शतसाहस्रिका प्रज्ञापारमिता · भाग 6180
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः श्रोत्रसंस्पर्शप्रत्ययवेदनाध्यात्मबहिर्धाशून्येति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः श्रोत्रसंस्पर्शप्रत्ययवेदना शून्यताशून्येति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः श्रोत्रसंस्पर्शप्रत्ययवेदना महाशून्येति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः श्रोत्रसंस्पर्शप्रत्ययवेदना परमार्थशून्येति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपल्म्भन्योगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः श्रोत्रसंस्पर्शप्रत्ययवेदना संस्कृतशून्येति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः श्रोत्रसंस्पर्शप्रत्ययवेदनासंस्कृतशून्येति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः श्रोत्रसंस्पर्शप्रत्ययवेदनात्यन्तशून्येति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः श्रोत्रसंस्पर्शप्रत्ययवेदनानवराग्रशून्येति मनसिकरोति । ताञ् चानवराग्रशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः श्रोत्रसंस्पर्शप्रत्ययवेदनानवकारशून्येति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः श्रोत्रसंस्पर्शप्रत्ययवेदना प्रकृतिशून्येति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः श्रोत्रसंस्पर्शप्रत्ययवेदना सर्वधर्मशून्येति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः श्रोत्रसंस्पर्शप्रत्ययवेदना स्वलक्षणशून्येति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः श्रोत्रसंस्पर्शप्रत्ययवेदनानुपलम्भशून्येति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः श्रोत्रसंस्पर्शप्रत्ययवेदनाभावशून्येति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः श्रोत्रसंस्पर्शप्रत्ययवेदना स्वभावशून्येति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः श्रोत्रसंस्पर्शप्रत्ययवेदनाभावस्वभावशून्येति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो घ्राणसंस्पर्शप्रत्ययवेदनाध्यात्मशून्येति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो घ्राणसंस्पर्शप्रत्ययवेदना बहिर्धाशून्येति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो घ्राणसंस्पर्शप्रत्ययवेदनाध्यात्मबहिर्धाशून्येति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो घ्राणसंस्पर्शप्रत्ययवेदना शून्यताशून्येति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो घ्राणसंस्पर्शप्रत्ययवेदना महाशून्येति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो घ्राणसंस्पर्शप्रत्ययवेदना परमार्थशून्येति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो घ्राणसंस्पर्शप्रत्ययवेदना संस्कृतशून्येति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो घ्राणसंस्पर्शप्रत्ययवेदनासंस्कृतशून्येति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो घ्राणसंस्पर्शप्रत्ययवेदना अत्यन्तशून्येति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो घ्राणसंस्पर्शप्रत्ययवेदनानवराग्रशून्येति मनसिकरोति । ताञ् चानवराग्रशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो घ्राणसंस्पर्शप्रत्ययवेदनानवकारशून्येति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो घ्राणसंस्पर्शप्रत्ययवेदना प्रकृतिशून्येति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो घ्राणसंस्पर्शप्रत्ययवेदना सर्वधर्मशून्येति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो घ्राणसंस्पर्शप्रत्ययवेदना स्वलक्षणशून्येति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो घ्राणसंस्पर्शप्रत्ययवेदना अनुपलम्भशून्येति मनसिकरोति । ताञ् च अनुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो घ्राणसंस्पर्शप्रत्ययवेदना अभावशून्येति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो घ्राणसंस्पर्शप्रत्ययवेदना स्वभावशून्येति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो घ्राणसंस्पर्शप्रत्ययवेदनाभावस्वभावशून्येति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जिह्वासंस्पर्शप्रत्ययवेदनाध्यात्मशून्येति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शूलतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जिह्वासंस्पर्शप्रत्ययवेदना बहिर्धाशून्येति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जिह्वासंस्पर्शप्रत्ययवेदनाध्यात्मबहिर्धाशून्येति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जिह्वासंस्पर्शप्रत्ययवेदना शून्यताशून्येति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जिह्वासंस्पर्शप्रत्ययवेदना महाशून्येति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जिह्वासंस्पर्शप्रत्ययवेदना परमार्थशून्येति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जिह्वासंस्पर्शप्रत्ययवेदना संस्कृतशून्येति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जिह्वासंस्पर्शप्रत्ययवेदनासंस्कृतशून्येति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जिह्वासंस्पर्शप्रत्ययवेदनात्यन्तशून्येति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जिह्वासंस्पर्शप्रत्ययवेदनानवराग्रशून्येति मनसिकरोति । ताञ् चानवराग्रशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जिह्वासंस्पर्शप्रत्ययवेदनानवकारशून्येति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जिह्वासंस्पर्शप्रत्ययवेदना प्रकृतिशून्येति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जिह्वासंस्पर्शप्रत्ययवेदना सर्वधर्मशून्येति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जिह्वासंस्पर्शप्रत्ययवेदना स्वलक्षणशून्येति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जिह्वासंस्पर्शप्रत्ययवेदनानुपलम्भशून्येति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जिह्वासंस्पर्शप्रत्ययवेदनाभावशून्येति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्युतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जिह्वासंस्पर्शप्रत्ययवेदना स्वभावशून्येति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जिह्वासंस्पर्शप्रत्ययवेदनाभावस्वभावशून्येति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः कायसंस्पर्शप्रत्ययवेदनाध्यात्मशूयेति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः कायसंस्पर्शप्रत्ययवेदना बहिर्धाशून्येति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रत्त्संयुक्तमनसिकारः कायसंस्पर्शप्रत्ययवेदनाध्यात्मबहिर्धाशून्येति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः कायसंस्पर्शप्रत्ययवेदना शून्यताशून्येति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः कायसंस्पर्शप्रत्ययवेदना महाशून्येति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः कायसंस्पर्शप्रत्ययवेदना परमार्थशून्येति मनसिकरोति ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः कायसंस्पर्शप्रत्ययवेदना संस्कृतशून्येति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंजुक्तमनमिकारः कायसंस्पर्शप्रत्ययवेदनासंस्कृतशून्येति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः कायसंस्पर्शप्रत्ययवेदनात्यन्तशून्येति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः कायसंस्पर्शप्रत्ययवेदनानवराग्रशून्येति मनसिकरोति । ताञ् चानवराग्रशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः कायसंस्पर्शप्रत्ययवेदनानवकारशून्येति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः कायसंस्पर्शप्रत्ययवेदना प्रकृतिशून्येति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः कायसंस्पर्शप्रत्ययवेदना सर्वधर्मशून्येति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः कायसंस्पर्शप्रत्ययवेदना स्वलक्षणशून्येति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः कायसंस्पर्शप्रत्ययवेदनानुपलम्भशून्येति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः कायसंस्पर्शप्रत्ययवेदनाभावशून्येति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः कायसंस्पर्शप्रत्ययवेदना स्वभावशून्येति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः कायसंस्पर्शप्रत्ययवेदनाभावस्वभावशून्येति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदनाध्यात्मशून्येति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदना बहिर्धाशून्येति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदनाध्यात्मबहिर्धाशून्येति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदना शून्यताशून्येति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदना महाशून्येति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदना परमार्थशून्येति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदना संस्कृतशून्येति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदनासंस्कृतशून्येति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदनात्यन्तशून्येति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपललम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदनानवराग्रशून्येति मनसिकरोति । ताञ् चानवराग्रशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदनानवकारशून्येति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदना प्रकृतिशून्येति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदना सर्वधर्मशून्येति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदना स्वलक्षणशल्येति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदनानुपलम्भशून्येति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंस्पर्शप्रत्ययवेदनाभावशून्येति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो मनःसंसंस्पर्शप्रत्ययवेदना स्वभावशून्येति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमननिकारो मनःसंस्पर्शप्रत्ययवेदनाभावस्वभावशून्येति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् अध्यात्मशून्य इति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् बहिर्धाशून्य इति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् अध्यात्मबहिर्धाशून्य इति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुः शून्यताशून्य इति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् महाशून्य इति मनसिकरोति । ताञ् चा महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुः परमार्थशून्य इति मनसिकरोति । ताञ् च स परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुः संस्कृतशून्य इति मनसिकरोति । ताञ् च सह्यतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् असंस्कृतशून्य इति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् अत्यन्तशून्य इति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् अनवराग्रशून्य इति मनसिकरोति । ताञ् चानवराग्रशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः प्र्थिवीधातुर् अनवकारशून्य इति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुः प्रकृतिशून्य इति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुः सर्वधर्मशून्य इति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुः स्वलक्षणशून्य इति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् अनुपलम्भशून्य इति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् अभावशून्य इति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुः स्वभावशून्य इति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः पृथिवीधातुर् अभावस्वभावशून्य इति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् अध्यात्मशून्य इति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् बहिर्धाशून्य इति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् अध्यात्मबहिर्धाशून्य इति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुः शून्यताशून्य इति मनसिकरोति । ताञ् च शून्यता शून्यतामुपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् महाशून्य इति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुः परमार्थशून्य इति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अफगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुः संस्कृतशून्य इति मनसिकरोति । ताञ् च संस्कृतशुन्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् असंस्कृतशून्य इति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् अत्यन्तशून्य इति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् अनवराग्रशून्य इति मनसिकरोति । ताञ् चानवराग्रशून्यताम् उपलभतेइ । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारजितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् अनवकारशून्य इति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुः प्रकृतिशून्य इति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुः सर्वधर्मशून्य इति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुः स्वलक्षणशून्य इति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् अनुपलम्भशून्य इति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् अभावशून्य इति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुः स्वभावशून्य इति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽब्धातुर् अभावस्वभावशून्य इति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् अध्यात्मशून्य इति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् बहिर्धाशून्य इति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् अध्यात्मबहिर्धाशून्य इति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुः शून्यताशून्य इति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् महाशून्य इति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुः परमार्थशून्य इति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुः संस्कृतशून्य इति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् असंस्कृतशून्य इति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् अत्यन्तशून्य इति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् अनवराग्रशून्य इति मनसिकरोति । ताञ् चानवराग्रशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् अनवकारशून्य इति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुः प्रकृतिशून्य इति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुः सर्वधर्मशून्य इति मनसिकरोति । ताञ् च सर्वधर्मरशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुः स्वलक्षणशून्य इति मनसिकरोति । ताञ् च स्वक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् अनुपलम्भशून्य इति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् अभावशून्य इति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुः स्वभावशून्य इति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तेजोधातुर् अभावस्वभावशून्य इति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् अध्यात्मशून्य इति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् बहिर्धाशून्य इति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् अध्यात्मबहिर्धाशून्य इति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुः शून्यताशून्य इति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् महाशून्य इति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुः परमार्थशून्य इति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुः संस्कृतशून्य इति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् असंस्कृतशून्य इति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् अत्यन्तशून्य इति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारहाता प्रतिसंयुक्तमनसिकारो वायुधातुर् अनवराग्रशून्य इति मनसिकरोति । ताञ् चानवराग्रशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् अनवकारशून्य इति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुः प्रकृतिशून्य इति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुः सर्वधर्मशून्य इति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुः स्वलक्षणशून्य इति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् अनुपलम्भशून्यू इति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् अभावशून्य इति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुः स्वभावशून्य इति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शुत्रन्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वायुधातुर् अभावस्वभावशून्य इति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् अध्यात्मशून्य इति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् बहिर्धाशून्य इति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् अध्यात्मबहिर्धाशून्य इति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुः शून्यताशून्य इति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् महाशून्य इति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारामतायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुः परमार्थशून्य इति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुः संस्कृतशून्य इति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् असंस्कृतशून्य इति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् अत्यन्तशून्य इति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् अनवराग्रशून्य इति मनसिकरोति । ताञ् चानवराग्रशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् अनवकारशून्य इति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुः प्रकृतिशून्य इति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुः सर्वधर्मशून्य इति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुः स्वलक्षणशून्य इति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् अनुपलम्भशून्य इति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् अभावशून्य इति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुः स्वभावशून्य इति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो आकाशधातुर् अभावस्वभावशून्य इति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुर् अध्यात्मशून्य इति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुर् बहिर्धाशून्य इति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुर् अध्यात्मबहिर्धाशून्य इति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुः शून्यताशून्य इति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुर् महाशून्य इति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुः परमार्थशून्य इति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुः संस्कृतशून्य इति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंय्क्तमनसिकारो विज्ञानधातुर् असंस्कृतशून्य इति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुर् अत्यन्तशून्य इति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुर् अनवराग्रशून्य इति मनसिकरोति । ताञ् चानवराग्रशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुर् अनवकारशून्य इति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुः प्रकृतिशून्य इति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुः सर्वधर्मशून्य इति मनसिकरोति । ताञ् च सर्वधर्मरशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुः स्वलक्षणशून्य इति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुर् अनुपलम्भशून्य इति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुर् अभावशून्य इति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानधातुः स्वभावशून्य इति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानतुर् अभावस्वभावशून्य इति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्याध्यात्मशून्येति मनसिकरोति । ताञ् चाविद्याध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्या बहिर्धाशून्येति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्याध्यात्मबहिर्धाशून्येति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्या शून्यताशून्येति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्या महाशून्येति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्या परमार्थशून्येति मनसिकरोति । ताञ् च परमार्थशून्यताम् ताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्या सम्ष्कृतशून्येति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्यासंस्कृतशून्येति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्यात्यन्तशून्येति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्यानवराग्रशून्येति मनसिकरोति । ताञ् चानवराग्रशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायां चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्यानवकारशून्येति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्या प्रकृतिशून्येति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापरिमतायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्या सर्वधर्मशून्येति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापरमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्या स्वलक्षणशून्येति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्यानुपलम्भशून्येति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्यातो बहुशून्येति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्या स्वभावशून्येति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽविद्याभावस्वभावशून्येति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो ऽध्यात्मशून्य इति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकाज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो बहिर्धाशून्य इति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकाज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो ऽध्यात्मबहिर्धाशून्य इति मनसिकरोति । ताञ् च आध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकाज्ञता प्रतिसंयुक्तमनसिकारः संस्कारः शून्यताशून्य इति मनसिकरोति । ताञ् च शून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो महाशून्य इति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारः परमार्थशून्य इति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारः संस्कृतशून्य इति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारः असंस्कृतशून्य इति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो ऽत्यन्तशून्य इति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो ऽनवाग्र्यशून्य इति मनसिकरोति । ताञ् चान्वाग्र्यशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो ऽनवकारशून्य इति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारः प्रकृतिशून्य इति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारः सर्वधर्मशून्य इति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारः स्वलक्षणशून्य इति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो ऽनुपलम्भशून्य इति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो ऽभावशून्य इति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारः स्वभावशून्य इति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः संस्कारो ऽभावस्वभावशून्य इति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः विज्ञानम् अध्यात्मशून्यम् इति मनसिकरोति । तञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानं बहिर्धाशून्यम् इति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानम् अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानं शून्यताशून्यम् इति मनसिकरोति । ताञ् चाशून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानं महाशून्यम् इति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानं परमार्थशून्यम् इति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानं संस्कृतशून्यम् इति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानम् असंस्कृतशून्यम् इति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानम् अत्यन्तशून्यम् इति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानम् अनवराग्र्यशून्यम् इति मनसिकरोति । ताञ् चानवराग्र्यशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानम् अनवकारशून्यम् इति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानं सर्वधर्मशून्यम् इति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानं स्वलक्षणशून्यम् इति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानम् अनुपलम्भशून्यम् इति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानम् अभावशून्यम् इति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानं स्वभावशून्यम् इति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विज्ञानम् अभावस्वभावशून्यम् इति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो नामरूपम् अध्यात्मशून्य्म् इति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो नामरूपं बहिर्धाशून्यम् इति मनसिकरोति । ताञ् च बाहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारवता प्रतिसंयुक्तमनसिकारो नामरूपम् अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो नामरूपं शून्यताशून्यम् इति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो नामरूपं महाशून्यम् इति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो नामरूपं परमार्थशून्यम् इति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्बयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो नामरूपं संस्कृतशून्यम् इति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपम् असंस्कृतशून्यम् इति मनसिक्रोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपम् अत्यन्तशून्यम् इति मनसिक्रोति । ताञ् चात्यन्तशून्यतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपम् असंस्कृतशून्यम् इति मनसिक्रोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपम् अनवराग्र्यशून्यम् इति मनसिक्रोति । ताञ् चानवराग्र्यशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपम् अनवकारशून्यम् इति मनसिक्रोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपं प्रकृतिशून्यम् इति मनसिक्रोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपं सर्वधर्मशून्यम् इति मनसिक्रोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपं स्वलक्षणशून्यम् इति मनसिक्रोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपम् अनुपलम्भशून्यम् इति मनसिक्रोति । ताञ् च अनुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपम् अभावशून्यम् इति मनसिक्रोति । ताञ् च अभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपं स्वभावशून्यम् इति मनसिक्रोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारखता प्रतिसंयुक्तमनसिकारो नामरूपम् अभावस्वभावशून्यम् इति मनसिक्रोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनम् अध्यात्मशून्यम् इति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनं बहिर्धाशून्यम् इति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनम् अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनं शून्यताशून्यम् इति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनं महाशून्यम् इति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनं परमार्थशून्यम् इति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनं संस्कृतशून्यम् इति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनम् असंस्कृतशून्यम् इति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनम् अत्यन्तशून्यम् इति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनम् अनवराग्रशून्यम् इति मनसिकरोति । ताञ् चानवराग्र्यशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनम् अनवकारशून्यम् इति मनसिकरोति । ताञ् चाअनवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनं प्रकृतिशून्यम् इति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनं सर्वधर्मशून्यम् इति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनम् अनुपलम्भशून्यम् इति मनसिकरोति । ताञ् च अनुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनम् अभावशून्यम् इति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनं स्वभावशून्यम् इति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः षडायतनम् अभावस्वभावशून्यम् इति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो ऽध्यात्मशून्य इति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो बहिर्धाशून्य इति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो ऽध्यात्मबहिर्धाशून्य इति मनसिकरोति । ताञ् चाऽध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शः शून्यताशून्य इति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो महाशून्य इति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शः परमार्थशून्य इति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शः संस्कृतशून्य इति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो ऽसंस्कृतशून्य इति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो ऽत्यन्तशून्य इति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो ऽनवराग्रशून्य इति मनसिकरोति । ताञ् चानवराग्रशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो ऽनवकारशून्य इति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शः प्रकृतिशून्य इति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शः सर्वधर्मशून्य इति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शः स्वलक्षणशून्य इति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो ऽनुपलम्भशून्य इति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो ऽभावशून्य इति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शः स्वभावशून्य इति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्पर्शो ऽभावस्वभावशून्य इति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदनाध्यात्मशून्येति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना बहिर्धाशून्येति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदनाध्यात्मबहिर्धाशून्येति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना शून्यताशून्येति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना महाशून्येति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना परमार्थशून्येति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना संस्कृतशून्येति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदनासंस्कृतशून्येति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदनात्यन्तशून्येति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदनानव्राग्रशून्येति मनसिकरोति । ताञ् चानव्राग्रशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदनानवकारशून्येति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना प्रकृतिशून्येति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना सर्वधर्मशून्येति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना स्वलक्षणशून्येति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदनानुपलम्भशून्येति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना भवशून्येति मनसिकरोति । ताञ् च भवशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदना स्वभावशून्येति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वेदनाभावस्वभावशून्येति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्वो महासत्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णाध्यात्मशून्येति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णा बहिर्धाशून्येति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णाध्यात्मबहिर्धाशून्येति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णा शून्यताशून्येति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णा महाशून्येति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णा परमार्थशून्येति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णा संस्कृतशून्येति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णासंस्कृतशून्येति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णात्यन्तशून्येति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णानवराग्रशून्येति मनसिकरोति । ताञ् चानवराग्रशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णानवकारशून्येति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णा प्रकृतिशून्येति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णा सर्वधर्मशून्येति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णा स्वलक्षणशून्येति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णानुपलम्भशून्येति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णाभावशून्येति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णा स्वभावशून्येति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तृष्णाभावस्वभावशून्येति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानम् अध्यात्मशून्यम् इति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानं बहिर्धाशून्यम् इति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानम् अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानं शून्यताशून्यम् इति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानं महाशून्यम् इति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानं परमार्थशून्यम् इति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानं संस्कृतशून्यम् इति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानम् असंस्कृतशून्यम् इति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानम् अत्यन्तशून्यम् इति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानम् अनवाग्रशून्यम् इति मनसिकरोति । ताञ् चानवाग्रशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानम् अनवकारशून्यम् इति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानं प्रकृतिशून्यम् इति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानं सर्वधर्मशून्यम् इति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानं स्वलक्षणशून्यम् इति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानम् अनुपलम्भशून्यम् इति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानम् अभावशून्यम् इति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानं स्वभावशून्यम् इति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार उपादानम् अभावस्वभावशून्यम् इति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भवो ऽध्यात्मशून्य इति मनसि करोति । ताञ् चाध्यात्मशून्यताम् औपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो ऽध्यात्मशून्य इति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो बहिर्धाशून्य इति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो ऽध्यात्मबहिर्धाशून्य इति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावः शून्यताशून्य इति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो महाशून्य इति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावः परमार्थशून्य इति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावः संस्कृतशून्य इति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो ऽसंस्कृतशून्य इति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो ऽत्यन्तशून्य इति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो ऽनवराग्रशून्य इति मनसिकरोति । ताञ् चानवराग्रशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो ऽनवकारशून्य इति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भवः प्रकृतिशून्य इति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् औपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावः सर्वधर्मशून्य इति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावः स्वलक्षणशून्य इति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो ऽनुपलम्भशून्य इति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो ऽभावशून्य इति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावः स्वभावशून्य इति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो भावो ऽभावस्वभावशून्य इति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् अध्यात्मशून्येति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् बहिर्धाशून्येति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् अध्यात्मबहिर्धाशून्येति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिः शून्यताशून्येति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् महाशून्येति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिः परमार्थशून्येति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिः संस्कृतशून्येति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् असंस्कृतशून्येति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् अत्यन्तशून्येति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् अनवराग्रशून्येति मनसिकरोति । ताञ् चानवराग्रशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् अनवकारशून्येति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिः प्रकृतिशून्येति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिः सर्वधर्मशून्येति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिः स्वलक्षणशून्येति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् अनुपलम्भशून्येति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् अभावशून्येति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिः स्वभावशून्येति मनसिकरोति । ताञ् च स्वभवशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जातिर् अभावस्वभावशून्येति मनसिकरोति । ताञ् चाभावस्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः स्पर्शः वेदना तृष्णा उपादानं भवं जातिः जरामरणं स्मृत्युपस्थानानि भावयति । तानि च स्मृत्युपस्थानान्य् उपलभते । तैश् च स्मृत्युपस्थानैर् मन्यते उपलम्भयोगेन । एवं, सम्यक्प्रहणानि ऋद्धिपादान् इन्द्रियाणि बलानि । बोध्यङ्गानि आर्याष्टाङ्गामार्गं आर्यसत्यानि ध्यानानि अप्रमाणानि आरूप्यसमापत्तीः विमोक्षान् अनुपूर्वविहारसमापत्तीः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि अभिज्ञाः समाधीन् धारणीमुखानि तथागतबलानि वैशारद्यानि प्रतिस ं विदः महाकरुणां आवेणिकबुद्धधर्मान् ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणम् अध्यात्मशून्यम् इति मनसिकरोति । ताञ् चाध्यात्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणं बहिर्धाशून्यम् इति मनसिकरोति । ताञ् च बहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणम् अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति । ताञ् चाध्यात्मबहिर्धाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणं शून्यताशून्यम् इति मनसिकरोति । ताञ् च शून्यताशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणं महाशून्यम् इति मनसिकरोति । ताञ् च महाशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणं परमार्थशून्यम् इति मनसिकरोति । ताञ् च परमार्थशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणं संस्कृतशून्यम् इति मनसिकरोति । ताञ् च संस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणम् असंस्कृतशून्यम् इति मनसिकरोति । ताञ् चासंस्कृतशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणम् अत्यन्तशून्यम् इति मनसिकरोति । ताञ् चात्यन्तशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणम् अनवराग्रशून्यम् इति मनसिकरोति । ताञ् चानवराग्रशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणम् अनवकारशून्यम् इति मनसिकरोति । ताञ् चानवकारशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणं प्रकृतिशून्यम् इति मनसिकरोति । ताञ् च प्रकृतिशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणं सर्वधर्मशून्यम् इति मनसिकरोति । ताञ् च सर्वधर्मशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणं स्वलक्षणशून्यम् इति मनसिकरोति । ताञ् च स्वलक्षणशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणम् अनुपलम्भशून्यम् इति मनसिकरोति । ताञ् चानुपलम्भशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणम् अभावशून्यम् इति मनसिकरोति । ताञ् चाभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणं स्वभावशून्यम् इति मनसिकरोति । ताञ् च स्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो जरामरणम् अभावश्वभावशून्यम् इति मनसिकरोति । ताञ् चाभावश्वभावशून्यताम् उपलभते । तथा च शून्यतया मन्यते उपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः स्मृत्युपस्थानानि भावयति । तानि च स्मृत्युपस्थानान्य् उपलभते । तैश् च स्मृत्युपस्थानैर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः सम्यक्प्रहाणानि भावयति । तानि च सम्यक्प्रहाणान्य् उपलभते । तैश् च सम्यक्प्रहाणैर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः ऋद्धिपादान् भावयति । तानि च ऋद्धिपादान् उपलभते । तैश् च ऋद्धिपादैर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः इन्द्रियाणि भावयति । तानि चेन्द्रियाण्य् उपलभते । तैश् चेन्द्रियाणैर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो बलानि भावयति । तानि च बलान्य् उपलभते । तैश् च बलैर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो बोध्यङ्गानि भावयति । तानि च बोध्यङ्गान्य् उपलभते । तैश् च बोध्यङ्गैर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार आर्याष्टाङ्गमार्गं भावयति । ताञ् च आर्याष्टाङ्गमार्गं उपलभते । तेन च आर्याष्टाङ्गमार्गेन मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार आर्यसत्यानि भावयति । तानि चार्यसत्यान्य् उपलभते । तैश् च आर्यसत्यैर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ध्यानानि भावयति । तानि च ध्यानान्य् उपलभते । तैश् च ध्यानैर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽप्रमाणानि भावयति । तानि चाप्रमाण्य् उपलभते । तैश् चाप्रमाणैर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार आरूप्यसमापत्तीर् भावयति । ताञ् चारूप्यसमापत्तीर् उपलभते । ताभिश् चारूप्यसमापत्तिभिर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो विमोक्षान् भावयति । ताञ् च विमोक्षान् उपलभते । तैश् च विमोक्षैर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार् ऽनुपूर्वविहारसमापत्तीर् भावयति । ताञ् चानुपूर्वविहारसमापत्तीर् उपलभते । ताभिश् चानुपूर्वविहारसमापत्तिभिर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयति । तानि च शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् उपलभते । तैश् च शून्यतानिमित्ताप्रणिहितविमोक्षमुखैर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो ऽभिज्ञाः भावयति । ताश् चाभिज्ञा उपलभते । ताभिश् चाभिज्ञाभिर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः समाधीन् भावयति । तांश् च समाधीन् उपलभते । तैश् च समाधिर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो धारणीमुखानि भावयति । तानि च धारणीमुखान्य् उपलभते । तैश् च धारणीमुखैर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारस् तथागतबलानि भावयति । तानि च तथागतबलान्य् उपलभते । तैश् च तथागतबलैर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो वैशारद्यानि भावयति । तानि च वैशारद्यान्य् उपलभते । तैश् च वैशारद्यैर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारः प्रतिस ं विदो भावयति । ताश् च प्रतिस ं विद उपलभते । ताभिश् च प्रतिस ं विद्भिर् मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकारो महाकरुणां भावयति । ताञ् च महाकरुणाम् उपलभते । ताय च महाकरुणाय मन्यते उपलम्भयोगेन ।
स प्रज्ञापारमितायाञ् चरन्न् अपगतसर्वाकारज्ञता प्रतिसंयुक्तमनसिकार आवेणिकबुद्धधर्मान् भावयति । तांश् च बुद्धधर्मान् उपलभते । तैश् च बुद्धधर्मैर् मन्यते उपलम्भयोगेन ।
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् उपायकुशल इमं प्रज्ञापारमितानिर्देशात् श्रुत्वोत्त्रस्यति सन्त्रस्यति सन्त्रासम् आपद्यते । आह । कथ ं भगवन् बोधिसत्त्वो महासत्त्वः पापमित्रहस्तगतो भवति । येन पापमित्रेण परिगृहीत इमं प्रज्ञापारमितानिर्देशं श्रुत्वोत्त्रस्यति सन्त्रस्यति सन्त्रासम् आपद्यते । भगवान् आह । इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं यः प्रज्ञापारमितायां चरन्तं विरेचयति विछन्दयति । ध्यानपारमितायाञ् चरन्तं विरेचयति विछन्दयति । वीर्यपारमितायां चरन्तं विरेचयति विछन्दयति । क्षान्तिपारमितायां चरन्तं विरेचयति विछन्दयति । शीलपारमितायाञ् चरन्तं विरेचयति विछन्दयति । दानपारमितायाञ् चरन्तं विरेचयति विछन्दयति । नात्र शिक्षितव्यं । नैतत् तथागतभाषितं नैष धर्मो न विनयः । कुवितर्का एते सूत्रान्ताः नैते श्रोतव्याः नोद्ग्रहीतव्याः न धारयितव्याः न वाचयितव्याः न पर्यवाप्तव्याः । न योनिशो मनसि कर्तव्याः नैते परेभ्यो देशयितव्याः । इत्य् अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम् ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं यो ऽस्मै न मारकर्माण्य् उपदिशति । न मारदोषान् आचष्टे इति । मारः पापीयान् बुद्धवेषेनोपसंक्रम्य बोधिसत्त्वं महासत्त्वं षड्भ्यः पारमिताभ्यो विरेचयति विछन्दयति । किन् ते कुलपुत्र प्रज्ञापारमितया भाषितया । किन् ते ध्यानपारमितया भाषितया । किन् ते वीर्यपारमितया भाषितया । किन् ते क्षान्तिपारमितया भाषितया । किन् ते शीलपारमितया भाषिताया । किन् ते दानपारमितया भाषितया । इत्य् एवं बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम् ।
पुनर् अपरं सुभूते मारः पापीयान् बुद्धरूपेण बोधिसत्त्वं महासत्त्वम् उपसंक्रम्य श्रावकप्रतिसंयुक्तसूत्रं गेयं व्याकरणं गाथोदाननिदानेत्युक्तकजातकवैपुल्याद्भुतधर्मावदानोपदेशं देशयति । विवृणोति विभजते उत्तानीकरोति स ं प्रकाशयति । य इमान्य् एवंरूपाणि मारकर्माणि नाचष्टे न बोधयत्य् अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम् ।
पुनर् अपरं सुभूते मारः पापीयान् बुद्धवेषेण बोधिसत्त्वं महासत्त्वम् उपसंक्रम्यैवं वदति । न ते किञ्चित् कुलपुत्र बोधिचित्तं नापि त्वम् अवैवर्तिको न त्वं शक्यस्य् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बोद्धुम् । य इमान्य् एवंरूपाणि मारकर्माणि नाचष्टे न बोधयति । अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं बोधितव्यम् ।
पुनर् अपरं सुभूते मारः पापीयान् बुद्धवेषेण बोधिसत्त्वं महासत्त्वम् उपसंक्रम्यैवं वदति । चक्षुः कुलपुत्र शून्यम् आत्मनात्मीयेन वा । श्रोत्रं शून्यम् आत्मनात्मीयेन वा । घ्राणां शून्यम् आत्मनात्मीयेन वा । जिह्वा शून्यात्मनात्मीयेन वा । कायः शून्य आत्मनात्मीयेन वा । मनः शून्यम् आत्मनात्मीयेन वा । रूपं शून्यम् आत्मनात्मीयेन वा । शब्दः शून्य आत्मनात्मीयेन वा । गन्धः शून्य आत्मनात्मीयेन वा । रसः शून्य आत्मनात्मीयेन वा । स्पर्शः शून्य आत्मनात्मीयेन वा । धर्मः शून्य आत्मनात्मीयेन वा । चक्षुर्विज्ञानं शून्यम् आत्मनात्मीयेन वा । श्रोत्रविज्ञानं शून्यम् आत्मनात्मीयेन वा । घ्राणविज्ञानं शून्यम् आत्मनात्मीयेन वा । जिह्वाविज्ञानं शून्यम् आत्मनात्मीयेन वा । कायविज्ञानं शून्यम् आत्मनात्मीयेन वा । मनोविज्ञानं शुन्यम् आत्मनात्मीयेन वा । चक्षुःसंस्पर्शः शून्य आत्मनात्मीयेन वा । श्रोत्रसंस्पर्शः शून्य आत्मनात्मीयेन वा । घ्राणसंस्पर्शः शून्य आत्मनात्मीयेन वा । जिह्वासंस्पर्शः शून्य आत्मनात्मीयेन वा । कायसंस्पर्शः शून्य आत्मनात्मीयेन वा । मनःसंस्पर्शः शून्य आत्मनात्मीयेन वा । चक्षुःसंस्पर्शप्रत्ययवेदना शून्यात्मनात्मीयेन वा । श्रोत्रसंस्पर्शप्रत्ययवेदना शून्यात्मनात्मीयेन वा । घ्राणसंस्पर्शप्रत्ययवेदना शून्यात्मनात्मीयेन वा । जिह्वासंस्पर्शप्रत्ययवेदना शून्यात्मनात्मीयेन वा । कायसंस्पर्शप्रत्ययवेदना शून्यात्मनात्मीयेन वा । मनःसंस्पर्शप्रत्ययवेदना शून्यात्मनात्मीयेम वा ।
पृथिवीधातुः शून्य आत्मनात्मीयेन वा । अब्धातुः शून्य आत्मनात्मीयेन वा । तेजोधातुः शून्य आत्मनात्मीयेन वा । वायुधातुः शून्य आत्मनात्मीयेन वा । आकाशधातुः शून्य आत्मनात्मीयेन वा । विज्ञानधातुः शून्य आत्मनात्मीयेन वा । अविद्या शून्यात्मनात्मीयेन वा । संस्काराः शून्या आत्मनात्मीयेन वा । विज्ञानं शून्यम् आत्मनात्मीयेन वा । नामरूपं शून्यम् आत्मनात्मीयेन वा । षडायतनं शून्यम् आत्मनात्मीयेन । स्पर्शः शून्य आत्मनात्मीयेन वा । वेदना शून्यात्मनात्मीयेन वा । तृष्णा शून्यात्मनात्मीयेन वा । उपादानशून्यम् आत्मनात्मीयेन वा । भवः शून्य आत्मनात्मीयेन वा । जातिः शून्यात्मनात्मीयेन वा । जरामरणं शून्यात्मनात्मीयेन वा ।
दानपारमिता शून्यात्मनात्मीयेन वा । शीलपारमिता शून्यात्मनात्मीयेन वा । क्षान्तिपारमिता आत्मनात्मीयेन वा । वीर्यपारमिता शून्यात्मनात्मीयेन वा । ध्यानपारमिता शून्यात्मनात्मीयेन वा । प्रज्ञापारमिता शून्यात्मनात्मीयेन वा ।
अध्यात्मशून्यता शून्यात्मनात्मीयेन वा । बर्हिर्धाशून्यता शून्यात्मनात्मीयेन वा । अध्यात्मबहिर्धाशून्यता शून्यात्मनात्मीयेन वा । शून्यताशून्यता शून्यात्मनात्मीयेन वा । महाशून्यता शून्यात्मनात्मीयेन वा । परमार्थशून्यता शून्यात्मनात्मीयेन वा । संस्कृतशून्यता शून्यात्मनात्मीयेन वा । असंस्कृतशून्यता शून्यात्मनात्मीयेन वा । अत्यन्तशून्यता शून्यात्मनात्मीयेन वा । अनवराग्रशून्यता शून्यात्मनात्मीयेन वा । अनवकारशून्यता शून्यात्मनात्मीयेन वा । प्रकृतिशून्यता शून्यात्मनात्मीयेन वा सर्वधर्मशून्यता शून्यात्मनात्मीयेन वा । स्वलक्षणशून्यता शून्यात्मनात्मीयेन वा । अनुपलम्भशून्यता शून्यात्मनात्मीयेन वा । अभावशून्यता शून्यात्मनात्मीयेन वा । स्वभावशून्यता शून्यात्मनात्मीयेन वा । अभावस्वभावशून्यता शून्यात्मनात्मीयेन वा ।
स्मृत्युपस्थानानि शून्यान्य् आत्मनात्मीयेन वा । सम्यक्प्रहाणानि शून्यान्य् आत्मनात्मीयेन वा । ऋद्धिपादाः शून्या आत्मनात्मीयेन वा । इन्द्रियाणि शून्यान्य् आत्मनात्मीयेन वा । बलानि शून्यान्य् आत्मनात्मीयेन वा । बोध्यङ्गानि शून्यान्य् आत्मनात्मीयेन वा । आर्याष्टाङ्गमार्गः शून्य आत्मनात्मीयेन वा । आर्यसत्यानि शून्यान्य् आत्मनात्मीयेन वा । ध्यानानि शून्यान्य् आत्मनात्मीयेन वा । अप्रमाणानि शून्यान्य् आत्मनात्मीयेन वा । आरूप्यसमापत्तयः शून्या आत्मनात्मीयेन वा । विमोक्षाः शून्या आत्मनात्मीयेन वा । अनुपूर्वविहारसमापत्तयः शून्या आत्मनात्मीयेन वा । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्या आत्मनात्मीयेन वा । समाधायः शून्या आत्मनात्मीयेन वा । धारणीमुखानि शून्यन्य् आत्मनात्मीयेन वा । तथागतबलानि शून्यान्य् आत्मनात्मीयेन वा । वैशारद्यानि शून्यान्य् आत्ममात्मीयेन वा । प्रतिस ं विदः शून्या आत्मनात्मीयेन वा । महाकरुणा शून्यात्मनात्मीयेन वा । अवेणिकबुद्धधर्माः शून्या आत्मनात्मीयेन वा । किं करिष्यस्य् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्य ।
य इमान्य् एवंरूपाणि मारकर्माणि नाचष्टे नोपदिशत्य् अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम् ।
पुनर् अपरं सुभूते मारः पापीयान् बुद्धवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वम् एवं वदति । शून्या कुलपुत्र पूर्वा दिग् बुद्धैर् भगवद्भिर् बोधिसत्त्वैः श्रावकैश् च । वात्र बुद्धाः न बोधिसत्त्वाः न श्रावकाः । एवं शून्या दक्षिणा दिक् पश्चिमा उत्तरा अधस्ताद् उपरिष्टात् यावत् समन्ताद् दशदिशः शून्या बुद्धैर् भगवद्भिर् बोधिसत्त्वैः श्रावकैश् च । नात्र बुद्धा न बोदिसत्त्वा न श्रावकाः । य इमान्य् एवंरूपाणि मारकर्माणि नाचष्टे नोपदिशत्य् अयं बोधिसत्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम् ।
पुनर् अपरं सुभूते मारः पापीयान् श्रावकवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वं सर्वाकारज्ञताप्रतिसंयुक्तमनसिकारेभ्यो विरेचयति । श्रावकप्रत्येकबुद्धप्रतिसंयुक्तमनसिकारैर् अवदत्य् अनुशास्ति । य एवंरूपाणि मारकर्माणि नाचष्टे नोपदिशत्य् अयं बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम् ।
पुनर् अपरं सुभूते मारः पापीयान् उपाध्यायाचार्यवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वं बोधिसत्त्वचर्याया विरेचयोः सर्वाकारज्ञताप्रतिसंयुक्तमनसिकारेभ्यो विरेचयति । स्मृत्युपस्थानेषु नियोजयति । सम्यक्प्रहाणेषु नियोजयति । ऋद्धिपादेषु नियोजयति । बलेषु नियोजयति । बोध्यङ्गेषु नियोजयति । आर्याष्टाङ्गमार्गेषु नियोजयति । आर्यसत्येषु नियोजयति । ध्यानेषु नियोजयति अप्रमाणेषु नियोजयति । आरूप्यसमापत्तिषु मियोजयति । विमोक्षेषु नियोजयति । अनुपूर्ववहारसमापत्तिषु नियोजयति । शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु नियोजयति । एवं त्वं कुलपुत्रेमान् धर्मान् भाषित्वा श्रावकभूमिं साक्षात् कुरु किं करिष्यस्य् अनुत्तरया सम्यक्स ं बोध्या । य एवंरूपाणि मारकर्माणि नाचष्टे नोपदिशत्य् अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम् ।
पुनर् अपरं सुभूते मारः पापीयान् मातापितृवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वम् एवं वदति यत्र कुलपुत्र श्रोतआपत्तिफलसाक्षात्क्रिया । सकृदागामिफलसाक्षात्क्रिया । अनागामिफलसाक्षात्क्रिया । अर्हत्त्वसाक्षात्क्रिया । प्रत्येकबुद्धसाक्षात्क्रिया । तत्र योगम् आपद्यत । किन् ते ऽनुत्तरया सम्यक्स ं बोध्याभिस ं बुद्धया । यस्याः कृते ऽप्रमेया संख्येयान् कल्पान् संशरन्न् अपरिमाणान् हस्तपादशिरच्छेदान् अनुभविष्यसि । य इमान्य् एवंरूपाणि मारकर्माणि न बोधयति नाचष्टे नोपदिशत्य् अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम् ।
पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेणो बोधिसत्त्वं महासत्त्वम् उपसंक्रम्य अनात्मेति शान्तम् इति शून्यम् इति । अनिमित्तम् इति अप्रणिहितम् इत्य् अनभिसंस्कारं इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति । वेदनानित्येत्य् अनुपलम्भयोगेनोपदिशति । वेदना दुःखेत्य् अनात्मेति शान्तेति शून्येति अनिमित्तेति । अप्रणिहितेति अनभिसंस्कारेति विविक्तेति उपलम्भयोगेनोपदिशति । संज्ञा अनित्येत्य् उपलम्भयोगेनोपदिशति । संज्ञा दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारेति विविक्तेति उपलम्भयोगेनोपदिशति । संस्कारा अनित्या इति उपलम्भयोगेनोपदिशति । संस्कारा दुःखा इति अनात्मा न इति शान्ता इति शून्या इति आनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इत्य् उपलम्भयोगेनोपदिशति । विज्ञानम् अनित्यम् इत्य् उपलम्भयोगेनोपदिशति । विज्ञानं दुःखम् इत्य् अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति ।
चक्षुर् अनित्यम् इति दुःखम् इत्य् अनात्मेति शान्तम् इति शून्यम् इति अनभिज्ञम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति । घ्राणम् अनित्यम् इति । अथायुष्मान् सुभुतिर् भगवन्तम् एतद् अवोचत् । बोधिसत्त्वो महासत्त्व इति भगवन्न् उच्यते । को ऽस्य पदार्थः । एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत् । अपदार्थः सुभूते बोधिसत्त्वपदार्थः । तत् कस्य हेतोर् अनुत्पादा बोधिर् अनुत्पादः सत्त्वः । न हि सुभूते बोधौ पदम् अस्ति न सत्त्वे तस्माद् अपदार्थो बोधिसत्त्वपदार्थः । तद्यथापि नाम सुभूते आकाशे शकुनेः पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते स्वप्ने पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते मायायाः पदं न विद्यते एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम मरीच्याः पदं न विद्यते एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते उदकचन्द्रस्य पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम प्रतिश्रुत्कायाः पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते प्रतिभासस्य पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते प्रतिबिम्बस्य पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतनिर्मितस्य पदं न विद्यते । एवम् एव बोधिसत्त्व्पदार्थो न विद्यते । तद्यथापि नाम सुभूते भूतकोट्याः पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते । तथतायाः पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते अवितथतायाः पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते अनन्यतथतायाः पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते धर्मतायाः पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते धर्मधातोः पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते धर्मस्थितितायाः पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते धर्मनियामतायाः पदं न विश्वते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य रूपे पदं न विद्यते । वेदनायां पदं न विद्यते संज्ञायां पदं न विद्यते संस्कारेषु पदं न विद्यते विज्ञाने पदं न विद्यते संस्कारेषु पदं न विद्यते विज्ञाने पदं न विद्यते ।
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुषि पदं न विद्यते श्रोत्रे पदं न विद्यते घ्राणे पदं न विद्यते जिह्वायां पदं न विद्यते काये पदं न विद्यते मनसि पदं न विद्यते ।
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुर्विज्ञने पदं न विद्यते श्रोत्रविज्ञाने पदं न विद्यते घ्राणविज्ञाने पदं न विद्यते जिह्वाविज्ञाने पदं न विद्यते कायविज्ञाने पदं न विद्यते । मनोविज्ञाने पदं न विद्यते ।
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुःसंस्पर्शे पदं न विद्यते श्रोत्रसंस्पर्शे पदं न विद्यते । घ्राणसंस्पर्शे पदं न विद्यते जिह्वासंस्पर्शे पदं न विद्यते कायसंस्पर्शे पदं न विद्यते । मनःसंस्पर्शे पदं न विद्यते ।
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुःसंस्पर्शप्रत्ययवेदयिते पदं न विद्यते श्रोत्रसंस्पर्शप्रत्ययवेदयिते पदं न विद्यते घ्राणसंस्पर्शप्रत्ययवेदयिते पदं न विद्यते जिह्वासंस्पर्शप्रत्ययवेदयिते पदं न विद्यते कायसंस्पर्शप्रत्ययवेदयिते पदं न विद्यते । मनःसंस्पर्शप्रत्ययवेदयिते पदं न विद्यते ।
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्याविद्यायां पदं न विद्यते संस्कारेषु पदं न विद्यते विज्ञाने पदं न विद्यते नाम रूपे पदं न विद्यते षडायतने पदं न विद्यते स्पर्शे पदं न विद्यते वेदनायां पदं न विद्यते तृष्णायां पदं न विद्यते उपादाने पदं न विद्यते भवे पदं न विद्यते । जातौ पदं न विद्यते जरामरणे पदं न विद्यते ।
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य दानपारमितायां चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य शीलपारमितायां चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य क्षान्तिपारमितायां चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य वीर्यपारमितायाञ् चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापरुषस्य ध्यानपारमितायाञ् चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य प्रज्ञापारमितायाञ् चरतः पदार्थो न विद्येते ।
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाश् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्याध्यात्मशून्यतायाञ् चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य बहिर्धाशून्यतायाञ् चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्याध्यात्मबहिर्धाशून्यतायाञ् चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य शून्यताशून्यतायाञ् चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य महाशून्यतायाञ् चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य परमार्थशून्यतायाञ् चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य संस्कृतशून्यतायाञ् चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्यासंस्कृतशून्यतायाञ् चरतः पदार्थो न विद्यते । तद्यधापि नाम सुभूते मायापुरुषस्यात्यन्तशून्यतायाञ् चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्यानव्राग्रशून्यतायाञ् चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्यानवकारशून्यतायाञ् चरत पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य प्रकृतिशून्यतायाञ् चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य सर्वधर्मशून्यतायाञ् चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य स्वलक्षणशून्यतायाञ् चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्यानुपलम्भशून्यतायाञ् चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्याभावशून्यतायाञ् चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य स्वभावशून्यतायाञ् चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्याभावस्वभावशून्यतायाञ् चरतः पदार्थो न विद्यते ।
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य स्मृत्युपस्थानेषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य सम्यक्प्रहाणेषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्यर्धिपादेषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्येन्द्रियेषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य बलेषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य बोध्यङ्गेषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्यार्याष्टाङ्गमार्गे चरतः पदार्थो न विद्यते ।
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्यार्यसत्येषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य ध्यानेषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्याप्रमाणेषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्यारूप्यसमापत्तिषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्याष्टसु विमोक्षेषु चरतः पदा दुःखम् इत्य् अनात्मेति शान्तम् इति शून्यम् इत्य् अनिमित्तम् इत्य् अप्रणिहितम् इत्य् अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति । जिह्वानित्येति दुःखेत्य् अनात्मेति शान्तेति शून्येत्य् अनिमित्तेत्य् अप्रणिहितेत्य् अनभिसंस्कार इति विविक्तेत्य् उपलम्भयोगेनोपदिशति । कायो ऽनित्य इति दुःख इत्य् अनात्मेति शान्त इति शून्य इत्य् अनिमित्त इत्य् अप्रणिहित इत्य् अनभिसंस्कार इति विविक्त इत्य् उपलम्भयोगेनोपदिशति । मनो ऽनित्यम् इति दुःखम् इत्य् अनात्मेति शान्तम् इति शून्यम् इत्य् अनिमित्तम् इत्य् अप्रणिहितम् इत्य् अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति ।
रूपम् अनित्यम् इति दुःखम् इत्य् अनात्मेति शान्तम् इति शून्यम् इत्य् अनिमित्तम् इत्य् अप्रणिहितम् इत्य् अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति । शब्दम् अनित्यम् इति दुःखम् इत्य् अनात्मेति शान्तम् इति शून्यम् इत्य् अनिमित्तम् इत्य् अप्रणिहित्म् इत्य् अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति । गन्धो ऽनित्य इति दुःख इत्य् अनात्मेति शान्त इति शून्य इत्य् अनिमित्त इत्य् अप्रणिहित इत्य् अनभिसंस्कार इति विविक्त इत्य् उपलम्भयोगेनोपदिशति । रसो ऽनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इत्य् उपलम्भयोगेनोपदिशति । स्पर्शो ऽनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इत्य् उपलम्भयोगेनोपदिशति । धर्मा अनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इत्य् उपलम्भद्भयोगेनोपदिशति ।
चक्षुर्विज्ञानम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति । श्रोत्रविज्ञानम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति । अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति । घ्राणविज्ञानम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति । अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति । जिह्वाविज्ञानम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति । कायविज्ञानम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति । मनोविज्ञानम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इत्य् उपलम्भयोगेनोपदिशति ।
चक्षुःसंस्पर्शो ऽनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति । अनभिसंस्कार इति विविक्त इत्य् उपलम्भयोगेनोपदिशति । श्रोत्रसंस्पर्शो ऽनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति आनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इत्य् उपलम्भयोगेनोपदिशति । घ्राणसंस्पर्शो ऽनित्य इति दुःख इति । अनात्मेति शान्त इति शून्य इति निमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इत्य् उपलम्भयोगेनोपदिशति ।
जिह्वासंस्पर्शो ऽनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति । विविक्त इत्य् उपलम्भयोगेनोपदिशति । कायसंस्पर्शो ऽनित्य इति दुःख इति अनात्मा इति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपम्भयोगेनोपदिशति । मनःसंस्पर्शो ऽनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति ।
चक्षुःसंस्पर्शप्रत्ययवेदितम् अनित्यम् इति दुःखम् इति अमात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति । श्रोत्रसंस्पर्शप्रत्ययवेदितम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति । अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति । घ्राणसंशप्रत्ययवेदितम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति । विविक्तम् इति उपलम्भयोगेनोपदिशति । जिह्वासंस्पर्शप्रत्ययवेदितम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति ।
कायसंस्पर्शप्रत्ययवेदितम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति । मनःसंस्पर्शप्रत्ययवेदितम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति ।
पृथिवीधातुर् अनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति । अब्धातुर् अनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति । तेजोधातुर् अनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति आनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति । वायुधातुर् अनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति । आकाशधातुर् अनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति ।
विज्ञानधातुर् अनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति । अविद्यानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कार इति विविक्तेति उपलम्भयोगेनोपदिशति । संस्कारा अनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इत्य् उपलम्भयोगेनोपदिशति । विज्ञानम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति । नामरूपम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति । षडायतनम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति । स्पर्शो ऽनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति । अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति । वेदनानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । तृष्णानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । उपादानम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति । भवो ऽनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति । जातिर् अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । जरामरणम् अनित्यम् इति दुःखम् इति अनात्मेति शान्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति अनभिसंस्कार इति विविक्तम् इति उपलम्भयोगेनोपदिशति ।
दानपारमितानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । शीलपारमितानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । क्षान्तिपारमितानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । वीर्यपारमितानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । ध्यानपारमितानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । प्रज्ञापारमितानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति ।
अध्यात्मशून्यतानित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । बहिर्धाशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । अध्यात्मबहिर्धाशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । शून्यताशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । महाशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । परमार्थशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । संस्क्र्तशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । असंस्कृतशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । अत्यन्तशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । अनवराग्रशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । अनवकारशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । प्रकृतिशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । सर्वधर्मशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । स्वलक्षणशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । अनुपलम्भशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । अभावशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । स्वभावशून्यता अनित्येति दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति । अभावस्वभावशून्यता अनित्येति
दुःखेति अनात्मेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारा इति विविक्तेति उपलम्भयोगेनोपदिशति ।
स्मृत्युपस्थानानि अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्कारा इति विविक्तानीति उपलम्भयोगेनोपदिशति । सम्यक्प्रहाणान्य् अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्कारा इति विविक्तानीति उपलम्भयोगेनोपदिशति । ऋद्धिपादा अनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इति उपलम्भयोगेनोपदिशति । इन्द्रियाण्य् अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति । बलान्य् अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति । बोध्यङ्गान्य् अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति । आर्याष्टाङ्गमार्गो ऽनित्य इति दुःख इति अनात्मेति शान्त इति शून्य इति अनिमित्त इति अप्रणिहित इति अनभिसंस्कार इति विविक्त इति उपलम्भयोगेनोपदिशति । आर्यसत्यान्य् अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति । ध्यानान्य् अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति । अप्रमाणान्य् अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति । आरूप्यसमापत्तयो ऽनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इति उपलम्भयोगेनोपदिशति । विमोक्षा अनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इति उपलम्भयोगेनोपदिशति । अनुपूर्वविहारसमापत्तयो ऽनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इति उपलम्भयोगेनोपदिशति । शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति । अभिज्ञा अनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति
विविक्ता इति उपलम्भयोगेनोपदिशति । समाधयो ऽनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इति उपलम्भयोगेनोपदिशति ।
धारणीमुखानि अनित्यानि दुःखानि अनात्मानि शान्तानि शून्यानि अनिमित्तानि अप्रणिहितानि अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति । तथागत्बलानि अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति । वैशारद्यानि अनित्यानीति दुःखानीति अनात्मानीति शान्तानीति शून्यानीति अनिमित्तानीति अप्रणिहितानीति अनभिसंस्काराणीति विविक्तानीति उपलम्भयोगेनोपदिशति । प्रतिस ं विदो ऽनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इति उपलम्भयोगेनोपदिशति । महामैत्री अनित्या इति दुःखा इति अनात्मानेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारेति विविक्तेति उपलम्भयोगेनोपदिशति । महाकरुणा अनित्येति दुःखेति अनात्मानेति शान्तेति शून्येति अनिमित्तेति अप्रणिहितेति अनभिसंस्कारेति विविक्तेति उपलम्भयोगेनोपदिशति । आवेणिकबुद्धधर्मा अनित्या इति दुःखा इति अनात्मान इति शान्ता इति शून्या इति अनिमित्ता इति अप्रणिहिता इति अनभिसंस्कारा इति विविक्ता इति उपलम्भयोगेनोपदिशति । य एकरूपाणि मारकर्माणि नाचष्टे नोपदिशत्य् अयं बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यं । एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेम पापमित्राणि वेदितव्यानि । विदित्वा च परिवर्जयितव्यानि ॥
शतसाहस्र्यां प्रज्ञापारमितायाः षष्ठः परिवर्तः ॥
अथ सप्तमः परिवर्तः ।
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् । बोधिसत्त्वो महासत्त्व इति भगवत्य् उच्यते, को ऽस्य पदार्थः । एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत् । अपदार्थः सुभूते बोधिसत्त्वपदार्थः । तत् कस्य हेतोर् अनुत्पादो बोधिर् अनुत्पादः सत्त्वः । न हि सुभूते बोधौ पदम् अस्ति न वा सत्त्वे तस्माद् अपदार्थो बोधिसत्त्वपदार्थः तद्यथापि नाम सुभूते आकाशे शकुनेः पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम स्वप्ने पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते मायायाः पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते मरीच्याः पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते उदकचन्द्रस्य पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते प्रतिश्रुत्कायाः पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते प्रतिभासस्य पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते बिम्बस्य पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतनिर्मितस्य पदं न विद्यते । एवम् एव बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते मायापुरुषस्यार्याष्टाङ्गमार्गे चरतः पदार्थो न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्यार्यसत्येषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य ध्यानेषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्याप्रमाणेषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्यारूप्यसमापत्तिषु चरतः पदाथो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्याष्टसु विमोक्षेषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य नवस्व् अनुपूर्वविहारसमापत्तिषु चरतः पदं न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य शून्यतानिमित्ताप्रणिहितविमोक्षेषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्याभिज्ञासु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य समाधिषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य धारणीमुखेषु चरतः पदार्थो न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते मायापुरुषस्य तथागतबलेषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य वैशारद्येषु चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य प्रतिस ं वित्सु चरतः पदार्थो न विद्यते । तद्यधापि नाम सुभूते मायापुरुषस्य महामैत्र्यां चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्य महाकरुणायां चरतः पदार्थो न विद्यते । तद्यथापि नाम सुभूते मायापुरुषस्यावेणिकबुद्धधर्मेषु चरतः पदार्थो न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य रूपे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य रूपस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य वेदनायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्या वेदनायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य संज्ञायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः संज्ञायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य संस्कारेषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तेषां संस्काराणां ।
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य विज्ञाने पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य विज्ञानस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य चक्षुषि पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य चक्षुषः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य श्रोत्रे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य श्रोत्रस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य घ्राणे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य घ्राणस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य जिह्वायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य जिह्वायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य काये पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य कायस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य मनसि पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य मनसः ।
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य रूपे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य रूपस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य शब्दे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य शब्दस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य गन्धे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य गन्धस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य रसे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य रस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य स्पर्शे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य स्पर्शस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य धर्मेषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य धर्माणां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य चक्षुर्विज्ञाने पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य चक्षुर्विज्ञानस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य श्रोत्रविज्ञाने पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य श्रोत्रविज्ञानस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य घ्राणविज्ञाने पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य घ्राणविज्ञानस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य जिह्वाविज्ञाने पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य जिह्वाविज्ञानस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य कायविज्ञाने पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य कयविज्ञानस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य मनोविज्ञाने पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य मनोविज्ञानस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य चक्षुःसंस्पर्शे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य चक्षुःसंस्पर्शस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य श्रोत्रसंस्पर्शे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य श्रोत्रसंस्पर्शस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य घ्राणसंस्पर्शे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य घ्राणसंस्पर्शस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य जिह्वासंस्पर्शे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य जिह्वासंस्पर्शस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य कायसंस्पर्शे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य कायसंस्पर्शस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य मनःसंस्पर्शे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य मनःसंस्पर्शस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य चक्षुःसंस्पर्शे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य चक्षुःसंस्पर्शप्रत्ययवेदितस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य श्रोत्रसंस्पर्शप्रत्ययवेदिते पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य श्रोत्रसंस्पर्शप्रत्ययवेदितस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य घ्राणसंस्पर्शप्रत्ययवेदिते पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य घ्राणसंस्पर्शप्रत्ययवेदितस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य जिह्वासंस्पर्शप्रत्ययवेदिते पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य जिह्वासंस्पर्शप्रत्ययवेदितस्य ।
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य कायसंस्पर्शप्रत्ययवेदिते पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य कायसंस्पर्शप्रत्ययवेदितस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य मनःसंस्पर्शप्रत्ययवेदिते पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य मनःसंस्पर्शप्रत्ययवेदितस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्याविद्यायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य अविद्यायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य संस्कारेषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तेषां संस्काराणाम् । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य विज्ञाने पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य विज्ञानस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य नामरूपे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामरूपस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य षडायतने पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य षडायतनस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य स्पर्शे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य स्पर्शस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य वेदनायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्या वेदनायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य तृष्णायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः तृष्णायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्योपादाने पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्योपादानस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य भवे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य भवस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य जातौ पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्या जातेः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य जरामरणे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य जरामरणस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य दानपारमितायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्या दानपारमितायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य शीलपारमितायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः शीलपारमितायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य क्षान्तिपारमितायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः क्षान्तिपारमितायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य वीर्यपारमितायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्या वीर्यपारमितायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य ध्यानपारमितायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्या ध्यानपारमितायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य प्रज्ञापारमितायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः प्रज्ञापारमितायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्याध्यात्मशून्यतायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्या अध्यात्मशून्यतायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य बहिर्धाशून्यतायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्या बहिर्धाशून्यतायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्याध्यात्मबहिर्धाशून्यतायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्या अध्यात्मबहिर्धाशून्यतायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य शून्यताशून्यतायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः शून्यताशून्यतायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य महाशून्यतायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्या महाशून्यतायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य परमार्थशून्यतायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः परमार्थशून्यतायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य संस्कृतशून्यतायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः संस्कृतशून्यतायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्यासंस्कृतशून्यतायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्या असंस्कृतशून्यतायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्यात्यन्तशून्यतायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः अत्यन्तशून्यतायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्यानवराग्रशून्यतायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्या अनवराग्रशून्यतायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्यानवकारशून्यतायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्या अनवकारशून्यतायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य प्रकृतिशून्यतायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः प्रकृतिशून्यतायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य सर्वधर्मशून्यतायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः सर्वधर्मशून्यतायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य स्वलक्षणशून्यतायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः स्वलक्षणशून्यतायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्यानुपलम्भशून्यतायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्या अनुपलम्भशून्यतायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्याभावशून्यतायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः अभावशून्यतायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य स्वभावशून्यतायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्याः स्वभावशून्यतायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्याभावस्वभावशून्यतायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्या अभावस्वभावशून्यतायाः ।
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य स्मृत्युपस्थानेषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तेषां स्मृत्युपस्थानानां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य सम्यक्प्रहाणेषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तेषां सम्यक्प्रहाणानां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य ऋद्धिपादेषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तेषाम् ऋद्धिपादानां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य इन्द्रियेषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तेषाम् इन्द्रियाणां ।
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य बलेषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तेषां बलानां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य बोध्यङ्गेषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तेषां बोध्यङ्गानां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य मार्गे पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य मार्गस्य । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्यार्यसत्येषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तेषाम् आर्यसत्यानां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य ध्यानेषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तेषां ध्यानानां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्याप्रमाणेषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तेषाम् अप्रमाणानां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्यारूप्यसमापत्तिषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तासाम् आरूप्यसमापत्तिनां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य विमोक्षेषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तेषां विमोक्षाणां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्यानुपूर्वविहारसमापत्तिषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तासाम् अनुपूर्वविहारसमापत्तीनां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य शून्यतानिमित्ताप्रणिहितविमोक्षेषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तेषां शून्यतानिमित्ताप्रणिहितविमोक्षाणां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्याभिज्ञासु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तासाम् अभिज्ञानां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य समाधिषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तेषां समाधीनां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य धारणीमुखेषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तेषां धारणीमुखानां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य तथागतबलेषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तेषां तथागतबलानां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य चतुर्वैशारद्येषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तेषां वैशारद्यानां ।
एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य चतसृषु प्रतिस ं वित्सु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तासां प्रतिस ं विदां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य महाकरुणायां पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तस्या महाकरुणायाः । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्यावेणिकबुद्धधर्मेषु पदं न विद्यते । तत् कस्य हेतोर् अविद्यमानत्वात् तेषाम् आवेणिकबुद्धधर्माणां । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते ऽसंस्कृतधातौ संस्कृतधातु पदं न विद्यते । संस्कृतधातव् असंस्कृतधातु पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते ऽनुत्पादे पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते ऽनिरोधे पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते ऽसंक्लेशाव्यपदाने पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते ऽनभिसंस्कारे पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते ऽप्रादुर्भावे पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते ऽनुपलम्भे पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते ।
आह । कस्य भगवन्न् अनुत्पादे पदं न विद्यते । कस्यानिरोधे पदं न विद्यते । कस्यासंक्लेशाव्यवदाने पदं न विद्यते । कस्याप्रादुर्भावे पदं न विद्यते । कस्यानभिसंस्कारे पदं न विद्यते । कस्यानुपलम्भे पदं न विद्यते । भगवान् आह । रूपस्य सुभूते ऽनुत्पादे पदं न विद्यते । रूपस्यानिरोधे पदं न विद्यते । रूपस्यासंक्लेशाव्यवदाने पदं न विद्यते । रूपस्यानभिसंस्कारे पदं न विद्यते । रूपस्याप्रादुर्भावे पदं न विद्यते । रूपस्यानुपलम्भे पदं न विद्यते । वेदनायाः सुभूते अनुत्पादे पदं न विद्यते । वेदनाया अनिरोधे पदं न विद्यते । वेदनाया असंक्लेशाव्यवदाने पदं न विद्यते । वेदनाया अनभिसंस्कारे पदं न विद्यते । वेदनाया अप्रादुर्भावे पदं न विद्यते । वेदनाया अनुपलम्भे पदं न विद्यते । संज्ञायाः सुभूते ऽनुत्पादे पदं न विद्यते । संज्ञाया अनिरोधे पदं न विद्यते । संज्ञाया असंक्लेशाव्यवदाने पदं न विद्यते । संज्ञाया अनभिसंस्कारे पदं न विद्यते । संज्ञाया अप्रादुर्भावे पदं न विद्यते । संज्ञाया अनुपलम्भे पदं न विद्यते । संस्काराणां सुभूते ऽनुत्पादे पदं न विद्यते । संस्काराणाम् अनिरोधे पदं न विद्यते । संस्काराणाम् असंक्लेशाव्यवदाने पदं न विद्यते । संस्काराणाम् अनभिसंस्कारे पदं न विद्यते । संस्काराणाम् अप्रादुर्भावे पदं न विद्यते । संस्काराणाम् अनुपलम्भे पदं न विद्यते । विज्ञानस्य सुभूते ऽनुत्पादे पदं न विद्यते । विज्ञानस्यानिरोधे पदं न विद्यते । विज्ञानस्यासंक्लेशाव्यवदाने पदं न विद्यते । विज्ञानस्यानभिसंस्कारे पदं न विद्यते । विज्ञानस्याप्रादुर्भावे पदं न विद्यते । विज्ञानस्यानुपलम्भे पदं न विद्यते ।
चक्षुषः सुभूते ऽनुत्पादे पदं न विद्यते । चक्षुषो ऽनिरोधे पदं न विद्यते । चक्षुषो ऽसंक्लेशाव्यवदाने पदं न विद्यते । चक्षुषो ऽनभिसंस्कारे पदं न विद्यते । चक्षुषो ऽप्रादुर्भावे पदं न विद्यते । चक्षुषो ऽनुपलम्भे पदं न विद्यते । श्रोत्रस्य सुभूते ऽनुत्पादे पदं न विद्यते । श्रोत्रस्यानिरोधे पदं न विद्यते । श्रोत्रस्यासंक्लेशाव्यवदाने पदं न विद्यते । श्रोत्रस्यानभिसंस्कारे पदं न विद्यते । श्रोत्रस्याप्रादुर्भावे पदं न विद्यते । श्रोत्रस्यानुपलम्भे पदं न विद्यते । घ्राणस्य सुभूते ऽनुत्पादे पदं न विद्यते । घ्राणस्यानिरोधे पदं न विद्यते । घ्राणस्यासंक्लेशाव्यवदाने पदं न विद्यते । घ्राणस्यानभिसंस्कारे पदं न विद्यते । घ्राणस्याप्रादुर्भावे पदं न विद्यते । घ्राणस्यानुपलम्भे पदं न विद्यते । जिह्वायाः सुभूते ऽनुत्पादे पदं न विद्यते । जिह्वाया अनिरोधे पदं न विद्यते । जिह्वाया असंक्लेशाव्यवदाने पदं न विद्यते । जिह्वाया अनभिसंस्कारे पदं न विद्यते । जिह्वाया अप्रादुर्भावे पदं न विद्यते । जिह्वाया अनुपलम्भे पदं न विद्यते । कायस्य सुभूते ऽनुत्पादे पदं न विद्यते । कायस्यानिरोधे पदं न विद्यते । कायस्यासंक्लेशाव्यवदाने पदं न विद्यते । कायस्यानभिसंस्कारे पदं न विद्यते । कायस्याप्रादुर्भावे पदं न विद्यते । कायस्यानुपलम्भे पदं न विद्यते । मनसः सुभूते ऽनुत्पादे पदं न विद्यते । मनसो ऽनिरोधे पदं न विद्यते । मनसो ऽसंक्लेशाव्यवदाने पदं न विद्यते । मनसो ऽनभिसंस्कारे पदं न विद्यते । मनसो ऽप्रादुर्भावे पदं न विद्यते । मनसो ऽनुपलम्भे पदं न विद्यते ।
रूपस्य सुभूते ऽनुत्पादे पदं न विद्यते । रूपस्यानिरोधे पदं न विद्यते । रूपस्यासंक्लेशाव्यवदाने पदं न विद्यते । रूपस्यानभिसंस्कारे पदं न विद्यते । रूपस्याप्रादुर्भावे पदं न विद्यते । रूपस्यानुपलम्भे पदं न विद्यते । शब्दस्य सुभूते ऽनुत्पादे पदं न विद्यते । शब्दस्यानिरोधे पदं न विद्यते । शब्दस्यासंक्लेशाव्यवदाने पदं न विद्यते । शब्दस्यानभिसंस्कारे पदं न विद्यते । शब्दस्याप्रादुर्भावे पदं न विद्यते । शब्दस्यानुपलम्भे पदं न विद्यते । गन्धस्य सुभूते ऽनुत्पादे पदं न विद्यते । गन्धस्यानिरोधे पदं न विद्यते । गन्धस्यासंक्लेशाव्यवदाने पदं न विद्यते । गन्धस्यानभिसंस्कारे पदं न विद्यते । गन्धस्याप्रादुर्भावे पदं न विद्यते । गन्धस्यानुपलम्भे पदं न विद्यते । रसस्य सुभूते ऽनुत्पादे पदं न विद्यते । रसस्यानिरोधे पदं न विद्यते । रसस्यासंक्लेशाव्यवदाने पदं न विद्यते । रसस्यानभिसंस्कारे पदं न विद्यते । रसस्याप्रादुर्भावे पदं न विद्यते । रसस्यानुपलम्भे पदं न विद्यते । स्पर्शस्य सुभूते ऽनुत्पादे पदं न विद्यते । स्पर्शस्यानिरोधे पदं न विद्यते । स्पर्शस्यासंक्लेशाव्यवदाने पदं न विद्यते । स्पर्शस्यानभिसंस्कारे पदं न विद्यते । स्पर्शस्याप्रादुर्भावे पदं न विद्यते । स्पर्शस्यानुपलम्भे पदं न विद्यते । धर्माणां सुभूते ऽनुत्पादे पदं न विद्यते । धर्माणाम् अनिरोधे पदं न विद्यते । धर्माणाम् असंक्लेशाव्यवदाने पदं न विद्यते । धर्माणाम् अनभिसंस्कारे पदं न विद्यते । धर्माणाम् अप्रादुर्भावे पदं न विद्यते । धर्माणाम् अनुपलम्भे पदं न विद्यते ।
चक्षुर्विज्ञानस्य सुभूते ऽनुत्पादे पदं न विद्यते । चक्षुर्विज्ञानस्यानिरोधे पदं न विद्यते । चक्षुर्विज्ञानस्यासंक्लेशाव्यवदाने पदं न विद्यते । चक्षुर्विज्ञानस्यानभिसंस्कारे पदं न विद्यते । चक्षुर्विज्ञानस्याप्रादुर्भावे पदं न विद्यते । चक्षुर्विज्ञानस्यानुपलम्भे पदं न विद्यते । श्रोत्रविज्ञानस्य सुभूते ऽनुत्पादे पदं न विद्यते । श्रोत्रविज्ञानस्यानिरोधे पदं न विद्यते । श्रोत्रविज्ञानस्यासंक्लेशाव्यवदाने पदं न विद्यते । श्रोत्रविज्ञानस्यानभिसंस्कारे पदं न विद्यते । श्रोत्रविज्ञानस्याप्रादुर्भावे पदं न विद्यते । श्रोत्रविज्ञानस्यानुपलम्भे पदं न विद्यते । घ्राणविज्ञानस्य सुभूते ऽनुत्पादे पदं न विद्यते । घ्राणविज्ञानस्यानिरोधे पदं न विद्यते । घ्राणविज्ञानस्यासंक्लेशाव्यवदाने पदं न विद्यते । घ्राणविज्ञानस्यानभिसंस्कारे पदं न विद्यते । घ्राणविज्ञानस्याप्रादुर्भावे पदं न विद्यते । घ्राणविज्ञानस्यानुपलम्भे पदं न विद्यते । जिह्वाविज्ञानस्य सुभूते ऽनुत्पादे पदं न विद्यते । जिह्वाविज्ञानस्यानिरोधे पदं न विद्यते । जिह्वाविज्ञानस्यासंक्लेशाव्यवदाने पदं न विद्यते । जिह्वाविज्ञानस्यानभिसंस्कारे पदं न विद्यते । जिह्वाविज्ञानस्याप्रादुर्भावे पदं न विद्यते । जिह्वाविज्ञानस्यानुपलम्भे पदं न विद्यते । कायविज्ञानस्य सुभूते ऽनुत्पादे पदं न विद्यते । कायविज्ञानस्यानिरोधे पदं न विद्यते । कायविज्ञानस्यासंक्लेशाव्यवदाने पदं न विद्यते । कायविज्ञानस्यानभिसंस्कारे पदं न विद्यते । कायविज्ञानस्याप्रादुर्भावे पदं न विद्यते । कायविज्ञानस्यानुपलम्भे पदं न विद्यते । मनोविज्ञानस्य सुभूते ऽनुत्पादे पदं न विद्यते । मनोविज्ञानस्यानिरोधे पदं न विद्यते । मनोविज्ञानस्यासंक्लेशाव्यवदाने पदं न विद्यते । मनोविज्ञानस्यानभिसंस्कारे पदं न विद्यते । मनोविज्ञानस्याप्रादुर्भावे पदं न विद्यते । मनोविज्ञानस्यानुपलम्भे पदं न विद्यते ।
चक्षुःसंस्पर्शस्य सुभूते ऽनुत्पादे पदं न विद्यते । चक्षुःसंस्पर्शस्यानिरोधे पदं न विद्यते । चक्षुःसंस्पर्शस्यासंक्लेशाव्यवदाने पदं न विद्यते । चक्षुःसंस्पर्शस्यानभिसंस्कारे पदं न विद्यते । चक्षुःसंस्पर्शस्याप्रादुर्भावे पदं न विद्यते । चक्षुःसंस्पर्शस्यानुपलम्भे पदं न विद्यते । श्रोत्रसंस्पर्शस्य सुभूते ऽनुत्पादे पदं न विद्यते । श्रोत्रसंस्पर्शस्यानिरोधे पदं न विद्यते । श्रोत्रसंस्पर्शस्यासंक्लेशाव्यवदाने पदं न विद्यते । श्रोत्रसंस्पर्शस्यानभिसंस्कारे पदं न विद्यते । श्रोत्रसंस्पर्शस्याप्रादुर्भावे पदं न विद्यते । श्रोत्रसंस्पर्शस्यानुपलम्भे पदं न विद्यते । घ्राणसंस्पर्शस्य सुभूते ऽनुत्पादे पदं न विद्यते । घ्राणसंस्पर्शस्यानिरोधे पदं न विद्यते । घ्राणसंस्पर्शस्यासंक्लेशाव्यवदाने पदं न विद्यते । घ्राणसंस्पर्शस्यानभिसंस्कारे पदं न विद्यते । घ्राणसंस्पर्शस्याप्रादुर्भावे पदं न विद्यते । घ्राणसंस्पर्शस्यानुपलम्भे पदं न विद्यते । जिह्वासंस्पर्शस्य सुभूते ऽनुत्पादे पदं न विद्यते । जिह्वासंस्पर्शस्यानिरोधे पदं न विद्यते । जिह्वासंस्पर्शस्यासंक्लेशाव्यवदाने पदं न विद्यते । जिह्वासंस्पर्शस्यानभिसंस्कारे पदं न विद्यते । जिह्वासंस्पर्शस्याप्रादुर्भावे पदं न विद्यते । जिह्वासंस्पर्शस्यानुपलम्भे पदं न विद्यते ।
कायसंस्पर्शस्य सुभूते ऽनुत्पादे पदं न विद्यते । कायसंस्पर्शस्यानिरोधे पदं न विद्यते । कायसंस्पर्शस्यासंक्लेशाव्यवदाने पदं न विद्यते । कायसंस्पर्शस्यानभिसंस्कारे पदं न विद्यते । कायसंस्पर्शस्याप्रादुर्भावे पदं न विद्यते । कायसंस्पर्शस्यानुपलम्भे पदं न विद्यते । मनःसंस्पर्शस्य सुभूते ऽनुत्पादे पदं न विद्यते । मनःसंस्पर्शस्यानिरोधे पदं न विद्यते । मनःसंस्पर्शस्यासंक्लेशाव्यवदाने पदं न विद्यते । मनःसंस्पर्शस्यानभिसंस्कारे पदं न विद्यते । मनःसंस्पर्शस्याप्रादुर्भावे पदं न विद्यते । मनःसंस्पर्शस्यानुपलम्भे पदं न विद्यते ।
चक्षुःसंस्पर्शप्रत्ययवेदितस्य सुभूते ऽनुत्पादे पदं न विद्यते । चक्षुःसंस्पर्शप्रत्ययवेदितस्यानिरोधे पदं न विद्यते । चक्षुःसंस्पर्शप्रत्ययवेदितस्यासंक्लेशाव्यवदाने पदं न विद्यते । चक्षुःसंस्पर्शप्रत्ययवेदितस्यानभिसंस्कारे पदं न विद्यते । चक्षुःसंस्पर्शप्रत्ययवेदितस्याप्रादुर्भावे पदं न विद्यते । चक्षुःसंस्पर्शप्रत्ययवेदितस्यानुपलम्भे पदं न विद्यते । श्रोत्रसंस्पर्शप्रत्ययवेदितस्य सुभूते ऽनुत्पादे पदं न विद्यते । श्रोत्रसंस्पर्शप्रत्ययवेदितस्यानिरोधे पदं न विद्यते । श्रोत्रसंस्पर्शप्रत्ययवेदितस्यासंक्लेशाव्यवदाने पदं न विद्यते । श्रोत्रसंस्पर्शप्रत्ययवेदितस्यानभिसंस्कारे पदं न विद्यते । श्रोत्रसंस्पर्शप्रत्ययवेदितस्याप्रादुर्भावे पदं न विद्यते । श्रोत्रसंस्पर्शप्रत्ययवेदितस्यानुपलम्भे पदं न विद्यते । घ्राणसंस्पर्शप्रत्ययवेदितस्य सुभूते ऽनुत्पादे पदं न विद्यते । घ्राणसंस्पर्शप्रत्ययवेदितस्यानिरोधे पदं न विद्यते । घ्राणसंस्पर्शप्रत्ययवेदितस्यासंक्लेशाव्यवदाने पदं न विद्यते । घ्राणसंस्पर्शप्रत्ययवेदितस्यानभिसंस्कारे पदं न विद्यते । घ्राणसंस्पर्शप्रत्ययवेदितस्याप्रादुर्भावे पदं न विद्यते । घ्राणसंस्पर्शप्रत्ययवेदितस्यानुपलम्भे पदं न विद्यते । जिह्वासंस्पर्शप्रत्ययवेदितस्य सुभूते ऽनुत्पादे पदं न विद्यते । जिह्वासंस्पर्शप्रत्ययवेदितस्यानिरोधे पदं न विद्यते । जिह्वासंस्पर्शप्रत्ययवेदितस्यासंक्लेशाव्यवदाने पदं न विद्यते । जिह्वासंस्पर्शप्रत्ययवेदितस्यानभिसंस्कारे पदं न विद्यते । जिह्वासंस्पर्शप्रत्ययवेदितस्याप्रादुर्भावे पदं न विद्यते । जिह्वासंस्पर्शप्रत्ययवेदितस्यानुपलम्भे पदं न विद्यते । कायसंस्पर्शप्रत्ययवेदितस्य सुभूते ऽनुत्पादे पदं न विद्यते । कायसंस्पर्शप्रत्ययवेदितस्यानिरोधे पदं न विद्यते । कायसंस्पर्शप्रत्ययवेदितस्यासंक्लेशाव्यवदाने पदं न विद्यते । कायसंस्पर्शप्रत्ययवेदितस्यानभिसंस्कारे पदं न विद्यते । कायसंस्पर्शप्रत्ययवेदितस्याप्रादुर्भावे पदं न विद्यते । कायसंस्पर्शप्रत्ययवेदितस्यानुपलम्भे पदं न विद्यते । मनःसंस्पर्शप्रत्ययवेदितस्य सुभूते ऽनुत्पादे पदं न विद्यते । मनःसंस्पर्शप्रत्ययवेदितस्यानिरोधे पदं न विद्यते । मनःसंस्पर्शप्रत्ययवेदितस्यासंक्लेशाव्यवदाने पदं न विद्यते । मनःसंस्पर्शप्रत्ययवेदितस्यानभिसंस्कारे पदं न विद्यते । मनःसंस्पर्शप्रत्ययवेदितस्याप्रादुर्भावे पदं न विद्यते । मनःसंस्पर्शप्रत्ययवेदितस्यानुपलम्भे पदं न विद्यते ।
पृथिवीधातोः सुभूते ऽनुत्पादे पदं न विद्यते । पृथिवीधातोर् अनिरोधे पदं न विद्यते । पृथिवीधातोर् असंक्लेशाव्यवदाने पदं न विद्यते । पृथिवीधातोर् अनभिसंस्कारे पदं न विद्यते । पृथिवीधातोर् अप्रादुर्भावे पदं न विद्यते । पृथिवीधातोर् अनुपलम्भे पदं न विद्यते । अब्धातोः सुभूते ऽनुत्पादे पदं न विद्यते । अब्धातोर् अनिरोधे पदं न विद्यते । अब्धातोर् असंक्लेशाव्यवदाने पदं न विद्यते । अब्धातोर् अनभिसंस्कारे पदं न विद्यते । अब्धातोर् अप्रादुर्भावे पदं न विद्यते । अब्धातोर् अनुपलम्भे पदं न विद्यते । तेजोधातोः सुभूते ऽनुत्पादे पदं न विद्यते । तेजोधातोर् अनिरोधे पदं न विद्यते । तेजोधातोर् असंक्लेशाव्यवदाने पदं न विद्यते । तेजोधातोर् अनभिसंस्कारे पदं न विद्यते । तेजोधातोर् अप्रादुर्भावे पदं न विद्यते । तेजोधातोर् अनुपलम्भे पदं न विद्यते । वायुधातोः सुभूते ऽनुत्पादे पदं न विद्यते । वायुधातोर् अनिरोधे पदं न विद्यते । वायुधातोर् असंक्लेशाव्यवदाने पदं न विद्यते । वायुधातोर् अनभिसंस्कारे पदं न विद्यते । वायुधातोर् अप्रादुर्भावे पदं न विद्यते । वायुधातोर् अनुपलम्भे पदं न विद्यते । आकाशधातोः सुभूते ऽनुत्पादे पदं न विद्यते । आकाशधातोर् अनिरोधे पदं न विद्यते । आकाशधातोर् असंक्लेशाव्यवदाने पदं न विद्यते । आकाशधातोर् अनभिसंस्कारे पदं न विद्यते । आकाशधातोर् अप्रादुर्भावे पदं न विद्यते । आकाशधातोर् अनुपलम्भे पदं न विद्यते ।
विज्ञानधातोः सुभूते ऽनुत्पादे पदं न विद्यते । विज्ञानधातोर् अनिरोधे पदं न विद्यते । विज्ञानधातोर् असंक्लेशाव्यवदाने पदं न विद्यते । विज्ञानधातोर् अनभिसंस्कारे पदं न विद्यते । विज्ञानधातोर् अप्रादुर्भावे पदं न विद्यते । विज्ञानधातोर् अनुपलम्भे पदं न विद्यते । अविद्यायाः सुभूते ऽनुत्पादे पदं न विद्यते । अविद्याया अनिरोधे पदं न विद्यते । अविद्याया असंक्लेशाव्यवदाने पदं न विद्यते । अविद्याया अनभिसंस्कारे पदं न विद्यते । अविद्याया अप्रादुर्भावे पदं न विद्यते । अविद्याया अनुपलम्भे पदं न विद्यते । संस्काराणां सुभूते ऽनुत्पादे पदं न विद्यते । संस्काराणाम् अनिरोधे पदं न विद्यते । संस्काराणाम् असंक्लेशाव्यवदाने पदं न विद्यते । संस्काराणाम् अनभिसंस्कारे पदं न विद्यते । संस्काराणाम् अप्रादुर्भावे पदं न विद्यते । संस्काराणाम् अनुपलम्भे पदं न विद्यते । विज्ञानस्य सुभूते ऽनुत्पादे पदं न विद्यते । विज्ञानस्यानिरोधे पदं न विद्यते । विज्ञानस्यासंक्लेशाव्यवदाने पदं न विद्यते । विज्ञानस्यानभिसंस्कारे पदं न विद्यते । विज्ञानस्याप्रादुर्भावे पदं न विद्यते । विज्ञानस्यानुपलम्भे पदं न विद्यते । नामरूपस्य सुभूते ऽनुत्पादे पदं न विद्यते । नामरूपस्यानिरोधे पदं न विद्यते । नामरूपस्यासंक्लेशाव्यवदाने पदं न विद्यते । नामरूपस्यानभिसंस्कारे पदं न विद्यते । नामरूपस्याप्रादुर्भावे पदं न विद्यते । नामरूपस्यानुपलम्भे पदं न विद्यते । षडायतनस्य सुभूते ऽनुत्पादे पदं न विद्यते । षडायतनस्यानिरोधे पदं न विद्यते । षडायतनस्यासंक्लेशाव्यवदाने पदं न विद्यते । षडायतनस्यानभिसंस्कारे पदं न विद्यते । षडायतनस्याप्रादुर्भावे पदं न विद्यते । षडायतनस्यानुपलम्भे पदं न विद्यते । स्पर्शस्य सुभूते ऽनुत्पादे पदं न विद्यते । स्पर्शस्यानिरोधे पदं न विद्यते । स्पर्शस्यासंक्लेशाव्यवदाने पदं न विद्यते । स्पर्शस्यानभिसंस्कारे पदं न विद्यते । स्पर्शस्याप्रादुर्भावे पदं न विद्यते । स्पर्शस्यानुपलम्भे पदं न विद्यते । वेदनायाः सुभूते ऽनुत्पादे पदं न विद्यते । वेदनाया अनिरोधे पदं न विद्यते । वेदनाया असंक्लेशाव्यवदाने पदं न विद्यते । वेदनाया अनभिसंस्कारे पदं न विद्यते । वेदनाया अप्रादुर्भावे पदं न विद्यते । वेदनाया अनुपलम्भे पदं न विद्यते । तृष्णायाः सुभूते ऽनुत्पादे पदं न विद्यते । तृष्णाया अनिरोधे पदं न विद्यते । तृष्णाया असंक्लेशाव्यवदाने पदं न विद्यते । तृष्णाया अनभिसंस्कारे पदं न विद्यते । तृष्णाया अप्रादुर्भावे पदं न विद्यते । तृष्णाया अनुपलम्भे पदं न विद्यते । उपादानस्य सुभूते ऽनुत्पादे पदं न विद्यते । उपादानस्यानिरोधे पदं न विद्यते । उपादानस्यासंक्लेशाव्यवदाने पदं न विद्यते । उपादानस्यानभिसंस्कारे पदं न विद्यते । उपादानस्याप्रादुर्भावे पदं न विद्यते । उपादानस्यानुपलम्भे पदं न विद्यते । भवस्य सुभूते ऽनुत्पादे पदं न विद्यते । भवस्यानिरोधे पदं न विद्यते । भवस्यासंक्लेशाव्यवदाने पदं न विद्यते । भवस्यानभिसंस्कारे पदं न विद्यते । भवस्याप्रादुर्भावे पदं न विद्यते । भवस्यानुपलम्भे पदं न विद्यते । जातेः सुभूते ऽनुत्पादे पदं न विद्यते । जातेर् अनिरोधे पदं न विद्यते । जातेर् असंक्लेशाव्यवदाने पदं न विद्यते । जातेर् अनभिसंस्कारे पदं न विद्यते । जातेर् अप्रादुर्भावे पदं न विद्यते । जातेर् अनुपलम्भे पदं न विद्यते । जरामारणस्य सुभूते ऽनुत्पादे पदं न विद्यते । जरामारणस्यानिरोधे पदं न विद्यते । जरामारणस्यासंक्लेशाव्यवदाने पदं न विद्यते । जरामारणस्यानभिसंस्कारे पदं न विद्यते । जरामारणस्याप्रादुर्भावे पदं न विद्यते । जरामारणस्यानुपलम्भे पदं न विद्यते ।
दानपारमितायाः सुभूते ऽनुत्पादे पदं न विद्यते । दानपारमिताया अनिरोधे पदं न विद्यते । दानपारमिताया असंक्लेशाव्यवदाने पदं न विद्यते । दानपारमिताया अनभिसंस्कारे पदं न विद्यते । दानपारमिताया अप्रादुर्भावे पदं न विद्यते । दानपारमिताया अनुपलम्भे पदं न विद्यते । शीलपारमितायाः सुभूते ऽनुत्पादे पदं न विद्यते । शीलपारमिताया अनिरोधे पदं न विद्यते । शीलपारमिताया असंक्लेशाव्यवदाने पदं न विद्यते । शीलपारमिताया अनभिसंस्कारे पदं न विद्यते । शीलपारमिताया अप्रादुर्भावे पदं न विद्यते । शीलपारमिताया अनुपलम्भे पदं न विद्यते । क्षान्तिपारमितायाः सुभूते ऽनुत्पादे पदं न विद्यते । क्षान्तिपारमिताया अनिरोधे पदं न विद्यते । क्षान्तिपारमिताया असंक्लेशाव्यवदाने पदं न विद्यते । क्षान्तिपारमिताया अनभिसंस्कारे पदं न विद्यते । क्षान्तिपारमिताया अप्रादुर्भावे पदं न विद्यते । क्षान्तिपारमिताया अनुपलम्भे पदं न विद्यते । वीर्यपारमितायाः सुभूते ऽनुत्पादे पदं न विद्यते । वीर्यपारमिताया अनिरोधे पदं न विद्यते । वीर्यपारमिताया असंक्लेशाव्यवदाने पदं न विद्यते । वीर्यपारमिताया अनभिसंस्कारे पदं न विद्यते । वीर्यपारमिताया अप्रादुर्भावे पदं न विद्यते । वीर्यपारमिताया अनुपलम्भे पदं न विद्यते । ध्यानपारमितायाः सुभूते ऽनुत्पादे पदं न विद्यते । ध्यानपारमिताया अनिरोधे पदं न विद्यते । ध्यानपारमिताया असंक्लेशाव्यवदाने पदं न विद्यते । ध्यानपारमिताया अनभिसंस्कारे पदं न विद्यते । ध्यानपारमिताया अप्रादुर्भावे पदं न विद्यते । ध्यानपारमिताया अनुपलम्भे पदं न विद्यते । प्रज्ञापारमितायाः सुभूते ऽनुत्पादे पदं न विद्यते । प्रज्ञापारमिताया अनिरोधे पदं न विद्यते । प्रज्ञापारमिताया असंक्लेशाव्यवदाने पदं न विद्यते । प्रज्ञापारमिताया अनभिसंस्कारे पदं न विद्यते । प्रज्ञापारमिताया अप्रादुर्भावे पदं न विद्यते । प्रज्ञापारमिताया अनुपलम्भे पदं न विद्यते ।
अध्यात्मशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते । अध्यात्मशून्यताया अनिरोधे पदं न विद्यते । अध्यात्मशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते । अध्यात्मशून्यताया अनभिसंस्कारे पदं न विद्यते । अध्यात्मशून्यताया अप्रादुर्भावे पदं न विद्यते । अध्यात्मशून्यताया अनुपलम्भे पदं न विद्यते । बहिर्धाशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते । बहिर्धाशून्यताया अनिरोधे पदं न विद्यते । बहिर्धाशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते । बहिर्धाशून्यताया अनभिसंस्कारे पदं न विद्यते । बहिर्धाशून्यताया अप्रादुर्भावे पदं न विद्यते । बहिर्धाशून्यताया अनुपलम्भे पदं न विद्यते । अध्यात्मबहिर्धाशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते । अध्यात्मबहिर्धाशून्यताया अनिरोधे पदं न विद्यते । अध्यात्मबहिर्धाशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते । अध्यात्मबहिर्धाशून्यताया अनभिसंस्कारे पदं न विद्यते । अध्यात्मबहिर्धाशून्यताया अप्रादुर्भावे पदं न विद्यते । अध्यात्मबहिर्धाशून्यताया अनुपलम्भे पदं न विद्यते । शून्यताशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते । शून्यताशून्यताया अनिरोधे पदं न विद्यते । शून्यताशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते । शून्यताशून्यताया अनभिसंस्कारे पदं न विद्यते । शून्यताशून्यताया अप्रादुर्भावे पदं न विद्यते । शून्यताशून्यताया अनुपलम्भे पदं न विद्यते । महाशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते । महाशून्यताया अनिरोधे पदं न विद्यते । महाशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते । महाशून्यताया अनभिसंस्कारे पदं न विद्यते । महाशून्यताया अप्रादुर्भावे पदं न विद्यते । महाशून्यताया अनुपलम्भे पदं न विद्यते । परमार्थशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते । परमार्थशून्यताया अनिरोधे पदं न विद्यते । परमार्थशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते । परमार्थशून्यताया अनभिसंस्कारे पदं न विद्यते । परमार्थशून्यताया अप्रादुर्भावे पदं न विद्यते । परमार्थशून्यताया अनुपलम्भे पदं न विद्यते । संस्कृतशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते । संस्कृतशून्यताया अनिरोधे पदं न विद्यते । संस्कृतशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते । संस्कृतशून्यताया अनभिसंस्कारे पदं न विद्यते । संस्कृतशून्यताया अप्रादुर्भावे पदं न विद्यते । संस्कृतशून्यताया अनुपलम्भे पदं न विद्यते । असंस्कृतशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते । असंस्कृतशून्यताया अनिरोधे पदं न विद्यते । असंस्कृतशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते । असंस्कृतशून्यताया अनभिसंस्कारे पदं न विद्यते । असंस्कृतशून्यताया अप्रादुर्भावे पदं न विद्यते । असंस्कृतशून्यताया अनुपलम्भे पदं न विद्यते । अत्यन्तशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते । अत्यन्तशून्यताया अनिरोधे पदं न विद्यते । अत्यन्तशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते । अत्यन्तशून्यताया अनभिसंस्कारे पदं न विद्यते । अत्यन्तशून्यताया अप्रादुर्भावे पदं न विद्यते । अत्यन्तशून्यताया अनुपलम्भे पदं न विद्यते । अनवराग्रशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते । अनवराग्रशून्यताया अनिरोधे पदं न विद्यते । अनवराग्रशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते । अनवराग्रशून्यताया अनभिसंस्कारे पदं न विद्यते । अनवराग्रशून्यताया अप्रादुर्भावे पदं न विद्यते । अनवराग्रशून्यताया अनुपलम्भे पदं न विद्यते । अनवकारशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते । अनवकारशून्यताया अनिरोधे पदं न विद्यते । अनवकारशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते । अनवकारशून्यताया अनभिसंस्कारे पदं न विद्यते । अनवकारशून्यताया अप्रादुर्भावे पदं न विद्यते । अनवकारशून्यताया अनुपलम्भे पदं न विद्यते । प्रकृतिशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते । प्रकृतिशून्यताया अनिरोधे पदं न विद्यते । प्रकृतिशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते । प्रकृतिशून्यताया अनभिसंस्कारे पदं न विद्यते । प्रकृतिशून्यताया अप्रादुर्भावे पदं न विद्यते । प्रकृतिशून्यताया अनुपलम्भे पदं न विद्यते । सर्वधर्मशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते । सर्वधर्मशून्यताया अनिरोधे पदं न विद्यते । सर्वधर्मशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते । सर्वधर्मशून्यताया अनभिसंस्कारे पदं न विद्यते । सर्वधर्मशून्यताया अप्रादुर्भावे पदं न विद्यते । सर्वधर्मशून्यताया अनुपलम्भे पदं न विद्यते । स्वलक्षणशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते । स्वलक्षणशून्यताया अनिरोधे पदं न विद्यते । स्वलक्षणशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते । स्वलक्षणशून्यताया अनभिसंस्कारे पदं न विद्यते । स्वलक्षणशून्यताया अप्रादुर्भावे पदं न विद्यते । स्वलक्षणशून्यताया अनुपलम्भे पदं न विद्यते । अनुपलम्भशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते । अनुपलम्भशून्यताया अनिरोधे पदं न विद्यते । अनुपलम्भशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते । अनुपलम्भशून्यताया अनभिसंस्कारे पदं न विद्यते । अनुपलम्भशून्यताया अप्रादुर्भावे पदं न विद्यते । अनुपलम्भशून्यताया अनुपलम्भे पदं न विद्यते । अभावशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते । अभावशून्यताया अनिरोधे पदं न विद्यते । अभावशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते । अभावशून्यताया अनभिसंस्कारे पदं न विद्यते । अभावशून्यताया अप्रादुर्भावे पदं न विद्यते । अभावशून्यताया अनुपलम्भे पदं न विद्यते । स्वभावशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते । स्वभावशून्यताया अनिरोधे पदं न विद्यते । स्वभावशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते । स्वभावशून्यताया अनभिसंस्कारे पदं न विद्यते । स्वभावशून्यताया अप्रादुर्भावे पदं न विद्यते । स्वभावशून्यताया अनुपलम्भे पदं न विद्यते । अभावस्वभावशून्यतायाः सुभूते ऽनुत्पादे पदं न विद्यते । अभावस्वभावशून्यताया अनिरोधे पदं न विद्यते । अभावस्वभावशून्यताया असंक्लेशाव्यवदाने पदं न विद्यते । अभावस्वभावशून्यताया अनभिसंस्कारे पदं न विद्यते । अभावस्वभावशून्यताया अप्रादुर्भावे पदं न विद्यते । अभावस्वभावशून्यताया अनुपलम्भे पदं न विद्यते ।
स्मृत्युपस्थानानां सुभूते ऽनुत्पादे पदं न विद्यते । स्मृत्युपस्थानानाम् अनिरोधे पदं न विद्यते । स्मृत्युपस्थानानाम् असंक्लेशाव्यवदाने पदं न विद्यते । स्मृत्युपस्थानानाम् अनभिसंस्कारे पदं न विद्यते । स्मृत्युपस्थानानाम् अप्रादुर्भावे पदं न विद्यते । स्मृत्युपस्थानानाम् अनुपलम्भे पदं न विद्यते । सम्यक्प्रहाणानां सुभूते ऽनुत्पादे पदं न विद्यते । सम्यक्प्रहाणानाम् अनिरोधे पदं न विद्यते । सम्यक्प्रहाणानाम् असंक्लेशाव्यवदाने पदं न विद्यते । सम्यक्प्रहाणानाम् अनभिसंस्कारे पदं न विद्यते । सम्यक्प्रहाणानाम् अप्रादुर्भावे पदं न विद्यते । सम्यक्प्रहाणाम् अनुपलम्भे पदं न विद्यते । ऋद्धिपादानां सुभूते ऽनुत्पादे पदं न विद्यते । ऋद्धिपादानाम् अनिरोधे पदं न विद्यते । ऋद्धिपादानाम् असंक्लेशाव्यवदाने पदं न विद्यते । ऋद्धिपादानाम् अनभिसंस्कारे पदं न विद्यते । ऋद्धिपादानाम् अप्रादुर्भावे पदं न विद्यते । ऋद्धिपादानाम् अनुपलम्भे पदं न विद्यते ।
इन्द्रियाणां सुभूते ऽनुत्पादे पदं न विद्यते । इन्द्रियाणाम् अनिरोधे पदं न विद्यते । इन्द्रियाणाम् असंक्लेशाव्यवदाने पदं न विद्यते । इन्द्रियाणाम् अनभिसंस्कारे पदं न विद्यते । इन्द्रियाणाम् अप्रादुर्भावे पदं न विद्यते । इन्द्रियाणाम् अनुपलम्भे पदं न विद्यते । बलानां सुभूते ऽनुत्पादे पदं न विद्यते । बलानाम् अनिरोधे पदं न विद्यते । बलानाम् असंक्लेशाव्यवदाने पदं न विद्यते । बलानाम् अनभिसंस्कारे पदं न विद्यते । बलानाम् अप्रादुर्भावे पदं न विद्यते । बलानाम् अनुपलम्भे पदं न विद्यते । बोध्यङ्गानां सुभूते ऽनुत्पादे पदं न विद्यते । बोध्यङ्गानाम् अनिरोधे पदं न विद्यते । बोध्यङ्गानाम् असंक्लेशाव्यवदाने पदं न विद्यते । बोध्यङ्गानाम् अनभिसंस्कारे पदं न विद्यते । बोध्यङ्गानाम् अप्रादुर्भावे पदं न विद्यते । बोध्यङ्गानाम् अनुपलम्भे पदं न विद्यते । आर्याष्टाङ्गमार्गस्य सुभूते ऽनुत्पादे पदं न विद्यते । आर्याष्टाङ्गमार्गस्यानिरोधे पदं न विद्यते । आर्याष्टाङ्गमार्गस्यासंक्लेशाव्यवदाने पदं न विद्यते । आर्याष्टाङ्गमार्गस्यानभिसंस्कारे पदं न विद्यते । आर्याष्टाङ्गमार्गस्याप्रादुर्भावे पदं न विद्यते । आर्याष्टाङ्गमार्गस्यानुपलम्भे पदं न विद्यते । आर्यसत्यानां सुभूते ऽनुत्पादे पदं न विद्यते । आर्यसत्यानाम् अनिरोधे पदं न विद्यते । आर्यसत्यानाम् असंक्लेशाव्यवदाने पदं न विद्यते । आर्यसत्यानाम् अनभिसंस्कारे पदं न विद्यते । आर्यसत्यानाम् अप्रादुर्भावे पदं न विद्यते । आर्यसत्यानाम् अनुपलम्भे पदं न विद्यते । ध्यानानां सुभूते ऽनुत्पादे पदं न विद्यते । ध्यानानाम् अनिरोधे पदं न विद्यते । ध्यानानाम् असंक्लेशाव्यवदाने पदं न विद्यते । ध्यानानाम् अनभिसंस्कारे पदं न विद्यते । ध्यानानाम् अप्रादुर्भावे पदं न विद्यते । ध्यानानाम् अनुपलम्भे पदं न विद्यते । अप्रमाणानां सुभूते ऽनुत्पादे पदं न विद्यते । अप्रमाणानाम् अनिरोधे पदं न विद्यते । अप्रमाणानाम् असंक्लेशाव्यवदाने पदं न विद्यते । अप्रमाणानाम् अनभिसंस्कारे पदं न विद्यते । अप्रमाणानाम् अप्रादुर्भावे पदं न विद्यते । अप्रमाणानाम् अनुपलम्भे पदं न विद्यते । आरूप्यसमापत्तीनां सुभूते ऽनुत्पादे पदं न विद्यते । आरूप्यसमापत्तीनाम् अनिरोधे पदं न विद्यते । आरूप्यसमापत्तीनाम् असंक्लेशाव्यवदाने पदं न विद्यते । आरूप्यसमापत्तीनाम् अनभिसंस्कारे पदं न विद्यते । आरूप्यसमापत्तीनाम् अप्रादुर्भावे पदं न विद्यते । आरूप्यसमापत्तीनाम् अनुपलम्भे पदं न विद्यते । विमोक्षाणां सुभूते ऽनुत्पादे पदं न विद्यते । विमोक्षाणाम् अनिरोधे पदं न विद्यते । विमोक्षाणाम् असंक्लेशाव्यवदाने पदं न विद्यते । विमोक्षाणाम् अनभिसंस्कारे पदं न विद्यते । विमोक्षाणाम् अप्रादुर्भावे पदं न विद्यते । विमोक्षाणाम् अनुपलम्भे पदं न विद्यते । अनुपूर्वविहारसमापत्तीनां सुभूते ऽनुत्पादे पदं न विद्यते । अनुपूर्वविहारसमापत्तीनाम् अनिरोधे पदं न विद्यते । अनुपूर्वविहारसमापत्तीनाम् असंक्लेशाव्यवदाने पदं न विद्यते । अनुपूर्वविहारसमापत्तीनाम् अनभिसंस्कारे पदं न विद्यते । अनुपूर्वविहारसमापत्तीनाम् अप्रादुर्भावे पदं न विद्यते । अनुपूर्वविहारसमापत्तीनाम् अनुपलम्भे पदं न विद्यते । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां सुभूते ऽनुत्पादे पदं न विद्यते । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनिरोधे पदं न विद्यते । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् असंक्लेशाव्यवदाने पदं न विद्यते । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनभिसंस्कारे पदं न विद्यते । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अप्रादुर्भावे पदं न विद्यते । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुपलम्भे पदं न विद्यते । अभिज्ञानां सुभूते ऽनुत्पादे पदं न विद्यते । अभिज्ञानाम् अनिरोधे पदं न विद्यते । अभिज्ञानाम् असंक्लेशाव्यवदाने पदं न विद्यते । अभिज्ञानाम् अनभिसंस्कारे पदं न विद्यते । अभिज्ञानाम् अप्रादुर्भावे पदं न विद्यते । अभिज्ञानाम् अनुपलम्भे पदं न विद्यते । समाधीनां सुभूते ऽनुत्पादे पदं न विद्यते । समाधीनाम् अनिरोधे पदं न विद्यते । समाधीनाम् असंक्लेशाव्यवदाने पदं न विद्यते । समाधीनाम् अनभिसंस्कारे पदं न विद्यते । समाधीनाम् अप्रादुर्भावे पदं न विद्यते । समाधीनाम् अनुपलम्भे पदं न विद्यते । धारणीमुखानां सुभूते ऽनुत्पादे पदं न विद्यते । धारणीमुखानाम् अनिरोधे पदं न विद्यते । धारणीमुखानाम् असंक्लेशाव्यवदाने पदं न विद्यते । धारणीमुखानाम् अनभिसंस्कारे पदं न विद्यते । धारणीमुखानाम् अप्रादुर्भावे पदं न विद्यते । धारणीमुखानाम् अनुपलम्भे पदं न विद्यते । तथागतबलानां सुभूते ऽनुत्पादे पदं न विद्यते । तथागतबलानाम् अनिरोधे पदं न विद्यते । तथागतबलानाम् असंक्लेशाव्यवदाने पदं न विद्यते । तथागतबलानाम् अनभिसंस्कारे पदं न विद्यते । तथागतबलानाम् अप्रादुर्भावे पदं न विद्यते । तथागतबलानाम् अनुपलम्भे पदं न विद्यते । वैशारद्यानां सुभूते ऽनुत्पादे पदं न विद्यते । वैशारद्यानाम् अनिरोधे पदं न विद्यते । वैशारद्यानाम् असंक्लेशाव्यवदाने पदं न विद्यते । वैशारद्यानाम् अनभिसंस्कारे पदं न विद्यते । वैशारद्यानाम् अप्रादुर्भावे पदं न विद्यते । वैशारद्यानाम् अनुपलम्भे पदं न विद्यते । प्रतिस ं विदां सुभूते ऽनुत्पादे पदं न विद्यते । प्रतिस ं विदाम् अनिरोधे पदं न विद्यते । प्रतिस ं विदाम् असंक्लेशाव्यवदाने पदं न विद्यते । प्रतिस ं विदाम् अनभिसंस्कारे पदं न विद्यते । प्रतिस ं विदाम् अप्रादुर्भावे पदं न विद्यते । प्रतिस ं विदाम् अनुपलम्भे पदं न विद्यते । महामैत्र्याः सुभूते ऽनुत्पादे पदं न विद्यते । महामैत्र्या अनिरोधे पदं न विद्यते । महामैत्र्या असंक्लेशाव्यवदाने पदं न विद्यते । महामैत्र्या अनभिसंस्कारे पदं न विद्यते । महामैत्र्या अप्रादुर्भावे पदं न विद्यते । महामैत्र्या अनुपलम्भे पदं न विद्यते । महाकरुणायाः सुभूते ऽनुत्पादे पदं न विद्यते । महाकरुणाया अनिरोधे पदं न विद्यते । महाकरुणाया असंक्लेशाव्यवदाने पदं न विद्यते । महाकरुणाया अनभिसंस्कारे पदं न विद्यते । महाकरुणाया अप्रादुर्भावे पदं न विद्यते । महाकरुणाया अनुपलम्भे पदं न विद्यते । आवेणिकबुद्धधर्माणां सुभूते ऽनुत्पादे पदं न विद्यते । आवेणिकबुद्धधर्माणाम् अनिरोधे पदं न विद्यते । आवेणिकबुद्धधर्माणाम् असंक्लेशाव्यवदाने पदं न विद्यते । आवेणिकबुद्धधर्माणाम् अनभिसंस्कारे पदं न विद्यते । आवेणिकबुद्धधर्माणाम् अप्रादुर्भावे पदं न विद्यते । आवेणिकबुद्धधर्माणाम् अनुपलम्भे पदं न विद्यते ।
तद्यथापि नाम सुभूते रूपस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । वेदनाया अत्यन्तविशुद्धौ मिमित्ते पदं न विद्यते । संज्ञाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । संस्काराणाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । विज्ञानस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वस्य पदार्थो न विद्यते ।
तद्यथापि नाम सुभूते चक्षुषो ऽत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । श्रोत्रस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । घ्राणस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । जिह्वाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । कायस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । मनसो ऽत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते रूपस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । शब्दस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । गन्धस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । रसस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । स्पर्शस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । धर्माणाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते चक्षुर्विज्ञानस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । श्रोत्रविज्ञानस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । घ्राणविज्ञानस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । जिह्वाविज्ञानस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । कायविज्ञानस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । मनोविज्ञानस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते चक्षुःसंस्पर्शस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । श्रोत्रसंस्पर्शस्यात्यन्तविशुद्धौ पदं न विद्यते । घ्राणसंस्पर्शस्यात्यन्तविशुद्धौ पदं न विद्यते । जिह्वासंस्पर्शविज्ञानस्यात्यन्तविशुद्धौ पदं न विद्यते । कायसंस्पर्शविज्ञानस्यात्यन्तविशुद्धौ पदं न विद्यते । मनःसंस्पर्शस्यात्यन्तविशुद्धौ पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते चक्षुःसंस्पर्शप्रत्ययवेदनाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । श्रोत्रसंस्पर्शप्रत्ययवेदनाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । घ्राणसंस्पर्शप्रत्ययवेदनाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । जिह्वासंस्पर्शप्रत्ययवेदनाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । कायसंस्पर्शप्रत्ययवेदनाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । मनःसंस्पर्शप्रत्ययवेदनाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते पृथिवीधातोर् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । अब्धातोर् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । तेजोधातोर् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । वायुधातोर् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । आकाशधातोर् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । विज्ञानधातोर् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते अविद्याया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । संस्काराणाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । विज्ञानस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । नामरूपस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । षडायतनस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । स्पर्शस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । वेदनाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । तृष्णाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । उपादानस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । भवस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । जातेर् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । जारामरणस्यात्यन्तविशुद्धौ निमित्ते पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते दानपारमिताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । शीलपारमिताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । क्षान्तिपारमिताया निमित्ते पदं न विद्यते । वीर्यपारमिताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । ध्यानपारमिताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । प्रज्ञापारमिताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते अध्यात्मशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । बहिर्धाशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । अध्यात्मबहिर्धाशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । शून्यताशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । महाशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । परमार्थशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । संस्कृतशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । असंस्कृतशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । अत्यन्तशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । अनवराग्रशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । अनवकारशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । प्रकृतिशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । सर्वधर्मशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । स्वलक्षणशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । अनुपलम्भशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । अभावशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । स्वभावशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । अभावस्वभावशून्यताया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते स्मृत्युपस्थानानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । सम्यक्प्रहाणानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । ऋद्धिपदानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । इन्द्रियाणाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । बलानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । बोध्यङ्गानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । आर्याष्टाङ्गमार्गानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । बोध्यङ्गानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते आर्यसत्यानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । ध्यानानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । अप्रमाणानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । आरूप्यसमापत्तीनाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । विमोक्षाणाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । अनुपूर्वविहारसमापत्तीनाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । अभिज्ञानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । समाधीनाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । धारणीमुखानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते तथागतबलानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । वैशारद्यानाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । प्रतिस ं विदाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । महामैत्र्या अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । महाकरुणाया अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । आवेणिकबुद्धधर्माणाम् अत्यन्तविशुद्धौ निमित्ते पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते आत्मात्यन्तविशुद्धौ पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते सत्त्वात्यन्तविशुद्धौ पदं न विद्यते । सत्त्वासत्ताम् उपादाय । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते जीवात्यन्तविशुद्धौ पदं न विद्यते । जीवासत्ताम् उपादाय । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते पोषात्यन्तविशुद्धौ पदं न विद्यते । पोषासत्ताम् उपादाय । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते पुरुषात्यन्तविशुद्धौ पदं न विद्यते । पुरुषासत्ताम् उपादाय । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते पुद्गलात्यन्तविशुद्धौ पदं न विद्यते । पुद्गलासत्ताम् उपादाय । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते मनुजात्यन्तविशुद्धौ पदं न विद्यते । मनुजासत्ताम् उपादाय । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते मानवात्यन्तविशुद्धौ पदं न विद्यते । मानवासत्ताम् उपादाय । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते करकात्यन्तविशुद्धौ पदं न विद्यते । करकासत्ताम् उपादाय । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते वेदकात्यन्तविशुद्धौ पदं न विद्यते । वेदकासत्ताम् उपादाय । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते जानकात्यन्तविशुद्धौ पदं न विद्यते । जानकासत्ताम् उपादाय । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते पश्यकात्यन्तविशुद्धौ पदं न विद्यते । पश्यकासत्ताम् उपादाय । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते सूर्यमण्डले ऽभ्युदागच्छति अन्धकारे पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते कन्योद्वाहे वर्तमाने सर्वसंस्कारगतानां पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य शीलदौःसीले पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य समाधौ विमोक्षे पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य प्रज्ञायां दौष्प्रज्ञे पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य विमुक्तौ पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य विमुक्तिज्ञानदर्शने पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते सूर्यचन्द्रमसोः प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते ग्रहमणिरत्नविद्युज्ज्योतिषां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते चातुर्महाराजकायिकानां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते त्रयस्त्रिंशानां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते यामानां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तुषितानां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते निर्माणरतीनां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते परनिर्मितवशवर्तिनां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते ब्रह्मकायिकानां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते ब्रह्मपुरोहितानां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते ब्रह्मपार्षद्यानां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते महाब्रह्माणां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते आभानां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते परीत्ताभानां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते अप्रमाणां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते अभास्वराणां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते शुभानां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते परीत्तशुभानां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते ऽप्रमाणशुभानां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते शुभकृत्स्नानां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते बृहाणां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते परीत्तबृहाणां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते ऽप्रमाणबृहाणां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते बृहत्फालानां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते शुद्धावासकायिकानां देवानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते ।
तद्यथापि नाम सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तद्यथापि नाम सुभूते तथागतानाम् अर्हताम् सम्यक्स ं बुद्धानां प्रभायाः पदं न विद्यते । एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो बोधिसत्त्वपदार्थो न विद्यते । तत् कस्य हेतोः तथा हि या च बोधिर् यश् च बोधिसत्त्वा यश् च बोधिसत्त्वापदार्थः सर्वत्र ते धर्मा न संयुक्ताः परिसंयुक्ताः अरूपिणो ऽनिदर्शना अप्रतिघात्वकलक्षणा । यद् उतालक्षणाः । सर्वधर्माणां सुभूते बोधिसत्त्वेन महासत्त्वेनासद्भूततायां शिक्षितव्यं । सर्वधर्माश् च बोधिसत्त्वेन महासत्त्वेनावबोद्धव्याः । आह । कतमे भगवन् सर्वधर्माः । कथं भगवन् बोधिसत्त्वेन महासत्त्वेनासद्भूततायां शिक्षितव्यं । कथञ् च बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा अवबोद्धव्याः । भगवान् आह । सर्वधर्माः सुभूते उच्यन्ते कुशलाश् चाकुशलाश् चाकृता व्याकृताश् च लौकिकाश् च लोकोत्तराश् च साश्रवाश् चानाश्रवाश् च । संस्कृताश् चासंस्कृताश् च सावद्याश् चानावद्याश् च । साधारणाश् चासाधारणाश् च । इमे सुभूते उच्यन्ते कुशला धर्माः । एषां बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणाम् असत्तायां शिक्षितव्यं । इमे सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा अवबोद्धव्याः ।
आह कतमे भगवन् कुशला धर्मा लौकिकाः । भगवान् आह । कुशलाः सुभूते लौकिका धर्मा उच्यन्ते मातृज्ञता पितृज्ञता श्रामण्यता ब्राह्मण्यता कुलज्येष्ठानुपालिता । दानमयं पुण्यक्रियावस्तु शीलमयं पुण्यक्रियावस्तु, भावनामयं पुण्यक्रियावस्तु वैद्यावृत्तसहगतम् औषधिकं दशकुशलाः कर्मपथाः लौकिका नवसंज्ञाः । यद् उत व्याघतिकसंज्ञा, निरुत्तमकसंज्ञा, विपूतिकसंज्ञा । विलोहितकसंज्ञा, विलीनकसंज्ञा, विवादिकसंज्ञा, विक्षिप्तकसंज्ञा, अस्मिसंज्ञा, विदग्नकसंज्ञा, लौकिकानि चत्वारि ध्यानानि । चत्वार्य् अप्रमाणानि । चतस्र आरूप्यसमापत्तयः । पञ्चाभिज्ञाः लौकिका दशानुस्मृतयः । यद् उत बुद्धानुस्मृतिः, धर्मानुस्मृतिः, संघानुस्मृतिः, शिलानुस्मृतिः, त्यागानुस्मृतिः, आनापानानुस्मृतिः । कायगतानुस्मृतिः । उद्वेगानुस्मृतिः । मरणानुस्मृतिः । इमे उच्यते सुभूते कुशला लौकिका धर्माः । आह । कतमे भगवन्न् अकुशला लौकिका धर्माः । भगवान् आह । दशाकुशलाः कर्मपथाः । यद् उत प्राणातिपातः सुभूते ऽकुशलो लौकिको धर्मः । अदत्तादानं सुभूते ऽकुशलो लौकिको धर्मः । काममिथ्यावादः सुभूते ऽकुशलो लौकिको धर्मः । मृषावादः सुभूते ऽकुशलो लौकिको धर्मः । पारुष्यं सुभूते ऽकुशलो लौकिको धर्मः । अभिध्या सुभूते ऽकुशलो लौकिको धर्मः । व्यापादं सुभूते ऽकुशलो लौकिको धर्मः । मिथ्यादृष्टिः सुभूते ऽकुशलो लौकिको धर्मः । क्रोध उपनाहो प्रद्यः प्रदोशो विहिंसा ईर्ष्या मात्सर्यं मदो मिथ्यामानः । इमे उच्यन्ते सुभूते ऽकुशला लौकिका धर्माः । आह कतमे भगवन्न् अव्याकृता धर्माः । भगवान् आह । अव्याकृतं कायकर्म, अव्याकृतं वाक्कर्म । अव्याकृतं मनस्कर्म । अव्याकृतानि चत्वारि महाभूतानि । अव्याकृतानि पञ्चेन्द्रियाणि । अव्याकृतं षडायतनं । अव्याकृताश् चतस्र आरूप्यसमापत्तयः । अव्याकृताः स्कन्धाः । अव्याकृता धातवः । अव्याकृतान्य् आयतनानि । अव्याकृतः सर्वो विपाकः । इमे उच्यन्ते अव्याकृता धर्माः । आह । कतमे भगवन् लौकिका धर्माः । भगवान् आह । लौकिका धर्माः सुभूते उच्यन्ते । पञ्च स्कन्धा द्वादशायतनानि । अष्टादश धातवः । दश कुशलाः कर्मपथाः । चत्वारि ध्यानानि । चत्वार्य् अप्रमाणानि । चतस्र आरूप्यसमापत्तयः । पञ्चाभिज्ञाः । लोकोत्तराश् च धर्मान् स्थापयित्वा ये तदन्ये धर्माः । इमे उच्यन्ते लौकिका धर्माः । आह । कतमे भगवन् लोकोत्तरा धर्माः । भगवान् आह । लोकोत्तरा धर्माः सुभूते उच्यन्ते चत्वारि स्मृत्युपस्थानानि । चत्वार्य् अप्रमाणानि । चत्वार ऋद्धिपादाः । पञ्चेन्द्रियाणि । पञ्च रसानि सप्त बोध्यङ्गानि । आर्याष्टाङ्गो मार्गः । शून्यतविमोक्षमुखत्वानिमित्तविमोक्षमुखम् अप्रणिहितविमोक्षमुखं । अनाज्ञातमाज्ञास्यामीतीन्द्रियं । आज्ञेन्द्रियं । आज्ञातावीन्द्रियं । सविचारः समाधिः । सवितर्कः सविचारः समाधिः । अवितर्को ऽविचारः समाधिः । विद्याविमुक्तिसंप्रजन्यं योनिशोमनसिकारः । अष्टौ विमोक्षाः । कतमे ऽष्टौ रूपी रूपाणि पश्यत्य् अयं प्रथमो विमोक्षः । अध्यात्मरूपं संज्ञी बहिर्धारूपाणि पश्यत्य् अयं द्वितीयो विमोक्षः । शुभत्वचाविमुक्तो भवत्य् अयं तृतीयो विमोक्षः । स सर्वशो रूपसंज्ञानां समतिक्रमान् प्रतिपद्यसंज्ञानाम् अन्तंगमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपस ं पद्य विहरत्य् अयं चतुर्थो विमोक्षः । स सर्वश आकाशानन्त्यायनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपस ं पद्य विहरतीत्य् अयं पञ्चमो विमोक्षः । स सर्वशो विज्ञानानन्त्यायतनसमभिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपस ं पद्य विहरतीत्य् अयं षष्ठो विमोक्षः । स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपस ं पद्य विहरतीत्य् अयं सप्तमो विमोक्षः । स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितन् निरोधम् उपस ं पद्य विहरतीत्य् अयम् अष्टमो विमोक्षः । इमे ऽष्टौ विमोक्षाः ।
नवानुपूर्वविहारसमापत्तयः । कतमा नव । स विविक्तं कामैः विविक्तं पापकैर् अकुशलैर् धर्मैः । स वितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपस ं पद्य विहरति । स वितर्कसविचाराणां व्युत्पशमाद् अध्यात्मस ं प्रमादाश् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपस ं पद्य विहरति । स प्रीतेर् विरागाद् उपेक्षको विहरति । स्मृतिमान् संप्रजानः सुखञ् च कायेन प्रतिसंवेदयति । यत् तदार्या आचक्षते । उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपस ं पद्य विहरति । स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव च सौमनस्य दौर्मनस्यानाम् अस्तङ्गमाद् अदुःखासुखम् उपेक्षा स्मृतिपरिशुद्धिश् चतुर्थं ध्यानम् उपस ं पद्य विहरति । स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिपद्य संज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् मनसिकाराद् अनन्ताकाशम् इत्य् आकाशानन्त्यायतनम् उपस ं पद्य विहरति । स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपस ं पद्य विहरति । स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपस ं पद्य विहरति । स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपस ं पद्य विहरति । स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपस ं पद्य विहरति । एता नवानुपूर्वविहार समापत्तयः ।
अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशून्यता । दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिस ं विदो ऽष्टादशावेणिका बुद्धधर्माः इमे उच्यन्ते लोकोत्तराः धर्माः ।
भगवान् आह । साश्रवा धर्मा इति सुभूते यद् उत पञ्च स्कन्धाः द्वादशायतनानि । अष्टादश धातवः । चत्वारि ध्यानानि । चत्वार्य् अप्रमाणानि । चतस्र आरूप्यसमापत्तयः । पञ्चाभिज्ञाः । इमे उच्यन्ते साश्रवा धर्माः । भगवान् आह । चत्वारि स्मृत्युपस्थानानि । चत्वारि सम्यक्प्रहाणानि । चत्वार ऋद्धिपादाः । पञ्चेन्द्रियाणि । पञ्च रसानि । सप्त बोध्यङ्गानि । आर्याष्टाङ्गमार्गः । चत्वार्य् आर्यसत्यानि । चत्वारि ध्यानानि । अष्टौ विमोक्षाः । नवानुपूर्वविहारसमापत्तयः । शून्यतानिमित्ताप्रणिहितविमोक्षमुखामि । दश तथागतबलानि । चत्वारि वैशारद्यामि । चतस्रः प्रतिस ं विदः । महामैत्री । महाकरुणा । अष्टादशावेणिका बुद्धधर्माः । इमे उच्यन्ते अनाश्रवा धर्माः । आह । कतमे भगवन् संस्कृता धर्माः । भगवान् आह । संस्कृता धर्माः सुभूते उच्यन्ते कामधातू रूपधातुर् आरूप्यधातुः । ये ऽपि तद् अन्ये केचित् संस्कृतधातुपर्यापन्ना धर्माः । यान्य् अपि चत्वारि स्मृत्यपस्थानानि । चत्वारि सम्यक्प्रहाणानि । चत्वार ऋद्धिपादा । पञ्चेन्द्रियाणि । पञ्च बलानि । सप्त बोध्यङ्गानि । आर्याष्टाङ्गमार्गः । चत्वार्य् आर्यसत्यानि । चत्वारि ध्यानानि । चत्वार्य् अप्रमाणानि । चतस्र आरूप्यसमापत्तयः । अष्टौ विमोक्षाः । नवानुपूर्वविहारसमापत्तयः । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि । पञ्चाभिज्ञाः । षट्पारमिताः । सर्वशून्यताः । सर्वसमाधयः । सर्वधारणीमुखानि । दश तथागतबालानि । चत्वारि वैशारद्यानि । चतस्रः प्रतिस ं विदः । महामैत्री । महाकरुणा । अष्टादशावेणिका बुद्धधर्मा । इमे उच्यन्ते संस्कृता धर्माः ।
आह । कतमे भगवन्न् असंस्कृता धर्माः । भगवान् आह । असंस्कृता धर्मा उच्यन्ते । यस्य नोत्पादो न व्याया न स्थितेर् अन्यथात्वं रागक्षयो द्वेषक्षयो मोहक्षयः । तथता वितथतानन्यतथता धर्मता । धर्मधातुः । धर्मस्थितिता । धर्मनियामता । अचिन्त्यधातुर् भूतकोटिर् अयम् उच्यते ऽसंस्कृतो धर्मः । आह । कतमे भगवन् साधारणा धर्माः । भगवान् आह । चत्वार्य् अप्रमाणानि । चतस्र आरूप्यसमापत्तयः । पञ्चाभिज्ञाः । इमे उच्यन्ते साधारणा धर्माः पृथग्जनैः ।
आह । कतमे भगवन्न् असाधारणाः । भगवान् आह । चत्वारि स्मृत्युपस्थानानि । चत्वारि सम्यक्प्रहाणानि । चत्वार ऋद्धिपादाः । पञ्चेन्द्रियाणि । पञ्च बलानि । सप्त बोध्यङ्गानि । आर्याष्टाङ्गो मार्गः । चत्वार्य् आर्यसत्यानि । अष्टौ विमोक्षाः । नवानुपूर्वविहारसमापत्तयः । शून्यता अनिमित्तम् अप्रणिहितं सर्वसमाधयः । सर्वधारणीमुखानि । दश तथागतबलानि । चत्वारि वैशारद्यानि । चतस्रः प्रतिस ं विदः । महामैत्री । महाकरुणा । अष्टादशावेणिका बुद्धधर्माः । इमे उच्यन्ते असाधारणा धर्माः ।
तत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरता स्वलक्षणशून्यतानुसर्वधर्मेषु न सज्जितव्यम् अकल्पनतया सर्वधर्माणाम् अद्वययोगेन सर्वधर्मा अवबोद्धव्याः । अकल्पनाविकल्पनाताम् उपादाय । अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् । यत् पुनर् इदं भगवन्न् उच्यते बोधिसत्त्वो महासत्त्व इति केन कारणेन भगवन् बोधिसत्त्वो महासत्त्व इत्य् उच्यते । भगवान् आह । महतः सुभूते सत्त्वराशेर् न् इयतस्याग्रतां कारयिष्यति तेनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते । आह । कर्तश भगवन् महासत्त्वराशिनियतः । यस्य बोधिसत्त्वो महासत्त्वो ऽश्रुतां कारयिष्यते । भगवान् आह । महासत्त्वराशिर् इति सुभूते गोत्रभूर् अष्टमकः श्रोतआपन्नः सकृदागाम्य् अर्हन् प्रत्येकबुद्धः प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वो यावद् अवैवर्त्यभूमिस्थितो बोधिसत्त्वो महासत्त्वो ऽयम् उच्यते सुभूते महासत्त्वराशिनियतः । यस्य बोधिसत्त्वो महासत्त्वो ऽश्रुतां कारयिष्यति । यत्र बोधिसत्त्वेन महासत्त्वेन वज्रोपमचित्तम् उत्पाद्य महतः सत्त्वराशेर् न् इयतस्याश्रुतां कारयितव्या । आह । कतमो भगवन् वज्रोपमश् चित्तोत्पादः । भगवान् आह । इह सुभूते बोधिसत्त्वो महासत्त्वो एवं चित्तम् उत्पादय । अ परिमिते मया संसारे सन्नाहः स ं बद्धव्यः । सर्वसत्त्वानां कृते सर्वस्वत्यापिना मया भवितव्यं । सर्वसत्त्वानाम् अन्तिके मया समचित्तम् उत्पादयितव्यं । सर्वसत्त्वा मया त्रिभिर् या न् ऐः परिनिर्वापयितव्याः । सर्वसत्त्वान् अपि परिनिर्वाप्य न कश्चित् सत्त्वः परिनिर्वापितो भवत्य् अनुत्पादो निरोधो मया सर्वधर्माणाम् अववोद्धव्यः । अव्यकीर्णेन मया सर्वाकारज्ञता चित्तेन षट्पारमितासु चरितव्यं । सर्वत्रानुगतायां धर्मप्रतिवेधनिष्पत्त्यां मया शिक्षितव्यं । एकनियतनिर्हारो मया धर्माणां प्रतिबोद्धव्यः । यावद् अपरिमितनिर्हारप्रतिबोधाय मया धर्माणां शिक्षितव्यं । अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमश् चित्तोत्पादः । यत्र स्थित्वा बोधिसत्त्वो महासत्त्वो महतः सत्वराशेर् नियतस्याश्रुतां कारयिष्यति । तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः एकचित्तम् उत्पादयति । यावन्तः सत्त्वा नैरयिका वा तैर्यग्योनिका वा यामलौकिका वा दुःखवेदनां वेदयन्ति । तेषाम् अर्थायाहं तां दुःखवेदनां वेदयेयं । तत्र बोधिसत्त्वेन महासत्त्वेनात्तर्यवं चित्तम् उत्पादयितव्यं । एकैकस्याहं सत्त्वस्य कृते कल्पकोटीनियुतशतसहस्राणि त्तन् नैरयिकदुःखम् अनुभवेयं । यावन् न सत्त्वो ऽनुपरिशेषनिर्वाणधातौ परिनिर्वापितो भवेत् । एवम् एवोपायेन सर्वसत्त्वानां कृते तन् निरयिकं दुःखम् अनुभवेयं । यावन् न सर्वसत्त्वा अनुपविशेषे मिर्वाणधातौ परिनिर्वापयिता भवेयुः । पश्चाद् अहम् आत्मनः कृते कुशलमूलान्य् अवरोप्य कल्पकोटीनियुतशतसहस्रैर् अनेकान् बोधिसंस्कारान् स ं भृत्यानुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्येयं । अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमश् चित्तोत्पादः । यत्र स्थित्वा बोधिसत्त्वो महासत्त्वो महतः सत्त्वराशेर् नियतस्याग्रतां कारयिष्यति । तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन सततसमितम् उदारचित्तेन भवितव्यं । येनोदारचित्तेन सर्वसत्त्वानाम् अग्र्यतां कारयिष्यति । तत्रेयं बोधिसत्त्वस्य महासत्त्वस्योदारचित्तता । यत् पूर्वम् अचित्तोत्पादाय । न रागचित्तम् उत्पादयति । न द्वेषचित्तम् उत्पादयति । न मोहचित्तम् उत्पादयति । न विहिंसाचित्तम् उत्पादयति । न हिंसाचित्तम् उत्पादयति । न श्रावकचित्तम् उत्पाद्यति । न प्रत्येकबुद्धचित्तम् उत्पादयति । इयं बोधिसत्त्वस्य महासत्त्वस्योदारचित्तता । यया सर्वसत्त्वानाम् अग्र्यतां कारयितव्या । तया चोदारचित्ततया न मन्तव्यं ।
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेनाप्रकम्प्यचितेन भवितव्य । तत्रेयं बोधिसत्त्वस्य महासत्त्वस्याप्रकम्प्यचित्तता । यो ऽयं सर्वाकारज्ञताप्रतिसंयुक्तमनसिकारस् तेन चामनता । इयं बोधिसत्त्वस्य महासत्त्वस्याप्रकम्प्यचित्तता । यया सर्वसत्त्वानाम् अग्र्यतां कारयिष्यति । तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानाम् अन्तिके हितसुखचित्ततोत्पादयितव्या । तत्रेयं बोधिसत्त्वस्य महासत्त्वस्य हितसुखचित्तता । या सर्वसत्त्वानां त्राणता सर्वसत्त्वानां परित्यागिता तया चामनता । इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य हितसुखचित्तता यया सर्वसत्त्वानाम् अग्र्यतां कारयिष्यति । तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन सततसमितधर्मकामेन भवितव्यं । धर्मरतेन धर्मरामेण धर्मरामतायोगानुयुक्तेन भवितव्यं । तत्र कतमो धर्मो यः सर्वधर्माणाम् असकम्भदः । अयम् उच्यते धर्मः । तत्र कतमा धर्मकामता या धर्मेच्छाभिलाषः । इयम् उच्यते धर्मकामता । तत्र कतमा धर्मरतिः । यात्र धर्मे रतिर् अभिरतिर् अयम् उच्यते धर्मरतिः । तत्र कतमा धर्मारामता यद् धर्मगुणानुशंसादर्शनम् इयम् उच्यते धर्मारामता । तत्र कतमा धर्मारामतायोगम् अनुयुक्तता । यस्यैव धर्मस्य भावनता बहुलीकरणता इयम् उच्यते धर्मारामतायोगम् अनुयुक्तता । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरता महतः सत्त्वराशेर् अग्र्यता कारयितव्या । तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरताध्यात्मशून्यतायां स्थित्वा बहिर्धाशून्यतायां स्थित्वा अध्यात्मबहिर्धाशून्यतायां स्थित्वा शून्यताशून्यतायां स्थित्वा महाशून्यतायां स्थित्वा परमार्थशून्यतायां स्थित्वा संस्कृतशून्यतायां स्थित्वा असंस्कृतशून्यतायां स्थित्वा अत्यन्तशून्यतायां स्थित्वा अनवराग्रशून्यतायां स्थित्वा अनवकारशून्यतायां स्थित्वा प्रकृतिशून्यतायां स्थित्वा सर्वधर्मशून्यतायां स्थित्वा स्वलक्षणशून्यतायां स्थित्वा अनुपलम्भशून्यतायां स्थित्वा अभावशून्यतायां स्थित्वा स्वभावशून्यतायां स्थित्वा अभावस्वभावशून्यतायां स्थित्वा महतः सत्त्वराशेर् नियतस्याग्र्यता कारयितव्या ।
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरता स्मृत्युपस्थानेषु स्थित्वा सम्यक्प्रहाणेषु स्थित्वा ऋद्धिपादेषु स्थित्वा इन्द्रियेषु स्थित्वा बलेषु स्थित्वा बोध्यङ्गेषु स्थित्वा आर्याष्टाङ्गमार्गे स्थित्वा अन्यसत्येषु स्थित्वा ध्यानेषु स्थित्वा अप्रमाणेषु स्थित्वा आरूप्यसमापत्तिषु स्थित्वा विमोक्षेषु स्थित्वा अनुपूर्वविहारसमापत्तिषु स्थित्वा शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु स्थित्वा समाधिषु स्थित्वा धारणीमुखेषु स्थित्वा तथागतबलेषु स्थित्वा वैशारद्येषु स्थित्वा प्रतिस ं वित्सु स्थित्वा महामैत्र्यां स्थित्वा महाकरुणायां स्थित्वा अष्टादशावेणिकबुद्धधर्मेषु स्थित्वा महतः सत्त्वराशेर् नियतस्याग्र्यता कारयितव्या । तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरता शूरङ्गमसमाधौ स्थित्वा रत्नमुद्रायां समाधौ स्थित्वा सिंहविक्रीडिते समाधौ स्थित्वा सुचन्द्रसमाधौ स्थित्वा चन्द्रध्वजसमाधौ स्थित्वा सर्वधर्मोद्गते समाधौ स्थित्वा सर्वधर्ममुद्रायां समाधौ स्थित्वा विलोकितमूर्ध्नि समाधौ स्थित्वा धर्मधातुनियते समाधौ स्थित्वा नियतध्वजकेतौ समाधौ स्थित्वा वज्रोपमे समाधौ स्थित्वा सर्वधर्मप्रवेशमुद्रायां समाधौ स्थित्वा समाधिराजसुप्रतिष्ठिते समाधौ स्थित्वा बलव्यूहसमाधौ स्थित्वा समुद्गते समाधौ स्थित्वा निरुक्तिनियतप्रवेशे समाधौ स्थित्वा अधिवचनसंप्रवेशे समाधौ स्थित्वा दिग्विलोकिते समाधौ स्थित्वा आधारमुद्रायां समाधौ स्थित्वा अस ं प्रमोषे समाधौ स्थित्वा सर्वधर्मसमवसरणसागरमुद्रायां समाधौ स्थित्वा आकाशस्फुरणे समाधौ स्थित्वा वज्रमण्डले समाधौ स्थित्वा ध्वजाग्रकेयूरे समाधौ स्थित्वा इन्द्रकेतुसमाधौ स्थित्वा श्रोतोऽनुगते समाधौ स्थित्वा सिंहविक्रीडिते समाधौ स्थित्वा व्यक्त्यन्ते समाधौ स्थित्वा रणंजहे समाधौ स्थित्वा वैरोचने समाधौ स्थित्वा अनिमेषसमाधौ स्थित्वा अनिकेतस्थिते समाधौ स्थित्वा निश्चेते समाधौ स्थित्वा विमलप्रदीपे समाधौ स्थित्वा अनन्तप्रभे समाधौ स्थित्वा प्रभाकरे समाधौ स्थित्वा समन्तावभासे समाधौ स्थित्वा शुद्धावभासे समाधौ स्थित्वा विमलप्रभे समाधौ स्थित्वा रतिकरे समाधौ स्थित्वा विद्युत्प्रदीपे समाधौ स्थित्वा अक्षये समाधौ स्थित्वा अजये समाधौ स्थित्वा तेजोरत्यां समाधौ स्थित्वा क्षयाद्यगतसमाधौ स्थित्वा अनिन्द्ये समाधौ स्थित्वा विवर्णे समाधौ स्थित्वा सूर्यप्रदीपे समाधौ स्थित्वा चन्द्रविमले समाधौ स्थित्वा प्रज्ञाप्रदीपे समाधौ स्थित्वा शुद्धाप्रतिभासे समाधौ स्थित्वा आलोककरे समाधौ स्थित्वा काराकारे समाधौ स्थित्वा ज्ञानकेतुसमाधौ स्थित्वा वज्रोपमे समाधौ स्थित्वा चित्तस्थितिसमाधौ स्थित्वा समन्तालोके समाधौ स्थित्वा सुप्रतिष्ठिते समाधौ स्थित्वा रत्नकोटिसमाधौ स्थित्वा वरधर्ममुद्रायां समाधौ स्थित्वा सर्वधर्मसभायां समाधौ स्थित्वा रतिञ्जहेसमाधौ स्थित्वा धर्मोद्गते समाधौ स्थित्वा विकिरणे समाधौ स्थित्वा सर्वर्धर्मपदप्रभेदे समाधौ स्थित्वा समाक्षरावकारे समाधौ स्थित्वा अक्षरापगते समाधौ स्थित्वा आवरणच्छेदने समाधौ स्थित्वा अविकारे समाधौ स्थित्वा अप्रकारे समाधौ स्थित्वा नामनियतप्रवेशे समाधौ स्थित्वा अनिकेतचारिणि समाधौ स्थित्वा तिमिरापगते समाधौ स्थित्वा चारित्रवतिसमाधौ स्थित्वा अवले समाधौ स्थित्वा विषयतीर्णे समाधौ स्थित्वा सर्वगुणसञ्चयगते समाधौ स्थित्वा स्थितनिश्चित्तसमाधौ स्थित्वा शुभपुष्पितशुद्धिसमाधौ स्थित्वा बोध्यङ्गवत्यां स्थित्वा अनन्तप्रतिभाने समाधौ स्थित्वा असमसमसमाधौ स्थित्वा सर्वधर्मातिक्रमणे समाधौ स्थित्वा परिच्छेदकरे समाधौ स्थित्वा विमतिविकरणे समाधौ स्थित्वा निरधिक्षे समाधौ स्थित्वा एकव्यूहे समाधौ स्थित्वा आकाराभिनिर्हारे समाधौ स्थित्वा एकाकारे समाधौ स्थित्वा आकारानवकारे समाधौ स्थित्वा नैर्व्येधिसर्वभववलापगते समाधौ स्थित्वा सङ्केतरुतप्रवेशे समाधौ स्थित्वा गीर्घोषाक्षरे समाधौ स्थित्वा ज्वलनोल्कासमाधौ स्थित्वा लक्षणपरिशोधने समाधौ स्थित्वा अनभिलक्षिते समाधौ स्थित्वा सर्वाकारवरोपेते समाधौ स्थित्वा सर्वसुखदुःखनिरभिनन्दिसमाधौ स्थित्वा अक्षकरण्डे समाधौ स्थित्वा धारणीमतिसमाधौ स्थित्वा सम्यक्त्वमिथ्यात्वसंग्रसनसमाधौ स्थित्वा सर्वरोषनिरोधसंप्रशमनसमाधौ स्थित्वा अनुरोधाप्रतिरोधे समाधौ स्थित्वा सारवतिसमाधौ स्थित्वा परिपूर्णचन्द्रविमलप्रभे समाधौ स्थित्वा विद्युत्प्रभे समाधौ स्थित्वा महाव्यूहसमाधौ स्थित्वा सर्वाकारप्रभाकारसमाधौ स्थित्वा समाधिसमतासमाधौ स्थित्वा अरजोविरजोनययुक्तौ समाधौ स्थित्वा अरणसर्वसमरसरणे समाधौ स्थित्वा अनिलम्भनिकेतनिरते समाधौ स्थित्वा तथतास्थितनिश्चिन्ते समाधौ स्थित्वा कायकलिस ं प्रमथनसमाधौ स्थित्वा वाक्कलिविध्वंसनगगणकल्पे समाधौ स्थित्वा आकाशासङ्गविमुक्तिनिरुपलेपसमाधौ स्थित्वा महतः सत्त्वराशेर् नियतस्याग्र्यतां कारयितव्या । तच् चानुपलम्भयोगेन ।
इह सुभूते धर्मेषु स्थित्वा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् महतः सत्त्वराशेर् नियतस्याग्र्यतां कारयिष्यति । तेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते ।
अथायुष्माञ् छारद्वतीपुत्रो भगवन्तम् एतद् अवोचत् । ममापि भगवन् प्रतिभाति । येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते । भगवान् आह । प्रतिभातु ते शारद्वतीपुत्र येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते । शारद्वतीपुत्र आह । आत्मदृष्टेर् भगवन् प्रहाणाय सत्त्वेभ्यो धर्मं देशयति । सत्त्वदृष्टेः प्रहाणाय । जीवदृष्टेः प्रहाणाय । पोषदृष्टेः प्रहाणाय । पुद्गलदृष्टेः प्रहाणाय । पुरुषदृष्टेः प्रहाणाय । मनुजदृष्टेः प्रहाणाय । मानवदृष्टेः प्रहाणाय । कारकदृष्टेः प्रहाणाय । कारापकदृष्टेः प्रहाणाय । उत्थापकदृष्टेः प्रहाणाय । समुत्थापकदृष्टेः प्रहाणाय । वेदकदृष्टेः प्रहाणाय । वेदयितुकदृष्टेः प्रहाणाय । ज्ञानकदृष्टेः प्रहाणाय । पश्यकदृष्टेः प्रहाणाय । उच्छेददृष्टेः प्रहाणाय । शास्वतदृष्टेः प्रहाणाय । अस्तिदृष्टेः प्रहाणाय । नास्तिदृष्टेः प्रहाणाय । स्कन्धदृष्टेः प्रहाणाय । धातुदृष्टेः प्रहाणाय । आयतनदृष्टेः प्रहाणाय । प्रतीत्यसमुत्पादनदृष्टेः प्रहाणाय । सत्यदृष्टेः प्रहाणाय । पारमितादृष्टेः प्रहाणाय । शून्यतादृष्टेः प्रहाणाय । स्मृत्युपस्थानदृष्टेः प्रहाणाय । सम्यक्प्रहाणदृष्टेः प्रहाणाय । ऋद्धिपाददृष्टेः प्रहाणाय । इन्द्रियदृष्टेः प्रहाणाय । बलदृष्टेः प्रहाणाय । बोध्यङ्गदृष्टेः प्रहाणाय । आर्याष्टाङ्गमार्गदृष्टेः प्रहाणाय । आर्यसत्यदृष्टेः प्रहाणाय । ध्यानदृष्टेः प्रहाणाय । अप्रमाणदृष्टेः प्रहाणाय । आरूप्यसमापत्तिदृष्टेः प्रहाणाय । विमोक्षदृष्टेः प्रहाणाय । अनुपूर्वविहारसमापत्तिदृष्टेः प्रहाणाय । शून्यतानिमित्ताप्रणिहितविमोक्षमुखदृष्टेः प्रहाणाय । समाधिदृष्टेः प्रहाणाय । धारणीमुखदृष्टेः प्रहाणाय । तथागतबलदृष्टेः प्रहाणाय । वैशारद्यदृष्टेः प्रहाणाय । प्रतिस ं विद्दृष्टेः प्रहाणाय । महामैत्रीदृष्टेः प्रहाणाय । महाकरुणादृष्टेः प्रहाणाय । आवेणिकबुद्धधर्मदृष्टेः सत्त्वपरिपाकदृष्टेः प्रहाणाय । बुद्धक्षेत्रपरिशोधनदृष्टेः प्रहाणाय । बोधिदृष्टेः प्रहाणाय । बुद्धदृष्टेः प्रहाणाय । धर्मचक्रप्रवर्तनदृष्टेः प्रहाणाय । परिनिर्वाणदृष्टेः प्रहाणाय । सत्त्वेभ्यो धर्मं देशयत्य् अनुपलम्भयोगेन । तेनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते ।
अथायुष्मान् सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत् । केन कारणेनायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य रूपदृष्टिर् भवति । वेदनादृष्टिर् भवति । संज्ञादृष्टिर् भवति । संस्कारदृष्टिर् भवति । विज्ञानदृष्टिर् भवति । चक्षुर्दृष्टिर् भवति । श्रोत्रदृष्टिर् भवति । घ्राणदृष्टिर् भवति । जिह्वादृष्टिर् भवति । कायदृष्टिर् भवति । मनोदृष्टिर् भवति । रूपदृष्टिर् भवति । शब्ददृष्टिर् भवति । गन्धदृष्टिर् भवति । रसदृष्टिर् भवति । स्पर्शदृष्टिर् भवति । धर्मदृष्टिर् भवति । चक्षुर्विज्ञानदृष्टिर् भवति । श्रोत्रविज्ञानदृष्टिर् भवति । घ्राणविज्ञानदृष्टिर् भवति । जिह्वाविज्ञानदृष्टिर् भवति । कायविज्ञानदृष्टिर् भवति । मनोविज्ञानदृष्टिर् भवति । चक्षुःसंस्पर्शदृष्टिर् भवति । श्रोत्रसंस्पर्शदृष्टिर् भवति । घ्राणसंस्पर्शदृष्टिर् भवति । जिह्वासंस्पर्शदृष्टिर् भवति । कायसंस्पर्शदृष्टिर् भवति । मनःसंस्पर्शदृष्टिर् भवति । चक्षुःसंस्पर्शप्रत्ययवेदनादृष्टिर् भवति । श्रोत्रसंस्पर्शप्रत्ययवेदनादृष्टिर् भवति । घ्राणसंस्पर्शप्रत्ययवेदनादृष्टिर् भवति । जिह्वासंस्पर्शप्रत्ययवेदनादृष्टिर् भवति । कायसंस्पर्शप्रत्ययवेदनादृष्टिर् भवति । मनःसंस्पर्शप्रत्ययवेदनादृष्टिर् भवति । पृथिवीधातुदृष्टिर् भवति । अब्धातुदृष्टिर् भवति । तेजोधातुदृष्टिर् भवति । वायुधातुदृष्टिर् भवति । आकाशधातुदृष्टिर् भवति । विज्ञानधातुदृष्टिर् भवति । अविद्यादृष्टिर् भतति । संस्कारदृष्टिर् भवति । विज्ञानदृष्टिर् भवति । नामरूपदृष्टिर् भवति । षडायतनदृष्टिर् भवति । स्पर्शदृष्टिर् भवति । वेदनादृष्टिर् भवति । तृष्णादृष्टिर् भवति । उपादानदृष्टिर् भवति । भवदृष्टिर् भवति । जातिदृष्टिर् भवति । जरामरणदृष्टिर् भवति ।
दानपारमितादृष्टिर् भवति । शीलपारमितादृष्टिर् भवति । क्षान्तिपारमितादृष्टिर् भवति । वीर्यपारमितादृष्टिर् भवति । ध्यानपारमितादृष्टिर् भवति । प्रज्ञापारमितादृष्टिर् भवति । अध्यात्मशून्यतादृष्टिर् भवति । बहिर्धाशून्यतादृष्टिर् भवति । अध्यात्मबहिर्धाशून्यतादृष्टिर् भवति । शून्यताशून्यतादृष्टिर् भवति । महाशून्यतादृष्टिर् भवति । परमार्थशून्यतादृष्टिर् भवति । संस्कृतशून्यतादृष्टिर् भवति । असंस्कृतशून्यतादृष्टिर् भवति । अत्यन्तशून्यतादृष्टिर् भवति । अनवराग्रशून्यतादृष्टिर् भवति । अनवकारशून्यतादृष्टिर् भवति । प्रकृतिशून्यतादृष्टिर् भवति । सर्वधर्मशून्यतादृष्टिर् भवति । स्वलक्षणशून्यतादृष्टिर् भवति । अभावशून्यतादृष्टिर् भवति । स्वभावशून्यतादृष्टिर् भवति । अभावस्वभावशून्यतादृष्टिर् भवति ।
स्मृत्युपस्थानदृष्टिर् भवति । सम्यक्प्रहाणदृष्टिर् भवति । ऋद्धिपाददृष्टिर् भवति । इन्द्रियदृष्टिर् भवति । बलदृष्टिर् भवति । बोध्यङ्गदृष्टिर् भवति । आर्याष्टाङ्गमार्गदृष्टिर् भवति । आर्यसत्यदृष्टिर् भवति । ध्यानदृष्टिर् भवति । अप्रमाणदृष्टिर् भवति । आरूप्यसमापत्तिदृष्टिर् भवति । विमोक्षदृष्टिर् भवति । अनुपूर्वविहारसमापत्तिदृष्टिर् भवति । शून्यतानिमित्ताप्रणिहितविमोक्षमुखदृष्टिर् भवति । अभिज्ञादृष्टिर् भवति । समाधिदृष्टिर् भवति । धारणीमुखदृष्टिर् भवति । तथागतबलदृष्टिर् भवति । वैशारद्यदृष्टिर् भवति । प्रतिसंविद्दृष्टिर् भवति । महामैत्रीदृष्टिर् भवति । महाकरुणादृष्टिर् भवति । आवेणिकबुद्धधर्मदृष्टिर् भवति । बुद्धक्षेत्रशोधनदृष्टिर् भवति । बोधिदृष्टिर् भवति । बुद्धदृष्टिर् भवति । धर्मदृष्टिर् भवति । धर्मचक्रप्रवर्तनदृष्टिर् भवति । परिनिर्वाणदृष्टिर् भवति ।
आह । इहायुष्मान् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अनुपाय कौशल्येन रूपम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । वेदनाम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगन । संज्ञाम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । संस्कारान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । विज्ञानम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । चक्षुर् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । श्रोत्रम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । घ्राणम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । जिह्वाम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । कायम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । मन उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । रूपम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । शब्दम् उपलभ्य द्ष्टिम् उत्पादयत्य् उपलम्भयोगेन । गन्धम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । रसम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । स्पर्शम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । धर्मान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । चक्षुर्विज्ञानम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । श्रोत्रविज्ञानम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । घ्राणविज्ञामम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । जिह्वाविज्ञानम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेम । कायविज्ञानम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्बयोगेन । ममोविज्ञानम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेम । चक्षुःसंस्पर्शम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । श्रोत्रसंस्पर्शम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । घ्राणसंस्पर्शम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । जिह्वासंस्पर्शम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । कायसंस्पर्शम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । मनःसंस्पर्शम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । पृथिवीधातुम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । अब्धातुम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । तेजोधातुम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । वायुधातुम् उपलभ्य दृष्टिम् उत्पादयत्य् उपकम्भयोगेन । आकाशधातुम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । विज्ञानधातुम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । अविद्याम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । संस्कारान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । विज्ञानम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । नामरूपम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । षडायतनम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । स्पर्शम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । वेदनाम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । तृष्णाम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । उपादानम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेम । भवम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । जातिम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । जरामरणम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन ।
दानपारमिताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । शीलपारमिताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । क्षान्तिपारमिताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । वीर्यपारमिताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । ध्यानपारमिताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । प्रज्ञापारमिताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन ।
अध्यात्मशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । बहिर्धाशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । अह्यात्मबहिर्धाशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । शून्यताशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य्
उपलम्भयोगेन । महाशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । परमार्थशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । संस्कृतशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । असंस्कृतशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । अत्यन्तशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । अनवराग्रशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । अनवकारशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । प्रकृतिशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । सर्वधर्मशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । स्वलक्षणशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । अनुपलम्भशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । अभावशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । स्वभावशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । अभावस्वभावशून्यताम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन ।
स्मृत्युपस्थानान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । सम्यक्प्रहाणान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । ऋद्धिपादान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । इन्द्रियान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । बलान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । बोध्यङ्गान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । आर्याष्टाङ्गमार्गम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेम । आर्यसत्यान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । ध्यानान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । अप्रमाणान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । आरूप्यसमापत्तीर् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । विमोक्षान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । अनुपूर्वविहारसमापत्तीर् उपलभ्य दृष्टिम् उत्पादयत्यि अनुपलम्भयोगेन । शून्यतानिमित्ताप्रण्हितविमोक्षमुखान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । अभिज्ञा उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । समाधीन् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । धारणीमुखान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । तथागतबलान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । वैशारद्यान्य् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । प्रतिस ं विद उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । महामैत्रीम् उपलभ्य दृष्टिम् उत्पादयत्य् उपस ं भयोगेन । महाकरुणाम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । आवेणिकबुद्धधर्मान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेम । सत्त्वपरिपाकम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । बुद्धक्षेत्रपरिशोधनम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । बोधिम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । बुद्धम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । धर्मम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । धर्मचक्रप्रवर्तनम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन । परिनिर्वाणम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन ।
अनेन कारणेनायुश्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य रूपदृष्टिर् भवति । वेदनादृष्टिर् भवति । संज्ञादृष्टिर् भवति । संस्कारदृष्टिर् भवति । विज्ञानदृष्टिर् भवति । अनेन कारणेन चक्षुर्दृष्टिर् भवति । श्रोत्रदृष्टिर् भवति । घ्राणदृष्टिर् भवति । जिह्वादृष्टिर् भवति । कायदृष्टिर् भवति । मनोदृष्टिर् भवति । अनेन कारणेन सुरूपदृष्टिर् भवति । शब्ददृष्टिर् भवति । गन्धदृष्टिर् भवति । रसदृष्टिर् भवति । स्पर्शदृष्टिर् भवति । धर्मदृष्टिर् भवति । अनेन कारणेन चक्षुर्विज्ञानदृष्टिर् भवति । श्रोत्रविज्ञानदृष्टिर् भवति । घ्राणविज्ञानदृष्टिर् भवति । जिह्वाविज्ञानदृष्टिर् भवति । कायविज्ञानदृष्टिर् भवति । मनोविज्ञानदृष्टिर् भवति । अनेन कारणेन चक्षुःसंस्पर्शदृष्टिर् भवति । श्रोत्रसंस्पर्शदृष्टिर् घ्राणसंस्पर्शदृष्टिर् जिह्वासंस्पर्शदृष्टिः कायसंस्पर्शदृष्टिर् मनःसंस्पर्शदृष्टिर् भवति । अनेन कारणेन चक्षुःसंस्पर्शप्रत्ययवेदनादृष्टिर् भवति । श्रोत्रसंस्पर्शप्रत्ययवेदनादृष्टिर् घ्राणसंस्पर्शप्रत्ययवेदनादृष्टिर् जिह्वासंस्पर्शप्रत्ययवेदनादृष्टिः कायसंस्पर्शप्रत्ययवेदनादृष्टिर् मनःसंस्पर्शप्रत्ययवेदनादृष्टिर् भवति ।
अनेन कारणेन पृथिवीधातुदृष्टिर् भवति । अब्धातुदृष्टिस् तेजोधातुदृष्टिर् वायुधातुदृष्टिर् आकाशधातुदृष्टिर् विज्ञानधातुदृष्टिर् भवति । अनेन कारणेनाविद्यादृष्टिर् भवति । संस्कारदृष्टिर् विज्ञानदृष्टिर् नामरूपदृष्टिः षडायतनदृष्टिः स्पर्शदृष्टिर् वेदनादृष्टिस् तृष्णादृष्टिर् उपादानदृष्टिर् भवदृष्टिर् जातिदृष्टिर् जरामरणदृष्टिर् भवति । अनेन कारणेन दानपारमितादृष्टिर् भवति । शीलपारमितादृष्टिः क्षान्तिपारमितादृष्टिर् वीर्यपारमितादृष्टिर् ध्यानपारमितादृष्टिः प्रज्ञापारमितादृष्टिर् भवति ।
अनेन कारणेनाध्यात्मशून्यतादृष्टिर् भवति । बहिर्धाशून्यतादृष्टिर् अध्यात्मबहिर्धाशून्यतादृष्टिः शून्यताशून्यतादृष्टिर् महाशून्यतादृष्टिः परमार्थशून्यतादृष्टिः संस्कृतशून्यतादृष्टिर् असंस्कृतशून्यतादृष्टिर् अत्यन्तशून्यतादृष्टिर् अनवराग्रशून्यतादृष्टिर् अनवकारशून्यतादृष्टिः प्रकृतिशून्यतादृष्टिः सर्वधर्मशून्यतादृष्टिः स्वलक्षणशून्यतादृइष्टिर् अनुपलम्भशून्यतादृष्टिर् अभावशून्यतादृष्टिः स्वभावशून्यतादृइष्टिर् अभावस्वभावशून्यतादृष्टिर् भवति ।
अनेन कारणेन स्मृत्युपस्थानदृष्टिर् भवति । सम्यक्प्रहाणदृष्टिर् ऋद्धिपाददृष्टिर् इन्द्रियदृष्टिर् बलदृष्टिर् बोध्यङ्गदृष्टिर् आर्याष्टाङ्गमार्गदृष्टिर् आर्यसत्यदृष्टिर् ध्यानदृष्टिर् अप्रमाणदृष्टिर् आरूप्यसमापत्तिदृष्टिर् विमोक्षदृष्टिर् अनुपूर्वविहारदृष्टिः शून्यतानिमित्ताप्रणिहितविमोक्षमुखदृष्टिर् अभिज्ञादृष्टिः समाधिदृष्टिर् धारणीमुखदृष्टिस् तथागतबलदृष्टिर् वैशारद्यदृष्टिः प्रतिस ं विद्दृष्टिः महामैत्रीदृष्टिर् महाक्ररुणादृष्टिर् आवेणिकबुद्धधर्मदृष्टिः सत्त्वपरिपाकदृष्टिर् बुद्धक्षेत्रपरिशोधनदृष्टिर् बोधिदृष्टिर् बुद्धदृष्टिर् धर्मदृष्टिर् धर्मचक्रप्रवर्तनदृष्टिः परिनिर्वाणदृष्टिर् भवति ।
तत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेनैषां दृष्टिगतानां प्रहाणाय धर्मं देशयत्य् अनुपलम्भयोगेन । अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् । ममापि भगवान् तत् प्रतिभाति येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते । भगवान् आह । प्रतिभातु ते सुभूते । सुभूतिर् आह । यद् अपि भगवान् बोधिचित्तम् असमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैस् तत्रापि चित्ते ऽसक्तस् तेनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते । तत् कस्य हेतोः । तथा हि तत् सर्वज्ञताचित्तम् अनाश्रवम् अपर्यापन्नं यद् अपि तत् सर्वज्ञताचित्तम् अनाश्रवम् अपर्यापन्नं त्रैधातुके तत्रापि चित्ते ऽसक्तः प्रकृतिशून्यताम् उपादाय । तस्माद् बोधिसत्त्वो महासत्त्व इति संख्यां गच्छति ।
अथायुष्माञ् छारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत् । कतमस् तद् आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्यासमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः । सुभूतिर् आह । इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय । न कस्यचिद् धर्मस्योत्पादं न निरोधं समनुपश्यति । न हानिं न वृद्धिं न गतिं नागतिं न संक्लेशं न व्यवदानं । यत्र चायुष्मन् शारद्वतीपुत्र नोत्पादो न निरोधो न हानिर् न वृद्धिर् न गतिर् नागतिर् न संक्लेशो न व्यवदानं तत्र न श्रावकचित्तं न प्रत्येकचित्तं न प्रत्येकबुद्धचित्तं न बोधिचित्तं न सम्यक्स ं बुद्धचित्तम् इदम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्यासमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः । आह । यद् आयुष्मन् सुभूते एवं वदसि । यद् अपि तत् सर्वज्ञताचित्तम् अनाश्रवम् अपर्यापन्नं तत्रापि चित्तेन सक्त इति । न ह्य् आयुष्मन् सुभूते रूपम् अप्य् असक्तं वेदनापि संज्ञापि संस्कारा अपि विज्ञानम् अप्य् असक्तं चक्षुर् अप्य् असक्तं श्रोत्रम् अप्य् असक्तं घ्राणम् अप्य् असक्तं जिह्वाप्य् असक्ता कायो ऽप्य् असक्तः मनो ऽप्य् असक्तं । रूपम् अप्य् असक्तं शब्दो ऽप्य् असक्तो गन्धो ऽप्य् असक्तो रसो ऽप्य् असक्तः स्पर्शो ऽप्य् असक्तः धर्मो ऽप्य् असक्तः । चक्षुर्विज्ञानम् अप्य् असक्तं श्रोत्रविज्ञानम् अप्य् असक्तं घ्राणविज्ञानम् अप्य् असक्तं जिह्वाविज्ञानम् अप्य् असक्तं कायविज्ञानम् अप्य् असक्तं मनोविज्ञानम् अप्य् असक्तं । चक्षुःसंस्पर्शो ऽप्य् असक्तः श्रोत्रसंस्पर्शो ऽप्य् असक्तः घ्राणसंस्पर्शो ऽप्य् असक्तः जिह्वासंस्पर्शो ऽप्य् असक्तः । कायसंस्पर्शो ऽप्य् असक्तः मनःसंस्पर्शो ऽप्य् असक्तः । चक्षुःसंस्पर्शप्रत्ययवेदनाप्य् असक्ता श्रोत्रसंस्पर्शप्रत्ययवेदनाप्य् असक्ता । घ्राणसंस्पर्शप्रत्ययवेदनाप्य् असक्ता । जिह्वासंस्पर्शप्रत्ययवेदनाप्य् असक्ता । कायसंस्पर्शप्रत्ययवेदनाप्य् असक्ता । मनःसंस्पर्शप्रत्ययवेदनाप्य् असक्ता ।
पृथिवीधातुर् अप्य् असक्तः । अब्धातुर् अप्य् असक्तः । तेजोधातुर् अप्य् असक्तः । वायुधातुर् अप्य् असक्तः । आकाशधातुर् अप्य् असक्तः । विज्ञानधातुर् अप्य् असक्तः । अविद्याप्य् असक्ता संस्काराप्य् असक्ताः । विज्ञानम् अप्य् असक्तं । नामरूपम् अप्य् असक्तं । षडायतनम् अप्य् असक्तं । स्पर्शो ऽप्य् असक्तः । वेदनाप्य् असक्ता । तृष्णाप्य् असक्ता । उपादानम् अप्य् असक्तं । भावो ऽप्य् असक्तः । जातिर् अप्य् असक्ता । जरामरणम् अप्य् असक्तं ।
दानपारमिताप्य् असक्ता । शीलपारमिताप्य् असका । क्षान्तिपारमिताप्य् असक्ता । वीर्यपारमिताप्य् असक्ता । ध्यानपारमिताप्य् असक्ता । प्रज्ञापारमिताप्य् असक्ता ।
अध्यात्मशून्यताप्य् असक्ता । बहिर्धाशून्यताप्य् असक्ता । अध्यात्मबहिर्धाशून्यताप्य् असक्ता । शून्यताशून्यताप्य् असक्ता । महाशून्यताप्य् असक्ता । परमार्थशून्यताप्य् असक्ता । संस्कृतशून्यताप्य् असक्ता । असंस्कृतशून्यताप्य् असक्ता । अत्यन्तशून्यताप्य् असक्ता । अनवराग्रशून्यताप्य् असक्ता । अनवकारशून्यताप्य् असक्ता । प्रकृतिशून्यताप्य् असक्ता । सर्वधर्मशून्यताप्य् असक्ता । स्वलक्षणशून्यताप्य् असक्ता । अनुपलम्भशून्यताप्य् असक्ता । अभावशून्यताप्य् असक्ता । स्वभावशून्यताप्य् असक्ता । अभावस्वभावशून्यताप्य् असक्ता ।
स्मृत्युपस्थानान्य् अप्य् असक्तानि । सम्यक्प्रहाणान्य् अप्य् असक्तानि । ऋद्धिपादा अप्य् असक्ताः । इन्द्रियान्य् अप्य् असक्तानि । बलान्य् अप्य् असक्तानि । बोध्यङ्गान्य् अप्य् असक्तानि । आर्याष्टाङ्गमार्गो ऽप्य् असक्तः । आर्यसत्यान्य् अप्य् असक्तानि । ध्यानान्य् अप्य् असक्तानि । अप्रमाणान्य् अप्य् असक्तानि । आरूप्यसमापत्तयो ऽप्य् असक्ताः । विमोक्षा अप्य् असक्ताः । अनुपूर्वविहारसमापत्तयो ऽप्य् असक्ताः । शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अप्य् असक्तानि । अभिज्ञा अप्य् असक्ताः । समाधयो ऽप्य् असक्ता । धारणीमुखान्य् अप्य् असक्तानि । तथागतबलान्य् अप्य् असक्तानि । वैशारद्यान्य् अप्य् असक्तानि । प्रतिस ं विदो ऽप्य् असक्ताः । महामैत्र्य् अप्य् असक्ता । महाकरुणाप्य् असक्ता । आवेणिकबुद्धधर्मा अप्य् असक्ताः । सर्वज्ञताप्य् असक्ता । मार्गाकारज्ञाताप्य् असक्ता । सर्वाकारज्ञताप्य् असक्ता ।
सुभूतिर् आह । एवम् एतद् आयुस्मञ् छारद्वतीपुत्र रूपम् अप्य् असक्तं । वेदनाप्य् असक्ता । संज्ञाप्य् असक्ता । संस्कारा अप्य् असक्ताः । विज्ञानम् अप्य् असक्तं । चक्षुर् अप्य् असक्तं । श्रोत्रम् अप्य् असक्तं । घ्राणम् असक्तं । जिह्वाप्य् असक्ता । कायो ऽप्य् असक्तः । मनो ऽप्य् असक्तं । रूपम् अप्य् असक्तं । शब्दो ऽप्य् असक्तः । गन्धो ऽप्य् असक्तः । रसो ऽप्य् असक्तः । स्पर्शो ऽप्य् असक्तः । धर्मा अप्य् असक्ताः । चक्षुर्विज्ञानम् अप्य् असक्तं । श्रोत्रविज्ञानम् अप्य् असक्तं । घ्राणविज्ञानम् अप्य् असक्तं । जिह्वाविज्ञानम् अप्य् असक्तं । कायविज्ञानम् अप्य् असक्तं । मनोविज्ञानम् अप्य् असक्तं । चक्षुःसंस्पर्शो ऽप्य् असक्तः । श्रोत्रसंस्पर्शो ऽप्य् असक्तः । घ्राणसंस्पर्शो ऽप्य् असक्तः । जिह्वासंस्पर्शो ऽप्य् असक्तः । कायसंस्पर्शो ऽप्य् असक्तः । मनःसंस्पर्शो ऽप्य् असक्तः । चक्षुःसंस्पर्शप्रत्ययवेदनाप्य् असक्ता । श्रोत्रसंस्पर्शप्रत्ययवेदनाप्य् असक्ता । घ्राणसंस्पर्शप्रत्ययवेदनाप्य् असक्ता । जिह्वासंस्पर्शप्रत्ययवेदनाप्य् असक्ता । कायसंस्पर्शप्रत्ययवेदनाप्य् असक्ता । मनःसंस्पर्शप्रत्ययवेदनाप्य् असक्ता ।
पृथिवीधातुर् अप्य् असक्तः । अब्धातुर् अप्य् असक्तः । तेजोधातुर् अप्य् असक्तः । वायुधातुर् अप्य् असक्तः । आकाशधातुर् अप्य् असक्तः । विज्ञानधातुर् अप्य् असक्तः । अविद्याप्य् असक्ता । संस्कारा अप्य् असक्ताः । विज्ञानम् अप्य् असक्तं । नामरूपम् अप्य् असक्तं । षडायतनम् अप्य् असक्तं । स्पर्शो ऽप्य् असक्तः । वेदनाप्य् असक्ता । तृष्णाप्य् असक्ता । उपादानम् अप्य् असक्तं । भवो ऽप्य् असक्तः । जातिर् अप्य् असक्ता । जरामरणम् अप्य् असक्तं ।
दानपारमिताप्य् असक्ता । शीलपारमिताप्य् असक्ता । क्षान्तिपारमिताप्य् असक्ता । वीर्यपारमिताप्य् असक्ता । ध्यानपारमिताप्य् असक्ता । प्रज्ञापारमिताप्य् असक्ता ।
अध्यात्मशून्यताप्य् असक्ता । बहिर्धाशून्यताप्य् असक्ता । अध्यात्मबहिर्धाशून्यताप्य् असक्ता । शून्यताशून्यताप्य् असक्ता । महाशून्यताप्य् असक्ता । परमार्थशून्यताप्य् असक्ता । संस्कृतशून्यताप्य् असक्ता । असंस्कृतशून्यताप्य सक्ता । अत्यन्तशून्यताप्य् असक्ता । अनवराग्रशून्यताप्य् असक्ता । अनवकारशून्यताप्य् असक्ता । प्रकृतिशून्यताप्य् असक्ता । सर्वधर्मशून्यताप्य् असक्ता । स्वलक्षणशून्यताप्य् असक्ता । अनुपलम्भशून्यताप्य् असक्ता । अभावशून्यताप्य् असक्ता । स्वभावशून्यताप्य् असक्ता । अभावस्वभावशून्यताप्य् असक्ता ।
स्मृत्युपस्थानान्य् अप्य् असक्तानि । सम्यक्प्रहाणान्य् अप्य् असक्तानि । ऋद्धिपादा अप्य् असक्ताः । इन्द्रियान्य् अप्य् असक्तानि । बलान्य् अप्य् असक्तानि । बोध्यङ्गान्य् अप्य् असक्तानि । आर्याष्टाङ्गमार्गो ऽप्य् असक्तः । आर्यसत्यान्य् अप्य् असक्तानि । ध्यानान्य् अप्य् असक्तानि । अप्रमाणान्य् अप्य् असक्तानि । आरूप्यसमापत्तयो ऽप्य् असक्ताः । विमोक्षा अप्य् असक्ताः । अनुपूर्वविहारसमापत्तयो ऽप्य् असक्ताः । शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अप्य् असक्तानि । अभिज्ञा अप्य् असक्ताः । समाधयो ऽप्य् असक्ताः । धारणीमुखान्य् अप्य् असक्तानि । तथागतबलान्य् अप्य् असक्तानि । वैशारद्यान्य् अप्य् असक्तानि । प्रतिस ं विदो ऽप्य् असक्ताः । महामैत्र्य् अप्य् असक्ता । महाकरुणाप्य् असक्ता । आवेणिकबुद्धधर्मा अप्य् असक्ताः । सर्वज्ञताप्य् असक्ता । मार्गाकारज्ञताप्य् असक्ता । सर्वाकारज्ञताप्य् असक्ता ।
आह । यद् अप्य् आयुष्मान् सुभूतिर् एवम् आह । तद् अपि सर्वज्ञताचित्तम् अनाश्रवम् अपर्यापन्नम् इति । तत्र आयुष्मन् सुभूते बालपृथग्जनानाम् अपि चित्तम् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । श्रावकप्रत्येकबुद्धानाम् अपि बुद्धानाम् अपि भगवताम् अपि चित्तम् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । सुभूतिर् आह । आयुष्मन् शारद्वतीपुत्र बालपृथग्जनानाम् अपि चित्तम् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । श्रावकानाम् अपि चित्तम् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । प्रत्येकबुद्धानाम् अपि चित्तम् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । बुद्धानाम् अपि भगवतां चित्तम् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । नन्व् आयुष्मन् सुभूते रूपम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । संज्ञाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । संस्कारा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । विज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । चक्षुर् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । श्रोत्रम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । घ्राणम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । जिह्वाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । कायो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । मनो ऽप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । रूपम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । शब्दो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । गन्धो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । रसो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । स्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । धर्मा अप्य् अनश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । चक्षुर्विज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । श्रोत्रविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । घ्राणविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । जिह्वाविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । कायविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । मनोविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । चक्षुःसंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । श्रोत्रसंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । घ्राणसंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । जिह्वासंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । कायसंस्पर्शो ऽप्य् अनाश्रवो ऽप्य् अपर्यापन्नः प्रकृतिशून्यताम् उपादाय । मनःसंस्पर्शो ऽप्य् अनाश्रवो अपर्यापन्नः प्रकृतिशून्यताम् उपादाय । चक्षुःसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । श्रोत्रसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । घ्राणसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । जिह्वासंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । कायसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । मनःसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय ।
पृथिवीधातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । अब्धातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । तेजोधातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । वायुधातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । आकाशधातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । विज्ञानधातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । अविद्याप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । संस्कारा अप्य् अनाश्रवाः अपर्यापन्ना प्रकृतिशून्यताम् उपादाय । विज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । नामरूपम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । षडायतनम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । स्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । वेदना प्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । तृष्णाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । उपादानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । भावो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । जातिर् अप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । जरामरणम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय ।
दानपारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । शीलपारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । क्षान्तिपारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । वीर्यपारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । ध्यानपारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । प्रज्ञापारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय ।
अध्यात्मशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । बहिर्धाशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । अध्यात्मबहिर्धाशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । शून्यताशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । महाशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । परमार्थशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । संस्कृतशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । असंस्कृतशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । अत्यन्तशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । अनवराग्रशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । अनवकारशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । प्रकृतिशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । सर्वधर्मशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । स्वलक्षणशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । अनुपलम्भशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । अभावशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । स्वभावशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । अभावस्वभावशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय ।
स्मृत्युपस्थानान्य् अप्य् अनाश्रवान्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । सम्यक्प्रहाणान्य् अप्य् अनाश्रवान्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । ऋद्धिपादा अप्य् अनाश्रावा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । इन्द्रियान्य् अप्य् अनाश्रवान्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । बलान्य् अप्य् अनाश्रवान्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । बोध्यङ्गान्य् अप्य् अनाश्रवान्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । मार्गो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । आर्यसत्यान्य् अप्य् अनाश्रवान्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । ध्यानान्य् अप्य् अनाश्रवान्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । अप्रमाणान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । आरूप्यसमापत्तयो अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । विमोक्षा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । अनुपूर्वविहारसमापत्तयो ऽप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । अभिज्ञा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । समाधयो ऽप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । धारणीमुखान्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । तथागतबलान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । वैशारद्यान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । प्रतिस ं विदो ऽप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । महामैत्र्य् अप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । महाकरुणाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । आवेणिकबुद्धधर्मा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । सर्वज्ञताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । मार्गाकारज्ञताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । सर्वाकारज्ञताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय ।
सुभूतिर् आह । एवम् एतद् आयुष्मन् शारद्वतीपुत्र यथा वदसि । रूपम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । संज्ञाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । संस्कारा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । विज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय ।
चक्षुर् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । श्रोत्रम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । घ्राणम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । जिह्वाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । कायो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । मनो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । रूपम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । शब्दो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । गन्धो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । रसो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । स्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । धर्मा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय ।
चक्षुर्विज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । श्रोत्रविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । घ्राणविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । जिह्वाविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । कायविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । मनोविज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । चक्षुःसंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । श्रोत्रसंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । घ्राणसंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । जिह्वासंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । कायसंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । मनःसंस्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । चक्षुःसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । श्रोत्रसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । घ्राणसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । जिह्वासंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । कायसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । मनःसंस्पर्शजा वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय ।
पृथिवीधातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाद्य । अब्धातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाद्य । तेजोधातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । वायुधातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । आकाशधातुर् अप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । अविद्याप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । संस्कारा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । विज्ञानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । नामरूपम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । षडायतनम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । स्पर्शो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । वेदनाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । तृष्णाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । उपादानम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय । भवो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । जातिर् अप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । जरामरणम् अप्य् अनाश्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय ।
दानपारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । शीलपारमिताप्य् अनाश्रवार्यापन्ना प्रकृतिशून्यताम् उपादाय । क्षान्तिपारमिताप्य् अनाश्रवार्यापन्ना प्रकृतिशून्यताम् उपादाय । वीर्यपारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । ध्यानपारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । प्रज्ञापारमिताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय ।
अध्यात्मशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । बहिर्धाशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । अध्यात्मबहिर्धाशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । शून्यताशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । महाशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । परमार्थशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । संस्कृतशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । असंस्कृतशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । अत्यन्तशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । अनवराग्रशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । अनवकारशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । प्रकृतिशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । सर्वधर्मशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । स्वलक्षणशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । अनुपलम्भशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । अभावशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । स्वभावशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । अभावस्वभावशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय ।
स्मृत्युपस्थानान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । सम्यक्प्रहाणान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । ऋद्धिपादा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । इन्द्रियान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । बलान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । बोध्यङ्गान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । आर्याष्टाङ्गमार्गो ऽप्य् अनाश्रवो ऽपर्यापन्नः प्रकृतिशून्यताम् उपादाय । आर्यसत्यान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । ध्यानान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । अप्रमाणान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । आरूप्यसमापत्तयो ऽप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । विमोक्षा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । अनुपूर्वविहारसमापत्तयो ऽप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । अभिज्ञा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । समाधयो ऽप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । धारणीमुखान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । तथागतबलान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । वैशारद्यान्य् अप्य् अनाश्रवाण्य् अपर्यापन्नानि प्रकृतिशून्यताम् उपादाय । प्रतिस ं विदो ऽप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । महामैत्र्य् अप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । महाकरुणाप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । आवेणिकबुद्धर्मा अप्य् अनाश्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय । सर्वज्ञताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । मार्गाकारज्ञताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय । सर्वाकारशून्यताप्य् अनाश्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय ।
आह । यद् अप्य् आयुष्मान् सुभूतिर् एवम् आह । अचित्तत्वात् तत्रापि चित्ते ऽसक्त इति । न त्व् आयुष्मन् सुभूते रूपम् अपि रूपे ऽसक्तं । अवेदनापि वेदनायाम् असक्ता । असंज्ञापि संज्ञायाम् असक्ता । असंस्कारा अपि संस्कारेष्व् असक्ताः । अविज्ञानम् अपि विज्ञाने ऽसक्तं । अचक्षुर् अपि चक्षुष्य् असक्तं । अश्रोत्रम् अपि श्रोत्रे ऽसक्तं । अघ्राणम् अपि घ्राणे ऽसक्तं । अजिह्वापि जिह्वायाम् असक्ता । अकायो ऽपि काये ऽसक्तः । अमनो ऽपि मनस्य् असक्तं । अरूपम् अपि रूपे ऽसक्तं । अशब्दो ऽपि शब्दे ऽसक्तः । अगन्धो ऽपि गन्धे ऽसक्तः । अरसो ऽपि रसे ऽसक्तः । अस्पर्शो ऽपि स्पर्शे ऽसक्तः । अधर्मा अपि धर्मेष्व् असक्ताः । अचक्षुर्विज्ञानम् अपि चक्षुर्विज्ञाने ऽसक्तं । अश्रोत्रविज्ञानम् अपि श्रोत्रविज्ञाने ऽसक्तं । अघ्राणविज्ञानम् अपि घ्राणविज्ञाने ऽसक्तं । अजिह्वाविज्ञानम् अपि जिह्वाविज्ञाने ऽसक्तं । अकायविज्ञानम् अपि कायविज्ञाने ऽसक्तं । अमनोविज्ञानम् अपि ममोविज्ञाने ऽसक्तं । अचक्षुःसंस्पर्शो ऽपि चक्षुःसंस्पर्शे ऽसक्तः । अश्रोत्रसंस्पर्शो ऽपि श्रोत्रसंस्पर्शे ऽसक्तः । अघ्राणसंस्पर्शो ऽपि घ्राणसंस्पर्शे ऽसक्तः । अजिह्वासंस्पर्शो ऽपि जिह्वासंस्पर्शे ऽसक्तः । अकायसंस्पर्शो ऽपि कायसंस्पर्शे ऽसक्तः । अमनःसंस्पर्शो ऽपि मनःसंस्पर्शे ऽसक्तः । अचक्षुःसंस्पर्शजा वेदनापि चक्षुःसंस्पर्शजावेदनायाम् असक्ता । अश्रोत्रसंस्पर्शजापि वेदना श्रोत्रसंस्पर्शजावेदनायाम् असक्ता । अघ्राणसंस्पर्शजापि वेदना घ्राणसंस्पर्शजावेदनायाम् असक्ता । अजिह्वासंस्पर्शजापि वेदना जिह्वासंस्पर्शजावेदनायाम् असक्ता । अकायसंस्पर्शजापि वेदना कायसंस्पर्शजावेदनायाम् असक्ता । अमनःसंस्पर्शजापि वेदना मनःसंस्पर्शजा वेदनायाम् असक्ता ।
अपृथिवीधातुर् अपि पृथिवीधाताव् असक्तः । अनब्धातुर् अपि अब्धाताव् असक्तः । अतेजोधातुर् अपि तेजोधाताव् असक्तः । अवायुधातुर् अपि वायुधाताव् असक्तः । अनाकाशधातुर् अपि आकाशधाताव् असक्तः । अविज्ञानधातुर् अपि विज्ञानधाताव् असक्तः । अनविद्याप्य् अविद्यायाम् असक्ता । असंस्कारा अपि संस्कारेष्व् असक्ताः । अविज्ञानम् अपि विज्ञाने ऽसक्तं । अनामरूपम् अपि नामरूपे ऽसक्तं । अषडायतनम् अपि षडायतने ऽसक्तं । अस्पर्शो ऽपि स्पर्शे ऽसक्तः । अवेदनापि वेदनायाम् असक्ता । अतृष्णापि तृष्णायाम् असक्ता । अनुपादानम् अप्य् उपादाने ऽसक्तं । अभवो ऽपि भवे ऽसक्तः । अजातिर् अपि जाताव् असक्ता । अजरामरणम् अपि जरामरणे ऽसक्तं ।
अदानपारमितापि दानपारमितायाम् असक्ता । अशीलपारमितापि शीलपारमितायाम् असक्ता । अक्षान्तिपारमितापि क्षान्तिपारमितायाम् असक्ता । अवीर्यपारमितापि वीर्यपारमितायाम् असक्ता । अध्यानपारमितापि ध्यानपारमितायाम् असक्ता । अप्रज्ञापारमितापि प्रज्ञापारमितायाम् असक्ता ।
अनध्यात्मशून्यताप्य् अध्यात्मशून्यतायाम् असक्ता । अबहिर्धाशून्यताप्य् बहिर्धाशून्यतायाम् असक्ता । अनध्यात्मबहिर्धाशून्यतापि अध्यात्मबहिर्धाशून्यतायाम् असक्ता । अशून्यताशून्यतापि शून्यताशून्यतायाम् असक्ता । अमहाशून्यतापि महाशून्यतायाम् असक्ता । अपरमार्थशून्यतापि परमार्थशून्यतायाम् असक्ता । असंस्कृतशून्यतापि संस्कृतशून्यतायाम् असक्ता । अनसंस्कृतशून्यतापि असंस्कृतशून्यतायाम् असक्ता । अनत्यन्तशून्यताप्य् अत्यन्तशून्यतायाम् असक्ता । अननवराग्रशून्यताप्य् अनवराग्रशून्यतायाम् असक्ता । अननवकारशून्यताप्य् अनवकारशून्यतायाम् असक्ता । अप्रकृतिशून्यतापि प्रकृतिशून्यतायाम् असक्ता । असर्वधर्मशून्यतापि सर्वधर्मशून्यतायाम् असक्ता । अस्वलक्षणशून्यतापि स्वलक्षणशून्यतायाम् असक्ता । अननुपलम्भशून्यताप्य् अनुपलम्भशून्यतायाम् असक्ता । अनभावशून्यताप्य् अभावशून्यतायाम् असक्ता । अस्वभावशून्यतापि स्वभावशून्यतायाम् असक्ता । अनभावस्वभावशून्यताप्य् अभावस्वभावशून्यतायाम् असक्ता ।
अस्मृत्युपस्थानान्य् अपि स्मृत्युपस्थानेष्व् असक्तानि । असम्यक्प्रहाणान्य् अपि सम्यक्प्रहाणेष्व् असक्तं । अनृद्धिपादा अपि ऋद्धिपादेष्व् असक्ताः । अनिन्द्रियान्य् अपीन्द्रियेष्व् असक्तानि । अबलान्य् अपि बलेष्व् असक्तानि । अबोध्यङ्गान्य् अपि बोध्यङ्गेष्व् असक्तानि । अनार्याष्टाङ्गमार्गो ऽप्य् आर्याष्टाङ्गमार्गे ऽसक्तः । अनार्यसत्यान्य् अप्य् आर्यसत्येष्व् असक्तानि । अध्यानान्य् अपि ध्यानेष्व् असक्तानि । अनप्रमाणान्य् अप्य् अप्रमाणेष्व् असक्तानि । अनारूप्यसमापत्तयो ऽप्य् आरूप्यसमापत्तिष्व् असक्ताः । अविमोक्षा अपि विमोक्षेष्व् असक्ताः । अननुपूर्वविहारसमापत्तयो ऽप्य् अनुपूर्वविहारसमापत्तिष्व् असक्ताः । अशून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अपि शून्यतानिमित्ताप्रणिहितविमोक्षमुखेष्व् असक्तानि । अनभिज्ञा अप्य् अभिज्ञास्व् असक्ताः । असमाधयोर् अपि समाधिष्व् असक्ताः । अधारणीमुखान्य् अपि धारणीमुखेष्व् असक्तानि । अतथागतबलान्य् अपि तथागतबलेष्व् असक्तानि । अवैशारद्यान्य् अपि वैशारद्यष्व् असक्तानि । अप्रतिस ं विदो ऽपि प्रतिस ं वित्स्व् असक्ताः । अमहामैत्र्य् अपि महामैत्र्याम् असक्ता । अमहाकरुणापि महाकरुणायाम् असक्ता । अनावेणिकबुद्धधर्मा अप्य् आवेणिकबुद्धधर्मेष्व् असक्ताः । असर्वज्ञतापि सर्वज्ञतायाम् असक्ता । अमार्गाकारज्ञतापि मार्गाकारज्ञतायाम् असक्ता । असर्वाकारज्ञतापि सर्वाकारज्ञतायाम् असक्ता ।
आह । एवम् एतद् आयुष्मञ् छारद्वतीपुत्र । अरूपम् अपि रूपे ऽसक्तं । अवेदनापि वेदनायाम् असक्ता । असंज्ञापि संज्ञायाम् असक्ता । असंस्कारा अपि संस्कारेष्व् असक्ताः । अविज्ञानम् अपि विज्ञाने ऽसक्तं । अचक्षुर् अपि चक्षुष्य् असक्तं । अश्रोत्रम् अपि श्रोत्रे ऽसक्तं । अघ्राणम् अपि घ्राणे ऽसक्तं । अजिह्वापि जिह्वायाम् असक्ता । अकायो ऽपि काये ऽसक्तः । अमनो ऽपि मनस्य् असक्तं । अरूपम् अपि रूपे ऽसक्तं । अशब्दो ऽपि शब्दे ऽसक्तः । अगन्धो ऽपि गन्धे ऽसक्तः । अरसो ऽपि रसे ऽसक्तः । अस्पर्शो ऽपि स्पर्शे ऽसक्तः । अधर्मा अपि धर्मेष्व् असक्ताः । अचक्षुर्विज्ञानम् अपि चक्षुर्विज्ञाने ऽसक्तं । अश्रोत्रविज्ञानम् अपि श्रोत्रविज्ञाने ऽसक्तं । अघ्राणविज्ञानम् अपि घ्राणविज्ञाने ऽसक्तं । अजिह्वाविज्ञानम् अपि जिह्वाविज्ञाने ऽसक्तं । अकायविज्ञानम् अपि कायविज्ञाने ऽसक्तं । अमनोविज्ञानम् अपि मनोविज्ञाने ऽसक्तं । अचक्षुःसंस्पर्शो ऽपि चक्षुःसंस्पर्शे ऽसक्तः । अश्रोत्रसंस्पर्शो ऽपि श्रोत्रसंस्पर्शे ऽसक्तः । अघ्राणसंस्पर्शो ऽपि घ्राणसंस्पर्शे ऽसक्तः । अजिह्वासंस्पर्शो ऽपि जिह्वासंस्पर्शे ऽसक्तः । अकायसंस्पर्शो ऽपि कायसंस्पर्शे ऽसक्तः । अमनःसंस्पर्शो ऽपि मनःसंस्पर्शे ऽसक्तः । अचक्षुःसंस्पर्शजा वेदनापि चक्षुःसंस्पर्शजावेदनायाम् असक्ता । अश्रोत्रसंस्पर्शजा वेदनापि श्रोत्रसंस्पर्शजावेदनायाम् असक्ता । अघ्राणसंस्पर्शजा वेदनापि घ्राणसंस्पर्शजावेदनायाम् अशक्ता । अजिह्वासंस्पर्शजा वेदनापि जिह्वासंस्पर्शजावेदनायाम् असक्ता । अकायसंस्पर्शजा वेदेनापि कायसंस्पर्शजावेदनायाम् असक्ता । अमनःसंस्पर्शजा वेदनापि मनःसंस्पर्शजावेदनायाम् असक्ता ।
अपृथिवीधातुर् अपि पृथिवीधाताव् असक्तः । अनब्धातुर् अप्य् अब्धाताव् असक्तः । अतेजोधातुर् अपि तेजोधाताव् असक्तः । अवायुधातुर् अपि वायुधाताव् असक्तः । अनाकाशधातुर् अप्य् आकाशधाताव् असक्तः । अविज्ञानधातुर् अपि विज्ञानधाताव् असक्तः । अनविद्याप्य् अविद्यायाम् असक्ता । असंस्कारा अपि संस्कारेष्व् असक्ताः । अविज्ञानम् अपि विज्ञाने ऽसक्तं । अनामरूपम् अपि नामरूपे ऽसक्तं । अषडायतनम् अपि षडायतने ऽसक्तं । अस्पर्शो ऽपि स्पर्शे ऽसक्तः । अवेदनापि वेदनायाम् असक्ता । अतृष्णापि तृष्णायाम् असक्ता । अनुपादानम् अप्य् उपादाने ऽसक्तं । अभवो ऽपि भवे ऽसक्तः । अजातिर् अपि जाताव् असक्तः । अजरामरनम् अपि जरामरणे ऽशक्तं ।
अदानपारमितापि दानपारमितायाम् असक्ता । अशीलपारमितापि शीलपारमितायाम् असक्ता । अक्षान्तिपारमितापि क्षान्तिपारमितायाम् असक्ता । अवीर्यपारमितापि वीर्यपारमितायाम् असक्ता । अध्यानपारमितापि ध्यानपारमितायाम् असक्ता । अप्रज्ञापारमितापि प्रज्ञापारमितायाम् असक्ता । अनध्यात्मशून्यतापि अध्यात्मशून्यतायाम् असक्ता । अबहिर्धाशून्यतापि बहिर्धाशून्यतायाम् असक्ता । अनध्यात्मबहिर्धाशून्यतापि अध्यात्मबहिर्धाशून्यतायाम् असक्ता । अशून्यताशून्यतापि शून्यताशून्यतायाम् असक्ता । अमहाशून्यतापि महाशून्यतायाम् असक्ता । अपरमार्थशून्यतापि परमार्थशून्यतायाम् असक्ता । असंस्कृतशून्यतापि संस्कृतशून्यतायाम् असक्ता । अनसंस्कृतशून्यतापि असंस्कृतशून्यतायाम् असक्ता । अनत्यन्तशून्यतापि अत्यन्तशून्यतायाम् असक्ता । अननवराग्रशून्यताप्य् अनवराग्रशून्यतायाम् असक्ता । अननवकारशून्यताप्य् अनवकारशून्यतायाम् असक्ता । अप्रकृतिशून्यतापि प्रकृतिशून्यतायाम् असक्ता । असर्वधर्मशून्यतापि सर्वधर्मशून्यतायाम् असक्ता । अस्वलक्षणशून्यतापि स्वलक्षणशून्यतायाम् असक्ता । अननुपलम्भशून्यताप्य् अनुपलम्भशून्यतायाम् असक्ता । अनभावशून्यताप्य् अभावशून्यतायाम् असक्ता । अस्वभावशून्यतापि स्वभावशून्यतायाम् असक्ता । अनभावस्वभावशून्यताप्य् अभावस्वभावशून्यतायाम् असक्ता ।
अस्मृत्युपस्थानान्य् अपि स्मृत्युपस्थानेष्व् असक्तानि । असम्यक्प्रहाणान्य् अपि सम्यक्प्रहाणेष्व् असक्तानि । अनृद्धिपादा अप्य् ऋद्धिपादेष्व् असक्ताः । अनिन्द्रियान्य् अपीन्द्रियेष्व् असक्तानि । अबलान्य् अपि बलेष्व् असक्तानि । अबोध्यङ्गान्य् अपि बोध्यङ्गेष्व् असक्तानि । अनार्याष्टाङ्गमार्गो ऽप्य् आर्याष्टाङ्गमार्गे ऽसक्तः । अनार्यसत्यान्य् अप्य् आर्यसत्येष्व् असक्तानि । अध्यानान्य् अपि ध्यानेष्व् असक्तानि । अनप्रमाणान्य् अप्य् अप्रमाणेष्व् असक्तानि । अनारूप्यसमापत्तयो ऽप्य् आरूप्यसमापत्तिष्व् असक्ताः । अविमोक्षा अपि विमोक्षेष्व् असक्ताः । अननुपूर्वविहारसमापत्तयो ऽप्य् अनुपूर्वविहारसमापत्तिष्व् असक्ताः । अशून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अपि शून्यतानिमित्ताप्रणिहितविमोक्षमुखेष्व् असक्तानि । अनभिज्ञा अप्य् अभिज्ञास्व् असक्ताः । असमाधयो ऽपि समाधिष्व् असक्ताः । अधारणीमुखान्य् अपि धारणीमुखेष्व् असक्तानि । अतथागतबलान्य् अपि तथागतबलेष्व् असक्तानि । अवैशारद्यान्य् अपि वैशारद्येष्व् असक्तानि । अप्रतिस ं विदो ऽपि प्रतिस ं वित्स्व् असक्ताः । अमहामैत्र्य् अपि महामैत्र्याम् असक्ताः । अमहाकरुणापि महाकरुणायाम् असक्ता । अनावेणिकबुद्धधर्मा अप्य् आवेणिकबुद्धधर्मेष्व् असक्ताः । असर्वज्ञतापि सर्वज्ञतायाम् असक्ता । अमार्गाकारज्ञतापि मार्गाकारज्ञतायाम् असक्ता । असर्वकारज्ञतापि सर्वाकारज्ञतायाम् असक्ता ।
एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् तेनापि बोधिचित्तेनासमसमचित्तेन सर्वश्रावकप्रत्येकबुद्धैर् न मन्यते नाभिनिविशते । अनुपलम्भयोगेन सर्वधर्माणां तेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते । अथायुष्मान् पूर्णो मैत्रायणीपुत्रो भगवन्तम् एतद् अवोचत् । ममापि भगवन् प्रतिभाति येनार्येन बोधिसत्त्वो महासत्त्व इत्य् उच्यते । भगवान् आह । प्रतिभातु ते पूर्ण । पूर्ण आह । महासत्त्वानुस ं बन्धो वत भगवन् स सत्त्वो महायानसंप्रस्थितः स सत्त्वो महायानसमारूढो भगवन् स सत्त्वः । तेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते । अथायुष्मान् शारद्वतीपुत्र आयुष्मन्तं पूर्णं मैत्रायणीपुत्रम् अवोचत् । कियतायुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो महासत्त्वानुस ं बन्ध इत्य् उच्यते । पूर्ण आह । इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो न प्रादेशिकानां सत्त्वानां कृते दानपारमितायां स्थित्वा दानं ददात्य् अपि तु सर्वसत्त्वानां कृते दानपारमितायां चरन् दानं ददाति । न प्रादेशिकानां सत्त्वानां कृते शीलपारमितायां स्थित्वा शीलं रक्षति । अपि तु सर्वसत्त्वानां कृते शीलपारमितायां चरन् शीलं रक्षति । न प्रादेशिकानां सत्त्वानां कृते क्षान्तिपारमितायां स्थित्वा क्षान्तिं भावयति । अपि तु सर्वसत्त्वानां कृते क्षान्तिपारमितायां चरन् क्षान्तिं भावयति । न प्रादेशिकानां सत्त्वानां कृते वीर्यपारमितायां स्थित्वा वीर्यम् आरभते । अपि तु सर्वसत्त्वानां कृते वीर्यपारमितायां चरन् वीर्यम् आरभते । न प्रादेशिकानां सत्त्वानां कृते ध्यानपारमितायां स्थित्वा ध्यानान्य् उत्पादयति । अपि तु सर्वसत्त्वानां कृते ध्यानपारमितायां चरन् ध्यानान्य् उत्पादयति । न प्रादेशिकानां सत्त्वानां कृते प्रज्ञापारमितायां स्थित्वा प्रज्ञा ं भावयति । अपि तु सर्वसत्त्वानां कृते प्रज्ञापारमितायां चरन् प्रज्ञा ं भावयति ।
न सत्त्वपरिच्छेदेन बोधिसत्त्वो महासत्त्वः सन्नाहं सन्नह्यति । इयतः सत्त्वान् निरुपधिशेषे निर्वाणधातौ परिनिर्वापयिष्यामि । इयतः सत्त्वान् न परिनिर्वापयिष्यामि । इयतः सत्त्वान् बोधौ प्रतिष्ठापयिष्यामि । इयतः सत्त्वान् न प्रतिष्ठापयिष्यामि । अपि तु खलु पुनर् बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानां कृते महासन्नाहं सन्नह्यति । एवञ् चास्य भवत्य् आत्मना च दानपारमितां परिपूरयिष्यामि । सर्वसत्त्वांश् च दानपारमितायां नियोजयिष्यामि । आत्मना च शीलपारमिता ं परिपूरयिष्यामि । सर्वसत्त्वांश् च शीलपारमितायां नियोजयिष्यामि । आत्मना च क्षान्तिपारमिता ं परिपूरयिष्यामि । सर्वसत्त्वांश् च क्षान्तिपारमितायां नियोजयिष्यामि । आत्मना च वीर्यपारमिता ं परिपूरयिष्यामि । सर्वसत्त्वांश् च वीर्यपारमितायां नियोजयिष्यामि । आत्मना च ध्यानपारमिता ं परिपूरयिष्यामि । सर्वसत्त्वांश् च ध्यानपारमितायां नियोजयिष्यामि । आत्मना च प्रज्ञापारमिता ं परिपूरयिष्यामि । सर्वसत्त्वांश् च प्रज्ञापारमितायां नियोजयिष्यामि ।
आत्मना चाध्यात्मशून्यता ं परिपूरयिष्यामि । सर्वसत्त्वांश् चाध्यात्मशून्यतायां नियोजयिष्यामि । आत्मना च बहिर्धाशून्यता परिपूरयिष्यामि । सर्वसत्त्वांश् च बहिर्धाशून्यतायां नियोजयिष्यामि । आत्मना चाध्यात्मबहिर्धाशून्यता ं परिपूरयिष्यामि । सर्वसत्त्वांश् चाध्यात्मबहिर्धाशून्यतायां नियोजयिष्यामि । आत्मना च शून्यताशून्यता ं परिपूरयिष्यामि । सर्वसत्त्वांश् च शून्यताशून्यतायां नियोजयिष्यामि । आत्मना च महाशून्यता ं परिपूरयिष्यामि । सर्वसत्त्वांश् महाशून्यतायां नियोजयिष्यामि । आत्मना च परमार्थशून्यता ं परिपूरयिष्यामि । सर्वसत्त्वांश् च परमार्थशून्यतायां नियोजयिष्यामि । आत्मना संस्कृतशून्यता ं परिपूरयिष्यामि । सर्वसत्त्वांश् च संस्कृतशून्यतायां नियोजयिष्यामि । आत्मना चासंस्कृतशून्यता ं परिपूरयिष्यामि । सर्वसत्त्वांश् चासंस्कृतशून्यतायां नियोजयिष्यामि । आत्मना चात्यन्तशून्यता ं परिपूरयिष्यामि । सर्वसत्त्वांश् चात्यन्तशून्यतायां नियोजयिष्यामि । आत्मना चानवराग्रशून्यता ं परिपूरयिष्यामि । सर्वसत्त्वांश् चानवराग्रशून्यतायां नियोजयिष्यामि । आत्मना चानवकारशून्यता ं परिपूरयिष्यामि । सर्वसत्त्वांश् चानवकारशून्यतायां नियोजयिष्यामि । आत्मना च प्रकृतिशून्यताम् परिपूरयिष्यामि । सर्वसत्त्वांश् च प्रकृतिशून्यतायां नियोजयिष्यामि । आत्मना च सर्वधर्मशून्यता ं परिपूरयिष्यामि । सर्वसत्त्वांश् च सर्वधर्मशून्यतायां नियोजयिष्यामि । आत्मना च स्वलक्षणशून्यता ं परिपूरयिष्यामि । सर्वसत्त्वांश् च स्वलक्षणशून्यतायां नियोजयिष्यामि । आत्मना चानुपलम्भशून्यता ं परिपूरयिष्यामि । सर्वसत्त्वांश् चानुपलम्भशून्यतायां नियोजयिष्यामि । आत्मना चाभावशून्यता ं परिपूरयिष्यामि । सर्वसत्त्वांश् चाभावशून्यतायां नियोजयिव्यामि । आत्मना च स्वभावशून्यता ं परिपूरयिष्यामि । सर्वसत्त्वांश् च स्वभावशून्यतायां नियोजयिष्यामि । आत्मना चाभावस्वभावशून्यता ं परिपूरयिष्यामि । सर्वसत्त्वांश् चाभावस्वभावशून्यतायां नियोजयिष्यामि ।
आत्मना च चतुर्षु स्मृत्युपस्थानेषु स्थास्यामि । परांश् च चतुर्षु स्मृत्युपस्थानेषु नियोजयिष्यामि । आत्मना च चतुर्षु सम्यक्प्रहाणेषु स्थास्यामि । परांश् च चतुर्षु स्मृत्युपस्थानेषु नियोजयिष्यामि । आत्मना च चतुर्षु ऋद्धिपादेषु स्थास्यामि । परांश् च चतुर्षु ऋद्धिपादेषु नियोजयिष्यामि । आत्मना च पञ्चेन्द्रियेषु स्थास्यामि । परांश् च पञ्चेन्द्रियेषु नियोजयिष्यामि । आत्मना च पञ्चसु बलेषु स्थास्यामि । परांश् च पञ्चसु बलेषु नियोजयिष्यामि । आत्मना च सप्तसु बोध्यङ्गेषु स्थास्यामि । परांश् च सप्तसु बोध्यङ्गेषु नियोजयिष्यामि । आत्मना चार्याष्टाङ्गमार्गे स्थास्यामि । परांश् चार्याष्टाङ्गमार्गे नियोजयिष्यामि । आत्मना चार्यसत्येषु स्थास्यामि । परांश् चार्यसत्येषु नियोजयिष्यामि । आत्मना च ध्यानेषु स्थास्यामि । परांश् च ध्यानेषु नियोजयिष्यामि । आत्मना चाप्रमाणेषु स्थास्यामि । परांश् चाप्रमाणेषु नियोजयिष्यामि । आत्मना चारूप्यसमापत्तिषु स्थास्यामि । परांश् चारूप्यसमापत्तिषु नियोजयिष्यामि । आत्मना चाष्टासु विमोक्षेषु स्थास्यामि । परांश् चाष्टासु विमोक्षेषु नियोजयिष्यामि । आत्मना च नवस्व् अनुपूर्वविहारसमापत्तिषु स्थास्यामि । परांश् च नवस्व् अनुपूर्वविहारसमापत्तिषु नियोजयिष्यामि । आत्मना च शून्यतानिमित्ताप्राणिहितविमोक्षमुखेषु स्थास्यामि । परांश् च शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु नियोजयिष्यामि । आत्मना चाभिज्ञासु स्थास्यामि । परांश् चाभिज्ञासु नियोजयिष्यामि । आत्मना च समाधिषु स्थास्यामि । परांश् च समाधिषु नियोजयिष्यामि । आत्मना च धारणीमुखेषु स्थास्यामि । परांश् च धारणीमुखेषु नियोजयिष्यामि । आत्मना च तथागतबलेषु स्थास्यामि । परांश् च तथागतबलेषु नियोजयिष्यामि । आत्मना च वैशारद्येषु स्थास्यामि । परांश् च वैशारद्येषु नियोजयिष्यामि । आत्मना च प्रतिस ं वित्सु स्थास्यामि । परांश् च प्रतिस ं वित्सु नियोजयिष्यामि । आत्मना च महामैत्र्यां स्थास्यामि । परांश् च महामैत्र्यां नियोजयिष्यामि । आत्मना च महाकरुणायां स्थास्यामि । परांश् च महाकरुणायां नियोजयिष्यामि । आत्मना चाष्टादशावेणिकबुद्धधर्मेषु स्थास्यामि । अष्टादशावेणिकबुद्धधर्मेषु नियोजयिष्यामि ।
इयतायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो महासन्नाहस ं बन्ध इत्य् उच्यते ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् यद् दानं ददाति । तत् सर्वाकारज्ञताप्रतिसंयुक्तमनसिकारैर् न श्रावकप्रत्येकबुद्धैः प्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौ परिणामयत्य् अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानपारमितासन्नाहः । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो दानं ददत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् भूमौ परिणामयत्य् अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापरमितायां चरतो दानं ददतः शीलपारमितासन्नाहः । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या तेषां धर्माणां क्षमणता रोचनताधिवासनता । अयं बोधितत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः क्षान्तिपारमितासन्नाहः । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वीर्याग्रंसनता । अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो वीर्यपारमितासन्नाहः । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य दानं ददतो या चित्तैकाग्रता यद् उत सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः श्रावकप्रत्येकबुद्धाप्रतिसंयुक्तानाञ् च चित्तोत्पादनाम् अनवकाशदानं तद् एकालम्बनताम् उपादाय । अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो ध्यानपारमितासन्नाहः । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् मानावकृतसंज्ञेप्यता भवति । स न च दानम् उपलभते । न दायकं न प्रतिग्राहकम् उपलभते । अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः प्रज्ञापारमितासन्नाहः । यद् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् ताः पारमिता न निमित्तीकरोति नोपलभते । एवं खलु बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् महासन्नाहस ं बन्धो बोधितव्यः ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् दानं ददाति तच् च सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौ परिणामयत्य् अयम् अनुपलम्भयोगेन । अयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो दानपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शीलपारमितायां चरतो या श्रावकप्रत्येकबुद्धभूम्यस्पृहानताः प्राग् एव पृथग्जनभूमयः । इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः शीलपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या तेषां धर्माणां क्षमणतारोचनताधिवासनता । इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः क्षान्तिपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या वीर्यास्रंसनतानवलीनवीर्यता । इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो वीर्यपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् विहरतो या श्रावकप्रत्येकबुद्धचित्तानाम् अनवकारशदानं तस्य च कुशलमूलस्य सर्वसत्त्वसाधारणीकृतस्यानुत्तरायां सम्यक्स ं बोधौ परिणामयति । इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो ध्यानपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकप्रतिसंयुक्तैर् या सर्वधर्मेषु मायाकृतसंज्ञा प्रत्युपस्थिता भवति । तेन च शीलेन न मन्यते न तच् छीलम् उपलभते प्रकृतिशून्यताम् उपादाय । तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौ परिणामयति । इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः प्रज्ञापारमिता । एवं खल्व् आयुष्मन् शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरन् षट्पारमिताः परिगृह्णाति । तेन महासन्नाहसन्नद्ध इत्य् उच्यते ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्व क्षान्तिपारमितायां चरन् यद् दानं ददाति तत् सर्वकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौ परिणामयति । इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतो दानपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्व क्षान्तिपारमितायाञ् चरन् यच् छीलं रक्षति तत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौ परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतः शीलपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतो या सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणां क्षमणतारोचनताधिवासनता । इयं क्षान्तिपारमितायां चरतः क्षान्तिपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् या चित्तस्यैकाग्रता इयं क्षान्तिपारमितायां चरतो ध्यानपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैः सर्वसत्त्वेषु मायाकृतसंज्ञा प्रत्युपस्थिता भवति । तथा च क्षान्त्या स मन्यते । न च तां क्षान्तिम् उपलभते । इयं क्षान्तिपारमितायां चरतः प्रज्ञापारमिता । एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां चरन् सर्वाः षट्पारमिताः परिगृह्णाति । तेन महासन्नाहसन्नद्ध इत्य् उच्यते ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् यद् दानं ददाति । तत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौ परिणामयति इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतो दानपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् शीलं रक्षति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौ परिणामयतीयं वीर्यपारमितायां चरतः शीलपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् या तेषां धर्माणां क्षमणतारोचनताधिवासनता । इयं वीर्यपारमितायां चरतः क्षान्तिपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैः सर्वसत्त्वार्थं या वीर्यास्रंसनताग्रहणता, इयं वीर्यपारमितायां चरतो वीर्यपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् इयं वीर्यपारमितायां चरतो ध्यानपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्वस्य वीर्यप्रज्ञापारमितायां चरतो या चित्तस्यैकाग्रता सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् या सर्वधर्मेषु मायाकृतसंज्ञाप्रत्युपस्थितो भवति । तेन च वीर्येण न मन्यते न तद् वीर्यम् उपलभते । तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौ परिणामयतीयं वीर्यपारमितायां चरतः प्रज्ञापारमिता । एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् सर्वाः षट्पारमिताः परिगृह्णाति । तेन महासन्नाहसन्नद्ध इत्य् उच्यते ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारनितायां चरन् यद् दानं ददाति तत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च सर्वकुशलम् सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौ परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतो दानपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां चरन् यच् छीलं रक्षति तत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौ परिणामयतीयं ध्यानपारमितायां चरतः शीलपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां चरन् क्षान्तिं भावयति । सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौ परिणामयतीयं ध्यानपारमितायां चरतः क्षान्तिपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् या वीर्यास्रंसनता तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौ परिणामयतीयं ध्यानपारमितायां चरतो वीर्यपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतो या सर्वाकारज्ञताप्रतिसंयुक्तेषु मनसिकारेषु चित्तस्यैकाग्रता श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशदानं तद् एकालम्बनताम् उपादाय । तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौ परिणामयतीयं ध्यानपारयितायां चरतो ध्यानपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतः सर्वधर्मेषु मायाकृतसंज्ञा प्रत्युपस्थिता भवति । तेन च ध्यानेन न मन्यते । न च ध्यानम् उपलभते । तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौ परिणामयतीयं ध्यानपारमितायां चरतः प्रज्ञापारमिता । एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां चरन् सर्वाः षट्पारमिताः परिगृह्णाति तेन महासन्नाहसन्नद्ध इत्य् उच्यते ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरतस् त्रिमण्डलपरिशुद्धं दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौ परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः शीलं रक्षतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तस्य च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा तस्यानुत्तरायां सम्यक्स ं बोधौ परिणामयतीयं प्रज्ञापारमितायां चरतः शीलपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो या तेषां धर्माणां क्षमणतारोचनताधिवासनता । सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तस्य च कुशलमूलस्य सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौं परिणामयतीयं प्रज्ञापारमितायां चरतः क्षान्तिपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् या वीर्यास्रंसनता । तस्य च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौ परिणामयतीयं प्रज्ञापारमितायां चरतो वीर्यपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो या चित्तस्यैकाग्रता सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौ परिणामयतीयं प्रज्ञापारमितायां चरतो ध्यानपारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः सर्वधर्मेषु मायाकृतसंज्ञा प्रत्युपस्थिता भवति । सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायां सम्यक्स ं बोधौ परिणामयतीयं प्रज्ञापारमितायां चरतः प्रज्ञापारमिता । यदायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकरज्ञताप्रतिसंयुक्तेन चित्तेनैताः पारमिता न सत्त्वान् न बोधिं निमित्तीकरोति । नोपलभते । अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः षट्पारमिता महासन्नाहः ।
एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्व एकैकस्यां पारमितायां स्थित्वा सर्वा षट्पारमिताः परिपूरयति ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ध्यानानि चाप्रमाणानि चारूप्यं समापत्तीन् न समापद्यते । न च ध्यानाप्रमाणारूप्यसमापत्तीर् आच्छादयति । न च तैर् ध्यानैर् अप्रमाणैर् आरूप्यसमापत्तिभिश् च संह्रियते । न च ध्यानाप्रमाणारूप्यसमापत्तिवशेनोपपद्यते । इयम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्योपायकौशलसहगता प्रज्ञापारमिता । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ध्यानानि चाप्रमाणानि चारूप्यसमापत्तीश् च विवेकदर्शनेन च शून्यतानिमित्ताप्रणिहितदर्शनेन च समापद्यते । न च तेषां वशेनोपपद्यते । न च भूतकोटिं साक्षात्करोति । सर्वश्रावकप्रत्येकबुद्धांश् च । भवत्य् अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलमहासन्नाहः । एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते । एवं सन्नाहसन्नद्धस्यायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति । नामधेयञ् च कीर्तयन्ति शब्दम् उदीरयन्ति । घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः सत्त्वांश् च पाचयति बुद्धक्षेत्रञ् च परिशोधयति । ऋद्ध्या च विक्रीडति । दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति नामधेयञ् च परिकीर्तयन्ति । शब्दम् उदीरयन्ति । घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः । सत्त्वांश् च परिपाचयति । बुद्धक्षेत्रञ् च परिशोधयति । ऋद्ध्या च विक्रीडति । पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति । नामधेयञ् च परिकीर्तयन्ति । शब्दम् उदीरयन्ति । घोषम् अनुश्रावयति । एषो ऽमुषिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति । बुद्धक्षेत्रञ् च परिशोधयति । ऋद्ध्या च विक्रीडति । उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति । नामधेयञ् च परिकीर्तयन्ति । शब्दम् उदीरयन्ति । घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति । बुद्धक्षेत्रञ् च परिशोधयति । ऋद्ध्या च विक्रीडति । पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति । नामधेयञ् च परिकीर्तयन्ति । शब्दम् उदीरयन्ति । घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति । बुद्धक्षेत्रञ् च परिशोधयति । ऋद्ध्या च विक्रीडति । दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति । नामधेयञ् च परिकीर्तयन्ति । शब्दम् उदीरयन्ति । घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति । बुद्धक्षेत्रञ् च परिशोधयति । ऋद्ध्या च विक्रीडति । पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति । नामधेयञ् च परिकीर्तयन्ति । शब्दम् उदीरयन्ति । घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति । बुद्धक्षेत्रञ् च परिशोधयति । ऋद्ध्या च विक्रीडति । उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति । नामधेयञ् च परिकीर्तयन्ति । शब्दम् उदीरयन्ति । घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो मत्तासत्त्वो महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति । बुद्धक्षेत्रञ् च परिशोधयति । ऋद्ध्या च विक्रीडति । अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति । नामधेयञ् च परिकीर्तयन्ति । शब्दम् उदीरयन्ति । घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति । बुद्धक्षेत्रञ् च परिशोधयति । ऋद्ध्या च विक्रीडति । उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त उदानम् उदानयन्ति । नामधेयञ् च परिकीर्तयन्ति । शब्दम् उदीरयन्ति । घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति । बुद्धक्षेत्रञ् च परिशोधयति । ऋद्ध्या च विक्रीडति ।
आह । कियतायुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो महायानसंप्रस्थित इत्य् उच्यते । कतमच् च बोधिसत्त्वस्य महासत्त्वस्य महायानं । पूर्ण आह । इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः षट्पारमिता अनुचरति । स दानपारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानम् उपस ं पद्य विहरति । स वितर्कसविचाराणां व्युपशमाद् अध्यात्मस ं प्रसादाश् चेतस एकोतिभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपस ं पद्य विहरति । स प्रीतेर् विरागाद् उपेक्षको विहरति । स्मृतिमान् संजानन् सुखञ् च कायेन प्रतिवेदयति । यत् तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारौ निष्प्रीतिकं तृतीयं ध्यानम् उपस ं पद्य विहरति । ससुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव च सौमनस्य दौर्मनस्ययोर् असङ्गमाद् अदुःखासुखम् उपेक्षस्मृतिपरिशुद्धिं चतुर्थध्यानम् उपस ं पद्य विहरति । स मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेन परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स करुणासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेन परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । समुदितासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेन परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स उपेक्षासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनास ं पत्रेन परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसामे दशदिशः स्फुरित्वा विहरति । अनुपलम्भयोगेन । स सर्वशो रूपसंज्ञानाम् अतिक्रमानन् प्रतिपद्य संज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् मनसिकाराद् अनन्तम् आकाशानन्त्यायतनम् उपस ं पद्य विहरति । स सर्वशः आकाशानन्त्यायतनसमतिक्रमाद् अनन्तविज्ञानम् इति विज्ञानानन्त्यायतनम् उपस ं पद्य विहरति । स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपस ं पद्य विहरति । स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपस ं पद्य विहरति । अनुपलम्भयोगेन । इदं बोधिसत्त्वस्य महासत्त्वस्य ध्यानं । यदा बोधिसत्त्वो महासत्त्व एतानि ध्यानान्य् एतान्य् अप्रमाणान्य् एतानि चारूप्याण्य् आकाशाकारलिङ्गनिमित्तैः समापद्यमानो व्युत्तिष्ठं स सर्वाकार्ज्ञतायां परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता ।
स शीलपारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कसविचारजं प्रीतिसुखं प्रथमं ध्यानम् उपस ं पद्य विहरति । स सवितर्कसविचाराणां व्युपशमाद् अध्यात्मस ं प्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपस ं पद्य विहरति । स प्रीतेर् विरागाद् उपेक्षको विहरति । स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयति । यत् तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी निष्प्रीतिकं तृतीयं ध्यानम् उपस ं पद्य विहरति । स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव च सौमनस्य दौर्मनस्ययोर् अस्तङ्गमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपस ं पद्य विहरति । स मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेन परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स करुणासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । समुदितासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स उपेक्षासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । अनुपलम्भयोगेन । स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिपद्य संज्ञानाम् अस्तंगमान् नानात्वसंज्ञानाम् मनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति । स सर्वशः आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपस ं पद्य विहरति । स सर्वशो रूपविज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपस ं पद्य विहरति । स सर्वशः आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपस ं पद्य विहरति । इदं बोधिसत्त्वस्य महासत्त्वस्य ध्यानं ।
यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एतानि चाप्रमाणान्य् एतानि चारूप्याण्य् आकाशाकारलिङ्गानिमित्तैः समापद्यमानो व्युत्तिष्ठंश् च सर्वाकारज्ञतायां परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता ।
स क्षान्तिपारमितायांश् चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति । सवितर्कसविचाराणां व्युपशमाद् अध्यात्मस ं प्रसादाच् चेतस एकोतिभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति । स प्रीतेर् विरागाद् उपेक्षको विहरति । स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयति । यत् तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी । निष्प्रीतिकं तृतीयं ध्यानम् उपस ं पद्य विहरति । स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव च सौमनस्य दौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति । स मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स करुणासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स मुदितासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स उपेक्षासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । उपलम्भयोगेन । स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिपद्य संज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् मनसिकाराद् अनन्ताकाशम् इत्य् आकाशानन्त्यायतनम् उपस ं पद्य विहरति । स सर्वशः आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपस ं पद्य विहरति । स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपस ं पद्य विहरति । स सर्वशः आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपस ं पद्य विहरति । इदं बोधिसत्त्वस्य महासत्त्वस्य ध्यानं ।
यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एतानि चाप्रमाणान्य् एतानि चारूप्याण्य् आकाशाकारलिङ्गानिमित्तैः समापद्यमानो व्युत्तिष्ठंश् च सर्वाकारज्ञतायां परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता ।
स वीर्यपारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति । सवितर्कसविचाराणां व्युपशमाद् अध्यात्मसंप्रसादाच् चेतस एकोतिभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति । स प्रीतेर् विरागाद् उपेक्षको विहरति । स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयति । यत् तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी निष्प्रीतिकं तृतीयं ध्यानम् उपस ं पद्य विहरति । स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्य दौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति । स मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स करुणासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स मुदितासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स उपेक्षासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । उपलम्भयोगेन । स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिपद्य संज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् मनसिकाराद् अनन्ताकाशम् इत्य् आकाशानन्त्यायतनम् उपस ं पद्य विहरति । स सर्वशः आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपस ं पद्य विहरति । स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपस ं पद्य विहरति । स सर्वशः आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपस ं पद्य विहरति । इदं बोधिसत्त्वस्य महासत्त्वस्य ध्यानं ।
यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एतानि चाप्रमाणान्य् एतानि चारूप्याण्य् आकाशाकारलिङ्गानिमित्तैः समापद्यमानो व्युत्तिष्ठंश् च सर्वाकारज्ञतायां परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता ।
स ध्यानपारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति । सवितर्कसविचाराणां व्युपशमाद् अध्यात्मस ं प्रसादाच् चेतस एकोतिभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति । स प्रीतेर् विरागाद् उपेक्षको विहरति । स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयति । यत् तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी निष्प्रीतिकं तृतीयं ध्यानम् उपस ं पद्य विहरति । स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्य दौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपस ं पद्य विहरति । स मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स करुणासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स मुदितासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स उपेक्षासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । उपलम्भयोगेन । स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिपद्य संज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् मनसिकाराद् अनन्ताकाशम् इत्य् आकाशानन्त्यायतनम् उपस ं पद्य विहरति । स सर्वशः आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपस ं पद्य विहरति । स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपस ं पद्य विहरति । स सर्वशः आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपस ं पद्य विहरति । इदं बोधिसत्त्वस्य महासत्त्वस्य ध्यानं ।
यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एतानि चाप्रमाणान्य् एतानि चारूप्याण्य् आकाशाकारलिङ्गानिमित्तैः समापद्यमानो व्युत्तिष्ठंश् च सर्वाकारज्ञतायां परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता ।
स प्रज्ञापारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति । सवितर्कसविचाराणां व्युपशमाद् अध्यात्मस ं प्रसादाच् चेतस एकोतिभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति । स प्रीतेर् विरागाद् उपेक्षको विहरति । स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयति । यत् तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारीति निष्प्रीतिकं तृतीयं ध्यानम् उपस ं पद्य विहरति । स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्य दौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति । स मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स करुणासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स मुदितासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स उपेक्षासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । उपलम्भयोगेन । स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिपद्य संज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् मनसिकाराद् अनन्ताकाशम् इत्य् आकाशानन्त्यायतनम् उपस ं पद्य विहरति । स सर्वशः आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपस ं पद्य विहरति । स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपस ं पद्य विहरति । स सर्वशः आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपस ं पद्य विहरति । इदं बोधिसत्त्वस्य महासत्त्वस्य ध्यानं ।
यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एतानि चाप्रमाणान्य् एतानि चारूप्याण्य् आकाशाकारलिङ्गानिमित्तैः समापद्यमानो व्युत्तिष्ठंश् च सर्वाकारज्ञतायां परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता । एवं खल्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो महायानसंप्रस्थित इत्य् उच्यते ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स महाकरुणासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । मुदितासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स उपेक्षासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणाव्यावध्येनासपत्रेण परिपूर्णेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने दशदिशः स्फुरित्वाधिमुच्य विहरति । स विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपस ं पद्य विहरति । सवितर्कसविचाराणां व्युपशमाद् अध्यात्मस ं प्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपस ं पद्य विहरति । स प्रीतेर् विरागाद् उपेक्षको विहरति । स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयति । यत् तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारीति निष्प्रीतिकं तृतीयं ध्यानम् उपस ं पद्य विहरति । स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्य दौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपस ं पद्य विहरति । स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिपद्य संज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् मनसिकाराद् अनन्ताकाशम् इत्य् आकाशानन्त्यायतनम् उपस ं पद्य विहरति । स सर्वशः आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपस ं पद्य विहरति । स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपस ं पद्य विहरति । स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपस ं पद्य विहरति । अयं बोधिसत्त्वस्य महासत्त्वस्य समाधि ।
स खलु पुनर् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञता प्रतिसंयुक्तेन चित्तेन महाकरुणापूर्वङ्गमेन क्लेशप्रहाणाय ध्यानाप्रमाणारूप्य समापत्तीः परेभ्य आचष्टे देशयति । प्रकाशयति । विसर्जयति । उत्तानीकरोति । विवञ्चता समाम्नादञ् चादीनवञ् च निःसरणञ् चोपदिशति । इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता । यद् बोधिसत्त्वो महासत्त्वस् तैर् एव सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानाप्रमाणारूप्यसमापत्तीः समापद्यमानो व्युत्तिष्ठंश् च नान्येषां चित्तोत्पादानाम् अवकाशं ददाति । यद् उत श्रावकचित्तानां वा प्रत्येकबुद्धचित्तानां वा । इयं बोधिसत्त्वस्य महासत्त्वस्य परामृष्टा शीलपारपारमिता । यद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानाप्रमाणारूप्यसमापत्तिभिर् विहरत एवं भवति । सर्वसत्त्वानां क्लेशक्षयाय धर्मं देशयिष्यामीति । या तेषां मनसिकाराणां क्षमता, रोचनता, व्युपपरीक्षणता अवबोधनता । उपरिध्यायतनता । इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता । यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानाप्रमाणारूप्यसमापत्तिभिर् विहरति । सर्वसत्त्वार्थञ् च सर्वाकारज्ञतायां वीर्यं न स्रंसयतीयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता । यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वज्ञता ध्यानविमोक्षसमापत्तीः समापद्यते च व्युत्तिष्ठते च न च श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयतीयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता । यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् तानि प्रथमध्यानाङ्गानि द्वितीयध्यानाङ्गानि तृतीयध्यानाङ्गानि चतुर्थध्यानाङ्गानि । मैत्रीकरुणामुदितोपेक्षाकाशानन्त्यायतनं विज्ञानानन्त्यायतनाकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनम् अनित्याकारेण दुःखाकारेणानात्माकारेणाशान्ताकारेण शून्यताकारेणानिमित्ताकारेणाप्रणिहिताकारेणाप्रत्यवेक्षमाणस् ता ध्यानाप्रमाणरूप्यसमापत्तीर् नोपलभते । ताभिश् च न मन्यते । इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता ।
इयम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो महायानं ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं । यत् सर्वाकारैः चत्वारि स्मृत्युपस्थानानि भावयति । सर्वाकारैश् चत्वारि सम्यक्प्रहाणानि भावयति । सर्वाकारैश् चतुर ऋद्धिपादान् भावयति । सर्वाकारैः पञ्चेन्द्रियाणि भावयति । सर्वाकारैः पञ्च बलानि भावयति । सर्वाकारैः सप्त बोध्यङ्गानि भावयति । सर्वाकारैर् आर्याष्टाङ्गमार्गं भावयति । सर्वाकारैर् आर्यसत्यानि भावयति । सर्वाकारैर् ध्यानानि भावयति । सर्वाकारैर् अप्रमाणानि भावयति । सर्वाकारैर् आरूप्यसमापत्तीर् भावयति । सर्वाकारैर् विमोक्षान् भावयति । सर्वाकारैर् अनुपूर्वविहारसमापत्तीर् भावयति । सर्वाकारैः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयति । सर्वाकारैर् अभिज्ञा भावयति । सर्वाकारैः समाधिं भावयति । सर्वाकारैर् धारणीमुखानि भावयति । सर्वाकारैस् तथागतबलानि भावयति । सर्वाकारैर् विशारद्यानि भावयति । सर्वाकारैः प्रतिस ं विदो भावयति । सर्वाकारैर् महामैत्रीं भावयति । सर्वाकारैर् महाकरुणा भावयति । सर्वाकारैर् आवेणिकबुद्धधर्मान् भावयति । सर्वाकारैः सर्वज्ञतां भावयति । सर्वाकारैर् मार्गाकारज्ञतां भावयति । सर्वाकारैः सर्वाकारज्ञतां भावयति । इदम् आयुष्माञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो मैत्रीं समाधिं समापद्यते । मया सर्वसत्त्वास् त्रातव्याः इत्य् अतिनामयति करुणाञ् च समाधिं स ं पद्यते । कृपाकरुण्यताञ् च सत्त्वेषु निर्णमयति । मुदिताञ् च समाधिं समापद्यते । अहम् एवं समाधायिष्यामीति सत्त्वेषु निर्णमयति । उपेक्षाञ् च समाधिं समापद्यते । आस्रवक्षयणताञ् च सत्त्वेषु निर्णयतीयं बोधिसत्त्वस्य महासत्त्वस्य प्रमाणेसु चरतो दानपारमिता । यदा बोधिसत्त्वो महासत्त्वो ध्यानाप्रमाणाकारलिङ्गनिमित्तानि समापद्यते च व्यूत्तिष्ठते च । न च श्रावकप्रत्येकबुद्धभूमौ परिणामयत्य् अन्यत्र सर्वाकारज्ञतायाः । इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा शीलपारमिता । यदा बोधिसत्त्वो महासत्त्वस् ताभिर् ध्यानाप्रमाणारूप्यसमापत्तिभिर् अव्यवकीर्णो विहरति । आभ्याञ् च द्वाभ्यां भूमिभ्यां श्रावकभूमये वा प्रत्येकबुद्धभूमये वा न स्पृहेत् । सर्वाकारज्ञतैवास्य क्षमते रोचते चेयं बोधिसत्त्वस्य महासत्त्वस्य प्रमाणेषु चरतः क्षान्तिपारमिता ।
यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अनिक्षिप्तधुरो विहरत्य् अकुशलधर्मप्रहाणाय कुशलधर्माय स ं पदैर् इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो वीर्यपारमिता । यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एताश् चाप्रमाणारूप्यसमापत्तीञ् च समापद्यते । न च ध्यानाप्रमाणारूप्यसमापत्तिवशेनोपपद्यते । न च ता आस्वादयति । न च ताभिः संह्रियते । इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो वीर्यपारमिता । यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् ता ध्यानाप्रमाणारूप्यसमापत्तीः समापद्यते च व्युत्तिष्ठते च ताश् चानित्याकारेण दुःखाकारेणानात्माकारेणाशान्ताकारेणाशून्यताकारेणानिमित्ताकारेणाप्रणिहिताकारेण प्रत्यवेक्षते । न च श्रावकाणाम् वा प्रत्येकबुद्धानाम् वावक्रामति । इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता । इदम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम् ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् अध्यात्मशून्यतायां ज्ञानं न चानुपलम्भयोगेन । यद् बहिर्धाशून्यतायां ज्ञानं न चानुपलम्भयोगेन । यद् अध्यात्मबहिर्धाशून्यतायां ज्ञानं न चानुपलम्भयोगेन । यच् छून्यताशून्यतायां ज्ञानं न चानुपलम्भयोगेन । यन् महाशून्यतायां ज्ञानं न चानुपलम्भयोगेन । यत् परमार्थशून्यतायां ज्ञानं न चानुपलम्भयोगेन । यत् संस्कृतशून्यतायां ज्ञानं न चानुपलम्भयोगेन । यद् असंस्कृतशून्यतायां ज्ञानं न चानुपलम्भयोगेन । यद् अत्यन्तशून्यतायां ज्ञानं न चानुपलम्भयोगेन । यद् अनवराग्रशून्यतायां ज्ञानं न चानुपलम्भयोगेन । यद् अनवकारशून्यतायां ज्ञानं न चानुपलम्भयोगेन । यत् प्रकृतिशून्यतायां ज्ञानं न चानुपलम्भयोगेन । यत् सर्वधर्मशून्यतायां ज्ञानं न चानुपलम्भयोगेन । यत् स्वलक्षणशून्यतायां ज्ञानं न चानुपलम्भयोगेन । यद् अनुपलम्भशून्यतायां ज्ञानं न चानुपलम्भयोगेन । यद् अभावशून्यतायां ज्ञानं न चानुपलम्भयोगेन । यत् स्वभावशून्यतायां ज्ञानं न चानुपलम्भयोगेन । यद् अभावस्वभावशून्यतायां ज्ञानं न चानुपलम्भयोगेन । इदं बोधिसत्त्वस्य महासत्त्वस्य महायानम् ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं । यत् सर्वधर्मेषु न विशेष्यते चित्तं समाहितम् इति ज्ञानम् इदं बोधिसत्त्वस्य महासत्त्वस्य महयानं ।
यन् न नित्यम् इति ज्ञानं प्रवर्तते । नानित्यम् इति ज्ञानं प्रवर्तते । न सुखम् इति ज्ञानं प्रवर्तते । न दुःखम् इति ज्ञानं प्रवर्तते । नात्मेति ज्ञानं प्रवर्तते । नानात्मेति ज्ञानं प्रवर्तते । न शुभम् इति ज्ञानं प्रवर्तते । नाशुभम् इति ज्ञानं प्रवर्तते । इदं बोधिसत्त्वस्य महासत्त्वस्य महायानं । तच् चानुपलम्भयोगेन ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् अतीते ऽध्वनि ज्ञानं प्रवर्तते । अनागते ऽध्वनि प्रवर्तते । प्रत्युत्पन्ने ऽध्वनि प्रवर्तते । न चास्य त्रिष्व् अध्वसु ज्ञानम् इदं बोधिसत्त्वस्य महासत्त्वस्य महायानं । तच् चानुपलम्भयोगेन । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं । यन् न कामधातौ ज्ञानं प्रवर्तते । न रूपधातौ । नारूप्यधातौ ज्ञानं प्रवर्तते । न चास्य कामरूपारूप्यधातुषु ज्ञानम् इदम् अपि बोधिसत्त्वस्य महासत्त्वस्य महायानं । तच् चानुपलम्भयोगेन । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं । यन् नैव लौकिकेषु ज्ञानं प्रवर्तते । न लोकोत्तरेषु न साश्रवेषु नानाश्रवेषु न संस्कृतेषु धर्मेषु ज्ञानं प्रवर्तते । नासंस्कृतेषु । न चास्य लौकिकलोकोत्तरेषु धर्मेषु न साश्रवानाश्रवेषु न संस्कृतासंस्कृतेषु धर्मेषु ज्ञानम् इदम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं तच् चानुपलम्भयोगेन । आह ।
कियतायुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते । पूर्ण आह । इदम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानपारमितां समारोहति । स नैव दानम् उपलभते । न दानपारमितां न बोधिसत्त्वं न प्रतिग्राहकं न तान् मनसिकारान् उपलभते । एवं खलु बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते । अनुपलम्भयोगेन । इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् शीलपारमितां समारोहति । स नैव शीलम् उपलभते न शीलपारमितां न बोधिसत्त्वं न तान् मनसिकारान् उपलभते । एवं खलु बोधिसत्त्वो महासत्त्वः शीलपारमितासमारूढ इत्य् उच्यते । अनुपलम्भयोगेन । इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् क्षान्तिपारमितां समारोहति । स नैव क्षान्तिम् उपलभते न क्षान्तिपारमितां न बोधिसत्त्वं न तान् मनसिकारान् उपलभते । एवं खलु बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितासमारूढ इत्य् उच्यते । अनुपलम्भयोगेन । इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् वीर्यपारमितां समारोहति । स नैव वीर्यम् उपलभते न वीर्यपारमितां न बोधिसत्त्वं न तान् मनसिकारान् उपलभते । एवं खलु बोधिसत्त्वो महासत्त्वो वीर्यपारमितासमारूढ इत्य् उच्यते । अनुपलम्भयोगेन । इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ध्यानपारमितां समारोहति । स नैव ध्यानम् उपलभते न ध्यानपारमितां न बोधिसत्त्वं न तान् मनसिकारान् उपलभते । एवं खलु बोधिसत्त्वो महासत्त्वो ध्यानपारमितासमारूढ इत्य् उच्यते ऽनुपलम्भयोगेन । इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् प्रज्ञापारमितां समारोहति । स नैव कुशलधर्मम् उपलभते । नाकुशलं न लौकिकं न लोकोत्तरं न संस्कृतं नासंस्कृतं न साश्रवं नानाश्रवं धर्मम् उपलभते । नापि प्रज्ञां न प्रज्ञापारमिताम् उपलभते न बोधिसत्त्वं न तान् मनसिकारान् उपलभते । एवं खलु बोधिसत्त्वो महासत्त्वः प्रज्ञपारमितासमारूढ इत्य् उच्यते । अनुपलम्भयोगेन ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अध्यात्मशून्यतां भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् बहिर्धाशून्यतां भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अध्यात्मबहिर्धाशून्यतां भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शून्यताशून्यतां भावयति । भावनाविभावनार्थेन । तञ् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् महाशून्यतां भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः परमार्थशून्यतां भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संस्कृतशून्यतां भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् असंस्कृतशून्यतां भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अत्यन्तशून्यतां भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अनवराग्रशून्यतां भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अनवकारशून्यतां भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः प्रकृतिशून्यतां भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अन्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वधर्मशून्यतां भावयति । भवनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः स्वलक्षणशून्यतां भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अनुपलम्भशून्यतां भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अभावशून्यतां भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः स्वभावशून्यतां भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अभावस्वभावशून्यतां भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैश् चत्वारि स्मृत्युपस्थानानि भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः चत्वारि सम्यक्प्रहाणानि भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैश् चतुर ऋद्धिपादान् भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः पञ्चेन्द्रियाणि भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः पञ्च बलानि भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सप्त बोध्यङ्गानि भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् आर्याष्टाङ्गमार्गं भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् आर्यसत्यानि भावयति । भावनाविभावनर्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैश् चत्वारि ध्यानानि भावयति । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैश् चत्वार्य् अप्रमाणानि भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैश् चतस्र आरूप्यसमापत्तीर् भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अष्टौ विमोक्षान् भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् नवानुपूर्वविहारसमापत्तीर् भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अभिज्ञा भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः समाधीन् भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् धारणीमुखानि भावयति । भावनाविभावमार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् तथागतबलानि भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैश् चत्वारि वैशारद्यानि भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैश् चतश्रः प्रतिस ं विदो भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् महामैत्रीं भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् महाकरुणां भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । अव्यवकीर्णः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अष्टादशावेणिकबुद्धधर्मान् भावयति । भावनाविभावनार्थेन । तच् चानुपलम्भयोगेन । एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्व एवं जानाति । व्यवहारमात्रम् एतद् यद् उत बोधिसत्त्व इति बोधिसत्त्वानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत रूपं रूपानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत वेदना वेदनानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत संज्ञा संज्ञानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत संस्काराः संस्कारानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत विज्ञानं विज्ञानानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत चक्षुश् चक्षुरनुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत श्रोत्रं श्रोत्रानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत घ्राणं घ्राणानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत जिह्वा जिह्वानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत कायः कायानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत मनः मनोनुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत रूपं रूपानुपलब्धिताम् उपादाय । नाममत्रम् एतद् यद् उत शब्दः शब्दानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत गन्धो गन्धानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत रसो रसानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत स्पर्शः स्पर्शानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत धर्माः धर्मानुपलब्धिताम् उपादाय ।
नाममात्रम् एतद् यद् उत चक्षुर्विज्ञानं चक्षुर्विज्ञानानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत श्रोत्रविज्ञनं श्रोत्रविज्ञानानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत घ्राणविज्ञानं घ्राणविज्ञानानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत जिह्वाविज्ञानं जिह्वाविज्ञानानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत कायविज्ञानं कायविज्ञानानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत मनोविज्ञानं मनोविज्ञानानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत घ्राणसंस्पर्शः घ्राणसंस्पर्शानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत जिह्वासंस्पर्शः जिह्वासंस्पर्शानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत कायसंस्पर्शः कायसंस्पर्शानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत मनःसंस्पर्शो मनःसंस्पर्शानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत चक्षुःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत श्रोत्रसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत घ्राणसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उअत जिह्वासंस्पर्शजावेदना जिह्वासंस्पर्शजावेदनानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत कायसंस्पर्शजावेदना कायसंस्पर्शजावेदनानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत मनःसंस्पर्शजावेदना मनःसंस्पर्शजावेदनानुपलब्धिताम् उपादाय ।
