भाषा

ENहिગુ
ग्रंथ पाठ

सत्यद्वयावतारनाम · श्लोक 1-20

1

सत्यद्वयावतारनाम (स्द)
॥ नमो महाकारुणिकाय ॥
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोकसंवृतिसत्यं च सत्यं च परमार्थतः

2

संवृत्तिर्मन्यते द्वेधा मिथ्या च तथता तथा ।
आद्या द्विधोदचन्द्रश्च कुसिद्धान्तवितर्कणा

3

अविचारैकरम्या च विनाशोत्पादधर्मिणी ।
अर्थक्रियासमर्था च तथतासंवृतिर्मता

4

एक एवपरो ह्यर्थः परैश्च द्विविधो मतः ।
न काचिद् धर्मता सिद्धा कुतो द्वित्र्यादिकं भवेत्

5

अनुत्पादनिरोधादि देशनावाक्यलक्षितम् ।
परमार्थाभिन्नशीलत्वान् नैव धर्मा न धर्मता

6

शून्यतायां विभेदस्तु किञ्चिन्मात्रं न विद्यते ।
निर्विकल्पतया बोधे शून्यतादृष्टिरुच्यते

7

उक्तं सूत्रे सुगम्भीरे तद्दर्शनमदर्शनम् ।
तत्र द्रष्टा न दृश्यं चाप्यनादिनिधनं शिवम्

8

निर्विकल्पं निरालम्बं भावाभावविवर्जितम् ।
अनाश्रयाप्रतिष्ठानम् अतुल्यं निर्गतागतम्

9

अनिर्वाच्यमनाभासं निर्विकारमसंस्कृतम् ।
योगिगम्यमिदं क्लेशज्ञेयावरणवर्जितम्

10

प्रत्यक्षमनुमानञ्च तद्द्वयं बौद्धसम्मतम् ।
उभाभ्यां शून्यता गम्येत्यर्वाग्दृङ्मोहभाषितम्

11

प्रसज्येद्धर्मताज्ञानं तीर्थिके श्रावके ऽपि च ।
विज्ञानिनाञ्च किं वाच्यं माध्यमिके ऽविरुद्धता

12

तर्हि सर्वे ऽपि सिद्धान्ता मानमेयतया समाः ।
सर्वतर्कविरुद्धत्वान् मानमेयापि धर्मता

13

बाहुल्येन कथं न स्यात् प्रत्यक्षं चानुमा वृथा ।
तीर्थ्यवादनिवृत्यर्थं विद्वद्भिः कृतयः कृताः

14

सविकल्पाविकल्पाभ्यां ज्ञानाभ्यां नावगम्यते ।
आगमे ऽपि स्फुटं विद्वानाचार्यो भव्य आह च

15

शून्यतावगता केन व्याकृता या तथागतैः ।
नागान्तेवासिचन्द्रो हि धर्मतासत्यदर्शकः

16

ततः परम्पराम्नायैर्धर्मतासत्यगम्यता ।
धर्मस्कन्धसहस्राणि चत्वार्युक्तान्यशीति च

17

धर्मतान्तर्गतं सर्वम् मुक्तिस्तु शून्यताबोधेस्
तदर्था शेषभावना तथ्यसंवृतिमाधूय

18

शून्यताभ्यसने सति संवृतिहेतोःपुण्यादेः ।
परलोकाच्च वञ्च्यते विविक्तार्थमजानानः

19

स्वल्पश्रुतिसमाश्रितः यो नरः पुण्यकृन्नास्ति ।
नष्टः कापुरुषस्तु सः विनाशयति दुर्दृष्टा

20

शून्यता मन्दमेधसम् चन्द्राचार्य उवाचैवम् ।
उपायभूतं व्यवहारसत्यमुपेयभूतं परमार्थसत्यम्

मूल पाठ: Satyadvayāvatāranāma · Edition: Sonam Rabten: Satyadvayavataradigrantha catustayam. Sarnath : Central Institute of High Tibetan Studies (CIHTS), 2000, pp. 91-94. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc