षट्चक्रनिर्णयः · अध्याय 1
षट्चक्रनिर्णयः
अथ षट्चक्रनिर्णयोयं लिख्यते ॥
ओं षट्चक्रं षोडशाधारं त्रिलक्ष्यं व्योमपञ्चकम् ।
शरीरं येन जानन्ति न ते योग्याः कुलागमे
आ *? ब्रह्मबिलं चक्रं सन्दन्ततेष्व?वस्थितम् ।
योगनालं समुत्पन्नं त्रैलोक्ये स चराचरे
ब्रह्मकंन्दाधारं ब्रह्मकं सुखं ददातीति ब्रह्मकान्दम् ॥
अन्यशास्त्राभिप्रायः ॥
नाडि त्रितयमुद्दिष्टं यत्र लीयेतसंज्ञितम् ।
तच्च कन्देति पर्यायं तच्च ब्रह्मबिलं स्मृतम्
वामदक्षिणके नाड्या विडापिङ्गलसंज्ञके ।
fओलिओ १९३ इस् मिस्सिन्ग् बुत् थिस् सेएम्स् तो बे अ नुम्बेरिन्ग् मिस्तके
प्. १९४अ) तयोर्मध्ये स्थिता नाडी सुषुम्णा मध्यमा स्मृता
विश्रुता ब्रह्मनाडीति ब्रह्मदर्शयतिस्स्फुटम् ।
तस्य *? लबिलं कन्दं नाभ्यूर्ध्वाधोङ्गुलं स्मृतम्
तत्त्रिकोणमिति ज्ञेयं विस्तरादङ्गुलि त्रयम् ।
तस्य मध्ये स्थिता शक्तिः पञ्चकारणभक्षिणी
सङ्कोचन प्रयोगेन प्रबुद्धा भवतीति सा ।
भावानाभावगम्या साप्रयाता परमे पदे
एवं ज्ञात्वा महाभागे कन्दाधारे स्थितिं कुरु ।
तत्र स्थित्वात्मनो रूपं प्राकृतं तु परित्यजेत्
ग्राहयेद् भावना यातं *? हात्सर्वगतं शिवम् ।
यं प्राप्य तरते पारं घोरात् संसारसागरात्
द्वितीयं नाभिचक्रं तु नागकुण्डलसन्निभम् ।
कुण्डलीकृति विख्यातमुदयास्तगकारणम्
अन्यशास्त्राभिप्रायः ॥
नाभिमध्ये स्थिता शक्तिः प्रसुप्तभुजगाकृतिः ।
फणपञ्चकसंयुक्ता वामावर्ता त्रिवर्तुला
पञ्चाशंद्विजजननी प्रणवाख्या त्रिवाहगा ।
ऊर्ध्वाधः क्रमयोगेन या शिवान्तं शिवोल्वना
प्रबुद्धा चाणु वज्ज्ञेय * *? सुप्ता कुण्डलाकृतिः ।
त्रिपञ्चाङ्गुलविस्तारामितवर्णा कुलारणी
तस्य मध्ये यदा * *? संस्थितो ह्येकमानसः ।
नानाविधानि चिह्नानि पश्यति स्वप्नवत् प्रिये
तस्मात् सर्वप्रयत्नेन बोधयेत् कुण्डलाकृतिम् ।
प्. १९५अ) तृतीयं हृदये चक्रं षट्त्रिंशद्व्यापकं प्रभुम् ।
पद्मरागसमाकारमादित्यसमतेजसम्
तृत्रोदाहरणम् ॥
नाभे ऊर्ध्वं वितश्रातु कण्ठदूर्ध्वं षडङ्गुलम् ।
हृदयं तद् विजानीयाद् विश्वस्यायतनं महत्
हृच्चक्रमध्ये कमलं षोडशाराङ्गुलैर्युतम् ।
अष्टाङ्गुलप्रमाणेन लम्बमानमधोमुखम्
कर्णिकाकेसरैर्युक्तं हंसस्य पदमेव हि ।
तत्राभ्यासगतो योगी पश्यत्यात्मानमात्मना
चतुर्थं कण्डचक्रं तु नाडीसङ्घट्टगोचरम् ।
सङ्घतं सर्वनाडीनां हृदयं तदुदाहृतम्
प् १९५ब्) अन्यशास्त्राभिप्रायः ॥
कण्ठ रूपात्क्षुत्पिपासा * * *? ॥
ईशत्कृतापि रसना बिलसूलसंस्थापी श?द्द्विजाधरदले विवृते च कृत्वा ।
ईशत्सुधार सवरं शशिनश्च पीत्वा तत्क्षुत्तृषां मरणदाहरुजां निवृत्तिः
पञ्चमं बिन्दुचक्रं तु त्रिखण्डं व्योमगोचरम् ।
व्योमातीतं परंशान्तमात्मरूपं व्यवस्थितम्
भ्रुवोर्मध्ये स्थितं चक्रं बिन्द्वाख्यं मोक्षदायकम् ।
पञ्चवर्णधरं देवं पञ्चकालसमायुतम्
पञ्चवेलायुतं नित्यं पञ्च पञ्च विवर्जितम् ।
निष्प्रपञ्चं निराभासमङ्गुष्ठैकप्रमाणकम्
षष्ठं वै तालु चक्रं च देवानामपि दुर्लभम् ।
प्. १९६अ) चन्द्रकान्ति समप्रख्यं चिन्तयेत्कलया युतम्
तत्रोदाहरणम् ।
तालुमध्ये स्थितं चक्रममृताख्य कलायुतम् ।
तत्र वै दण्डपाणिस्तु संस्थितः परमेश्वरः
अङ्गुलत्रयमानेन त्रिकोणाकृति * * *?म् ।
आद्विजात्यन्व्यजात्यन्तमेकादृ *? व रूपिणी
तस्योर्ध्वे? नासनं चक्रं रेखाद्वारविवर्जितम् ।
प्रमाणरूपरहितं भावगम्यं सदोदितम्
यत्र सा च स्थिता शक्तिर्विमला रूपवर्जिता ।
शिवेन सह चैकत्र विश्रान्तिं कुरुते सदा
हकारादूर्ध्वगा कार्या कालाग्निनयगापुरः ॥
सा ह्येव गुल्फजानुह सर्वाधारे लयं गताः
प्. १९६ब्) सर्वा *? रातु सङ्कोचे सङ्कोचात् तुर्यकोणके ।
तुर्यकोणा तु जन्माख्ये ततः स्कन्दस्य भामिनि
स्कन्दात् कुण्डलिनीमध्ये कुण्डलाख्यात् घटोदरे ।
तद्वै सञ्जीवनस्थानं भूतानां जीवसंपुटे
सञ्जीवन्याश्च कूर्मे तु कूर्माश्च स्पर्शसंज्ञके ।
स्पर्शाश्च ललनामूले लालाख्याल्लम्बके तथा
*? ख्यात् गुरुवक्त्रे च गुरुर्ह्यजमुखे तथा ।
इत्ये ते षोदसाधारास्संस्थिताः कुलमध्यतः
यैर्भित्वा बाह्यतः शक्तिर्वजेत् सपादशंपदम् ।
या शक्तिरूहकाख्याधारमधो मार्गं गछ?तिसौ *? कार्या तस्याश्च
धाराः षोडस?क *? न्ते ॥
प्. १९७अ) * * *? नूत * *? र्गोः सर्वाधारे *? संज्ञिते ।
गुदस्य कालाग्निरुद्रेति पर्या?यः ।
अस्यैव कामसङ्कोचो वायुः ।
योनिमार्गद्वयं वायोः सङ्ग?मे सर्वदा स्थितम् ।
अशक्त्या समतां नीत्वा दि?व्योयोधः प्रवर्तते ॥
त * *? तं क्रोश्य?गुदद्वारं सर्वाधारमङ्गुलि *? यस्योर्ध्वे तुर्यकोणं
चतुष्कोणं मेढ्रे जन्माख्यं यस्मिन् स्थाने स्त्रीपुंसयोः संयोगकाले
बीजं पतितं भूत्वा गर्भः स भवति जन्माख्य हाटकस्या भ्य?न्तरे
तिर्यग्ग्?त्याङ्गुल षट्कम् । ऊर्ध्वगत्याङ्गुलि द्वयम् ॥
अन्यशास्त्राभिप्रायः ॥
जकारे जननं यत्र मकारे मरणं भवेत् ।
जन्ममृत्यु भय स्थानं जन्मस्थानं तु तद्विदुः ॥
मेढ्रोध्वा?ङ्गुल द्वये जन्म कन्दं तस्योर्धे अङ्गुल द्वयम् ।
तच्च त्रिकोणं नाडि त्रितयस्या धारम् ।
तद्यथा नाड्यधो ह्यङ्गुला दृ?ष्टौ मेढ्रमूलं त्व?तद्विदुः ।
तत्र मध्ये महाचक्रं कन्दं नाम प्रकीर्तितम् ।
तालुसंज्ञा भवेत्तस्य शोधनं नामनामतः ॥
अन्य शास्त्राभिप्रायः ॥
नाभि मेढ्रान्तरं कन्दं तत्वाधारं प्रकीर्तितम् ।
दहन्तात्क * मध्यस्थं चैतन्यं चित्तवर्जितम् ।
षडरं प्रस्फुरन्तं च कन्दसंस्थानसंस्थितम् ।
कुलबिन्दुरिति ख्यातं ख्यातं ब्रह्मबिलं तथा ॥
प्. १९८अ) एतत् प्रकृष्टकमुच्यते ॥
कुण्डलिनी नाभि देशे घटोदरं नाभि हृत्पद्ममध्यस्थं तस्यैव
सङ्जीवनीति पर्यायः ।
नाभि हृदयपद्मसंपुटं मध्यम् ।
कूर्मं हृदयं सर्वाणि पदार्थानि यत्र कूर्माङ्गानीवतिष्ठन्ति
तत्कूर्माधारं सर्वम्बरः? स्थानम् ।
हृदयाच्चतुरङ्गुलं लोलाख्यं लोलाजिह्वा तस्यामूलं लोलामूलं
कण्ठस्थानम् ।
लम्पिकाधः षडङ्गुलम् ।
लम्बाख्यं लम्बाघण्टिकागुरुवक्त्रं गुरुवक्त्रेति बिन्दुसंज्ञं
भ्रूमध्यं भ्रूमध्येति बिन्दुसंज्ञकं तुर्यस्थाने सर्वेति कथ्यते ।
अजमुखमजमाकाशं अविद्यमानं जन्मायस्मात्तस्मिन्स्थाने ध्वज? इति ॥
प्. १९८ब्) इति षोडशाधारम्? ॥
अथ त्रिलक्षम् ॥
अन्तर्लक्षं बहिर्लक्षं लक्षं चोभयवर्जितम् ।
बाह्यल *? प्रयोगेन प्रतिमादि *? चालनम् ।
सर्वावयवसंयुक्तं सर्वतन्त्रार्थसंयुतम् ।
शा * * *? समासाद्य चित्तचैतन्य योगतः ।
पराप्रवर्तते दृष्टिरन्तर्लक्षस्य दर्शनम् ।
बहिरन्तर्बहि कृत्वा स्वस्थानस्थस्य या स्थितिः ।
तल्लक्षं मध्यमं? प्रोक्तं न किञ्चिद्यत्र लक्षयेत् ।
लक्ष त्रय विनिर्मुक्तं वा *? यातीतमव्ययम् ।
सर्वा?वस्थं न सावस्थं परं तल्लक्षमुच्यते ॥
व्योमपञ्चकमिति ॥
प्रथमं तु ब्रह्मव्योमविष्णुव्योम द्वितीयकम् ।
प्. १९९अ) रुद्रव्योम तृतीयं तु चेश्वराख्यं चतुर्थकम् ।
सदाशिवं पञ्चमं तु ह्येतद्वै व्योमपञ्चकम् ॥
नाद्यादि हृदयं यावद्ब्रह्मज्ञानं विदुः प्रिये ।
जाग्रद्वृत्युनुभावेन पार्थिवं तत्वमुत्तमम् ॥ १ ।
हृदयात्कण्ठसंस्थानं विष्णुस्थानं प्रकीर्तितम्
कण्ठा तु यावद्भ्रूमध्यं रुद्रस्थानं तु तद्विदुः
सुषुप्तावस्थया संस्थं तेजस्तत्त्वं तु संस्थितम् ।
बिन्दौ तु यावत्तल्वन्तमीश्वराख्यमनुक्रमम्
तुर्यावस्थाश्रितं ज्ञेयं वायुतत्वं समाश्रितम् ।
ताल्वन्ताद् द्वादशान्तं तु स्थानं सदाशिवं स्थितम्
तुर्यातीतपदावस्थं नभ
पर्त् ओf थे तेxत् इस् मिस्सिन्ग् हेरे
* मि चित्पतिं होमं बिन्दुनादेन्दु संयुतम् ।
प्. १९९ब्) षष्ठम्बा समायुक्तं स्वच्छदं विगता मयम्
नमः स्वाहा स्वधा वौषट् स्ववषट्कङ्समन्वितम् ।
दीर्घस्वरसमायुक्तं हंसं हंसाङ्गभूषितम्
शक्तिमन्त्रसमायुक्तं परानन्दपदं स्थितम् ।
व्यापिनी सहितं देवं सृष्टिकृद्व्यापिनीश्वरम्
षट्त्रिंशत्तत्त्वमध्यस्थं परमं मन्त्रविग्रहम् ।
मन्त्रातीतं परं शान्तमुन्मन्यन्तं निरामयम्
ज्योतिषांधामधामाख्यं चिदानन्दप्रकाशकम् ।
मतिज्ञनैकगम्यं तमितरेषामगोचरम्
परमात्मापदातीतं स * * *? विवर्जितम् ।
शिवं सर्वगतं शून्यं स बाह्याभ्यन्तरे स्थितम्
fओलिओ २०० - २३९ इस् मिस्सिन्ग् सेएमिन्ग्ल्य दुए तो नुम्बेरिन्ग् मिस्तके
प्. २४०अ) नित्योदितं महातेजं सूर्यहंसं शिवात्मकम् ।
राशिचक्रगतं देवमयनद्वयसंस्थितम्
उदरे दक्षिणे चन्द्रं दक्षिणो चोत्तरं रविम् ।
पक्षद्वयसमायुक्तं सर्वभूतेष्ववस्थितम्
योगेश्वरं योगगम्यं योगातीतं निरामयम् ।
षट्पथं षट्पथातीतं शून्यं षट्कसमन्वितम्
हृत्कुशेशयमध्यस्थं ग्राह्यग्राहकगूहितम् ।
षट्पथं षडभावाख्यं चित्पतिं चेतनात्मकम्
खरूपं खचरं खस्थं खपरं खपतिं खगम् ।
कूला * * *? लाधारमकुलं कुलना * *? म्
प्. २४०ब्) स एव बन्धुर्माता च पिता च ससुहृत्?गुरुः ।
यं सर्वस्वमिति प्राहुस्तं वन्दे परमेश्वरम्
यस्य? सर्वज्ञता ज्ञा?प्ति दधि बोधस्वतन्त्रता ।
अ * * * * * क्तिश्च तस्मै पूर्णात्मने नमः
सर्वेन्द्रिय परित्यागाद् व्याप्तिर्यस्य विलक्षणा ।
षाड्गुण्यगुणसंयुक्ता तस्मै व्याप्तात्मने नमः
ज्ञानादि गुणसंयुक्तं वर्जितं प्राकृतं गुणैः ।
क्षयोत्पत्ति न यस्यस्थस्तस्मै नित्यात्मने नमः
यस्य मूलं न चाग्रं च न दिशो विदिशस्तथा ।
न शब्दो न तथाकाशस्तस्मै शून्यात्मने नमः
वा? पश्यत्यक्षिरहितः स्वादं बिन्दत्य जिह्वकः ।
प्. २४१अ) अकर्णः शृणुते यश्च तस्मै चित्त्रात्मने नमः
* * * * * * * * * * * * * * * ।
विश्वं कारणनिर्हीनस्तस्मै स्रष्टात्मने नमः
यथा कालो ह्यसूत्रोपि कुरुते कार्यसाधनम् ।
तथैव कर्ता यो नित्यं तस्मैकर्त्रात्मने नमः
यो नित्यं वसते देहे विश्वमध्ये व्यवस्थितः ।
स्थैर्य रूपं समासाद्य तस्मै स्थित्यात्मने नमः
यस्य विश्वमिदं हंसर्कालमेकं ब्रुवन्तितम् ।
संहरेत्केवलात्मा च तस्मै कालात्मने नमः
य एको बहुधा रूपैर्वसत्यस्मिञ्चराचरे ।
संहृत्येदं पुनश्चैकं तस्मै मायात्मने नमः
विश्वं ज्ञानकराग्रेण धृतं तत्त्वसमन्वितम् ।
प्. २४१ब्) लीलया भ्राम्यते येन तस्मै वीरात्मने नमः
ब्रह्माण्डस्य यथामध्ये दृश्यते सर्षपा कणः ।
ब्रह्माण्डं च तथा यस्य तस्मै स्थूलात्मने नमः
बालाग्र भागः शतशः कल्पितोथ सहस्रशः ।
यस्यमानमिदं प्रोक्तं तस्मै सूक्ष्मात्मने नमः
महास्थानं शरीरे यस्सर्वसत्वैरधिष्ठितः ।
सत्वपञ्जरनिर्माणं तस्मै क्षेत्त्रात्मने नमः
क्षेत्त्रज्ञो ज्योतिरात्मा च हृन्मध्ये तु व्यवस्थितः ।
यः शुचिर्निर्मलोहंसस्तस्मै क्षे?त्रात्मने नमः
मह *? स्तमसः पारे उन्मन्यात्मानमुज्ज्वलम् ।
प्. २४२अ) यं ज्ञात्वा न पुनर्जन्म तस्मै ज्ञानात्मने नमः
ज्ञानेन प्राप्यते यस्मात् कार्यं वै कारणोत्तरम् ।
यावत्सर्वगता तृप्तिस्तस्मै ज्ञानात्मने नमः
देहमध्ये स्थितो यच्च नाभिचक्रे परिभ्रमन् ।
चित्प्रकाशो हृदिव्यापी तस्मैजीवात्मने नमः
इडा गङ्गा महापुण्या सुषुम्णा यमुना तथा ।
तयोः संक्रीडते यश्च तस्मैहंसात्मने नमः
यः शुद्धः शुक्लपक्षे तु शुक्लगङ्गाजले स्थितः ।
शुक्लकर्मरतो नित्यं तस्मै शुक्लात्मने नमः
यः कृष्णः कृष्णपक्षे तु संस्थितो यमुना जले ।
क्रूरकर्मरतो नित्यं? तस्मै कृष्णात्मने नमः
प्. २४२ब्) रे?चकेन वहेन्नित्यं षड्रसा स्वादलम्पटः ।
यस्तेजस्तपते नित्यं तस्मै सूर्यात्मने नमः
पूरके निवसेद्यश्च निशायाममृतात्मकः ।
आप्यायन करो नित्यं तस्मै सोमात्मने नमः
यस्तृप्तस्तर्पयेद्देवान्देवयानेनसंस्थितान् ।
पितॄणां पितृस्थानेन तस्मै वह्न्यात्मने नमः
सूर्यस्य ग्रहणे यश्च विषुवेन च संयुतम् ।
इडापिङ्गलयोर्मध्ये संलीनो हृदयान्तरे
यत्पुण्यं हव्यकव्येन तस्मै तीर्थात्मने नमः
चन्द्रोदये चन्द्रगत्या इडांशे पिङ्गलार्पितम् ।
यः श्रेयः सर्वकार्याणां तस्मै लग्नात्मने नमः
द्वादशान्ते शुभे क्षेत्त्रे शिवराहुसमन्वितम् ।
प्. २४३अ) चित्सूर्यग्रहणं यत्र तस्मै स्थानात्मने नमः
यत्र चन्द्रो ह्यपानाख्यो यत्र चास्तङ्गतो रविः ।
प्राणापानक्षयो यत्र तस्मै मन्त्रात्मने नमः
ब्रह्मार्पणविधानेन दिनरात्रि परिक्षयात् ।
पूज्यते योगिभि यश्च तस्मै पूज्यात्मने नमः
स्वयमुच्चरते यश्च स्वदेहावस्थितः शिवः ।
देहान्ते मोक्षदो यश्च तस्मै जप्यात्मने नमः
चित्कृषाणुर्मनो होता अमृताख्या पराहृतिः ।
यत्र मन्त्रो हकाराख्यस्तस्मै होतात्मने नमः
सर्वदेवस्थितो देवः सप्तार्चिः परमेश्वरः ।
यश्चान्तः षड्रसाहारस्तस्मै भोक्तात्मने नमः
प्. २४३ब्) यो नित्यं भासयेत् सम्यक् मयूखैर्महाद्युतिः ।
स बाह्याभ्यन्तरं सर्वं तस्मै भासात्मने नमः
यो व्योमपरमं ब्रह्म चित्प्रकाशं निरामयम् ।
भूताकाशं परित्यज्य तस्मै व्योमात्मने नमः
योविनिद्रा महाबोधा युञ्जानाः संयतेन्द्रियाः ।
पश्यन्ति ज्योतिषां ज्योतिस्तस्मै योगात्मने नमः
पूरके यो बहिर्ब्रह्मा कुम्भके विष्णुरेव च ।
रेचके यो वसेद्रुद्रस्तस्मै प्राणात्मने नमः
ब्रह्मत्वे सृजते विश्वं विष्णुत्वे स्थिति कृश्चयः ।
रुद्रत्वे संहरत्येव तस्मै स्थित्यात्मने नमः
मात्रा पञ्चकसंयुक्तं प्रसादे पञ्चदैवतम् ।
प्. २४४अ) मनुनात्रा यते येन तस्मै मन्त्रात्मने नमः
स्वयम्बश्चरते यश्च स्वल्पवृत्ति हलाकृतिः ।
अनाहत परः शान्तस्तस्मै वर्णात्मने नमः
स्रगिवग्रथितो येन प्राकृतो भुमिसञ्चयः ।
धर्माधर्म मयैः पशैस्तस्मै वन्धात्मने नमः
सर्वाद्वनपथातीत मुन्मन्यते व्यवस्थितम् ।
सर्वाख्येयं परंशान्तं तस्मै मोक्षात्मने नमः
यस्य पीठमिदं विश्वं मूर्तिव्योमात्मिका भवेत् ।
लीयन्ते सर्व तत्वानि तस्मै लिङ्गात्मने नमः
उन्मन्यन्तं परं शुद्धं समनावस्तु निष्कलम् ।
व्यापिन्या सकलं यश्च तस्मै मुक्त्यात्मने नमः
प्. २४४ब्) चलाचलेषु सर्वेषु विश्वमध्ये व्यवस्थितः ।
मायांबाद्धास्थितो यश्च तस्मै सर्वात्मने नमः
स्तवराजसमं दिव्यं ज्ञानाञ्जनमनश्वरम् ।
अज्ञानतिमिरान्धस्य उन्मीलनकरं स्मृतम्
नराणां क्षीणपुण्यानां सद्योधर्मविवर्धनम् ।
परं शुद्धं पवित्रं च सर्वदुःखनिवारणम्
अध्यात्मगुणसंपूर्णं ज्ञात्वा यः पठते नरः ।
सर्वपापविशुद्धात्मा स गच्छेच्छा श्वतं पदम्
मूल पाठ: ṣaṭcakranirṇayaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0