भाषा

ENहिગુ
ग्रंथ पाठ

शतपथब्राह्मणम् · अध्याय 13.2.10

13.2.10.13.2.10.1

यदसिपथान्कल्पयन्ति सेतुमेव तं संक्रमणं यजमानः कुरुते स्वर्गस्य लोकस्य समष्ट्यै -

13.2.10.13.2.10.2

सूचीभिः कल्पयन्ति विशो वै सूच्यो राष्ट्रमश्वमेधो विशं चैवास्मिन्राष्ट्रं च समीची दधति हिरण्यमय्यो भवन्ति तस्योक्तं ब्राह्मणम् -

13.2.10.13.2.10.3

त्रय्यः सूच्यो भवन्ति लोहमय्यो रजता हरिण्यो दिशो वै लोहमय्योऽवान्तरदिशो रजता ऊर्ध्वा हरिण्यस्ताभिरेवैनं कल्पयन्ति तिरश्चीभिश्चोर्ध्वाभिश्च बहुरूपा भवन्ति तस्माद्बहुरूपा दिशो नानारूपा भवन्ति तस्मान्नानारूपा दिशः -

मूल पाठ: śatapathabrāhmaṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc