शतपथब्राह्मणम् · अध्याय 1.3
ब्राह्मण
द्रव्यसंस्काराः, तत्र प्रथमं स्रुक्स्रुवादिपात्रसम्मार्गः, पत्नीसन्नहनं, पत्नीकर्तृकमाज्यावेक्षणम्, पत्न्याः सन्निधाने गार्हपत्य अज्याधिश्रयणं, रजोदर्शनादिनिमित्तवशात्तस्या असन्निधान आहवनीय आज्याधिश्रयणमिति विवेकः, पवित्राभ्यामाज्यप्रोक्षण्युत्पवनं, सार्थवादमध्वर्युकर्तृकमाज्यावेक्षणं, यज्ञे ऋत्विग्भिराशं- सितानामाशिषां यजमानगामित्वरूपहेतुना यजमानकर्तृकाज्यावेक्षण- प्रत्याख्यानमित्यादि.
ब्राह्मण
यज्ञस्य पुरुषतादात्म्येन स्तुतिः, आज्येतरहविषां तत्तद्देवतानामादिश्य ग्रहणम्, आज्यस्य त्वनादिश्य ग्रहणमिति विवेकः, सार्थवादं सप्रयोजनं जुहूऽपभृद्ध्रुवासु क्रमा- च्चतुरष्टचतुर्वारमाज्यग्रहणम्, आज्यग्रहणीयसंख्याया न्यौनाधिक्यप्रसंगेन परिमितापरिमितभोजनेन वीर्यबलयोः समृद्ध्यसमृद्धी, जौहवमौपभृतं चाज्यं जुह्वैव होतव्यम्, उपभृतो होमसाधनत्वाभावे तत्राज्यादानं किमर्थमित्याक्षिप्य तन्निरसनम्, ध्रौवाज्यस्य सर्वार्थतानिरूपणं, स्रुक्त्रयेऽप्याज्यग्रहणे सकृन्मंत्रवचनविधिरित्यादि.
ब्राह्मण
इध्मबर्हिर्वेदीनां प्रोक्षणं, वेद्यां बर्हिस्तरणं, तत्र वेद्या योषित्साम्यमुपवर्ण्य नीव्यादिकं च संपाद्य बर्हिस्तरणरूपवाससा तस्या नग्नत्वपरिहारः, शिखारूपं प्रस्तरमुपरि धृत्वाऽऽहवनीयकल्पनादि, परिधिपरिधानं, तत्र परिध्युत्पत्त्याख्यायिका, बहिष्परिधि स्कन्नस्य हविषोऽभिमर्शनं परिधिरूपेणावस्थितानां भूपत्यादिदेवानां
भागत्वेनोपपादनं च, इध्मावयवाः परिधय इत्येकीयमतनिरसनं, परिध्युपादानभूताः पलाशाद्याः वृक्षाः इत्यादि
ब्राह्मण
परिधीनामार्द्रत्वं प्रतिपाद्य परिधानक्रमः, पूर्वोत्तराघारसमिधोरभ्याधानं, तदर्थवादः, अभ्याधानजपः, सामिधेन्यनुवचनावसरेऽनुयाजार्थमेकस्यास्तृतीयस्याः समिधोऽवशेषणं, विधृतिनामनिर्वचनसहितं विधृत्योरासादनं, तयोः प्रस्तरनिधानाभिनिधाने, आज्यपूर्णानां जुह्वाभिदिस्रुचां संस्थानविशेषेण वेद्यामासादनम्, आसन्नानामाज्यादिहविषामभिमर्शनम्, अध्वर्योरात्मालंभश्चेत्यादि.
ब्राह्मण
सामिधेन्यनुवचनं, तत्रेध्मसाभिधेनीनाम्नोर्निर्वचनं, सामिधेन्यनुवचनप्रैषस्तत्र होतृपदमप्युपादेयमित्येकीयमतनिरसनं तद्धेतुश्च, सामिधेनीनामृचां छन्दोदेवतासंख्यादिकं, पंचदशो वज्र इत्यस्योपपत्तिः, तत्सम्बन्ध्याभिचारिकः प्रयोगः, सामिधेनीनामृचां संख्यासाम्यात्पक्षस्य रात्र्यात्मना सम्पत्तिः, अक्षरसंख्यासाम्याच्च षष्ट्युत्तरत्रिशतसंवसराहःसम्पत्तिः, काम्येष्टिषु सामिधेनीसंख्या, काम्येष्टीनां प्रधानयागस्योपांशुत्वम्, उपांशुलक्षणं च, दर्शपूर्णमासे गतश्रेरेवैकविंशत्य सामिधेन्य इति सफलं व्यवस्थापनं, सामिधेन्यनुवचनेऽन- वानत्त्वसान्तत्यादिधर्मविशेषानुकथनं, तदर्थवादादिकं चेति.
मूल पाठ: śatapathabrāhmaṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0