नाममात्रम् एतद् यद् उत पृथिवीधातुः पृथिवीधात्वनुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उताब्धातुर् अब्धात्वनुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत तेजोधातुस् तेजोधात्वनुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत वायुधातुर् वायुधात्वनुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उताकाशधातुर् आकाशधात्वनुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत विज्ञानधातुर् विज्ञानधात्वनुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उताविद्या अविद्यानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत संस्कराः संस्कारानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत विज्ञानं विज्ञानानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत नामरूपं नामरूपानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत षडायतनं षडायतनानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत स्पर्शः स्पर्शानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत वेदना वेदनानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत तृष्णा तृष्णानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उतोपादानम् उपादानानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत भवो भवानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत जातिर् जात्यनुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत जरामरणं जरामरणानुपलब्धिताम् उपादाय ।
नाममात्रम् एतद् यद् उत दानपारमिता दानपारमितानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत शीलपारमिता शीलपारमितानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत क्षान्तिपारमिता क्षान्तिपारमितानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत वीर्यपारमिता वीर्यपारमितानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत ध्यानपारमिता ध्यानपारमितानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत प्रज्ञापारमिता प्रज्ञापारमितानुपलब्धिताम् उपादाय ।
नाममात्रम् एतद् यद् उताध्यात्मशून्यताध्यात्मशून्यतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत बहिर्धाशून्यता बहिर्धाशून्यतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उताध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत शून्यताशून्यताशून्यताशून्यतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत महाशून्यता महाशून्यतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत परमार्थशून्यता परमार्थशून्यतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत संस्कृतशून्यता संस्कृतशून्यतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उतासंस्कृतशून्यतासंस्कृतशून्यतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उतात्यन्तशून्यतात्यन्तशून्यतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उतानवराग्रशून्यतानवराग्रशून्यतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उतानवकारशून्यतानवकारशून्यतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत प्रकृतिशून्यता प्रकृतिशून्यतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत सर्वधर्मशून्यता सर्वधर्मशून्यतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत स्वलक्षणशून्यता स्वलक्षणशून्यतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उतानुपलम्भशून्यतानुपलम्भशून्यतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उताभावशून्यताभावशून्यतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत स्वभावशून्यता स्वभावशून्यतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उताभावस्वभावशून्यताभावस्वभावशून्यतानुपलब्धिताम् उपादाय ।
नाममात्रम् एतद् यद् उत चत्वारि स्मृत्युपस्थानानि चत्वारि स्मृत्यस्थानानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत चत्वारि सम्यक्प्रहाणानि चत्वारि सम्यक्प्रहाणानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत चत्वार ऋद्धिपादाः चत्वारि ऋद्धिपादानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत पञ्चेन्द्रियाणीन्द्रियानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत पञ्चबलानि बलानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत सप्तबोध्यङ्गानि बोध्यङ्गानुपलब्धिताम् उपादाय । नामात्रम् एतद् यद् उतार्याष्टाङ्गमार्ग आर्याष्टाङ्गमार्गानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उतार्यसत्यानि आर्यसत्यानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत ध्यानानि ध्यानानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उताप्रमाणान्य् अप्रमाणानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उतारूप्यसमापत्तय आरूप्यसमापत्त्यनुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उताष्टौ विमोक्षा विमोक्षानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उतानुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्त्यनुपलब्धिताम् उपादाय नाममात्रम् एतद् यद् उत शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उताभिज्ञाभिज्ञानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत समाधयः समाध्यनुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत धारणीमुखानि धारणीमुखानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत दश तथागतबलानि तथागतबलानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत चत्वारि वैशारद्यानि वैशारद्यानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत चतस्रः प्रतिस ं विदः प्रतिस ं विदनुपलब्धिताम् उपादायः । नाममात्रम् एतद् यद् उत महामैत्री महामैत्र्यनुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत महाकरुणा महाकरुणानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उताष्टादशावेणिका बुद्धधर्माः आवेणिकबुद्धधर्मानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत तथता तथतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उतावितथतावितथतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत धर्मता धर्मतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत धर्मधातुर् धर्मधात्वनुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत धर्मस्थितिता धर्मस्थितितानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत धर्मनियामता धर्मनियामतानुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत भूतकोटिर् भूतकोट्यनुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत बोधिर् ब् ओध्यनुपलब्धिताम् उपादाय । नाममात्रम् एतद् यद् उत बुद्धो बुद्धानुपलब्धिताम् उपादाय । एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वः सर्वाभिज्ञां परिपूर्य सत्त्वान् परिपाचयति । बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति । बुद्धानां भगवतां सत्कारणतायै गुरुकरणतायै माननतायै पूजनतायै यो ऽयं जापयिकस् तेषां बुद्धानां भगवतां पूजासत्कारणविधिस् तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोति । यद् उत एवम् एव बोधिसत्त्वयानं । स तद् बोधिसत्त्वयानम् अभिरुह्य बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन् बुद्धक्षेत्रञ् च परिशोधयति । सत्त्वांश् च परिपाचयति । न चास्य बुद्धक्षेत्रसंज्ञा प्रवर्तते । सो ऽद्वयभूमौ स्थित्वा यादृशेनात्मभावेन शक्नोति मर्त्यानाम् अर्थं कर्तुं तादृशम् आत्मभावं सञ्चिन्त्य परिगृह्णति । स न जातु तेन यानेन विरहितो भवति । यावत् सर्वाकारज्ञताम् अनुप्राप्नोति । स सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति अप्रवर्तनीयं श्रावकप्रत्येकबुद्धैः । सर्वदेवनागयक्षगन्धर्वासुरगरुढकिन्नरमहोरगमनुष्यामनुष्येण लोकेन । तस्यानुत्तरां सम्यक्स ं बोधिम् अभिस ं बुद्धस्य पूर्वस्यां दिशिं गङ्गानदीवालुकोपमेषु लोकधातुह्षु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति । घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महायानम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकारज्ञताम् अनुप्राप्तः सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति । दक्षिणस्य दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति । घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महायानम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकारज्ञताम् अनुप्राप्तः सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति । पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महायानम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकारज्ञताम् अनुप्राप्तः सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति । उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महायानम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकारज्ञताम् अनुप्राप्तः सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति । पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महसत्त्वो महायानम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकारज्ञताम् अनुप्राप्तः सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति । दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महायानम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकारज्ञताम् अनुप्राप्तः सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयन्ति । पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महायानम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकारज्ञताम् अनुप्राप्तः सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति । उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीर्यन्ति । घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति घोषम् अनुश्रावयन्ति । एषो ऽमुशिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महायानम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकाज्ञताम् अनुप्राप्तः । सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति । अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति । घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महायानम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकारज्ञताम् अनुप्राप्तः सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति । उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते यश उद्गीरयन्ति । घोषम् अनुश्रावयन्ति । एषो ऽमुष्मिन् लोकधातौ बोधिसत्त्वो महासत्त्वो महायाम् अनुत्तरयानं प्रवरयानम् अभिरुह्य सर्वाकारज्ञताम् अनुप्राप्तः सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति । एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारुढ इत्य् उच्यते ।
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् । महासन्नाहसन्नह्यो महासन्नाहसन्नह्य इति भगवन्न् उच्यते । कियता भगवन् बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नह्य इत्य् उच्यते । एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत् । इह सुभूते बोधिसत्त्वो महासत्त्वो महायानसन्नाहसन्नह्यः । यद् उत दानपारमितासन्नाहं सन्नह्य शीलपारमितासन्नाहं सन्नह्य क्षान्तिपारमितासन्नाहं सन्नह्य वीर्यपारमितासन्नाहं सन्नह्य ध्यानपारमितासन्नाहं सन्नह्य प्रज्ञापारमितासन्नाहं सन्नह्य । अध्यात्मशून्यतासन्नाहं सन्नह्य बहिर्धाशून्यतासन्नाहं सन्नह्य । अध्यात्मबहिर्धाशून्यतासन्नाहं सन्नह्य शून्यताशून्यतासन्नाहं सन्नह्य महाशून्यतासन्नाहं सन्नह्य परमार्थशून्यतासन्नाहं सन्नह्य संस्कृतशून्यतासन्नाहं सन्नह्य असंस्कृतशून्यतासन्नाहं सन्नह्य अत्यन्तशून्यतासन्नाहं सन्नह्य अनवराग्रशून्यतासन्नाहं सन्नह्य अनवकारशून्यतासन्नाहं सन्नह्य प्रकृतिशून्यतासन्नाहं सन्नह्य सर्वधर्मशून्यतासन्नाहं सन्नह्य स्वलक्षणशून्यतासन्नाहं सन्नह्य अनुपलम्भशून्यतासन्नाहं सन्नह्य अभावशून्यतासन्नाहं सन्नह्य स्वभावशून्यतासन्नाहं सन्नह्य स्वभावशून्यतासन्नाहं सन्नह्य अभावस्वभाशून्यतासन्नाहं सन्नह्य । स्मृत्युपस्थानसन्नाहं सन्नह्य सम्यक्प्रहाणसन्नाहं सन्नह्य ऋद्धिपादसन्नाहं सन्नह्य इन्द्रियसन्नाहं सन्नह्य बलसन्नाहं सन्नह्य बोध्यङ्गसन्नाहं सन्नह्य आर्याष्टाङ्गमार्गसन्नाहं सन्नह्य आर्यसत्यसन्नाहं सन्नह्य ध्यानसन्नाहं सन्नह्य अप्रमाणसन्नाहं सन्नह्य आरूप्यसमापत्तिसन्नाहं सन्नह्य विमोक्षसन्नाहं सन्नह्य अनुपूर्वविहारसमापत्तिसन्नाहं सन्नह्य शून्यतानिमित्ताप्रणिहितविमोक्षमुखसन्नाहं सन्नह्य समाधिसन्नाहं सन्नह्य अभिज्ञासन्नाहं सन्नह्य धारणीमुखसन्नाहं सन्नह्य तथागतबलसन्नाहं सन्नह्य वैशारद्यसन्नाहं सन्नह्य प्रतिस ं वित्सन्नाहं सन्नह्य महामैत्रीसन्नाहं सन्नह्य महाकरुणासन्नाहं सन्नह्य अष्टादशावेणिकबुद्धधर्मसन्नाहं सन्नह्य सर्वाकारज्ञतासन्नाहं सन्नह्य बुद्धविग्रहसन्नाहं सन्नह्य । इयं त्रिसाहस्रं लोकधातून् आभया स्फुरित्वा । पूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभया स्फुरति । दक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभया स्फुरति । पश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभया स्फुरति । उत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभया स्फुरति । पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभया स्फुरति । दक्षिणपश्चिमायां दिशि गङ्गानदीवलुकोपमान् लोकधातून् आभया स्फुरति । पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभया स्फुरति । उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभया स्फुरति । अधस्ताद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभया स्फुरति । उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभया स्फुरति । इमं त्रिसाहस्रमहासाहस्रलोकधातुं षड्विकारं प्रकम्प्य पूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् षड्विकारान् प्रकम्पयति । दक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् षड्विकारान् प्रकम्पयति । पश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातून् षड्विकारान् प्रकम्पयति । उत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधतून् षड्विकारान् प्रकम्पयति । पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् षड्विकारान् प्रकम्पयति । दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातून् षड्विकारान् प्रकम्पयति । पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् षड्विकारान् प्रकम्पयति । उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् षड्विकारान् प्रकम्पयति । अधस्ताद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् षड्विकारान् प्रकम्पयति । उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् षड्विकारान् प्रकम्पयति ।
सो ऽस्मिन् त्रिसाहस्रमहासाहस्रलोकधातौ यो नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुश्रावयति । तदा नैरयिकाः सत्त्वास् तं बुद्धशब्दसुखसौमनस्यं प्रतिलभन्ते । ते तेन सुखसौमनस्येन ततो निरयेभ्यो व्युत्तिष्ठन्ते । ते च ततो निरयेभ्यो व्युत्थाय यत्र यत्र लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति । ते तत्र तत्रोपपद्यन्ते । सो ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ तिर्यग्योनिकानां सत्त्वानां तिर्यग्योनिदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुश्रावयति । तदा ते तैर्यग्योनिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । ते तेन सुखसौमनस्येन ततस् तिर्यग्योनिभ्यो व्युत्तिष्ठन्ते । ते ततस् तिर्यग्योनेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रे बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । ततो ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ यामलौकिकानां सत्त्वानां यमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति । शब्दम् उदीरयति । घोषम् अनुश्रावयति । ततो यामलौकिकाः सत्त्वास् तञ् च बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । ते तेन सुखसौमनस्येन ततो यमलोकाद् व्युत्तिष्ठन्ते । ततो यमलोकाद् व्युत्थाय यत्र यत्र बुद्धक्षत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । स पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यो नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति घोषम् अनुश्रावयति । तदा ते नैरयिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । ते तेन सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते । ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । स दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुभावयति । तदा ते नैरयिकः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । तेन सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते । ते ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति । धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । स पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यो नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुश्रावयति । तदा ते नैरयिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । तेन सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते । ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । स उत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यो नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति घोषम् अनुश्रावयति । तदा ते नैरयिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । तेन सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते । ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते न यापयन्ति धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । स दक्षिणं पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यो नैरयिको ऽग्निष्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति घोषम् अनुश्रावयति । तदा ते नैरयिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । तेन सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते । ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति । धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । स दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यो नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुश्रावयति । तदा ते नैरयिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । तेन च सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते । ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति । धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । स पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यो नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुश्रावयति । तदा ते नैरयिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते तेन च सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते । ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति । धर्मञ् च देशयन्ति तत्र तत्रोपद्यन्ते । स पूर्वोत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यो नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुश्रावयति । तदा ते नैरयिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । तेन च सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते । ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । सो ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यो नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुश्रावयति । तदा ते नैरयिकाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । तेन च सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते । ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । स उपरिष्ठाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यो नैरयिको ऽग्निस्कन्धस् तं सर्वं निर्वाप्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुश्रावयति । तदा ते नैरयिकाः
सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । तेन च सुखसौमनस्येन ततो नरकेभ्यो व्युत्तिष्ठन्ते । ततो नरकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते ।
स पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु कोकधातुषु तिर्यग्योनियमलोकोपपद्धानां सत्त्वानां तिर्यग्योनियमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुश्रावयति । तदा ते तिर्यग्योनियमलोकोपपद्धाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । तेन च सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते । ते तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । स दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनियमलोकोपपद्धानां सत्त्वानां तिर्यग्योनियमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुश्रावयति । तदा ते तिर्यग्योनियमलोकोपपद्धाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । तेन सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते । तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । स पश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनियमलोकोपपद्धानां सत्त्वानां तिर्यग्योनियमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुश्रावयति । तदा ते तिर्यग्योनियमलोकोपपद्धाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । तेन च सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते । ते तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । स उत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनिलोकोपपद्धानां सत्त्वानां तिर्यग्योनियमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुश्रावयति । तदा ते तिर्यग्योनियमलोकोपपद्धाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । तेन च सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते । ते तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । स पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनियमलोकोपपद्धानां सत्त्वानां तिर्यग्योनियमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुश्रावयति । तदा ते तिर्यग्योनियमलोकोपपद्धानां सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । तेन सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते । ते तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । स दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनियमलोकोपपद्धानानां सत्त्वानां तिर्यग्योनियमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुश्रावयति । तदा ते तिर्यग्योनियमलोकोपपद्धाः सत्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते तेन सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते ते तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनियमलोकोपपद्धानां सत्त्वानां तिर्यग्योनियमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुश्रावयति । तदा ते तिर्यग्योनियमलोकोपपद्धाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । तेन सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते । तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । स उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनियमलोकोपपद्धानां सत्त्वानां तिर्ययोनियमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुश्रावयति । तदा ते तिर्यग्योनियमलोकोपपद्धाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । तेन सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते । ते तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । सो ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनियमलोकोपपद्धानां सत्त्वानां तिर्यग्योनियमलोकदुःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुश्रावयति । तदा ते तिर्यग्योनियमलोकोपपद्धाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । तेन सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते । तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति । तत्र तत्रोपपद्यन्ते । स उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनियमलोकोपपद्धानां सत्त्वानां तिर्यग्योनियमलोकदःखं प्रशमय्य नमस् तस्मै तथागतायार्हते सम्यक्स ं बुद्धायेति शब्दम् उदीरयति । घोषम् अनुश्रावयति । तदा ते तिर्यग्योनियमलोकोपपद्धाः सत्त्वास् तं बुद्धशब्दं श्रुत्वा सुखसौमनस्यं प्रतिलभन्ते । तेन सुखसौमनस्येन तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठन्ते । तेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्थाय यत्र यत्र बुद्धा भगवन्तस् तिष्ठन्ते ध्रियन्ते यापयन्ति । तत्र तत्रोपपद्यन्ते ।
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तवासी वा चतुर्महापथे महतो जननिकारस्य पुरतो नरकास् तिर्यग्योनियमलोकाश् चाभिनिर्माय तेषां मायिकानां सत्त्वानां बुद्धशब्दम् उद्घोषयेद् धर्मशब्दम् उद्घोषयेत् संघशब्दम् उद्घोषयेद् अत्र ते ऽभिनिर्मितास् तेन बुद्धशब्देन धर्मशब्देन संघशब्देन ततो नरकेभ्यस् तिर्यग्योनियमलोकेभ्यो व्युत्तिष्ठेरंस् तत् किं मन्यसे सुभूते ऽपि तु तेन मायाकारेण मायाकारान्तेवासिना वा कश्चित् सत्त्वो नरकेभ्यस् तिर्यग्योनियमलोकाद् व्युत्थितो भवेत् । आह नो हीदं भगवन् । भगवान् आह । एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन दशसु दिक्षु अप्रमेयासंख्येयेषु लोकधातुषु सत्त्वास् तिर्यग्योनिभ्यो दुर्गतिभ्यः परिमोचेरन् नरकाद्वि सत्त्वः परिमोचितो भवति । तत् कस्य हेतोः । धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय । एक खलु सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नह्य इत्य् उच्यते ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा महासन्नाहसन्नद्धस् त्रिसाहस्रमहामाहस्रलोकधातुं वैदूर्यम् अयम् अभिनिर्मिमीते वैदूर्यम् अयम् अभिनिर्माय चक्रवर्तिव्यूहम् अभिनिर्मिमीते । चक्रवर्तिव्यूहम् अभिनिर्माय असन्नार्थिकेभ्यो ददाति । पानं पानार्थिकेभ्यो ददाति । यानं यानार्थिकेभ्यो ददाति । वस्त्रं वस्त्रार्थिकेभ्यो ददाति । पुष्पं पुष्पार्थिकेभ्यो ददाति । माल्यं माल्यार्थिकेभ्यो ददाति । गन्धं गन्धार्थिकेभ्यो ददाति । विलेपनं विलेपनार्थिकेभ्यो ददाति । शयनम् आसनं शयनासनार्थिकेभ्यो ददाति । उपाश्रयम् उपाश्रयार्थिकेभ्यो ददाति । प्राजीविकं प्राजीविकार्थिकेभ्यो ददाति । उपकरनम् उपकरनार्थिकेभ्यो ददाति । ग्लानप्रत्ययभैषयपरिष्कारं ग्लानप्रत्ययभैषज्यपरिष्कारार्थिकेभ्यो ददाति । मणिमुखावैदूर्यशङ्खशिलाप्रवालरजतजातरूपार्थिकेभ्यो मणिमुक्तावैदूर्यशङ्खशिलाप्रवालरजतजातरूपाणि ददाति । यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् ददाति । सो ऽनमनार्थिकेभ्यो दत्त्वा पानं पानार्थिकेभ्यो दत्त्वा यानं यानार्थिकेभ्यो दत्त्वा वस्त्रं वस्त्रार्थिकेभ्यः पुष्पं पुष्पार्थिकेभ्यः । माल्यं माल्यार्थिकेभ्यः गन्धं गन्धार्थिकेभ्यः विलेपनं विलेपनार्हिकेभ्यः शयनम् आसनं शयनासनार्थिकेभ्यः उपाश्रयम् उपाश्रयार्थिकेभ्यः प्राजीविकं प्राजीविकार्थिकेभ्यः उपकरनम् उपकरनार्थिकेभ्यः ग्लानप्रत्ययभैषज्यपरिष्कं ग्लानप्रत्ययभैषज्यपरिष्कारार्थिकेभ्यः मणिमुक्तावैदूर्यशङ्खशिलाप्रवालरजतजातरूपाणि मुक्तावैदूर्यशङ्खशिलाप्रवालरजतजातरूपार्थिकेभ्यः दत्त्वा यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् दत्त्वा तेभ्यः सत्त्वेभ्यो धर्मं देशयति । यद् उतेमाम् एव षट्पारमिताप्रतिसंयुक्तं धर्मदेशनां । ते च खलु पुनः सत्त्वास् तां धर्मदेशनां श्रुत्वा न जातु षड्भिः पारमिताभिर् विरहितो भवति । यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यन्ते ।
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जननिकायस्याग्रे महान्तं जननिकायम् अभिनिर्मायान्नम् अन्नार्थिकेभ्यो दद्यात् पानं पानार्थिकेभ्यो दद्यात् वस्त्रं वस्त्रार्थिकेभ्यो दद्यात् पुष्पं पुष्पार्थिकेभ्यो दद्यात् माल्यं माल्यार्थिकेभ्यो दद्यात् गन्धं गन्धार्थिकेभ्यो दद्यात् विलेपनं विलेपनार्थिकेभ्यो दद्यात् शयनम् आसनं शयनासनार्थिकेभ्यो दद्यात् उपाश्रयम् उपाश्रयार्थिकेभ्यो दद्यात् प्राजीविकं प्राजीविकार्थिकेभ्यो दद्यात् उपकरणम् उपकरणार्थिकेभ्यो दद्यात् ग्लानप्रत्ययभैषज्यपरिष्कारान् ग्लानप्रत्ययभैषज्यपरिष्कारार्थिकेभ्यो दद्यात् मणिमुक्तावैदूर्यशङ्खशिलाप्रवाहरजतजातरूपाणि मणिमुक्तावैदूर्यशङ्खशिलाप्रवालरजतजातरूपार्थिकेभ्यो दद्यात् यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् दद्यात् । तत् किं मन्यसे सुभूते ऽपि तु तेन मायाकारेण मायाकारान्तेवासिना वा कस्मैचित् सत्त्वाय किञ्चिद् दत्तं भवेत् । आह नो हीदं भगवन् । भगवान् आह । एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन यावच् चक्रवर्तिव्यूहम् अभिनिर्मायान्नम् अन्नार्थिकेभ्यो ददता पानं पानार्थिकेभ्यो ददता यानं यानार्थिकेभ्यो ददता वस्त्रं वस्त्रार्थिकेभ्यो ददता पुष्पं पुष्पार्थिकेभ्यो ददता माल्यं माल्यार्थिकेभ्यो ददता गन्धं गन्धार्थिकेभ्यो ददता विलेपनं विलेपनार्थिकेभ्यो ददता शयनासनं शयनासनार्थिकेभ्यो ददता उपाश्रयम् उपाश्रयार्थिकेभ्यो ददता प्राजीविकं प्राजीविकार्थिकेभ्यो ददता उपकरणम् उपकरणार्थिकेभ्यो ददता ग्लानप्रत्ययभैषज्यपरिष्कारान् ग्लानप्रत्ययभैषज्यपरिष्कारार्थिकेभ्यो ददता मणिमुक्तावैदूर्यशङ्खशिलाप्रवालरजतजातरूपाणि मणिमुक्तावैदूर्यशङ्खशिलाप्रवालरजतजातरूपार्थिकेभ्यो ददता यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् ददता न कस्मैचित् सत्वाय किञ्चिद् दत्तं भवति । तत् कस्य हेतोः धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो महासन्नासन्नह्य इत्य् उच्यते ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थित्वा सञ्चिन्त्योपपत्तिपरिग्रहेण चक्रवर्तिकुले प्रत्याजायते । स तत्र चक्रवर्तिश् चर्ये स्थित्वा सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठापयति । स चतुर्षु ध्यानेष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्षु बुद्धपादेषु पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु । आर्याष्टाङ्गमार्गे शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु नवस्व् अनुपूर्वविहारसमापत्तिषु चतुर्ष्व् आर्यसत्त्वेषु सर्वसमाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिस ं वित्सु महामैत्र्यां महाकरुणायां अष्टादशास्व् आवेणिकबुद्धधर्मेषु प्रतिष्ठापयति । ते सत्वा न जातु विरहितो भवति । तथा धर्मदेशनया यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यन्ते ।
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुःपथे महतो जननिकायस्य पुरतो महान्तं जननिकायम् अभिनिर्माय सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठापयेत् । चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु । पञ्चस्व् अभिज्ञासु चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चेन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु आर्याष्टाङ्गमार्गे शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु नवस्व् अनुपूर्वविहारसमापत्तिषु चतुर्ष्व् आर्यसत्येषु सर्वसमाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिस ं वित्सु महामैत्र्यां महाकरुणायां अष्टादशस्व् आवेणिकबुद्धधर्मेषु प्रतिष्ठापयेत् । तत् किं मन्यसे सुभूते ऽपि गतेन मायाकारेण मायाकारान्तेवासिना कश्चित् सत्त्वो दशकुशलेषु कर्मपथेषु प्रतिष्ठापितो भवेत् । चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तबोध्यङ्गेषु अर्याष्टाङ्गमार्गे शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु । नवस्व् अनुपूर्वविहारसमापत्तिषु चतुर्ष्व् आर्यसत्येषु सर्वसमाधिषु सर्वधारणीमुखेषु दशतथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिस ं वित्सु महामैत्र्यां महाकरुणायां अष्टादशावेणिकबुद्धधर्मेषु प्रतिष्ठापितो भवति । आह । नो हीदं भगवन् । एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेनाप्रमेयासंख्येयान् अपि सत्त्वान् दशकुशलेषु कर्मपथेउअ प्रतिष्ठाप्य चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु अर्याष्टाङ्गमार्गे शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु अष्टासु विमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु चतुर्ष्व् आर्यसत्येषु सर्वसमाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिस ं वित्सु महामैत्र्यां महाकरुणायां अष्टादशावेणिकबुद्धधर्मेषु न कश्चित् सत्त्वः प्रतिष्ठापितो भवति । तत् कस्य हेतोः । धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहं सन्नह्य इत्य् उच्यते ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा सर्वसत्त्वान् क्षान्तिपारमितायां नियोजयति प्रतिष्ठापयति । कथञ् च सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा सर्वसत्त्वान् क्षान्तिपारमितायां नियोजयति प्रतिष्ठापयति । इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यैव सन्नाहं सन्नह्यति । सचेत् सर्वसत्त्वा मे लोष्ट्रदण्डशस्त्रप्रहारान् दद्युस् तत्र मयैकम् अपि क्षोभसहगतं चित्तं नोत्पादयितव्यं । सर्वसत्त्वांश् चैवं रूपायां क्षान्तौ प्रतिष्ठापयति ।
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जननिकायस्य पुरतो महान्तं जननिकायम् अभिनिर्माय क्षान्तिपारमितायां नियोजयेत् प्रतिष्ठापयेत् किं मन्यसे सुभूते ऽपि नु तेन मायाकारेण मायाकारान्तेवासिना वा कश्चित् सत्त्वः क्षान्तिपारमितायां प्रतिष्ठापितो भवेत् आह । नो हीदं भगवन् । भगवान् आह । एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेनाप्रमेयासंख्येयान् सत्त्वान् क्षान्तिपारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वः क्षान्तिपारमितायां प्रतिष्ठापितो भवति । तत् कस्य हेतोः । धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नह्य इत्य् उच्यते ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा सत्त्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा सर्वसत्त्वान् वीर्यपारमितायां समादापयति । निवेशयति प्रतिष्ठापयति । इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्ते न चित्तोत्पादेन सर्वसत्त्वान् कायिकचेतसिकवीर्ये समादापयति निवेशयति प्रतिष्ठापयति । तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जननिकायस्य पुरतो महान्तं जननिकायम् अभिनिर्माय कायिकचेतसिकवीर्ये प्रतिष्ठापयेत् तत् किं मन्यसे सुभूते ऽपि नु तेन मायाकारेण वा मायाकारान्तेवासिना वा चतुर्महापथे महतो जननिकायस्य पुरतो महान्ते जननिकायम् अभिनिर्मिमे कायिकचेतसिकवीर्ये प्रतिष्ठापयेत् । तत् किं मन्यसे सुभूते ऽपि नु तेन मायाकारेण वा मायाकारान्तेवासिना वा कश्चित् सत्त्वः कायिकचेतसिकवीर्ये प्रतिष्ठापितो भवेत् । आह । नो हीदं भगवन् । एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेनाप्रमेयासंख्येयान् सत्त्वाम् कायिकचेतमिकवीर्ये प्रतिष्ठाप्य न कश्चित् सत्त्वः कायिकचेतसिकवीर्ये प्रतिष्ठापितो भवति । तत् कस्य हेतोः धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय । एवं खलु बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नह्य इत्य् उच्यते ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थित्वा सर्वसत्त्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थित्वा सर्वसत्त्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्मसमतायां स्थित्वा यत्र कस्यचिद् धर्मस्य विक्षेपं वा समनुपश्यत्य् एवं ध्यानपारमितायां स्थितो भवति । स तथैव सत्त्वान् ध्यानपारमितायां समादापयति । निवेशयति । प्रतिष्ठापयति । ते च समादापिता न जातु विरहिता भवन्ति ध्यानपारमितायाः यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यते । तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जननिकायस्य पुरतो महान्तं जननिकायम् अभिनिर्माय ध्यानपारमितायां प्रतिष्ठापयति । तत् किं मन्यसे सुभूते ऽपि नु तेन मायाकारेण वा मायाकारान्तवासिना वा कश्चित् सत्त्वो ध्यानपारमितायां प्रतिष्ठापितो भवेत् । आह । नो हीदं भगवन् । भगवान् आह । एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् ध्यानपारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वो ध्यानपारमितायां प्रतिष्ठापितो भवति । तत् कस्य हेतोः । धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय । एव खलु सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहं सन्नह्य इत्य् उच्यते ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति । कथञ् च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति । आह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् यत् कस्यचिद् धर्मस्योत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा आरं वा पारं वोपलभते । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो भवति । स तथैव सर्वसत्त्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति । तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जननिकायस्य पुरतो महान्तं जननिकायम् अभिनिर्माय प्रज्ञापार्मितायां समादापयेत् निवेशयेत् प्रतिष्ठापयेत् । तत् किं मन्यसे सुभूते ऽपि नु तेन मायाकारेण वा मायाकारान्तेवासिना वा कश्चित् सत्त्वः प्रज्ञापारमितायां समादापितो निवेशितः प्रतिष्ठापितो भवेत् । आह । नो हीदं भगवन् । भगवान् आह । एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् प्रज्ञापारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वः प्रज्ञापारमितायां प्रतिष्ठापितो भवेत् । तत् कस्य हेतोः धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नह्य इत्य् उच्यते ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहं सन्नह्य पूर्वस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा अथैवात्मना दानपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना शीलपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना क्षान्तिपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् क्षान्तिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना वीर्यपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापयति । निवेशयति प्रतिष्ठापयति । यथैवात्मना ध्यानपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना प्रज्ञापारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यद् उत या एव षट्पारमितास् ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहितो भवति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यन्ते ।
दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गत्वा यथैवात्मना दानपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापयति मिवेशयति प्रतिष्ठापयति । यथैवात्मना शीलपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् ताम् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना क्षान्तिपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् क्षान्तिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना वीर्यपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना ध्यानपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना प्रज्ञापारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति । धर्मं देशयति यद् उत या एव षट्पारमिताः । ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यन्ते ।
पश्चिमायान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा यथैवात्ममा दानपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना शीलपारमिताया तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना क्षान्तिपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् क्षान्तिपारमितायां समादापयति । यथैवात्मना वीर्यपारमितायां तिष्ठति तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना ध्यानपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना प्रज्ञापारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति । धर्मं देशयति यद् उत या एव षट्पारमिताः । ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यन्ति ।
उत्तरस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा यथैवात्मना दानपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापयति । यथैवात्मना शीलपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना क्षान्तिपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना वीर्यपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना ध्यानपारमितायां तिष्ठति तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादापयति । यथैवात्मना प्रज्ञापारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् प्रज्ञापारमितायां समादापयति । निवेशयति प्रतिष्ठापयति । धर्मञ् च देशयति यद् उत या एव षट्पारमिताः । ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहिता भवन्ति । षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यन्ते ।
पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा यथैवात्मना दानपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना शीलपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना क्षान्तिपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् क्षान्तिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना वीर्यपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना ध्यानपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना प्रज्ञापारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति । धर्मञ् च देशयति यद् उत या एव षट्पारमिताः । ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यन्ते ।
दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा यथैवात्मना दानपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना शीलपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना क्षान्तिपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् क्षान्तिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना वीर्यपारमितार्या तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना ध्यानपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना प्रज्ञापारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति । धर्मञ् च देशयति । यद् उत या एव षट्पारमिताः । ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यन्ते ।
पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा यथैवात्मना दानपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना शीलपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति मिवेशयति प्रतिष्ठापयति । यथैवात्मना क्षान्तिपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् क्षान्तिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना वीर्यपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापति निवेशयति प्रतिष्ठापयति । यथैवात्मना ध्यानपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादायति निवेशति प्रतिष्ठापयति । यथैवात्मना प्रज्ञापारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति । धर्मञ् च देशयति यद् उत या एव षट्पारमिताः । ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यन्ते ।
उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा यथैवात्मना दानपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापयति निवेशति प्रतिष्ठापयति । यथैवात्मना शीलपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना क्षान्तिपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् क्षान्तिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना वीर्यपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापयति । यथैवात्मना ध्यामपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना प्रज्ञापारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वान् सर्वान् प्रज्ञापारमितायां समादापयति । निवेशयति प्रतिष्ठापयति । धर्मञ् च देशयति यद् उत या एव षट्परामिताः ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यन्ते ।
अधस्ताद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा यथैवात्मना दानपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना शीलपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना क्षान्तिपारमिताया तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् क्षान्तिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना वीर्यपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना ध्यानपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना प्रज्ञापारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति । धर्मञ् च देशयति यद् उत या एव षट्पारमिताः । ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहिता भवन्ति षड्भिः पारमिताभिः । यावद् अन्नुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यन्ते ।
उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा यथैवात्मना दानपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् दानपारमितायां समादापति निवेशयति प्रतिष्ठापद्यति । यथैवात्मना शीलपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना क्षान्तिपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् क्षान्तिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति यथैवात्मना वीर्यपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् वीर्यपारमितायां समादापद्यति निवेशयति प्रतिष्ठापयति । यथैवात्मना ध्यानपारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति । यथैवात्मना प्रज्ञापारमितायां तिष्ठति । तथैव तत्र लोकधातुषु ये सत्त्वास् तान् सर्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति । धर्मञ् च देशयति यद् उत या एव षट्पारमिताः । ते सत्त्वास् तं धर्मं श्रुत्वा न जातु विरहिता भवन्ति षड्भिः पारमिताभिः । यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यन्ते ।
तद्यथापि नाम सुभूते दक्षो मायाकारो वा मायाकारान्तेवासी वा चतुर्महापथे महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्माय षट्सु पारमितासु समादापयेन् निवेशयेत् प्रतिष्ठापयेत् । तत् किं मन्यसे सुभूते ऽपि नु तेन मायाकारेण वा मायाकारान्तेवासिना वा कश्चित् सत्त्वः षट्सु पारमितासु समादापितो निवेशितः प्रतिष्ठापितो वा भवेत् । आह नो हीदं भगवन् । भगवान् आह । एवम् एव बोधिसत्त्वेन महासत्त्वेन पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु । दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु । पश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु । उत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु । पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु । दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु । पश्चिमोत्तरस्यान् दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु । अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु । उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये सत्त्वास् ते सर्वे षट्सु पारमितासु प्रतिष्ठापिता भवन्ति । तत् कस्य हेतोः । धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नह्य इत्य् उच्यते ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहं सन्नह्य सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विहरन् नान्येषां चित्तोत्पादानाम् अवकाशं ददाति । इयन्तो मया सत्त्वाः दानपारमितायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया शीलपारमितायां प्रतिष्ठापितव्याः । इयन्तो न प्रतिष्ठापितव्याः । इयन्तो मया सत्त्वाः क्षान्तिपारमितायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः वीर्यपारमितायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः ध्यानपारमितायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः प्रज्ञापारमितायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः ।
इयन्तो मया सत्त्वाः अध्यात्मशून्यतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वा बहिर्धाशून्यतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः अध्यात्मबहिर्धाशून्यतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः शून्यताशून्यतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः महाशून्यतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः परमार्थशून्यतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः संस्कृतशून्यतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः असंस्कृतशून्यतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्या । इयन्तो मया सत्त्वाः अत्यन्तशून्यतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः अनवराग्रशून्यतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः अनवकारशून्यतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः प्रकृतिशून्यतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्वाः सर्वधर्मशून्यतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः स्वलक्षणशून्यतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः अनुपलम्भशून्यतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः अभावशून्यतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः स्वभावशून्यतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः अभावस्वभावशून्यतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः ।
इयन्तो मया सत्वाश् चतुर्षु स्मृत्युपस्थानेषु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाश् चतुर्षु सम्यक्प्रहाणेषु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाश् चतुर्षु ऋद्धिपादेषु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः पञ्चस्व् इन्द्रियेषु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वो पञ्चसु बलेषु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः सप्तसु बोध्यङ्गेषु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः आर्याष्टाङ्गमार्गे प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः आर्यसत्येषु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाश् चतुर्षु ध्यानेषु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाश् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः विमोक्षेषु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वा नवस्व् अनुपूर्वविहारसमापत्तिषु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः शून्यतानिमित्ताप्रणिहितविमोक्षेषु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वा पञ्चस्व् अभिज्ञासु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वा सर्वसमाधिषु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः सर्वधारणीमुखेषु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः दशसु तथागतबलेषु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाश् चतुर्षु वैशारद्येषु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाश् चतसृषु प्रतिस ं वित्सु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वा महामैत्र्यां प्रतिष्ठापयितव्याः । इयन्तो न प्रतष्ठापयितव्याः । इयन्तो मया सत्त्वाः महाकरुणायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः अष्टादशस्व् आवेणिकबुद्धधर्मेषु प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापहितव्याः । इयन्तो मया सत्त्वाः श्रोतआपत्तिफले प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः सकृदागामिफले प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः अनागामिफले प्रतिष्ठापयितव्या । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः अर्हत्वे प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः मार्गाकारज्ञतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयितव्याः । इयन्तो मया सत्त्वाः सर्वाकारज्ञतायां प्रतिष्ठापयितव्याः । इयन्तो न प्रतिष्ठापयिव्याः ।
