मैत उभये देवमनुष्याः पितरः सम्पिबन्ते सैषा सम्पा ते ह स्म दृश्यमाना एव पुरा सम्पिबन्त उतैतर्ह्यदृश्यमानाः -

मूल पाठ: śatapathabrāhmaṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc