सत्यद्वयावतारनाम · श्लोक 21-30
द्वयोर्विभेदं न हि वेद यो स व्रजेदपायं विपरीतबोधात् ।
व्यवहारमनागम्य परमार्थो न देश्यते
तथ्यसंवृतिसोपानमन्तरेण विपश्चितः ।
तत्त्वप्रासादशिखरारोहणं न हि युज्यते
यथायं संवृतेर्भासो युक्त्या किञ्चिन्न लभ्यते ।
परमार्थस्त्वलब्धत्वम् आदिसंस्थितधर्मता
हेतुप्रत्ययजन्यत्वात् संवृतिर्भासवन्मता ।
अयुक्तं शोधितुम् चेत् कैर्जलचन्द्रादिविनिर्मितम्
नानाप्रत्ययजन्यत्वात् सिद्धो भासो ऽखिलस्ततः ।
प्रत्ययानां तु विच्छेदात्संवृत्त्यापि न सम्भवः
एवं दृष्टेरसंमोहाज् जाते चर्याविशोधने ।
उन्मार्गे ऽगमनं कृत्वाकनिष्ठं स्थानमाप्नुयात्
आयुष्यमल्पं बाहुलाश्च विद्या आयुःप्रमाणं च कियन्न विद्मः ।
स्वाभीष्टमेव प्रतिलम्भनीयं हंसैर्यथा क्षीरमिवाम्बुमध्यात्
अर्वाग्दृशा मोहवशेन चापि क्षमो न सत्यद्वयनिर्णये ऽपि ।
उक्तीर्गुरूणामिह सम्प्रतीत्य न्यस्तं द्वयं नागमतं हि सत्यम्
राज्ञो ऽनुरोधेन सुवर्णद्वीपे कृते ऽत्र श्राद्धो यदि वा जनो ऽद्य ।
गृह्णातु सम्यक् सुपरीक्षणेन न श्रद्धया नैव च गौरवेण
सौवर्णराजेन गुरोःफलेन संप्रेषितो देवमतिर्हि भिक्षुः ।
तस्याग्रहात् सत्यद्वयावतारो युक्त्या सुधीभिस्त्विह वीक्षणीयः
मूल पाठ: Satyadvayāvatāranāma · Edition: Sonam Rabten: Satyadvayavataradigrantha catustayam. Sarnath : Central Institute of High Tibetan Studies (CIHTS), 2000, pp. 91-94. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0