अपि तु पुनर् अस्यैवं भवत्य् अप्रमेयासंख्येया मया सत्त्वा दानपारमितायां प्रतिष्ठापयितव्याः । शीलपारमितायां प्रतिष्ठापयितव्याः । क्षान्तिपारमितायां प्रतिष्ठापयितव्याः । वीर्यपारमितायां प्रतिष्ठापयितव्याः । ध्यानपारमितायां प्रतिष्ठापयितव्याः । प्रज्ञापारमितायां प्रतिष्ठापयितव्याः । अध्यात्मशून्यतायां प्रतिष्ठापयितव्याः । बहिर्धाशून्यतायां प्रतिष्ठापयितव्याः । अध्यात्मबहिर्धाशून्यतायां प्रतिष्ठापयितव्याः । शून्यताशून्यतायां प्रतिष्ठापयितव्याः । महाशून्यतायां प्रतिष्ठापयितव्याः । परमार्थशून्यतायां प्रतिष्ठापयितव्याः । संस्कृतशून्यतायां प्रतिष्ठापयितव्याः । असंस्कृतशून्यतायां प्रतिष्ठापयितव्याः । अत्यन्तशून्यतायां प्रतिष्ठापयितव्याः । अनवराग्रशून्यतायां प्रतिष्ठापयितव्याः । अनवकारशून्यतायां प्रतिष्ठापयितव्याः । प्रकृतिशून्यतायां प्रतिष्ठापयितव्याः । सर्वधर्मशून्यतायां प्रतिष्ठापयितव्याः । स्वलक्षणशून्यतायां प्रतिष्ठापयितव्याः । अनुपलम्भशून्यतायां प्रतिष्ठापयितव्याः । अभावशून्यतायां प्रतिष्ठापयितव्याः । स्वभावशून्यतायां प्रतिष्ठापयितव्याः । अभावस्वभावशून्यतायां प्रतिष्ठापयितव्याः । चतुर्षु स्मृत्युपस्थानेषु प्रतिष्ठापयितव्याः । चतुर्षु सम्यक्प्रहाणेषु प्रतिष्ठापयितव्याः । चतुर्षु ऋद्धिपादेषु प्रतिष्ठापयितव्याः । पञ्चस्व् इन्द्रियेषु प्रतिष्ठापथितव्याः । पञ्चसु बलेषु प्रतिष्ठापयितव्याः । सप्तसु बोध्यङ्गेषु प्रतिष्ठापयितव्याः । आर्याष्टाङ्गमार्गे प्रतिष्ठापयितव्याः । चतुर्ष्व् आर्यसत्येषु प्रतिष्ठापयितव्याः । चतुर्षु ध्यानेषु प्रतिष्ठापयितव्याः । चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयितव्याः । चतसृष्व् आरूप्यसमापत्तिषु प्रतिष्ठापयितव्याः । अष्टासु विमोक्षेषु प्रतिष्ठापयितव्याः । नवस्व् अनुपूर्वविहारसमापत्तिषु प्रतिष्ठापयितव्याः । शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु प्रतिष्ठापयितव्याः । पञ्चस्व् अभिज्ञासु प्रतिष्ठापयितव्याः । सर्वसमाधिषु प्रतिष्ठापयितव्याः । सर्वधारणीमुखेषु प्रतिष्ठापयितव्याः । दशसु तथागतबलेषु प्रतिष्ठापयितव्याः । चतुर्षु वैशारद्येषु प्रतिष्ठापयितव्याः । चतसृषु प्रतिस ं वित्सु प्रतिष्ठापयितव्याः । महामैत्र्यां प्रतिष्ठापयितव्याः । महाकरुणायां प्रतिष्ठापयितव्याः । अष्टादशावेणिकबुद्धधर्मेषु प्रतिष्ठापयितव्याः । श्रोतआपत्तिफले प्रतिष्ठापयितव्याः । सकृदागामिफले प्रतिष्ठापयितव्याः । अनागामिफले प्रतिष्ठापयितव्याः । अर्हत्त्वे प्रतिष्ठापयितव्याः । प्रत्येकबोधौ प्रतिष्ठापयितव्याः । मार्गाकारज्ञतायां प्रतिष्ठापयितव्याः । सर्वाकारज्ञतायां प्रतिष्ठापयितव्याः ।
तद्यथापि नाम सुभूते दक्षो मायाकारो वा मायाकारान्तेवासी वा चतुर्महापथे महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्मायैवं चित्तम् उत्पादयेत् एते मया अप्रमेयासंख्येयाः सत्त्वाः षट्सु पारमितासु प्रतिष्ठापयितव्याः । अष्टादशसु शून्यतासु प्रतिष्ठापयितव्याः । चतुर्षु स्मृत्युपस्थानेषु प्रतिष्ठापयितव्याः । चतुर्षु सम्यक्प्रहाणेषु प्रतिष्ठापयितव्याः । चतुर्षु ऋद्धिपादेषु प्रतिष्ठापयितव्याः । पञ्चस्व् इन्द्रियेषु प्रतिष्ठापथितव्याः । पञ्चसु बलेषु प्रतिष्ठापयितव्याः । सप्तसु बोध्यङ्गेषु प्रतिष्ठापयितव्याः । आर्याष्टाङ्गमार्गे प्रतिष्ठापयितव्याः । चतुर्ष्व् आर्यसत्येषु प्रतिष्ठापयितव्याः । चतुर्षु ध्यानेषु प्रतिष्ठापयितव्याः । चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयितव्याः । चतसृष्व् आरूप्यसमापत्तिषु प्रतिष्ठापयितव्याः । अष्टासु विमोक्षेषु प्रतिष्ठापयितव्याः । नवस्व् अनुपूर्वविहारसमापत्तिषु प्रतिष्ठापयितव्याः । शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु प्रतिष्ठापयितव्याः । पञ्चस्व् अभिज्ञासु प्रतिष्ठापयितव्याः । सर्वसमाधिषु प्रतिष्ठापयितव्याः । सर्वधारणीमुखेषु प्रतिष्ठापयितव्याः । दशसु तथागतबलेषु प्रतिष्ठापयितव्याः । चतुर्षु वैशारद्येषु प्रतिष्ठापयितव्याः । चतसृषु प्रतिस ं वित्सु प्रतिष्ठापयितव्याः । महामैत्र्यां प्रतिष्ठापयितव्याः । महाकरुणायां प्रतिष्ठापयितव्याः । अष्टादशस्व् आवेणिकबुद्धधर्मेषु प्रतिष्ठापयितव्याः । श्रोतआपत्तिफले प्रतिष्ठापयितव्याः । सकृदागामिफले प्रतिष्ठापयितव्याः । अनागामिफले प्रतिष्ठापयितव्याः । अर्हत्त्वे प्रतिष्ठापयितव्याः । प्रत्येकबोधौ प्रतिष्ठापयितव्याः । मार्गाकारज्ञतायां प्रतिष्ठापयितव्याः । सर्वाकारज्ञतायां प्रतिष्ठापयितव्याः ।
तत् किं मन्यसे सुभूते ऽपि नु तेन मायाकारेण वा मायाकारान्तेवासिना वा कश्चित् सत्वः षट्सु पारमितासु प्रतिष्ठापितो भवेत् । अष्टादशसु शून्यतासु प्रतिष्ठापितो भवेत् । चतुर्षु स्मृत्युपस्थानेषु प्रतिष्ठापितो भवेत् । चतुर्षु सम्यक्प्रहाणेषु प्रतिष्ठापितो भवेत् । चतुर्षु ऋद्धिपादेषु प्रतिष्ठापितो भवेत् । पञ्चस्व् इन्द्रियेषु प्रतिष्ठापितो भवेत् । पञ्चसु बलेषु प्रतिष्ठापितो भवेत् । सप्तसु बोध्याङ्गेषु प्रतिष्ठापितो भवेत् । आर्याष्टाङ्गामार्गे प्रतिष्ठापितो भवेत् । चतुर्ष्व् आर्यसत्येषु प्रतिष्ठापितो भवेत् । चतुर्षु ध्यानेषु प्रतिष्ठापितो भवेत् । चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापितो भवेत् । चतसृष्व् आरूप्यसमापत्तिषु प्रतिष्ठापितो भवेत् । अष्टासु विमोक्षेषु प्रतिष्ठापितो भवेत् । नवस्व् अनुपूर्वविहारसमापत्तिषु प्रतिष्ठापितो भवेत् । शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु प्रतिष्ठापितो भवेत् । पञ्चस्व् अभिज्ञासु प्रतिष्ठापितो भवेत् । सर्वसमाधिषु प्रतिष्ठापितो भवेत् । सर्वधारणीमुखेषु प्रतिष्ठापितो भवेत् । दशतथागतबलेषु प्रतिष्ठापितो भवेत् । चतुर्षु वैशारद्येषु प्रतिष्ठापितो भवेत् । चतसृषु प्रतिस ं वित्सु प्रतिष्ठापितो भवेत् । महामैत्र्यां प्रतिष्ठापितो भवेत् । महाकरुणायां प्रतिष्ठापितो भवेत् । अष्टादशस्व् आवेणिकबुद्धधर्मेषु प्रतिष्ठापितो भवेत् । श्रोतआपत्तिफले प्रतिष्ठापितो भवेत् । सकृदागामिफले प्रतिष्ठापितो भवेत् । अनागामिफले प्रतिष्ठापितो भवेत् । अर्हत्वे प्रतिष्ठापितो भवेत् । प्रत्येकबोधौ प्रतिष्ठापितो भवेत् । मार्गाकारज्ञतायां प्रतिष्ठापितो भवेत् । सर्वाकारज्ञतायां प्रतिष्ठापितो भवेत् ।
आह । नो हीदं भगवन् । भगवान् आह । एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेनाप्रमेयासंख्येयानां सत्त्वानां षट्सु पारमितासु प्रतिष्ठापनाय चित्तम् उत्पाद्य । अष्टादशसु शून्यतासु प्रतिष्ठापनाय चित्तम् उत्पाद्य । चतुर्षु स्मृत्युपस्थानेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य । चतुर्षु सम्यक्प्रहाणेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य । चतुर्ष्व् ऋद्धिपादेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य । पञ्चस्व् इन्द्रियेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य । पञ्चसु बलेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य । सप्तसु बोध्यङ्गेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य । आर्याष्टाङ्गमार्गे प्रतिष्ठापनाय चित्तम् उत्पाद्य । आर्यसत्येषु प्रतिष्ठापनाय चित्तम् उत्पाद्य । चतुर्षु ध्यानेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य । चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य । आरूप्यसमापत्तिषु प्रतिष्ठापनाय चित्तम् उत्पाद्य । अष्टासु विमोक्षेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य । नवस्व् अनुपूर्वविहारसमापत्तिषु प्रतिष्ठापनाय चित्तम् उत्पाद्य । शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य । पञ्चस्व् अभिज्ञासु प्रतिष्ठापनाय चित्तम् उत्पाद्य । सर्वसमाधिषु प्रतिष्ठापनाय चित्तम् उत्पाद्य । सर्वधारणीमुखेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य । दशतथागतबलेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य । चतुर्षु वैशारद्येषु प्रतिष्ठापनाय चित्तम् उत्पाद्य । चतसृषु प्रतिस ं वित्सु प्रतिष्ठापनाय चित्तम् उत्पाद्य । महामैत्र्यां प्रतिष्ठापनाय चित्तम् उत्पाद्य । महाकरुणायां प्रतिष्ठापनाय चित्तम् उत्पाद्य । अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापनाय चित्तम् उत्पाद्य । श्रोत्रआपत्तिफले प्रतिष्ठापनाय चित्तम् उत्पाद्य । सकृदागामिफले प्रतिष्ठापनाय चित्तम् उत्पाद्य । अनागामिफले प्रतिष्ठापनाय चित्तम् उत्पाद्य । अर्हत्त्वे प्रतिष्ठापनाय चित्तम् उत्पाद्य । प्रत्येकबोधौ प्रतिष्ठापनाय चित्तम् उत्पाद्य । मार्गाकारज्ञतायां प्रतिष्ठापनाय चित्तम् उत्पाद्य । सर्वाकारज्ञतायां प्रतिष्ठापनाय चित्तम् उत्पाद्य । न कस्यचित् सत्त्वस्यार्थाय चित्तम् उत्पादितो भवति । तत् कस्य हेतोः । धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उत्पादाय । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नह्य इत्य् उच्यते ।
सुभूतिर् आह । यथाहं भगवन् भवतो भावितस्यार्थम् आजानामि । असन्नाहसन्नह्यो बतायं बोधिसत्त्वो महासत्त्वो वेदितव्यः । स्वलक्षणशून्यताम् उपादाय । तत् कस्य हेतोस् तथा हि । रूपं भगवन् रूपेण शून्यं । वेदना वेदनया शून्या । संज्ञा संज्ञया शून्या । संस्कारः संस्कारैः शून्याः । विज्ञानं विज्ञानेन शून्यं । चक्षुश् चक्षुषा शून्यं । श्रोत्रं श्रोत्रेण शून्यं । घ्राणं घ्राणेन शून्यं । जिह्वा जिह्वया शून्या । कायः कायेन शून्यः । मनो मनसा शून्यं । रूपं रूपेण शून्यं । शब्दः शब्देन शून्यः । गन्धो गन्धेन शून्यः । रसो रसेन शून्यः । स्पर्शः स्पर्शेन शून्यः । धर्मा धर्मैः शून्याः । चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं । श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं । घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं । जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं । कायविज्ञानं कायविज्ञानेन शून्यं । मनोविज्ञानं मनोविज्ञानेन शून्यं । चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः । श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यः । घ्राणसंस्पर्शः घ्राणसंस्पर्शेन शून्यः । जिह्वासंस्पर्शः जिह्वासंस्पर्शेन शून्यः । कायसंस्पर्शः कायसंस्पर्शेन शून्यः । मनःसंस्पर्शः मनसंस्पर्शेन शून्यः । चक्षुःसंस्पर्शप्रत्ययवेदना चक्षुःसंस्पर्शप्रत्ययवेदनया शून्या । श्रोत्रसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदनया शून्या । घ्राणसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदनया शून्या । कायसंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदनया शून्या । मनःसंस्पर्शप्रत्ययवेदना मनःसंस्पर्शप्रत्ययवेदनया शून्या ।
पृथिवीधातुः पृथिवीधातुना शून्या । अब्धातुर् अब्धातुना शून्या । तेजोधातुस् तेजोधातुना शून्या । वायुधातुर् वायुधातुना शून्या । आकाशधातुर् आकाशधातुना शून्या । विज्ञानधातुर् विज्ञानधातुना विज्ञानधातुना शून्या । अविद्या अविद्यया शून्या । संस्काराः संस्कारैः शून्याः । विज्ञानं विज्ञानेन शून्यं । नामरूपं नामरूपेण शून्यं । षडायतनं षडायतनेन शून्यं । स्पर्शः स्पर्शेन शून्यः । वेदना वेदनया शून्या । तृष्णा तृष्णया शून्या । उपादानम् उपादानेन शून्यं । भवो भवेन शून्यः । जातिर् जात्या शून्या । जरामरणो जरामरणेन शून्यं ।
दानपारमिता दानपारमितया शून्या । शीलपारमिता शीलपारमितया शून्या । क्षान्तिपारमिता क्षान्तिपारमितया शून्या । वीर्यपारमिता वीर्यपारमितया शून्या । ध्यानपारमिता ध्यानपारमितया शून्या । प्रज्ञापारमिता प्रज्ञापारमितया शून्या ।
अध्यात्मशून्यता अध्यात्मशून्यतया शून्या । बहिर्धाशून्यता बहिर्धाशून्यतया शून्या । अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या । शून्यताशून्यता शून्यताशून्यतया शून्या । महाशून्यता महाशून्यतया शून्या । परमार्थशून्यता परमार्थशून्यतया शून्या । संस्कृतशून्यता संस्कृतशून्यतया शून्या । असंस्कृतशून्यता असंस्कृतशून्यतया शून्या । अत्यन्तशून्यता अत्यन्तशून्यतया शून्या । अनवराग्रशून्यता अनवराग्रशून्यतया शून्या । अनवकारशून्यता अनवकारशून्यतया शून्या । प्रकृतिशून्यता प्रकृतिशून्यतया शून्या । सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या । स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या । अनुपलम्भशून्यता अनुपलम्भशून्यतया शून्या । अभावशून्यता अभावशून्यतया शून्या । स्वभावशून्यता स्वभावशून्यतया शून्या । अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या ।
स्मृत्युपस्थानानि स्मृत्युपस्थानं शून्यानि । सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि । ऋद्धिपादा ऋद्धिपादैः शून्याः । इन्द्रियाणीन्द्रियैः शून्यानि । बलानि बलैः शून्यानि । बोध्यङ्गानि बोध्यङ्गैः शून्यानि । आर्याष्टाङ्गमार्ग आर्याष्टाङ्गःमार्गैः शून्यः । आर्यसत्यानि आर्यसत्यैः शून्यानि । ध्यानानि ध्यानैः शून्यानि । अप्रमाणानि अप्रमाणैः शून्यानि । आरूप्यसमापत्तय आरूप्यसमापत्तिभिः शून्याः । विमोक्षा विमोक्षैः शून्याः । अनुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तिभिः शून्याः । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितावमोक्षमुखैः शून्यानि । अभिज्ञा अभिज्ञाभिः शून्याः । समाधयः समाधिभिः शून्याः । धारणीमुखानि धारणीमुखैः शून्यानि । तथागतबलानि तथागतबलैः शून्यानि । वैशारद्यानि वैशारद्यैः शून्यानि । प्रतिस ं विदः प्रतिस ं विद्भिः शून्यानि । महामैत्री महामैत्र्या शून्या । महाकरुणा महाकरुणया शून्या । आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मैः शून्याः । बोधिसत्त्वो बोधिसत्त्वेन शून्याः । महासन्नाहो महासन्नाहेन शून्यः । अनेन भगवन् पर्यायेन सन्नाहसन्नद्धो बोधिसत्त्वो महासत्त्वो वेदितव्यः । भगवान् आह । एवम् एव सुभूते एवम् एतत् तथा यथा वदसि । तत् कस्य हेतोः । अकृता हि सुभूते सर्वाकारज्ञता । अविकृता अनभिसंस्कृता । येषां कृते बोधिसत्त्वेन महासत्त्वेन महामन्नाहः सन्नद्धः । आह केन कारणेन भगवन् सर्वाकारज्ञता अकृता अविकृता अनभिसंस्कृता येषां कृते बोधिसत्त्वेन महासत्त्वेन महासन्नाहः सन्नद्धः । भगवान् आह । कारकानुपलब्धिताम् उपादाय सुभूते सर्वाकारज्ञता अकृता अविकृता अनभिसंस्कृता । ते ऽपि सत्त्वा अकृता अविकृता अनभिसंस्कृताः येषां कृते बोधिसत्त्वेन महासत्त्वेन महासन्नाः सन्नद्धः । तत् कस्य हेतोः । तथा हि सुभूते रूपं न करोति न विकरोति । नाभिसंस्करोति । वेदना न करोति न विकरोति नाभिसंस्करोति । संज्ञा न करोति न विकरोति नाभिसंस्करोति । संस्कारा न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । विज्ञानं न करोति न विकरोति नाभिसंस्करोति । चक्षुः सुभूते न करोति न विकरोति नाभिसंस्करोति । श्रोत्रं न करोति न विकरोति नाभिसंस्करोति । घ्राणं न करोति न विकरोति नाभिसंस्करोति । जिह्वा न करोति न विकरोति नाभिसंस्करोति । कायो न करोति न विकरोति नाभिसंस्करोति । मनो न करोति न विकरोति नाभिसंस्करोति । रूपं सुभूते न करोति न विकरोति नाभिसंस्करोति । शब्दो न करोति न विकरोति नाभिसंस्करोति । गन्धो न करोति न विकरोति नाभिसंस्करोति । रसो न करोति न विकरोति नाभिसंस्करोति । स्पर्शो न करोति न विकरोति नाभिसंस्करोति । धर्मा न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । चक्षुर्विज्ञानं सुभूते न करोति न विकरोति नाभिसंस्करोति । श्रोत्रविज्ञानं न करोति न विकरोति नाभिसंस्करोति । घ्राणविज्ञानं न करोति न विकरोति नाभिसंस्करोति । जिह्वाविज्ञानं न करोति न विकरोति नाभिसंस्करोति । कायविज्ञानं न करोति न विकरोति नाभिसंस्करोति । मनोविज्ञानं न करोति न विकरोति नाभिसंस्करोति । चक्षुःसंस्पर्शो न करोति न विकरोति नाभिसंस्करोति । श्रोत्रसंस्पर्शो न करोति न विकरोति नाभिसंस्करोति । घ्राणसंस्पर्शो न करोति न विकरोति नाभिसंस्करोति । जिह्वासंस्पर्शो न करोति न विकरोति नाभिसंस्करोति । कायसंस्पर्शो न करोति न विकरोति नाभिसंस्करोति । मनःसंस्पर्शो न करोति न विकरोति नाभिसंस्करोति । चक्षुःसंस्पर्शप्रत्ययवेदना न करोति न विकरोति नाभिसंस्करोति । श्रोत्रसंस्पर्शप्रत्ययवेदना न करोति न विकरोति नाभिसंस्करोति । घ्राणसंस्पर्शप्रत्ययवेदना न करोति न विकरोति नाभिसंस्करोति । जिह्वासंस्पर्शप्रत्ययवेदना न करोति न विकरोति नाभिसंस्करोति । कायसंस्पर्शप्रत्ययवेदना न करोति न विकरोति नाभिसंस्करोति । मनःसंस्पर्शप्रत्ययवेदना न करोति न विकरोति नाभिसंस्करोति ।
आत्मा सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । जीवः सत्त्वः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोः । तथा हि सो ऽत्यन्ततया नोपलभ्यते । जीवः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोः । तथा हि सो ऽत्यन्ततया नोपलभ्यते । जन्तुः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोः । तथा हि सो ऽत्यन्ततया नोपलभ्यते । पोषः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । पुरुषः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । पुद्गलः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोः । तथा हि सो ऽत्यन्ततया नोपलभ्यते । मनुजः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । मानवः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । कारकः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । वेदकः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । जानकः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । पश्यकः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । स्वप्नः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । माया सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । प्रतिश्रुत्का सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । प्रतिभासः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । प्रतिबिम्बं सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । मरीचिका सुभूते न करोति न विकरोति नाभिसम्ंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । निर्मितः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । अविद्या सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । संस्काराः सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि ते ऽत्यन्ततया नोपलभ्यन्ते । विज्ञानं सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । नामरूपं सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । षडायतनं सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । स्पर्शः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । वेदना सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । तृष्णा सुभूते न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि । सात्यन्ततया नोपलभ्यते । उपादानं सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । भवः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । जातिः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । जरामरणं सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते ।
दानपारमिता न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । शीलपारमिता न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । क्षान्तिपारमिता न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । वीर्यपारमिता न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । ध्यानपारमिता न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । प्रज्ञापारमिता न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते ।
अध्यात्मशून्यता सुभूते न करोति न विकरोति नाभिसंस्कस्येति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । बहिर्धाशून्यता न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । अध्यात्मबहिर्धाशून्यता न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । शून्यताशून्यता न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । महाशून्यता न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । परमार्थशून्यता न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । संस्कृतशून्यता न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । असंस्कृतशून्यता न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । अत्यन्तशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । अनवराग्रशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । अनवकारशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । प्रकृतिशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । सर्वधर्मशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । स्वलक्षणसशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । अनुपलम्भशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । अभावशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । स्वभावशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । अभावस्वभावशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते ।
स्मृत्युपस्थानानि सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते । सम्यक्प्रहाणानि सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते । ऋद्धिपादा सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि ते ऽत्यन्ततया नोपलभ्यन्ते । इन्द्रियाणि सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते । बलानि सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते । बोध्यङ्गानि न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते । आर्याष्टाङ्गमार्गः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया न विद्यते । आर्यसत्यानि सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते । ध्यानानि सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते । अप्रमाणानि सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते । आरूप्यसमापत्तयः सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि ता अत्यन्ततया नोपलभ्यन्ते । विमोक्षाः सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि ते ऽत्यन्ततया नोपलभ्यन्ते । अनुपूर्वविहारसमापत्तयः सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि ता अत्यन्ततया नोपलभ्यन्ते । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि तान्य् अन्त्यन्ततया नोपलभ्यन्ते । अभिज्ञाः सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि ता अत्यन्ततया नोपलभ्यन्ते । सर्वसमाधयः सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि ते ऽत्यन्ततया नोपलभ्यन्ते । सर्वधारणीमुखानि न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते । तथागतबलानि सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते । वैशारद्यानि सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि तान्य् अत्यन्ततया नोपलभ्यन्ते । प्रतिस ं विदः सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि ता अत्यन्ततया नोपलभ्यन्ते । महामैत्री सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । महाकरुणा सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । आवेणिकबुद्धधर्माः सुभूते न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति । तत् कस्य हेतोस् तथा हि ते ऽत्यन्ततया नोपलभ्यन्ते । तथता सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । अवितथता सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यन्ते । अनन्यतथता सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । धर्मता सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । धर्मधातुः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । धर्मास्थिता सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । धर्मनियामता सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । भूतकोटिः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । अचिन्त्यधातुः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सो ऽत्यन्ततया नोपलभ्यते । बोधिः सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । सर्वज्ञता सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । सर्वाकारज्ञता सुभूते न करोति न विकरोति नाभिसंस्करोति । तत् कस्य हेतोस् तथा हि सात्यन्ततया नोपलभ्यते । तद् अनेन सुभूते पर्यावैणिकं वेदितव्यं यथा अकृता सर्वकारज्ञता अविकृता अनभिसंस्कृता । ते ऽपि सत्त्वा अकृता अविकृता अनभिसंस्क्र्ता । येषां कृते बोधिसत्वेन महासत्त्वेन महासन्नाहः सन्नद्धः । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते ।
आह । यथाहं भगवन् भगवता भावितस्यार्थम् आजानामि । रूपं भगवन्न् अबद्धम् अमुक्तं । वेदना अबद्धा अमुक्ता । संजा अबद्धा अमुक्ता । संस्कारा अबद्धा अमुक्ताः । विज्ञानम् अबद्धम् अमुक्तं ।
अथायुष्मान् पूर्णो मैत्रायणीपुत्रो आयुष्मन्तं सुभूतिम् एतद् अवोचत् । रूपम् आयुष्मन् सुभूते अबद्धम् अमुक्तं । वेदना अबद्धा अमुक्ता । संज्ञा अबद्धा अमुक्ता । संस्करा अबद्धा अमुक्ताः । विज्ञानम् अबद्धम् अमुक्तं । आहैवम् एतद् आयुष्मन् पूर्णैवम् एतत् । रूपम् आयुष्मन् पूर्णाबद्धम् अमुक्तं । वेदनाबद्धामुक्ता । संज्ञाबद्धामुक्ता । संस्कारा अबद्धा अमुक्ताः । विज्ञानम् अबद्धम् अमुक्तं । पूर्ण आह । कतमत् तावद् आयुष्मन् सुभूते यद् अबद्धम् अमुक्तं । कतमा सा वेदना याबद्धामुक्ता । कतमा सा संज्ञा याबद्धामुक्ता । कतमे ते संस्कारा ये अबद्धामुक्ताः । कतमत् तद् विज्ञानं यद् अबद्धम् अमुक्तं । आह यद् एतद् आयुष्मन् पूर्ण स्वप्नोपमं रूपं तद् अबद्धम् अमुक्तं । येयं स्वप्नोपमा वेदना साबद्धामुक्ता । येयं स्वप्नोपमा संज्ञा साबद्धामुक्ता । य इमे स्वप्नोपमाः संस्काराः ते ऽबद्धा अमुक्ताः । यद् एतत् स्वप्नोपमं विज्ञानं तद् अबद्धम् अमुक्तं । यद् एतन् मायोपमं रूपं तद् बद्धम् अमुक्तं । येयं मायोपमा वेदना साबद्धामुक्ता । येयं मायोपमा संज्ञा साबद्धामुक्ता । य इमे मायोपमाः संस्काराः ते ऽबद्धा अमुक्ताः । यद् इदं मायोपमं विज्ञानं तद् बद्धम् अमुक्तं ।
यद् एतत् प्रतिश्रुत्कोपमं रूपं तद् अबद्धम् अमुक्तं । येयं प्रतिश्रुत्कोपमा वेदना साबद्धामुक्ता । येयं प्रतिश्रुत्कोपमा संज्ञा साबद्धामुक्ता । य इमे प्रतिश्रुत्कोपमाः संस्कारास् ते ऽबद्धा अमुक्ताः । यद् एतत् प्रतिश्रुतकोपमं विज्ञानं तद् अबद्धम् अमुक्तं । यद् एतत् प्रतिभासोपमं रूपं तद् अबद्धम् अमुक्तं । येयं प्रतिभासोपमा वेदना साबद्धामुक्ता । येयं प्रतिभासोपमा संज्ञा साबद्धामुक्ता । य इमे प्रतिभासोपमाः संस्कारास् ते ऽबद्धा अमुक्ताः । यद् एतत् प्रतिभासोपमं विज्ञानं तद् अबद्धम् अमुक्तं । यद् एतत् प्रतिबिम्बोपमं रूपं तद् अबद्धम् अमुक्तं । येयं प्रतिबिम्बोपमा वेदना साबद्धामुक्ता । येयं प्रतिबिम्बोपमा संज्ञा साबद्धामुक्ता । य इमे प्रतिबिम्बोपमाः संस्कारास् ते ऽबद्धा अमुक्ताः । यद् एतत् प्रतिबिम्बोपमं विज्ञानं तद् अबद्धम् अमुक्तं । यद् एतन् मरीच्युपमं रूपं तद् अबद्धम् अमुक्तं । येयं मरीच्युपमा वेदना साबद्धामुक्ता । येयं मरीच्युपमा संज्ञा साबद्धामुक्ता । य इमे मरीच्यपमाः संस्कारास् ते ऽबद्धा अमुक्ता । यद् एतन् मरीच्युपमं विज्ञानं तद् अबद्धम् अमुक्तं । यद् एतन् निर्मितोपमं रूपं तद् अबद्धम् अमुक्तं । येयं निर्मितोपमा वेदना न साबद्धामुक्ता । येयं निर्मितोपमा संज्ञा साबद्धामुक्ता । य इमे निर्मितोपमाः संस्कारास् ते ऽबद्धा अमुक्ताः । यद् एतन् निर्मितोपमं विज्ञानं तद् अबद्धम् अमुक्त ।
अतीतम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तं । अतीता वेदनाबद्धामुक्ता । अतीता संज्ञाबद्धामुक्ता । अतीताः संस्काराः अबद्धा अमुक्ताः । अतीतं विज्ञानम् अबद्धम् अमुक्तं । प्रत्युत्पन्नम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तं । प्रत्युत्पन्ना वेदनाबद्धामुक्ता । प्रत्युत्पन्ना संज्ञाबद्धामुक्ता । प्रत्युत्पन्नाः संस्कारा अबद्धा अमुक्ताः । प्रत्युत्पन्नं विज्ञानम् अबद्धम् अमुक्तं । तत् कस्य हेतोस् तथा हि । असत्त्वाद् आयुष्मन् पूर्ण रूपस्य रूपम् अबद्धम् अमुक्त । असत्त्वाद् वेदनाया वेदनाबद्धामुक्ता । असत्वात् संज्ञायाः संज्ञाबद्धामुक्ता । असत्त्वात् संस्काराणां संस्कारा अबद्धा अमुक्ताः । असत्त्वाद् विज्ञानस्य विज्ञानम् अबद्धम् अमुक्तं । विविक्तत्वाद् रूपस्य रूपम् अबद्धम् अमुक्तं । विविक्तत्वात् संज्ञायाः संज्ञाबद्धामुक्ता । विविक्तत्वात् संस्काराणां संस्कारा अबद्धा अमुक्ताः । विविक्तत्वाद् विज्ञानस्य विज्ञानम् अबद्धम् अमुक्तं । अनुत्पन्नत्वाद् रूपस्य रूपम् अबद्धम् अमुक्तं । अनुत्पन्नत्वाद् वेदनाया वेदनाबद्धामुक्ता । अनुत्पन्नत्वात् संज्ञायाः संज्ञाबद्धामुक्ता । अनुत्पन्नत्वात् संस्कारानां संस्कारा अबद्धा अमुक्ताः । अनुत्पन्नत्वाद् विज्ञानस्य विज्ञानम् अबद्धम् अमुक्तं ।
कुशलम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तं । कुशला वेदनाबद्धामुक्ता । कुशला संज्ञाबद्धामुक्ता । कुशलाः संस्कारा अबद्धा अमुक्ता । कुशलं विज्ञानम् अबद्धम् अमुक्तं । अकुशलम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तं । अकुशलं वेदनाबद्धामुक्ता । अकुशला संज्ञा अबद्धा अमुक्ता । अकुशलाः संस्कारा अबद्धा अमुक्ताः । अकुशलं विज्ञानम् अबद्धम् अमुक्तं । अव्याकृतम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तं । अव्याकृता वेदनाबद्धामुक्ता । अव्याकृता संज्ञाबद्धामुक्ता । अव्याकृताः संस्काराः अबद्धा अमुक्ताः । अव्याकृतं विज्ञानम् अबद्धम् अमुक्तं । लौकिकम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तं । लौकिका वेदनाबद्धामुक्ता । लौकिका संज्ञा अबद्धा अमुक्ता । लौकिकाः संस्कारा अबद्धा अमुक्ताः । लौकिकं विज्ञानम् अबद्धम् अमुक्तं । लोकोत्तरम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तं । लोकोत्तरा वेदनाबद्धामुक्ता । लोकोत्तरा संज्ञाबद्धामुक्ता । लोकोत्तराः संस्कारा अबद्धा अमुक्ताः । लोकोत्तरं विज्ञानम् अबद्धम् अमुक्तं । साश्रवम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तं । साश्रवा वेदनाबद्धामुक्ता । साश्रवा संज्ञाबद्धामुक्ता । साश्रवाः संस्काराः अबद्धा अमुक्ताः । साश्रवं विज्ञानम् अबद्धम् अमुक्तं । अनाश्रवम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तं । अनाश्रवा वेदनाबद्धामुक्ता । अनाश्रवा संज्ञाबद्धामुक्ता । अनाश्रवाः संस्कारा अबद्धा अमुक्ताः । अनाश्रवं विज्ञानम् अबद्धम् अमुक्तं । तत् कस्य हेतोः । असत्त्वाद् रूपस्य रूपम् अबद्धम् अमुक्तं । असत्त्वाद् वेदनायाः वेदनाबद्धामुक्ता । असत्त्वात् संज्ञायाः संज्ञाबद्धामुक्ता । असत्त्वात् संस्काराणां संस्कारा अबद्धा अमुक्ताः । असत्त्वाद् विज्ञानस्य विज्ञानम् अबद्धम् अमुक्तं । विविक्तत्त्वाद् रूपस्य रूपम् अबद्धम् अमुक्तं । विविक्तत्वाद् वेदनायाः वेदनाबद्धामुक्ता । विविक्तत्वात् संज्ञाया संज्ञाबद्धामुक्ता । विविक्तत्वात् संस्काराणां संस्कारा अबद्धा अमुक्ताः । विविक्तत्वाद् विज्ञानस्य विज्ञानम् अबद्धम् अमुक्तं । अनुत्पन्नत्वाद् रूपस्य रूपम् अबद्धम् अमुक्तं । अनुत्पन्नत्वाद् वेदनायाः वेदनाबद्धामुक्ता । अनुत्पन्नत्वात् संज्ञायाः संज्ञाबद्धामुक्ता । अनुत्पन्नत्वात् संस्काराणां संस्कारा अबद्धा अमुक्ताः । अनुत्पन्नत्वाद् विज्ञानस्य विज्ञानम् अबद्धम् अमुक्तं ।
सर्वे धर्मा अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः । असत्त्वाद् अबद्धा अमुक्ताः । विविक्तत्वाद् अबद्धा अमुक्ताः । अनुत्पन्नत्वाद् अबद्धा अमुक्ताः । दानपारमिताप्य् आयुष्मन् पूर्ण अबद्धामुक्ताः । शीलपारमिताबद्धा अमुक्ता । क्षान्तिपारमिताबद्धामुक्ता । वीर्यपारमिताबद्धामुक्ता । ध्यानपारमिताबद्धामुक्ता । प्रज्ञापारमिताबद्धामुक्ता । असत्त्वाद् दानपारमिताबद्धामुक्ता । विविक्तत्वाद् दानपारमिताबद्धामुक्ता । अनुत्पन्नत्वाद् दानपारमिताबद्धामुक्ता । असत्त्वाच् छीलपारमिताबद्धामुक्ता । विविक्तत्वाच् छीलपारमिताबद्धामुक्ता । अनुत्पन्नत्वाच् छीलपारमिताबद्धामुक्ता । असत्त्वात् क्षान्तिपारमिताबद्धामुक्ता । विविक्तत्वात् क्षान्तिपारमिताबद्धामुक्ता । अनुत्पन्नत्वात् क्षान्तिपारमिताबद्धामुक्ता । असत्त्वाद् वीर्यपारमिताबद्धामुक्ता । विविक्तत्वात् वीर्यपारमिताबद्धामुक्ता । अनुत्पन्नत्वात् वीर्यपारमिताबद्धामुक्ता । असत्त्वात् ध्यानपारमिताबद्धामुक्ता । विविक्तत्वात् ध्यानपारमिताबद्धामुक्ता । अनुत्पन्नत्वात् ध्यानपारमिताबद्धामुक्ता । असत्त्वात् प्रज्ञापारमिताबद्धामुक्ता । विविक्तत्वात् प्रज्ञापारमिताबद्धामुक्ता । अनुत्पन्नत्वात् प्रज्ञापारमिताबद्धामुक्ता ।
अध्यात्मशून्यताप्य् अबद्धामुक्ता । बहिर्धाशून्यताप्य् अबद्धामुक्ता । अध्यात्मबहिर्धाशून्यताप्य् अबद्धामुक्ता । शून्यताशून्यताप्य् अबद्धामुक्ता । महाशून्यताप्य् अबद्धामुक्ता । परमार्थशून्यताप्य् अबद्धामुक्ता । संस्कृतशून्यताप्य् अबद्धामुक्ता । असंस्कृतशून्यताप्य् अबद्धामुक्ता । अत्यन्तशून्यताप्य् अबद्धामुक्ता । अनवराग्रशून्यताप्य् अबद्धामुक्ता । अनवकारशून्यताप्य् अबद्धामुक्ता । प्रकृतिशून्यताप्य् अबद्धामुक्ता । सर्वधर्मशून्यताप्य् अबद्धामुक्ता । स्वलक्षणशून्यताप्य् अबद्धामुक्ता । अनुपलम्भशून्यताप्य् अबद्धामुक्ता । अभावशून्यताप्य् अबद्धामुक्ता । स्वभावशून्यताप्य् अबद्धामुक्ता । अभावस्वभावशून्यताप्य् अबद्धामुक्ता ।
असत्त्वाद् अध्यात्मशून्यताबद्धामुक्ता । विविक्तत्वाद् अध्यात्मशून्यताबद्धामुक्ता । अनुत्पन्नत्वाद् अध्यात्मशून्यताबद्धामुक्ता । असत्त्वाद् बहिर्धाशून्यताबद्धामुक्ता । विविक्तत्वाद् बहिर्धाशून्यताबद्धामुक्ता । अनुत्पन्नत्वाद् बहिर्धाशून्यताबद्धामुक्ता । असत्त्वाद् अध्यात्मबहिर्धाशून्यताबद्धामुक्ता । विविक्तत्वाद् अध्यात्मबहिर्धाशून्यताबद्धामुक्ता । अनुत्पन्नत्वाद् अध्यात्मबहिर्धाशून्यताबद्धामुक्ता । असत्त्वाच् छून्यताशून्यताबद्धामुक्ता । विविक्तत्वाच् छून्यताशून्यताबद्धामुक्ता । अनुत्पन्नत्वाच् छून्यताशून्यताबद्धामुक्ता । असत्त्वान् महाशून्यताबद्धामुक्ता । विविक्तत्वान् महाशून्यताबद्धामुक्ता । अनुत्पन्नत्वान् महाशून्यताबद्धामुक्ता । असत्त्वात् परमार्थशून्यताबद्धामुक्ता । विविक्तत्वात् परमार्थशून्यताबद्धामुक्ता । अनुत्पन्नत्वात् परमार्थशून्यताबद्धामुक्ता । असत्त्वात् संस्कृतशून्यताबद्धामुक्ता । विविक्तत्वात् संस्कृतशून्यताबद्धामुक्ता । अनुत्पन्नत्वात् संस्कृतशून्यताबद्धामुक्ता । असत्त्वाद् असंस्कृतशून्यताबद्धामुक्ता । विविक्तत्वाद् असंस्कृतशून्यताबद्धामुक्ता । अनुत्पन्नत्वाद् असंस्कृतशून्यताबद्धामुक्ता । असत्त्वाद् अत्यन्तशून्यताबद्धामुक्ता । विविक्तत्वाद् अत्यन्तशून्यताबद्धामुक्ता । अनुत्पन्नत्वाद् अत्यन्तशून्यताबद्धामुक्ता । असत्त्वाद् अनवराग्रशून्यताबद्धामुक्ता । विविक्तत्वाद् अनवराग्रशून्यताबद्धामुक्ता । अनुत्पन्नत्वाद् अनवराग्रशून्यताबद्धामुक्ता । असत्त्वाद् अनवकारशून्यताबद्धामुक्ता । विविक्तत्वाद् अनवकारशून्यताबद्धामुक्ता । अनुत्पन्नत्वाद् अनवकारशून्यताबद्धामुक्ता । असत्त्वात् प्रकृतिशून्यताबद्धामुक्ता । विविक्तत्वात् प्रकृतिशून्यताबद्धामुक्ता । अनुत्पन्नत्वात् प्रकृतिशून्यताबद्धामुक्ता । असत्त्वात् सर्वधर्मशून्यताबद्धामुक्ता । विविक्तत्वात् सर्वधर्मशून्यताबद्धामुक्ता । अनुत्पन्नत्वात् सर्वधर्मशून्यताबद्धामुक्ता । असत्त्वात् स्वलक्षणशून्यताबद्धामुक्ता । विविक्तत्वात् स्वलक्षणशून्यताबद्धामुक्ता । अनुत्पन्नत्वात् स्वलक्षणशून्यताबद्धामुक्ता । असत्त्वाद् अनुपलम्भशून्यताबद्धामुक्ता । विविक्तत्वाद् अनुपलम्भशून्यताबद्धामुक्ता । अनुत्पन्नत्वाद् अनुपलम्भशून्यताबद्धामुक्ता । असत्त्वाद् अभावशून्यताबद्धामुक्ता । विविक्तत्वाद् अभावशून्यताबद्धामुक्ता । अनुत्पन्नत्वाद् अभावशून्यताबद्धामुक्ता । असत्त्वात् स्वभावशून्यताबद्धामुक्ता । विविक्तत्वात् स्वभावशून्यताबद्धामुक्ता । अनुत्पन्नत्वात् स्वभावशून्यताबद्धामुक्ता । असत्वाद् अभावस्वभावशून्यताबद्धामुक्ता । विविक्तत्वाद् अभावस्वभावशून्यताबद्धामुक्ता । अनुत्पन्नत्वाद् अभावस्वभावशून्यताबद्धामुक्ता ।
स्मृत्युपस्थानान्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि । सम्यक्प्रहाणान्य् अप्य् आयुष्मन् पर्णाबद्धान्य् अमुक्तानि । ऋद्धिपादा अप्य् आयुष्मन् पूर्णाबद्धा अमुक्ताः । इन्द्रियाण्य् अप्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि । बलान्य् अप्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि । बोध्यङ्गान्य् अप्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि । आर्याष्टाङ्गमार्गो ऽप्य् आयुष्मन् पूर्णाबद्धो ऽमुक्तः ।
असत्त्वात् स्मृत्युपस्थानान्य् अबद्धान्य् अमुक्तानि । विविक्तत्वात् स्मृत्युपस्थानान्य् अबद्धान्य् अमुक्तानि । अनुत्पन्नत्वात् स्मृत्युपस्थानान्य् अबद्धान्य् अमुक्तानि । असत्त्वात् सम्यक्प्रहाणान्य् अबद्धान्य् अमुक्तानि । विविक्तत्वात् सम्यक्प्रहाणान्य् अबद्धान्य् अमुक्तानि । अनुत्पन्नत्वात् सम्यक्प्रहाणान्य् अबद्धान्य् अमुक्तानि । असत्त्वाद् ऋद्धिपादा अबद्धा अमुक्ताः । विविक्तत्वाद् ऋद्धिपादा अबद्धा अमुक्ताः । अनुत्पन्नत्वाद् ऋद्धिपादा अबद्धा अमुक्ताः । असत्त्वाद् इन्द्रियाण्य् अबद्धान्य् अमुक्तानि । विविक्तत्वाद् इन्द्रियाण्य् अबद्धान्य् अमुक्तानि । अनुत्पन्नत्वाद् इन्द्रियाण्य् अबद्धान्य् अमुक्तानि । असत्त्वाद् बलान्य् अबद्धान्य् अमुक्तानि । विविक्तत्वाद् बलान्य् अबद्धान्य् अमुक्तानि । अनुत्पन्नत्वाद् बलान्य् अबद्धान्य् अमुक्तानि । असत्त्वाद् बोध्यङ्गान्य् अबद्धान्य् अमुक्तानि । विविक्तत्वाद् बोध्यङ्गान्य् अबद्धान्य् अमुक्तानि । अनुत्पन्नत्वाद् बोध्यङ्गान्य् अबद्धान्य् अमुक्तानि । असत्त्वाद् आर्याष्टाङ्गामार्गो ऽबद्धो ऽमुक्तः । विविक्तत्वाद् आर्याष्टाङ्गामार्गो ऽबद्धो ऽमुक्तः । अनुत्पन्नत्वाद् आर्याष्टाङ्गामार्गो ऽबद्धो ऽमुक्तः ।
आर्यसत्यान्य् अप्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि । ध्यानान्य् अप्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि । अप्रमाणान्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि । आरूप्यसमापत्तयो ऽप्य् आयुष्मन् पूर्णाबद्धा अमुक्ताः । विमोक्षा अप्य् आयुष्मन् पूर्णाबद्धा अमुक्ताः । अनुपूर्वविहारसमापत्तयो ऽप्य् आयुष्मन् पूर्णाबद्धा अमुक्ताः । शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि । अभिज्ञा अप्य् आयुष्मन् पूर्णाबद्धा अमुक्ताः । सर्वसमाधयो ऽप्य् आयुष्मन् पूर्णाबद्धा अमुक्ताः । सर्वधारणीमुखान्य् अप्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि ।
तत् कस्य हेतोः । असत्त्वाद् आयुष्मन् पूर्णार्यसत्यान्य् अबद्धान्य् अमुक्तानि । विविक्तत्वाद् आर्यसत्यान्य् अबद्धान्य् अमुक्तानि । अनुत्पन्नत्वाद् आर्यसत्यान्य् अबद्धान्य् अमुक्तानि । असत्त्वाद् आयुष्मन् पूर्ण ध्यानान्य् अबद्धान्य् अमुक्तानि । विविक्तत्वात् ध्यानान्य् अबद्धान्य् अमुक्तानि । अनुत्पन्नत्वात् ध्यानान्य् अबद्धान्य् अमुक्तानि । असत्त्वाद् आयुष्मन् पूर्णाप्रमाणान्य् अबद्धान्य् अमुक्तानि । विविक्तत्वाद् अप्रमाणान्य् अबद्धान्य् अमुक्तानि । अनुत्पन्नत्वाद् अप्रमाणान्य् अबद्धान्य् अमुक्तानि । असत्त्वाद् आयुष्मन् पूर्णारूप्यसमापत्तयो ऽबद्धा अमुक्ताः । विविक्तत्वाद् आरूप्यसमापत्तयो ऽबद्धा अमुक्ताः । अनुत्पन्नत्वाद् आरूप्यसमापत्तयो ऽबद्धा अमुक्ताः । असत्त्वाद् आयुष्मन् पूर्ण विमोक्षा अबद्धा अमुक्ताः । विविक्तत्वाद् विमोक्षा अबद्धा अमुक्ताः । अनुत्पन्नत्वाद् विमोक्षा अबद्धा अमुक्ताः । असत्त्वाद् आयुष्मन् पूर्ण नवानुपूर्वविहारसमापत्तयो ऽबद्धा अमुक्ता । विविक्तत्वान् नवानुपूर्वविहारसमापत्तयो ऽबद्धा अमुक्ताः । अनुत्पन्नत्वान् नवानुपूर्वविहारसमापत्तयो ऽबद्धा अमुक्ताः । असत्त्वाद् आयुष्मन् पूर्ण शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अबद्धान्य् अमुक्तानि । विविक्तत्वाच् छून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अबद्धान्य् अमुक्तानि । अनुत्पन्नत्वाच् छून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अबद्धान्य् अमुक्तानि । असत्त्वाद् आयुष्मन् पूर्णाभिज्ञा अबद्धा अमुक्ताः । विविक्तत्वाद् अभिज्ञा अबद्धा अमुक्ताः । अनुत्पन्नत्वाद् अभिज्ञा अबद्धा अमुक्ताः । असत्त्वद् आयुष्मन् पूर्ण समाधयो ऽबद्धा अमुक्ताः । विविक्तत्वात् समाधयो ऽबद्धा अमुक्ताः । अनुत्पन्नत्वात् समाधयो ऽबद्धा अमुक्ताः असत्त्वाद् आयुष्मन् पूर्ण धारणीमुखान्य् अबद्धान्य् अमुक्तानि । विविक्तत्वाद् धारणीमुखान्य् अबद्धान्य् अमुक्तानि । अनुत्पन्नत्वाद् धारणीमुखान्य् अबद्धान्य् अमुक्तानि ।
तथागतबलान्य् अप्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि । वैशारद्यान्य् अप्य् आयुष्मन् पूर्णाबद्धान्य् अमुक्तानि । प्रतिस ं विदो ऽप्य् आयुष्मन् पूर्णाबद्धा अमुक्ताः । महामैत्र्य् आयुष्मन् पूर्णाबद्धामुक्ता । महाकरुणाप्य् आयुष्मन् पूर्णाबद्धामुक्ता । आवेणिकबुद्धधर्मा अप्य् आयुष्मन् पूर्णाबद्धा अमुक्ताः । तत् कस्य हेतोः । असत्त्वाद् आयुष्मन् पूर्ण तथागतबलान्य् अबद्धान्य् अमुक्तानि । विविक्तत्वात् तथागतबलान्य् अबद्धान्य् अमुक्तानि । अनुत्पन्नत्वात् तथागतबलान्य् अबद्धान्य् अमुक्तानि । असत्त्वाद् वैशारद्यान्य् अबद्धान्य् अमुक्तानि । विविक्तत्वाद् वैशारद्यान्य् अबद्धान्य् अमुक्तानि । असत्त्वाद् वैशारद्यान्य् अबद्धान्य् अमुक्तानि । असत्त्वात् प्रतिस ं विदो ऽबद्धा अमुक्ताः । विविक्तत्वात् प्रतिस ं विदो ऽबद्धा अमुक्ताः । अनुत्पन्नत्वात् प्रतिस ं विदो ऽबद्धा अमुक्ताः । असत्त्वान् महामैत्री अबद्धामुक्ता । विविक्तत्वान् महामैत्री अबद्धामुक्ता । अनुत्पन्नत्वान् महामैत्री अबद्धामुक्ता । असत्त्वान् महाकरुणाबद्धामुक्ता । विविक्तत्वान् महाकरुणाबद्धामुक्ता । अनुत्पन्नत्वान् महाकरुणाबद्धामुक्ता । असत्त्वाद् आवेणिकबुद्धधर्मा अबद्धा अमुक्ताः । विविक्तत्वाद् आवेणिकबुद्धधर्मा अबद्धा अमुक्ताः । अनुत्पन्नत्वाद् आवेणिकबुद्धधर्मा अबद्धा अमुक्ताः । सर्वज्ञताप्य् आयुष्मन् पूर्णाबद्धामुक्ता । मार्गाकारज्ञताप्य् आयुष्मन् पूर्णाबद्धामुक्ता । सर्वाकारज्ञताप्य् आयुष्मन् पूर्णाबद्धामुक्ता असत्ताम् उपादाय सर्वज्ञताबद्धामुक्ता । विविक्तताम् उपादाय सर्वज्ञताबद्धामुक्ता । अनुत्पन्नताम् उपादाय सर्वज्ञताबद्धामुक्ता । असत्ताम् उपादाय मार्गाकारज्ञताबद्धामुक्ता । विविक्तताम् उपादाय मार्गाकारज्ञताबद्धामुक्ता । अनुत्पन्नताम् उपादाय मार्गाकारज्ञताबद्धामुक्ता । असत्ताम् उपादाय सर्वाकारज्ञताबद्धामुक्ता । विविक्तताम् उपादाय सर्वाकारज्ञताबद्धामुक्ता । अनुत्पन्नताम् उपादाय सर्वाकारज्ञताबद्धामुक्ता । बोधिसत्त्वो ऽप्य् आयुष्मन् पूर्णाबद्धो ऽमुक्तः । बुद्धो ऽप्य् अबद्धो ऽमुक्तः । असत्ताम् उपादाय बोधिसत्त्वो ऽबद्धो ऽमुक्तः । विविक्तताम् उपादाय बोधिसत्त्वो ऽबद्धो ऽमुक्तः । अनुत्पन्नताम् उपादाय बोधिसत्त्वो ऽबद्धो ऽमुक्तः । असत्ताम् उपादाय बुद्धो ऽबद्धो ऽमुक्तः । विविक्तताम् उपादाय बुद्धो ऽबद्धो ऽमुक्तः । अनुत्पन्नताम् उपादाय बुद्धो ऽबद्धो ऽमुक्तः । तथताप्य् आयुष्मन् पूर्णाबद्धामुक्ता । अवितथताप्य् अबद्धामुक्ता । अनन्यतथताप्य् अबद्धामुक्ता । धर्मताप्य् अबद्धामुक्ता । धर्मधातुर् अप्य् अबद्धो ऽमुक्तः । धर्मनियामताप्य् अबद्धामुक्तः । भूतकोटिर् अप्य् अबद्धामुक्तः । असत्ताम् उपादाय तथताबद्धामुक्ता । विविक्तताम् उपादाय तथताबद्धामुक्ता । अनुत्पन्नताम् उपादाय तथताबद्धामुक्ता । असत्ताम् उपादाय अवितथताबद्धामुक्ता । विविक्तताम् उपादायावितथताबद्धामुक्ता । अनुत्पन्नताम् उपादायावितथताबद्धामुक्ता । असत्ताम् उपादायानन्यतथताबद्धामुक्ता । विविक्तताम् उपादायानन्यतथताबद्धामुक्ता । अनुत्पन्नताम् उपादायानन्यतथताबद्धामुक्ता । असत्ताम् उपादाय धर्मताबद्धामुक्ता । विविक्तताम् उपादाय धर्मताबद्धामुक्ता । अनुत्पन्नताम् उपादाय धर्मताबद्धामुक्ता । असत्ताम् उपादाय धर्मधातुर् अबद्धो ऽमुक्तः । विविक्तताम् उपादाय धर्मधातुर् अबद्धो ऽमुक्तः । अनुत्पन्नताम् उपादाय धर्मधातुर् अबद्धो ऽमुक्तः । असत्ताम् उपादाय धर्मस्थितिताबद्धामुक्ता । विविक्तताम् उपादाय धर्मस्थितिताबद्धामुक्ता । अनुत्पन्नताम् उपादाय धर्मस्थितिताबद्धामुक्ता । असत्ताम् उपादाय धर्मनियामताबद्धामुक्ता । विविक्तताम् उपादाय धर्मनियामताबद्धामुक्ता । अनुत्पन्नताम् उपादाय धर्मनियामताबद्धामुक्ता । असत्ताम् उपादाय भूतकोटिर् अबद्धो ऽमुक्तः । विविक्तताम् उपादाय भूतकोटिर् अबद्धो ऽमुक्तः । अनुत्पन्नताम् उपादाय भूतकोटिर् अबद्धो ऽमुक्तः । असंस्कृतम् अप्य् आयुष्मन् पूर्णाबद्धम् अमुक्तं । असत्ताम् उपादाय ऽसंस्कृतम् अबद्धम् अमुक्तं । विविक्तताम् उपादायासंस्कृतम् अद्बद्धम् अमुक्तं । अनुत्पन्नताम् उपादायासंस्कृतम् अबद्धम् अमुक्तं । इदम् आयुष्मन् पूर्ण बोधिसत्त्वानां महासत्त्वानाम् आमः । अबद्धम् अमुक्तं नामधर्ममुखं ।
यद् दानपारमिताबद्धामुक्ता । शीलपारमिताबद्धामुक्ता । क्षान्तिपारमिताबद्धामुक्ता । वीर्यपारमिताबद्धामुक्ता । ध्यानपारमिताबद्धामुक्ता । प्रज्ञापारमिताबद्धामुक्ता । अध्यात्मशून्यताबद्धामुक्ता । बहिर्धाशून्यताबद्धामुक्ता । अध्यात्मबहिर्धाशून्यताबद्धामुक्ता । शून्यताशून्यताबद्धामुक्ता । महाशून्यताबद्धामुक्ता । परमार्थशून्यताबद्धामुक्ता । संस्कृतशून्यताबद्धामुक्ता । असंस्कृतशून्यताबद्धामुक्ता । अत्यन्तशून्यताबद्धामुक्ता । अनवराग्रशून्यताबद्धामुक्ता । अनवकारशून्यताबद्धामुक्ता । प्रकृतिशून्यताबद्धामुक्ता । सर्वधर्मशून्यताबद्धाम्क्ता । स्वलक्षणशून्यताबद्धामुक्ता । अनुपलम्भशून्यताबद्धामुक्ता । अभावशून्यताबद्धामुक्ता । स्वभावशून्यताबद्धामुक्ता । अभावस्वभावशून्यताबद्धामुक्ता ।
स्मृत्युपस्थानान्य् अबद्धान्य् अमुक्तानि । सम्यक्प्रहाणान्य् अबद्धान्य् अमुक्तानि । ऋद्धिपादा अबद्धा अमुक्ताः । इन्द्रियाण्य् अबद्धान्य् अमुक्तानि । बलान्य् अबद्धान्य् अमुक्तानि । बोध्यङ्गान्य् अबद्धान्य् अमुक्तानि । आर्याष्टाङ्गमार्गो ऽबद्धो ऽमुक्तः । आर्यसत्यान्य् अबद्धान्य् अमुक्तानि । ध्यानान्य् अबद्धान्य् अमुक्तानि । अप्रमाणान्य् अबद्धान्य् अमुक्तानि । आरूप्यसमापत्तयो ऽबद्धा अमुक्ताः । विमोक्षा अबद्धा अमुक्ताः । अनुपूर्वविहारसमापत्तयो ऽबद्धा अमुक्ताः । शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अबद्धान्य् अमुक्तानि । अभिज्ञा अबद्धामुक्ता । समाधयो ऽबद्धा अमुक्ताः । धारणीमुखान्य् अबद्धान्य् अमुक्तानि । तथागतबलान्य् अबद्धान्य् अमुक्तानि । वैशारद्यान्य् अबद्धान्य् अमुक्तानि । प्रतिस ं विदो ऽबद्धा अमुक्ताः । महामैत्र्य् अबद्धामुक्ता । महाकरुणाबद्धामुक्ता । आवेणिकबुद्धधर्मा अबद्धा अमुक्ताः । बोधिर् अबद्धामुक्ता । सर्वज्ञताबद्धामुक्ता । मार्गाकारज्ञताबद्धामुक्ता । सर्वाकारज्ञताबद्धामुक्ता । बोधिसत्त्वो ऽबद्धो ऽमुक्तः । बुद्धो ऽबद्धो ऽमुक्तः । तथताबद्धामुक्ता । अवितथताबद्धामुक्ता । अनन्यतथताबद्धामुक्ता । धर्मताबद्धामुक्ता । धर्मधातुर् अबद्धो ऽमुक्तः । धर्मस्थितिताबद्धामुक्ता । धर्मनियामताबद्धामुक्ता । भूतकोटिर् अबद्धो ऽमुक्तः । असंस्कृतताबद्धामुक्ता ।
सो ऽबद्धामुक्तायां दानपारमितायां स्थित्वा । अबद्धामुक्तायां शीलपारमितायां स्थित्वा । अबद्धामुक्तायां क्षान्तिपारमितायां स्थित्वा । अबद्धामुक्तायां वीर्यपारमितायां स्थित्वा । अबद्धामुक्तायां ध्यानपारमितायां स्थित्वा । अबद्धामुक्तायां प्रज्ञापारमितायां स्थित्वा । अबद्धामुक्तायाम् अध्यात्मशून्यतायां स्थित्वा । अबद्धामुक्तायां बहिर्धाशून्यतायां स्थित्वा । अबद्धामुक्तायाम् अध्यात्मबहिर्धाशून्यतायां स्थित्वा । अबद्धामुक्तायां शून्यताशून्यतायां स्थित्वा । अबद्धामुक्तायां महाशून्यतायां स्थित्वा । अबद्धामुक्तायां परमाथशून्यतायां स्थित्वा । अबद्धामुक्तायां संस्कृतशून्यतायां स्थित्वा । अबद्धामुक्तायाम् असंस्कृतशून्यतायां स्थित्वा । अबद्धामुक्तायाम् अत्यन्तशून्यतायां स्थित्वा । अबद्धामुक्तायाम् अनवराग्रशून्यतायां स्थित्वा । अबद्धामुक्तायाम् अनवकारशून्यतायां स्थित्वा । अबद्धामुक्तायां प्रकृतिशून्यतायां स्थित्वा । अबद्धामुक्तायां सर्वधर्मशून्यतायां स्थित्वा । अबद्धामुक्ताया स्वलक्षणशून्यतायां स्थित्वा । अबद्धामुक्तायाम् अनुपलम्भशून्यतायां स्थित्वा । अबद्धामुक्तायाम् अभावशून्यतायां स्थित्वा । अबद्धामुक्तायां स्वभावशून्यतायां स्थित्वा । अबद्धामुक्तायाम् अभावस्वभावशून्यतायां स्थित्वा । अबद्धामुक्तेषु चतुर्षु स्मृत्युपस्थानेषु स्थित्वा । अबद्धामुक्तेषु चतुर्षु सम्यक्प्रहाणेषु स्थित्वा । अबद्धामुक्तेषु चतुर्षु ऋद्धिपादेषु स्थित्वा । अबद्धामुक्तेषु पञ्चस्व् इन्द्रियेषु स्थित्वा । अबद्धामुक्तेषु पञ्चसु बलेषु स्थित्वा । अबद्धामुक्तेषु सप्तसु बोध्यङ्गेषु स्थित्वा । अबद्धामुक्ते आर्याष्टाङ्गमार्गे स्थित्वा । अबद्धामुक्तेष्व् आर्यसत्येषु स्थित्वा । अबद्धामुक्तेषु चतुर्षु ध्यानेषु स्थित्वा । अबद्धामुक्तेषु चतुर्ष्व् अप्रमाणेषु स्थित्वा । अबद्धामुक्तासु चतुर्ष्व् आरूप्यसमापत्तिषु स्थित्वा । अबद्धामुक्तेषु अष्टासु विमोक्षेषु स्थित्वा । अबद्धामुक्तासु नवस्व् अनुपूर्वविहारसमापत्तिषु स्थित्वा । अबद्धामुक्तेषु शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु स्थित्वा । अबद्धामुक्तास्व् आभिज्ञासु स्थित्वा । अबद्धामुक्तेषु समाधिषु स्थित्वा । अबद्धामुक्तेषु धारणीमुखेषु स्थित्वा । अबद्धामुक्तेषु दशसु तथागतबलेषु स्थित्वा । अबद्धामुक्तेषु चतुर्षु वैशारद्येषु स्थित्वा । अबद्धामुक्तासु चतसृषु प्रतिस ं वित्सु स्थित्वा । अबद्धामुक्तायां महामैत्र्यां स्थित्वा । अबद्धामुक्तायां महाकरुणायां स्थित्वा । अबद्धामुक्तेष्व् आवेणिकबुद्धधर्मेषु स्थित्वा । अबद्धामुक्तायां बोधौ स्थित्वा । अबद्धामुक्तायां सर्वज्ञतायां स्थित्वा । अबद्धामुक्तायां मार्गाकारज्ञतायां स्थित्वा । अबद्धामुक्तायां सर्वाकारज्ञतायां स्थित्वा । अबद्धामुक्तायां तथतायां स्थित्वा । अबद्धामुक्तायाम् अवितथतायां स्थित्वा । अबद्धाकुक्तायाम् अनन्यतथतायां स्थित्वा । अबद्धामुक्तायां धर्मतायां स्थित्वा । अबद्धामुक्ते धर्मधातौ स्थित्वा । अबद्धामुक्तायां धर्मस्थितितायां स्थित्वा । अबद्धामुक्तायां धर्मनियामतायां स्थित्वा । अबद्धामुक्तायां भूतकोटौ स्थित्वा । अबद्धामुक्ते ऽसंस्कृते स्थित्वा । अबद्धामुक्ते ऽबद्धामुक्तान् सत्त्वान् परिमोचयिष्यति ।
अबद्धामुक्तो ऽबद्धामुक्तं बुद्धक्षेत्रं परिशोधयिष्यति । अबद्धामुक्तो ऽबद्धामुक्तान् बुद्धान् भगवतः पर्युपासिष्यत । अबद्धामुक्तो ऽबद्धामुक्तान् धर्मान् श्रोष्यति । अबद्धामुक्तो ऽबद्धामुक्तैर् बुद्धैर् भगवद्भिर् न जातु विरहितो भविष्यति । अबद्धाकुक्तो ऽबद्धामुक्ताभिर् अभिज्ञाभिर् न जातु विरहितो भविष्यति । अबद्धामुक्तो ऽबद्धामुक्तैः पञ्चभिश् चक्षुर्भिर् न जातु विरहितो भवति । अबद्धामुक्तो ऽबद्धामुक्ताभिर् धारणीभिर् न जातु विरहितो भविष्यति । अबद्धामुक्तो ऽबद्धामुक्तैः समाभिर् न जातु विरहितो भविष्यति । अबद्धामुक्तो ऽबद्धामुक्तां मार्गाकारज्ञताम् उत्पादयिष्यति । अबद्धामुक्तो ऽद्धामुक्तां सर्वज्ञतां सर्वाकारज्ञताम् अभिस ं भोत्स्यते । अबद्धामुक्तो ऽबद्धामुक्तं धर्मचक्रं प्रवर्तयिष्यति । अबद्धामुक्तो ऽबद्धामुक्तान् सत्त्वांस् त्रिषु यानेषु नियोजयिष्यति । एवं खल्व् आयुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो ऽबद्धामुक्तो ऽबद्धामुक्ताभिः षड्भिः पारमिताभिः सर्वधर्मा ननु भोत्स्यते । असत्ताम् उपादाय विविक्तताम् उपादाय । अनुत्पन्नताम् उपादाय ।
एवं खल्व् आयुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो ऽबद्धामुक्तो महायानसन्नाहसन्नद्ध इति वेदितव्यः ।
अथायुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत् । कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य महायानं । कियन्तो भगवन् बोधिसत्त्वो महासत्त्वो महायानसंप्रस्थिता वेदितव्याः । कुतस् तद् यानं निर्यास्यति । क्व वा तद् यानं स्थास्यति । को वा तेन यानेन निर्यास्यति । एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत् । यत् सुभूते एवं वदसि । कतमद् बोधिसत्त्वस्य महासत्त्वस्य महायानं । षट्पारमिता सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । कतमे षट् । दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता ।
इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रनिसंयुक्तैर् मनसिकारैर् दानम् अर्थिभ्यो ददाति यद् उताध्यात्मिकबाह्यानि वस्तुनि तच् च सर्वसत्त्वैः सार्धं साधारणं कृत्वा अनुत्तरायां सम्यक्स ं बोधौ परिणामयत्य् अनुपलम्भयोगेन । इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता । आह । कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता । भगवान् आह । इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् आत्मना च दशकुशलान् कर्मपथान् समादाय वर्तते । परांश् च दशकुशलेषु कर्मपथेषु समादापयति निवेशयति प्रतिष्ठापयति अनुपलम्भयोगेन । इयं बोधिसत्त्वस्य महासत्त्वस्य परामृष्टा शीलपारमिता । आह । कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता । भगवान् आह । इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् आत्मना च क्षान्तिस ं पन्नो भवति । परांश् च क्षान्तौ समादापयन्त्य् अनुपलम्भयोगेन । इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता । आह । कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता । भगवान् आह । इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् आत्मना च पञ्चसु पारमितास्व् अनिक्षिप्तधुरो भवति । परांश् च पञ्चसु पारमितासु नियोजयत्य् अनुपलम्भयोगेन । इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता । आह । कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता । भगवान् आह । इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञता प्रतिसंयुक्तैर् मनसिकारैर् उपायकौशलेन ध्यानानि समापद्यते । परांश् च ध्यानेषु समादापयत्य् अनुपलम्भयोगेन । इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता । आह । कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता । भगवान् आह । इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् आत्मना च सर्वधर्मान् नाभिनिविशते । सर्वधर्माणाञ् च प्रकृतिं प्रत्यवेक्षते अनुपलम्भयोगेन । सर्वधर्मान् अनभिनिविश्य सर्वधर्मप्रकृतिप्रत्यवेक्षणतायां सत्त्वान् समादापयति निवेशयति प्रतिष्ठापयति अनुपलम्भयोगेन । इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता । इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् उताध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता । अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता ।
तत्र कतमाध्यात्मशून्यता, अध्यात्मिका धर्मा उच्यन्ते । चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनः । तत्र चक्षुश् चक्षुषा शून्यम् अकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । श्रोत्रं श्रोत्रेण शून्यम् अकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । घ्राणं घ्राणेन शून्यम् अकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । जिह्वा जिह्वया शून्यम् अकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । कायः कायेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । मनो मनसा शून्यम् अकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । इयम् उच्यते ऽध्यात्मशून्यता ।
तत्र कतमा बहिर्धाशून्यता, बाह्याधर्मा उच्यन्ते रूपशब्दगन्धरससंस्पर्शधर्मा । तत्र रूपं रूपेण शून्यम् अकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । शब्दः शब्देन शून्यो ऽकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । गन्धो गन्धेन शून्यो ऽकूटस्थाविनाशिताम् उपदाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । रसो रसेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । स्पर्शः स्पर्शेन शून्यो ऽकूटस्थाविनाशिताम् उपदाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । धर्मा धर्मैः शून्या अकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । इयम् उच्यते बहिर्धाशून्यता ।
तत्र कतमाध्यात्मबहिर्धाशून्यता, षडाध्यात्मिकान्य् आयतनानि, इमे उच्यन्ते आध्यात्मिकबाह्यधर्माः । तत्राध्यात्मिकाधर्मा बाह्यधर्मैः शून्याः अकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । इमे बाह्या धर्माः आध्यात्मिकैर् धर्मैः शून्याः अकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । इयम् उच्यते अध्यात्मबहिर्धाशून्यता । तत्र कतमा शून्यताशून्यता । या सर्वधर्माणां शून्यता तया शून्यतया शून्या शून्यताकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । इयम् उच्यते शून्यताशून्यता । तत्र कतमा महाशून्यता, पूर्वा दिक् पूर्वया दिशा शून्या, दक्षिणा दिग् दक्षिणया दिशा शून्या । पश्चिमा दिक् पश्चिमया दिशा शून्या । उत्तरा दिग् उत्तरया दिशा शून्या । अधस्ताद् दिग् अधस्ताद् दिशा शून्या । उपरिष्टाद् दिग् उपरिष्टाद् दिशा शून्या । एवं विदिशो विदिग्भिः शून्या । अकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् एषाम् इयं । इयम् उच्यते महाशून्यता । तत्र कतमा परमाथशून्यता । परमार्था उच्यन्ते ये निर्वान्ति । तच् च निर्वाणं निर्वाणेन शून्यम् अकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् एषाम् इयं । इयम् उच्यते परमार्थशून्यता । तत्र कतमा संस्कृतशून्यता । संस्कृतम् उच्यते । कामधातुः रूपधातुः आरूप्यधातुः तत्र कामधातुः कामधातुना शून्यः । रूपधातू रूपधातुना शून्यः । आरूप्यधातुर् आरूप्यधातुना शून्यः अकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् एषाम् इयं । इयम् उच्यते संस्कृतशून्यता । तत्र कतमासंस्कृतशून्यता । असंस्कृतम् उच्यते यस्य नोत्पादो न निरोधो न स्थितेर् अन्यथात्वम् इदम् उच्यते । संस्कृतं । तच् चासंस्कृतम् असंस्कृतेन शून्यम् अकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । इयम् उच्यते ऽसंस्कृतशून्यता । तत्र कतमात्यन्तशून्यता यस्यान्तो नोपलभ्यते तद् अत्यन्तं । अत्यन्तम् अत्यन्तेन शून्यम् अकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । इयम् उच्यते ऽत्यन्तशून्यता । तत्र कतमानवराग्रशून्यता । यस्यावरं नोपलभ्यते । नाग्रं तस्यागतिर् नोपलभ्यते नोगतिः । अनवराग्रम् अनवराग्रेण शून्यम् अकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । इयम् उच्यते ऽनवराग्रशून्यता । तत्र कतमानवकारशून्यता । यत्र न कस्यचिद् धर्मस्य च्छोरणम् अस्ति, अनवकारो ऽनवकारेण शून्यो ऽकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । इयम् उच्यते ऽनवकारशून्यता । तत्र कतमा प्रकृतिशून्यता, या सर्वधर्माणां प्रकृतिः संस्कृतानां वासंस्कृतानां वा, सा न श्रावकैः कृता न प्रत्येकबुद्धैः न बोधिसत्त्वैर् महासत्त्वैर् न तथागतैर् अर्हद्भिः सम्यक्स ं बुद्धैः कृता प्रकृतिः प्रकृत्याशून्याकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्या इयं । इयम् उच्यते प्रकृतिशून्यता । तत्र कतमा सर्वधर्मशून्यता । सर्वधर्मा उच्यन्ते । रूपं वेदना संज्ञा संस्कारा विज्ञानं चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनः । रूपं शब्दो गन्धो रसः स्पर्शो धर्माः । चक्षुर्विज्ञानं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं । चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शः घ्राणसंस्पर्शः जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शः । चक्षुःसंस्पर्शजा वेदना, श्रोत्रसंस्पर्शजा वेदना, घ्राणसंस्पर्शजा वेदना, जिह्वासंस्पर्शजा वेदना, कायसंस्पर्शजा वेदना, मनःसंस्पर्शजा वेदना । रूपिणो धर्माः । अरूपिणो धर्माः । संस्कृता धर्मा, असंस्कृता धर्माः । इमे उच्यन्ते सर्वधर्माः । सर्वधर्माः सर्वधर्मैः शून्याः अकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् एषाम् इयं । इयम् उच्यते सर्वधर्मशून्यता । तत्र कतमा स्वलक्षणशून्यता । रूपलक्षणं रूपम् अनुपलम्भनाम् अलक्षणा वेदना । उद्ग्रहणलक्षणा संज्ञा । अभिज्ञासंस्कारलक्षणाः संस्काराः । विज्ञानलक्षणं विज्ञानं । दुःखलक्षणाः स्कन्धाः । आशीविषलक्षणा धातवः । आपद्द्वारलक्षणान्य् आयतनानि । सामग्रीलक्षणः । प्रतीत्यसमुत्पादः । परित्यागलक्षणा दानपारमिता । अनुद्वाहलक्षणा शीलपारमिता । अकोपनालक्षणा क्षान्तिपारमिता । अनवसद्यलक्षणा वीर्यपारमिता । संग्रहलक्षणा ध्यानपारमिता । असङ्गलक्षहा प्रज्ञापारमिता । अकोपनालक्षणानि चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः । नैर्यानिकलक्षणाः सप्तत्रिंशद् बोधिपक्षा धर्माः । विविक्तलक्षणं शून्यताविमोक्षमुखं । शान्तलक्षणम् आनिमित्तविमोक्षमुखं । दुःखामोहलक्षणम् अप्रणिहितविमोक्षमुखं । विमोचनालक्षणा विमोक्षाः । सुनिचितलक्षणानि बलानि । सुप्रतिष्ठितलक्षणानि वैशारद्यानि । अनाच्छेद्यलक्षणाः प्रतिस ं विदः । हितोपसंहारलक्षणा महामैत्री । घ्राणलक्षणा महाकरुणा । प्रामोद्यलक्षणा महामुदिता । असंकीर्णलक्षणा महोपेक्षा । असंहार्यलक्षणा अष्टादशावेणिका बुद्धधर्माः । प्रत्यक्षालक्षणा सर्वाकारज्ञताज्ञानं । यच् च संस्कृतानां धर्माणां लक्षणं यच् चासंस्कृतानां धर्माणां लक्षणं । स्वेनस्वेन लक्षणेन सर्व एते धर्माः शून्याः अकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् एषाम् इयं । इयम् उच्यते स्वलक्षणशून्यता । तत्र कतमा अनुपलम्भशून्यता । यत्रातीतं नोपलभ्यते । अनागतं नोपलभ्यते । प्रत्युत्पन्नस्य स्थितिर् नोपलभ्यते । अनुपलम्भो ऽनुपलम्भेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । इयम् उच्यते ऽनुपलम्भशून्यता । तत्र कतमाभावस्वभावशून्यता । नास्ति सांयोगिकः स्वभावः प्रतीत्यसमुपन्नत्वात् सर्वधर्माणां । संयोगः संयोगेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय । तत् कस्य हेतोः प्रकृतिर् अस्यैषा । इयम् उच्यते ऽभावस्वभावशून्यता । पुनर् अपरं सुभूते भावो भावेन शून्यः । अभावो ऽभावेन शून्यः । स्वभावः स्वभावेन शून्यः । परभावः परभावेन शून्यः । तत्र कतमाभावः । भाव उच्यते पञ्च स्कन्धाः । पञ्च स्कन्धाः पञ्चस्कन्धैः शून्याः । एवं भावो भावेन शून्यः । कतम अभावः स्वभावेन शून्यः । अभाव उच्यते ऽसंस्कृतं । तच् चासंस्कृतम् असंस्कृतेन शून्यं । अभावो ऽभावेन शून्यः । स्वभावः स्वभावेन शून्यः । परभावः परभावेन शून्यः । स्वभाव उच्यते प्रकृतिर् अविपरीतं । तत्र या शून्यता सा न ज्ञानेन कृता न दर्शनेन । इयम् उच्यते स्वभावशून्यता । तत्र कतमा परभावः शून्यता । या उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैर् एष धर्मस्थितिता, धर्मता धर्मधातु धर्मनियामता । तथता अवितथता, अनन्यतथता, भूतकोटिः । इति हि येषां धर्माणां परेण शून्यता । इयम् उच्यते परभावशून्यता । इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् उत शूरङ्गमो नाम समाधिः । रत्नमुद्रा नाम समाधिः । सिंहविक्रीडितो नाम समाधिः । सुचन्द्रो नाम समाधिः । चन्द्रध्वजकेतुर् नाम समाधिः । सर्वधर्मोद्गतो नाम समाधिः । अधिवचनसंप्रवेशो नाम समाधिः । विलोकितमूर्धो नाम समाधिः । धर्मधातुनियतो नाम समाधिः । नियतध्वजकेतुर् नाम समाधिः । वज्रो नाम समाधिः । सर्वधर्मप्रवेशमुद्रो नाम समाधिः । समाधिराजसुप्रतिष्ठितो नाम समाधिः । रश्मिप्रमुक्तो नाम समाधिः । बलव्यूहो नाम समाधिः । समुद्गतो नाम समाधिः । निरुक्तानियतप्रवेशो नाम समाधिः । अधिवचनसंप्रवेशो नाम समाधिः । दिग्विलोकितो नाम समाधिः । आधारमुद्रो नाम समाधिः । अस ं प्रमोषो नाम समाधिः । सर्वधर्मसमवसरणसागरसमुद्रो नाम समाधिः । आकाशस्फुरणो नाम समाधिः । वज्रमण्डलो नाम समाधिः । ध्वजाग्रकेयूरो नाम समाधिः । इन्द्रकेतुर् नाम समाधिः । श्रोतोनुगतो नाम समाधिः । सिंहविजृम्भितो नाम समाधिः । व्यस्तस्तो नाम समाधिः । रणञ्जहो नाम समाधिः । वैरोचनो नाम समाधिः । अनद्यो नाम समाधिः । अनिकेतस्थितो नाम समाधिः । निश्चित्तो नाम समाधिः । विमलप्रदीपो नाम समाधिः । अनन्तप्रभो नाम समाधिः । प्रभाकरो नाम समाधिः । समन्तावभासो नाम समाधिः । शुद्धसारो नाम समाधिः । विमलप्रभो नाम समाधिः । रतिङ्करो नाम समाधिः । विद्युत्प्रदीपो नाम समाधिः । अक्षयो नाम समाधिः । अजेयो नाम समाधिः । तेजोवती नाम समाधिः । क्षयापगतो नाम समाधिः । अनिञ्जो नाम समाधिः । अविवर्तो नाम समाधिः । सूर्यप्रदीपो नाम समाधिः । चन्द्रविमलो नाम समाधिः । प्रज्ञाप्रदीपो नाम समाधिः । शुद्धप्रतिभासो नाम समाधिः । आलोककरो नाम समाधिः । काराकारो नाम समाधिः । ज्ञानकेतुर् नाम समाधिः । वज्रोपमो नाम समाधिः । चित्तस्थितिर् नाम समाधिः । समन्तालोको नाम समाधिः । सुप्रतिष्ठितो नाम समाधिः । रत्नकोटिर् नाम समाधिः । वरधर्ममुद्रो नाम समाधिः । सर्वधर्मसमता नाम समाधिः । रतिजहो नाम समाधिः । धर्मोद्गतो नाम समाधिः । विकिरणो नाम समाधिः । सर्वधर्मपदप्रभेदो नाम समाधिः । समाक्षरावकारो नाम समाधिः । अक्षरापगतो नाम समाधिः । अरम्बरणच्छेदनो नाम समाधिः । अविकारो नाम समाधिः । प्रभाकरो नाम समाधिः । नामनियतप्रवेशो नाम समाधिः । अनिकेतचारी नाम समाधिः । तिमिरापगतो नाम समाधिः । चारित्रवती नाम समाधिः । अबलो नाम समाधिः । विषयतीर्णो नाम समाधिः । सर्वगुणसञ्चयो नाम समाधिः । स्थितनिश्चित्तो नाम समाधिः । शुभपुष्पितशुद्धिर् नाम समाधिः । बोध्यङ्गवती नाम समाधिः । अनन्तप्रतिभावो नाम समाधिः । असमममो सर्वधर्मातिक्रमणो नाम समाधिः । परिच्छेदकरो नाम समाधिः । विमतिविकिरणो नाम समाधिः । निरधिष्ठानो नाम समाधिः । एकव्यूहो नाम समाधिः । आकाराभिनिर्हारो नाम समाधिः । एकाकारो नाम समाधिः । सर्वसुखदुःखनिरभिनन्दी नाम समाधिः । सर्वाकारवरोपेतो नाम समाधिः । आकारानवकारो नाम समाधिः । नैर्वेधिकसर्वभवतलापगतो नाम समाधिः । संकेतरुतप्रवेशो नाम समाधिः । गीर्घोषाक्षरविमुक्तो नाम समाधिः । ज्वलनोल्को नाम समाधिः । लक्षणपरिशोधनो नाम समाधिः । अनभिलक्षितो नाम समाधिः । सर्वाकारवरोपेतो नाम समाधिः । सर्वसुखदुःखनिरभिनन्दी नाम समाधिः । अक्षयकरण्डो नाम समाधिः । धारणीमतिर् नाम समाधिः । सम्यक्त्वमिथ्यात्वसंप्रशमो नाम समाधिः । सर्वरोधनिरोधसंप्रशमनो नाम समाधिः । अनुरोधाप्रतिरोधो नाम समाधिः । विसरप्रभो नाम समाधिः । सारवती नाम समाधिः । परिपूर्णचन्द्रविमलो नाम समाधिः । विद्युत्प्रभो नाम समाधिः । महाव्यूहो नाम समाधिः । सर्वलोकप्रभाकरो नाम समाधिः । समाधिसमता नाम समाधिः । अरजोविरजोनयुक्तो नाम समाधिः । अरणमरणसमवसरणो नाम समाधिः । अरणमरणसर्वसमवसरणो नाम समाधिः । अनिलम्बानिकेतनिरतो नाम समाधिः । तथतास्थितनिश्चित्तो नाम समाधिः । कायकलिसंप्रमथनो नाम समाधिः । वक्कलिविध्वंसनगगणकल्पो नाम समाधिः । आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधि ॥
शतसाहस्र्याः प्रज्ञापारमितायाः सप्तमः परिवर्तः ॥
अथ अष्टमः परिवर्तः ।
तत्र कतमः शूरङ्गमो नाम समाधिः । यः समाधिः सर्वसमाधीनां गोचरम् अनुभवत्य् अयम् उच्यते शूरङ्गमो नाम समाधिः । तत्र कतमा रत्नमुद्रो नाम समाधिः । येन समाधिना सर्वे समाधयो मुद्रिता भवन्ति । अयम् उच्यते रत्नमुद्रो नाम समाधिः । तत्र कतमः सिंहविक्रीडितो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधिभिर् विक्रीडयत्य् अयम् उच्यते सिंहविक्रीडितो नाम समाधिः ।
तत्र कतमः सुचन्द्रो नाम समाधि । यत्र समाधौ स्थित्वा सर्वसमाधीन् अवभासयति । अयम् उच्यते सुचन्द्रो नाम समाधिः । तत्र कतमश् चन्द्रध्वजकेतुर् नाम समाधिः । यः समाधिः सर्वसमाधीनां ध्वजं धारयति । अयम् उच्यते चन्द्रध्वजकेतुर् नाम समाधिः । तत्र कतमः सर्वधर्मोद्गतो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधिभिर् अभ्युद्गच्छति । अयम् उच्यते सर्वधर्मोद्गतो नाम समाधिः । तत्र कतमो विलोकितमूर्धो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां मूर्धानं विलोकयति । अयम् उच्यते विलोकितमूर्धो नाम समाधिः । तत्र कतमो धर्मधातुनियतो नाम समाधिः । यत्र समाधौ स्थित्वा धर्मधातौ निश्चयं गच्छति । अयम् उच्यते धर्मधातुनियतो नाम समाधिः । तत्र कतमो नियतध्वजकेतुर् समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां नियतं ध्वजं धारयति । अयम् उच्यते नियतध्वजकेतुर् नाम समाधिः । तत्र कतमो वज्रो नाम समाधिः । यत्र समाधौ नियत्वा न भिद्यते । अयम् उच्यते वज्रो नाम समाधिः । तत्र कतमः सर्वधर्मप्रवेशमुद्रो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वधर्माणां मुद्रां प्रविशत्य् अयम् उच्यते सर्वधर्मप्रवेशमुद्रो नाम समाधिः । तत्र कतमः समाधिराजसुप्रतिष्ठितो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधिषु राजसुप्रतिष्ठानेन प्रतितिष्ठति । अयम् उच्यते समाधिराजसुप्रतिष्ठितो नाम समाधिः । तत्र कतमो रश्मिप्रमुक्तो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां रश्मीन् अवसृजति । अयम् उच्यते रश्मिप्रमुक्तो नाम समाधिः । तत्र कतमो बलव्यूहो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां बलव्यूहतां कारयति । अयम् उच्यते बलव्यूहो नाम समाधिः । तत्र कतमः समुद्गतो नाम समाधिः । यत्र समाधौ स्थितस्य सर्वे समाधयः समुद्गच्छन्ति । अयम् उच्यते समुद्गतो नाम समाधिः । तत्र कतमो निरुक्तिनियतप्रवेशो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां निरुक्तिनिर्देशान् प्रवेशयति । अयम् उच्यते निरुक्तिनियतप्रवेशो नाम समाधिः । तत्र कतमो वचनसंप्रवेशो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां अधिवचनानि प्रवेशयति । अयम् उच्यते ऽधिवचनसंप्रवेशो नाम समाधिः । तत्र कतमो दिग्विलोकितो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां दिशो विलोकयति अयम् उच्यते दिग्विलोकितो नाम समाधिः । तत्र कतम आधारमुद्रो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां मुद्राधारयति । अयम् उच्यते आधारमुद्रो नाम समाधिः । तत्र कतमो ऽसंप्रमोषो नाम समाधिः । यत्र समाधौ स्थित्वा तस्य समाधयो न मुह्यन्ति । अयम् उच्यते ऽसंप्रमोषो नाम समाधिः । तत्र कतमः सर्वधर्मसमवशरणसागरमुद्रा नाम समाधिः । यत्र समाधौ स्थितस्य सर्वे समाधयः संग्रहं समवशरणं गच्छन्ति । अयम् उच्यते सर्वधर्मसमवशरणसागरमुद्रा नाम समाधिः । तत्र कतम आकाशस्फुरणो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आकाशस्फुरणतया स्फुरति । अयम् उच्यते आकाशस्फुरणो नाम समाधिः । तत्र कतमो वज्रमण्डलो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां मण्डलानि धारयति । अयम् उच्यते वज्रमण्डलो नाम समाधिः । तत्र कतमो रणजहो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वक्लेशमलान् शोषयति । अयम् उच्यते रणजहो नाम समाधिः । तत्र कतमो वैरोचनो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीन् अवभासयति तपति विरोचते । अयम् उच्यते वैरोचनो नाम समाधिः । तत्र कतमो ऽनेषो नाम समाधिः । यत्र समाधौ स्थित्वा न कञ्चिद् धर्मम् एषते । अयम् उच्यते ऽनेषो नाम समाधिः । तत्र कतमो ऽनिकेतस्थितो नाम समाधिः । यत्र समाधौ स्थित्वा न कञ्चिद् धर्मं निकेतस्थितं समनुपश्यति । अयम् उच्यते ऽनिकेतस्थितो नाम समाधिः । तत्र कतमो निश्चित्तो नाम समाधिः । यत्र समाधौ स्थितस्य न चित्तं न चेतसिका धर्मा प्रवर्तन्ते । अयम् उच्यते निश्चित्तो नाम समाधिः । तत्र कतमो विमलप्रदीपो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां विमलप्रदीपं करोति । अयम् उच्यते विमलप्रदीपो नाम समाधिः । तत्र कतमो ऽनन्तप्रभो नाम समाधिः । यत्र समाधौ स्थित्वानन्तां प्रभां करोति । अयम् उच्यते ऽनन्तप्रभो नाम समाधिः । तत्र कतमः प्रभाकरो नाम समाधिः । यस्य समाधेः सहप्रतिलम्भात् सर्वसमाधीनां प्रभां करोति । अयम् उच्यते प्रभाकरो नाम समाधिः । तत्र कतमः समन्तावभासो नाम समाधिः । यस्य समाधेः सहप्रतिलम्भात् सर्वसमाधिमुखान्य् अवभासयति । अयम् उच्यते समन्तावभासो नाम समाधिः । तत्र कतमः शुद्धसारो नाम समाधिः । यत्र समाधौ स्थित्वा समाधीनां शुद्धसमन्ताम् अनुप्राप्नोति । अयम् उच्यते शुद्धसारो नाम समाधिः । तत्र कतमो विमलप्रभो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां मलम् अपकर्षति । सर्वसमाधींश् च प्रतिभासयति । अयम् उच्यते विमलप्रभो नाम समाधिः । तत्र कतमो रतिकरो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां रतिम् अनुभवति । अयम् उच्यते रतिकरो नाम समाधिः । तत्र कतमो विद्युत्प्रदीपो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां प्रदीपं करोति । अयम् उच्यते विद्युत्प्रदीपो नाम समाधिः । तत्र कतमो ऽक्षयो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां नैव क्षयं नाक्षयं समनुपश्यति । अयम् उच्यते ऽक्षयो नाम समाधिः । तत्र कतमस् तेजोवती नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधींस् तेजसा श्रिया च ज्वलयति । अयम् उच्यते तेजोवती नाम समाधिः । तत्र कतमः क्षयापगतो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधी न् न क्षयान् सम् अनुपश्यति । तथा च पश्यति यथाण्व् अपि न समनुपश्यति । अयम् उच्यते क्षयापगतो नाम समाधिः । तत्र कतमो ऽनिञ्जो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीन् निञ्जते न मन्यते न स्यन्दते न प्रपञ्चयति ते नोच्यते ऽनिञ्जो नाम समाधिः । तत्र कतमो ऽविवर्तो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां विवर्तनं न समनुपश्यति । अयम् उच्यते ऽविवर्तो नाम समाधिः । तत्र कतमः सूर्यप्रदीपो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां मुखम् अवभासयति । अयम् उच्यते सूर्यप्रदीपो नाम समाधिः । तत्र कतमश् चन्द्रविमलो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनाम् अनन्धाकारं करोति । अयम् उच्यते चन्द्रविमलो नाम समाधिः । तत्र कतमः शुद्धप्रतिभासो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां
चतस्रः प्रतिस ं विदः प्रतिलभते ऽयम् उच्यते शुद्धप्रतिभासो नाम समाधिः । तत्र कतम आलोककरो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधिमुखानाम् आलोकं करोति । अयम् उच्यते आलोककरो नाम समाधिः । तत्र कतमः काराकारो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां कारगतां क्रियां करोति । अयम् उच्यते काराकारो नाम समाधिः । तत्र कतमो ज्ञानकेतुर् नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां ज्ञानकेतुं समनुपश्यति । अयम् उच्यते ज्ञानकेतुर् नाम समाधिः । तत्र कतमो वज्रोपमो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां निर्वेधिकं करोति । यत् समाधिम् अपि न समनुपश्यति । अयम् उच्यते वज्रोपमो नाम समाधिः । तत्र कतमश् चित्तस्थितिर् नाम समाधिः । यत्र समाधौ
स्थित्वास्य चित्तं न विचलति । न विवर्तते न परित्रस्यति न विघातम् आपद्यते । न वास्यैवं भवति चित्तम् इदम् इति । अयम् उच्यते चित्तस्थितिर् नाम समाधिः । तत्र कतमः समन्तालोको नाम समाधिः । यत्र समाधौ स्थित्वा समन्ताद् आलोकं समनुपश्यति । अयम् उच्यते समन्तालोको नाम समाधिः । तत्र कतमः सुप्रतिष्ठितो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधिषु सुप्रतिष्ठितो भवति । अयम् उच्यते सुप्रतिष्ठितो नाम समाधिः । तत्र कतमो रत्नकोटिर् नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधयः समन्ताद् रत्नकोटिर् इव संदृश्यते । अयम् उच्यते रत्नकोटिर् नाम समाधिः । तत्र कतमो वरधर्ममुद्रो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधयो मुद्रिता भवन्ति । अमुद्राकोटिमुद्रितताम् उपादाय । अयम् उच्यते वरधर्ममुद्रो नाम समाधिः । तत्र कतमा सर्वधर्मसमता नाम समाधिः । यत्र समाधौ स्थित्वा न कञ्चिद् धर्मं समतानिर्मुक्तं समनुपश्यति । अयम् उच्यते सर्वधर्मसमता नाम समाधिः । तत्र कतमो रतिञ्जहो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां सर्वधर्माणाञ् च रतिञ् जहाति । अयम् उच्यते रतिञ्जहो नाम समाधिः । तत्र कतमो धर्मोद्गतो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वधर्माणां तमोविधर्मात् सर्वसमाधिभिश् चोद्गच्छति । अयम् उच्यते धर्मोद्गतो नाम समाधिः । तत्र कतमो विकिरणो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधिभिः सर्वधर्मान् विकिरयति । अयम् उच्यते विकिरणो नाम समाधिः । तत्र कतमः सर्वधर्मपदप्रभेदो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां सर्वधर्माणाञ् च पदानि प्रभिनत्ति । अयम् उच्यते सर्वधर्मपदप्रभेदो नाम समाधिः । तत्र कतमः समाक्षराकारो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां समाक्षरतां प्रतिलभते । अयम् उच्यते समाक्षराकारो नाम समाधिः । तत्र कतमो ऽक्षरापगतो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनाम् एकाक्षरम् अपि नोपलभते । अयम् उच्यते ऽक्षरापगतो नाम समाधिः । तत्र कतम आरम्बणच्छेदनो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आरम्बच्छेदो भवति । अयम् उच्यते आरम्बणच्छदनो नाम समाधिः । तत्र कतमः अविकारो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वधर्माणां विकारान् नोपलभते । अयम् उच्यते अविकारो नाम समाधिः । तत्र कतमो ऽप्रकारो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वधर्माणां प्रकारम् अपि नोपलभते । अयम् उच्यते ऽप्रकारो नाम समाधिः । तत्र कतमः अनिकेतचारी नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां निकेतं नोपलभते । अयम् उच्यते अनिकेतचारी नाम समाधिः । तत्र कतमस् तिमिरापगतो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वधर्माणां तिमिरं विशोधयति । अयम् उच्यते तिमिरापगतो नाम समाधिः । तत्र कतमश् चारित्रवती नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनाञ् चरन्तं समनुपश्यति । अयम् उच्यते चारित्रवती नाम समाधिः । तत्र कतमः अचलो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीन् न चलान् समनुपश्यति । अयम् उच्यते अचलो नाम समाधिः । तत्र कतमो विषयतीर्णो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां विषयं समतिक्रामति । अयम् उच्यते विषयतीर्णो नाम समाधिः । तत्र कतमः सर्वगुणसञ्चयगतो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वधर्माणां सर्वसमाधीनाञ् च गुणसञ्चयम् अनुप्राप्नोति । अयम् उच्यते सर्वगुणसञ्चयगतो नाम समाधिः । तत्र कतमः स्थितनिश्चित्तो नाम समाधिः । यत्र समाधौ स्थितस्य सर्वसमाधिषु चित्तं न प्रवर्तते । अयम् उच्यते स्थितनिश्चित्तो नाम समाधिः । तत्र कतमः शुभपुष्पितशुद्धिर् नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां शुभपुष्पितशुद्धिं प्रतिलभते ऽयम् उच्यते शुभपुष्पितशुद्धिर् नाम समाधिः । तत्र कतमो बोध्यङ्गवती नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां सप्त बोध्यङ्गानि प्रतिलभते । अयम् उच्यते बोध्यङ्गवती नाम समाधिः । तत्र कतमो ऽनन्तप्रतिभानो नाम समाधिः । यत्र समाधौ स्थित्वा समाधिष्व् अनन्तं प्रतिलभते । अयम् उच्यते अनन्तप्रतिभानो नाम समाधिः । तत्र कतमो ऽसमसमो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधिष्व् असमसमतां प्रतिलभते । अयम् उच्यते असमसमो नाम समाधिः । तत्र कतमः सर्वधर्मातिक्रमणो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वत्रैधातुकं समति क्रामति । अयम् उच्यते सर्वधर्मातिक्रमणो नाम समाधिः । तत्र कतमः परिच्छेदकरो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वधर्माणां सर्वसमाधीनाञ् च परिच्छेदं पश्यति । अयम् उच्यते परिच्छेदकरो नाम समाधिः । तत्र कतमो विमतिविकिरणो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां सर्वधर्माणाञ् च विमतिविकिरणताम् अनुप्राप्नोति । अयम् उच्यते विमतिविकिरणो नाम समाधिः । तत्र कतमो निरधिष्ठानो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वधर्माणां स्थानं न समनुपश्यति । अयम् उच्यते निरधिष्ठानो नाम समाधिः । तत्र कतम एकव्यूहो नाम समाधिः । यत्र समाधौ स्थित्वा न कस्यचिद् धर्मस्य द्वयतां समनुपश्यति । अयम् उच्यते एकव्यूहो नाम समाधिः । तत्र कतम आकाराभिनिर्हारो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वधर्माणां सर्वसमाधीनाञ् चाकाराभिनिर्हारं समनुपश्यति । अयम् उच्यते आकाराभिनिर्हारो नाम समाधिः । तत्र कतम एकाकारो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आकारं न समनुपश्यति । अयम् उच्यते एकाकारो नाम समाधिः । तत्र कतम आकारानवकारो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनाम् अद्वयतां समनुपश्यति । अयम् उच्यते आकारानवकारो नाम समाधिः । तत्र कतमो नैर्वेधिकसर्वभवतलविगतो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां नैर्वेधिकज्ञानम् अनुप्रविशति । यस्यानुप्रवेशान् न किञ्चिन् न प्रतिविध्यति । अयम् उच्यते नैर्वेधिकसर्वभवतलविगतो नाम समाधिः । तत्र कतमः सङ्केतरुतप्रवेशो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां सङ्केतरुतानि प्रवेशयति । अयम् उच्यते सङ्केतरुतप्रवेशो नाम समाधिः । तत्र कतमो गीर्घोषाक्षरविमुक्तो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां गीर्घोषाक्षरविमुक्तान् समनुपश्यति । अयम् उच्यते गीर्घोषाक्षरविमुक्तो नाम समाधिः । तत्र कतमो ज्वलनोल्का नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधींस् तेजसावभासयति । अयम् उच्यते ज्वलनोल्का नाम समाधिः । तत्र कतमो लक्षणपरिशोधनो नाम समाधिः ।
यत्र समाधौ स्थितस्य सर्वसमाधीनां लक्षणानि परिशुध्यन्ते । अयम् उच्यते लक्षणपरिशोधनो नाम समाधिः । तत्र कतमो ऽनभिलक्षितो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीन् अभिलक्षितान् समनुपश्यति । अयम् उच्यते अनभिलक्षितो नाम समाधिः । तत्र कतमः सर्वाकारवरोपेतो नाम समाधिः । यत्र समाधौ स्थितस्य सर्वसमाधयः सर्वाकारवरोपेता भवन्ति । अयम् उच्यते सर्वाकारवरोपेतो नाम समाधिः । तत्र कतमः सर्वसुखदुःखनिरभिनन्दी नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां सुखदुःखानि नानुपश्यति । अयम् उच्यते सर्वसुखदुःखनिरभिनन्दी नाम समाधिः । तत्र कतमो ऽक्षयकरण्डो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां क्षयं न समनुपश्यति । अयम् उच्यते ऽक्षयकराण्डो नाम समाधिः । तत्र कतमा धारणीमतिर् नाम समाधिः । यत्र समाधौ स्थित्वा सर्वधारणीन् धारयति । अयम् उच्यते धारणीमतिर् नाम समाधिः । तत्र कतमः सम्यक्त्वमिथ्यात्वसर्वसंग्रसनो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां सम्यक्त्वमिथ्यात्वं न समनुपश्यति । अयम् उच्यते सम्यक्त्वमिथ्यात्वसर्वसंग्रसनो नाम समाधिः । तत्र कतमः सर्वरोधप्रतिरोधप्रशमनो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां रोधं विरोधं समनुपश्यति । अयम् उच्यते सर्वरोधविरोधप्रशमनो नाम समाधिः । तत्र कतमो ऽनुरोधाप्रतिरोधो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वधर्माणां सर्वसमाधीनाञ् चानुरोधाप्रतिरोधं न समनुपश्यति । अयम् उच्यते ऽनुरोधाप्रतिरोधो नाम समाधिः । तत्र कतमो विमलप्रभो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां प्रभामण्डलं नोपलभते । अयम् उच्यते विमलप्रभो नाम समाधिः । तत्र कतमः सारवती नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां सारं समनुपश्यति । अयम् उच्यते सारवती नाम समाधिः । तत्र कतमः पारिपूर्णचन्द्राभविमलो नाम समाधिः । यत्र समाधौ स्थितस्य सर्वसमाधयः परिपूर्णा भवन्ति । तद्यथापि नाम पौर्णमास्यां चन्द्रमण्डलं । अयम् उच्यते परिपूर्णचन्द्राभविमलो नाम समाधिः । तत्र कतमो महाव्यूहो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधिमहाव्यूहसमन्वागतो भवति । अयम् उच्यते महाव्यूहो नाम समाधिः । तत्र कतमः सर्वाकारप्रभाकरो नाम समाधिः । यत्र समाधौ अथित्वा सर्वसमाधीन् सर्वधर्मांश् चावभासयति । अयम् उच्यते सर्वाकारप्रभाकरो नाम समाधिः । तत्र कतमः समाधिसमता नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनाम् अनुविक्षेपम् एकाग्रताम् उपलभते । अयम् उच्यते समाधिसमता नाम समाधिः । तत्र कतमो ऽरणसरणसमवसरणो नान समाधिः । यत्र समाधौ स्थितस्य सर्वसमाधयो न रणन्ति । अयम् उच्यते ऽरणसरणसमवसरणो नाम समाधिः । तत्र कतमो ऽरणसरणसर्वसमवसरणो नाम समाधिः । यत्र समाधौ स्थित्वा अरणसरणसर्वसमवशरणताम् अनुप्राप्नोति । अयम् उच्यते अरणसरण्सर्वसमवशरणो नाम समाधिः । तत्र कतमो ऽनिलम्भनिकेतनिरतो नाम समाधिः यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आलयं नोपैति । अयम् उच्यते अनिलम्भनिकेतनिरतो नाम समाधिः । तत्र कतमः तथतास्थितनिश्चित्तो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधितथताया न विवर्धते । अयम् उच्यते तथतास्थितनिश्चित्तो नाम समाधिः । तत्र कतमः कायकलिसंप्रमथनो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधिकायं नोपलभते । अयम् उच्यते कायकलिसंप्रमथनो नाम समाधिः । तत्र कतमो वाक्कलिविध्वंसनगगणकल्पो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वसमाधीनां वाक्कर्म नोपलभते । अयम् उच्यते वाक्कलिविध्वंसनगगणकल्पो नाम समाधिः । तत्र कतम आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः । यत्र समाधौ स्थित्वा सर्वधर्माणाम् आकाशासङ्गनिरुपलेपताम् अनुप्राप्नोति । अयम् उच्यते आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः । इदं सुभूते बोधसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो महायान्ं ॥
शतसाहस्र्याः प्रज्ञापारमिताया अष्टमः परिवर्तः ॥
अथ नवमः परिवर्तः ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । चत्वारि स्मृत्युपस्थानानि । कतमानि चत्वारि । कायस्मृत्युपस्थानं । वेदनास्मृत्युपस्थानं । चित्तस्मृत्युपस्थानं । धर्मस्मृत्युपस्थानं । तत्र कतमं कायस्मृत्युपस्थानं । इह सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुदर्शी विहरति । न च कायसहगतान् वितर्कान् वितर्कयत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन । बहिर्धाकाये कायानुदर्शी विहरति । न च कायसहगतान् वितर्कान् वितर्कयत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन । अध्यात्मबहिर्धा काये कायानुदर्शी विहरति । न च कायसहगतान् वितर्कान् वितर्कयत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन ।
अध्यात्मवेदनासु वेदनानुदर्शी विहरति । न च वेदनासहगतान् वितर्कान् वितर्कयत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन । बहिर्धावेदनासु वेदनानुदर्शी विहरति । न च वेदनासहगतान् वितर्कान् वितर्कयत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन । अध्यात्मबहिर्धावेदनासु वेदनानुदर्शी विहरति । न च वेदनासहगतान् वितर्कान् वितर्कयत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन । अध्यात्मचित्ते चित्तानुदर्शी विहरति । न च चित्तसहगतान् वितर्कान् वितर्कयत्य् आतापी संप्रज्ञानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोमेन । बहिर्धाचित्ते चित्तानुदर्शी विहरति । न च चित्तसहगतान् वितर्कान् वितर्कयत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन । अध्यात्मबहिर्धाचित्ते चित्तानुदर्शी विहरति । न च चित्तसहगतान् वितर्कान् वितर्कयत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन ।
अध्यात्मधर्मेषु धर्मानुदर्शी विहरति । न च धर्मसहगतान् वितर्कान् वितर्क्यत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन ।
कयं सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुदर्शी विहरति । इह सुभूते बोधिसत्त्वो महासत्त्वश् चरंश् चरामीति प्रजानाति स्थितः स्थितो ऽस्मीति प्रजानाति । निषण्णो निषण्णो ऽस्मीति प्रजानाति । शयानः शयितो ऽस्मीति प्रजानाति । यथा यथा खलु पुनर् अस्य कायः स्थितो भवति प्रणीतं वाप्रणीतं वा तथागतञ् च न प्रजानाति । एवं खलु सुभुते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन । पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुदर्शी विहरति । सो ऽभिक्रामं न वा प्रतिक्रामं न वा संप्रजानचारी भवत्य् लोकिते विलोके संप्रजानचारी च भवति । स ं मिञ्जिते प्रसारिते संप्रजानचारी भवति । संघाटीयात्रचीवरधारणे संप्रजानचारी भवति । अशितपीतस्वादितास्वादितान् संप्रजानचारी भवति । शयितनिद्राक्लमप्रतिविनोदिते संप्रजानचारी भवति । आगतगत संप्रजानचारी भवति । स्थिते निषद्यायां संप्रजानचारी भवति । स्वप्नजागरिते संप्रजानचारी भवति । भाषिते तूष्णींभावे संप्रजानचारी भवति । प्रतिसंलयने संप्रजानचारी भवति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिह्यादौर्मनस्ये तच् चानुपलम्भयोगेन । पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्मृत आश्वसन् स्मृत आश्वसिमीति प्रजानाति । स्मृत प्रश्वसन् स्मृतः प्रश्वसिमीति प्रजानाति । दीर्घम् आश्वसन् दीर्घम् आश्वसिमीति प्रजानाति । दीर्घं प्रश्वसन् दीर्घं प्रश्वसिमीति प्रजानाति । ह्रस्वम् आश्वसन् ह्रस्वम् आश्वसिमीति प्रजानाति । ह्रस्वं प्रश्वसन् ह्रस्वं प्रश्वसिमीति प्रजानाति । तद्यथापि नाम सुभूते दक्षो भ्रमचक्रवर्ती भ्रमचक्रवर्त्यन्तेवासी वा दीर्घम् आविध्यामीति प्रजानाति । ह्रस्वं प्रविध्यामीति प्रजानाति । एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्मृत आश्वसन् स्मृत आश्वसिमीति प्रजानाति । स्मृतः प्रश्वसन् स्मृतः प्रश्वसिमीति प्रजानाति । दीर्घम् आश्वसन् दीर्घम् आश्वसिमीति प्रजानाति । दीर्घं प्रश्वसन् दीर्घं प्रश्वसिमीति प्रजानाति । ह्रस्वम् आश्वसन् ह्रस्वम् आश्वसिमीति प्रजानामिति । ह्रस्वं प्रश्वसन् ह्रस्वं प्रश्वसिमीति प्रजानाति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मकायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमम् एव कायधातुं यथाभूतं प्रत्यवेक्षते । अस्त्य् अस्मिन् काये पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुः । तद्यथापि नाम सुभूते दक्षो गोघातको वा गोघातकान्तेवासी वा तीक्ष्णेन शस्त्रेण गां हत्वा चत्वारि फलकानि कुर्यात् चत्वारि फलकानि कृत्वा प्रत्यवेक्षते स्थितो वाथ निषण्णः । एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमम् एव कायधातुं स यथाभूतं प्रत्यवेक्षते । अस्त्य् अस्मिन् काये पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुः । एव खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्थितो वा निषण्णो ऽध्यात्मकाये कायानुपश्यी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये । तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमम् एव कायम् ऊर्ध् व् अ ं पादतलाद् अधः केशमस्तकान् नखलोमत्वक्पर्यन्तं पूर्णं नानाविधस्याशुचेर् यथाभूतं प्रत्यवेक्षते । सन्त्य् अस्मिन् काये केशा लोमानि नखा दन्तास् त्वक् चर्म मांसा स्नायु रुधिरम् अस्थि मज्जा वृक्कं हृदयं यकृत् क्लोमकं प्लीहा फुस्फुषमात्राम् आन्त्रगुणा उदरयन्त्रं मूत्रं पुरीषम् अश्रुस्वेदो मदः खेटः सिंहाणकं पूयं पित्तं श्लेशा वसा ल सीका मला मस्तकं मस्तकगञ्जाम् अक्षिपृथकं । तद्यथापि नाम सुभूते कार्षकस्य मृतोत्रिः पूर्णा नानाधान्यजातानां तिलानां सर्षपाणां मुद्गानां माषाणां मसूराणां यवानां गोधूमानां शालीनां व्रीहीणां, ताम् एनां चक्षूमान् पुरुषा मुक्त्वा प्रत्यवेक्षमाणः एवं जानीयाद् इमे तिलाः इमे सर्षपाः इमे मुद्गाः इमे माषाः इमे मसूराः इम यवाः इमे गोधूमाः इमे शालयः इमे व्रीहयः । एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः इमम् एव कायम् ऊर्ध् व् अं पादतलाद् अधः केशमस्तका न् नखलोमत्वक्पर्यन्तं पूर्णं नानाविधस्याशुचे । सन्त्य् अस्मिन् काये केशा लोमानि नखा दन्तास् त्वक् चर्म मांसस्नायु रुधिरम् अस्थि मज्जा वृक्कं हृदयं यकृत् क्लोमकं प्लीहा फुस्फुषमात्राम् आन्त्रगुणा उदीरयकं मूत्रं पुरीषम् अश्रुस्वेदो मदः खेटः सिंहाणकं पूयं पित्तं श्लेशा वसा ल सीका मला मस्तकं मस्तकशङ्गाम् अक्षिगूथकं कर्णगूथकं । एवं खलु सुभूते बोधिसत्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये । तच् चानुपलम्भयोगेन । पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यदा श्मशानगतः पश्यति । नानारूपाणि शिवपथिकायाम् अपविद्धानि शवशयन उद्रीतान्य् एकाहमृतानि वा द्व्यहमसृतानि वा त्र्यहमृतानि वा चतुरहमृतानि वा पञ्चाहमृतानि वा व्याध्मातकानि वा विनीलकानि वा विपूतिकानि वा विखादितकानि वा विलोहितकानि वा विक्षिप्तकानि वा । स इमम् एव कायन् तत्रोपसंहरत्य् अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अध्यतिवृत्तः । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बहिर्धाकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये, तच् चानुपलम्भयोगेन । पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यदा पश्यति शिवपथिकायाम् उद्रीतानि मृतशरीराणि षड्रात्रमृतानि वा सप्त रात्रमृतानि वा काकैर् वा खाद्यमानानि कङ्कैर् वा कुररैर् वा गृध्रैर् वा वास्तासैर् वाअ शृगालैर् वा श्वभिर् वा तद् अन्यैर् वा नानाविधैः प्राणकजातैः खाद्यमानानि । स इमम् एव कायं तत्रोपसंहरत्य् अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अध्यतिवृत्तः । एवं खलु सुभूते बोधिसत्त्वो महासत्वः प्रज्ञापारमितायां चरन् बहिर्धाकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यदा पश्यति शिवपथिकायाम् उद्रीतानि मृतशरीराणि विखादितान्य् अशुचीनि पूतीनि दुर्गन्धानि । स इमम् एव कायं तत्रोपसंहरत्य् अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अध्यतिवृत्तः । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बहिर्धाकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन । पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यदा पश्यति शिवपथिकायाम् अस्थिशकलान् मांसरुधिरक्षितान् स्नायु विनिबद्धान् स इमम् एव कायं तत्रोपसंहरत्य् अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अध्यतिवृत्तः । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बहिर्धाकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यथा शिवपथिकायाम् अस्थिसकलान् अपगतमांसरुधिरस्नायुबन्धनान् शङ्कनिभान् पश्यति । स इमम् एव कायं तत्रोपसंहरत्य् अयम् अपि कायं एवंधर्मा एवंस्वभाव एतां धर्मताम् अध्यतिवृत्तः । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बहिर्धाकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके अभिध्यादौर्मनस्ये । तच् चानुपलम्भयोगेन । पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यदा पश्यति । शिवपथिकायाम् अस्थिसकलाबन्धनविप्रमुक्ता यथाशङ्खाः पृथिव्यां विक्षिप्ताः । स इमम् एव कायं तत्रोपसंहरत्य् अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अध्यतिवृत्तः । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बहिर्धाकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यदा पश्यति शिवपविकायाम् अस्थीनि पृथिव्यां दिग्विदिशो विक्षिप्तान्य् एव पादास्थीन्य् अन्येन जङ्गास्थीन्य् अन्येन नोर्वस्थीन्य् अन्येन श्रोणीकटाहम् अन्येन पृष्ठवंशास्थीन्य् अन्येन पार्श्वकास्थीन्य् अन्येन बाह्वस्थीन्य् अन्येन ग्रीवास्थीन्य् अन्येन शिरःकपालास्थीनि । स इमम् एव कायं तत्रोपसंहरत्य् अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अध्यतिवृत्तः । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बहिर्धाकाये कयानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन । पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यदा पश्यति शिवपथिकायाम् अस्थीन्य् अनेकवार्षिकानि चातपपरितापितानि श्वेतानि शङ्खनिभानि । स इमम् एव कायं तत्रोपसंहरत्य् अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अध्यतिवृत्तः । एव खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बहिर्धाकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यदा पश्यति शिवपथिकायाम् अस्थीन्य् अनेकवार्षिकानि तिरोभूतानि नीलानि कपोतवर्णानि पूतीनि चूर्णजातानि पृथिव्यां पांशुना समसमीभूतानि । स इमम् एव कायं तत्रोपसंहरत्य् अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अध्यतिवृत्तः । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्मयोगेन ।
बहिर्धाकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन ।
अध्यात्मबहिर्धाकाये कायानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन ।
अध्यात्मवेदनासु वेदनानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन । बहिर्धावेदनासु वेदनानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन । अध्यात्मबहिर्धावेदनासु वेदनानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन । अध्यात्मचित्ते चित्तानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमन् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन । बहिर्धाचित्ते चित्तानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन । अध्यात्मबहिर्धाचित्ते चित्तानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन । अध्यात्मधर्मेषु धर्मानुदर्शी विहरत्य् आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन । बहिर्धाधर्मेषु धर्मानुदर्शी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन । अध्यात्मबहिर्धाधर्मेषु धर्मानुदर्शी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन । इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् उत चत्वारि सम्यक्प्रहाणानि । कतमानि । इदं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुत्पन्नानां पापकानाम् अकुशलधर्माणाम् अनुत्पादाय छन्दं जनयति । व्यायच्छते । वीर्यम् आरभते । चित्तं प्रग्र्ह्णाति । सम्यक् प्रदधाति । उत्पन्नानां पापकानाम् अकुशलधर्माणां प्रहाणाय छन्दं जनयति । व्यायच्छते वीर्यम् आरभते चित्तं प्रग्र्ह्णाति । सम्यक् प्रदधाति । अनुत्पन्नानां कुशलधर्माणाम् उत्पादाय छन्दं जनयति, व्यायच्छते वीर्यम् आरभते चित्तं प्रगृह्णाति सम्यक् प्रदधाति । उत्पन्नानां कुशलानां धर्माणां स्थितये भूयोभावनतायै असंतोषाय परिपूरये छन्दं जनयति । व्यायच्छते वीर्यम् आरभते चित्तं प्रगृह्णाति सम्यक् प्रदधाति । तच् चानुपलम्भयोगेन । इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् उत चत्वार ऋद्धिपादाः । कतमे चत्वारः इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् छन्दसमाधिप्रहाणासंस्कारसमन्वागतं ऋद्धिपादान् भावयति । विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं । वीर्यसमाधिप्रहाणां समन्वागतं ऋद्धिपादान् भावयति । विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं चित्तं समाधिप्रहाणासंस्कारसमन्वागतम् ऋद्धिपादान् भावयति । विवेकनिःश्रितं विरागनिःश्रितं । निरोधनिःश्रितं व्यवसर्गपरिणतं । समाधिप्रहाणसंस्कारं समन्वागतम् ऋद्धिपादान् भावयति । विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं । तच् चानुपलम्भयोगेन । इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् उत पञ्चेन्द्रियाणि । कतमानि पञ्च । श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् उत पञ्च बलानि । कतमानि पञ्च । श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलम् इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं तच् चानुपलम्भयोगेन । पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् उत सप्त बोध्यङ्गानि । कतमानि सप्तस्मृतिस ं बोध्यङ्गं धर्मप्रविचयस ं बोध्यङ्गं वीर्यस ं बोध्यङ्गं प्रीतिस ं बोध्यङ्गं ऋद्धिस ं बोध्यङ्गं समाधिस ं बोध्यङ्गं उपेक्षास ं बोध्यङ्गं । तत्र कतमत् स्मृतिस ं बोध्यङ्गं । इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्मृतिस ं प्रत्यङ्गं भावयति विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं । तच् चानुपलम्भयोगेन । कतमद् धर्मप्रविचयस ं बोध्यङ्गं । इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धर्मप्रविचयस ं बोध्यङ्गं भावयति । विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं । तच् चानुपलम्भयोगेन । कतमद् वीर्यस ं बोध्यङ्गं । इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् वीर्यस ं बोध्यङ्गं भावयति । विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं । तच् चानुपलम्भयोगेन । तत्र कतमत् प्रीतिस ं बोध्यङ्गं । इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रीतिस ं बोध्यङ्गं भावयति । विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं । तच् चानुपलम्भयोगेन । तत्र कतमत् प्रस्रद्धिस ं बोध्यङ्गं ।
इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रस्रद्धिस ं बोध्यङ्गं भावयति । विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं । तच् चानुपलम्भयोगेन । तत्र कतमत् समाधिस ं बोध्यङ्गं । इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् समाधिस ं बोध्यङ्गं भावयति । विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं तच् चानुपलम्भोयोगेन । तत्र कतमद् उपेक्षास ं बोध्यङ्गं । इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपेक्षास ं बोध्यङ्गं भावयति विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं तच् चानुपलम्भयोगेन । इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उतार्याष्टाङ्गो मार्गः । सम्यग्दृष्टिः । सम्यक्सङ्कल्पः । सम्यग्वाक् । सम्यक्कर्मान्तः । सम्यगाजीवः । सम्यग्व्यायामः । सम्यक्स्मृतिः । सम्यक्समाधिः । तत्र कतमा सम्यग्दृष्टिं । इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सम्यग्दृष्टिं भावयति । विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं तच् चानुपलम्भयोगेन । तत्र कतमः सम्यक्सङ्कल्पः । इह सुभूते बोधिसत्त्वो महासत्त्वः पज्ञापारमितायां चरन् सम्यक्सङ्कल्पं भावयति । विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं । तच् चानुपलम्भयोगेन । कतमा सम्यग्वाक् । इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सम्यग्वाचं भावयति विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं । तच् चानुपलम्भयोगेन । कतमः सम्यक्कर्मान्तः । इह सुभूते बोधिसत्त्वो मत्तासत्त्वः प्रज्ञापारमितायां चरन् सम्यक्कर्मान्तं भावयति । विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं । तच् चानुपलम्भयोगेन । कतमः सम्यगाजीवः । इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सम्यगाजीवं भावयति । विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं । तच् चानुपलम्भयोगेन । कतमः सम्यग्व्यायामः । इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सम्यग्व्यायामं भावयति । विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यपसर्गपरिणतं । तच् चानुपलम्भयोगेन । कतमा सम्यक्स्मृतिः । इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सम्यक्स्मृतिर् भावयति । विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं । तच् चानुपलम्भयोगेन । कतमः सम्यक्समाधिः । इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सम्यक्समाधिं भावयति । विवेकनिःश्रितं विरागनिःश्रितं निरोधनिःश्रितं व्यवसर्गपरिणतं । तच् चानुपलम्भयोगेन । इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् उत त्रयः समाधयः । कतमे समाधयस् त्रयः । शून्यतासमाधिर् आनिमित्तसमाधिर् अप्रणिहितसमाधिः । तत्र कतमः शून्यतासमाधिः स्वलक्षणशून्यान् सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिः शून्यताविमोक्षमुखम् अयम् उच्यते शून्यतासमाधिः । तत्र कतम आनिमित्तसमाधिः । आनिमित्तान् सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिर् आनिमित्तविमोक्षमुखम् अयम् उच्यते आनिमित्तः समाधिः । तत्र कतमो ऽप्रणिहितसमाधिः । सर्वधर्मा अनभिसंस्कारा इत्य् अनभिसंस्कुर्वतो या चित्तस्य स्थितिर् अप्रणिहितविमोक्षम् अयम् उच्यते ऽप्रणिहितः समाधिः । इमा विमोक्षमुखेषु स्मृतयः कर्तव्याः । अजह्रीयमाणेन । इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् उतैकादश ज्ञानानि । कतमान्य् एकादश । दुःखज्ञानं समुदयज्ञान निरोधज्ञानं मार्गज्ञानं क्षयज्ञानम् अनुत्पादज्ञानं धर्म्संज्ञानम् अन्वयज्ञानं संवृत्तिज्ञानं परिचयज्ञानं यथारुतज्ञानं । तत्र कतमद् दुःखज्ञानं यद् दुःखस्यानुत्पादज्ञानं । तत्र कतमत् समुदयज्ञानं यत् समुदस्य प्रहाणज्ञानं । तत्र कतमन् निरोधज्ञानं यद् दुःखनिरोधज्ञानं । तत्र कतमत् मार्गज्ञानं यद् आर्याष्टाङ्गमार्गज्ञानं । तत्र कतमत् क्षयज्ञानं यद् रागदोषमोहक्षयज्ञानं । तत्र कतमद् अनुत्पादज्ञानं यद् भगवत्य् अनुत्पादज्ञानं । तत्र कतमद् धर्मज्ञानं यत् पञ्चानां स्कन्धानाम् अपरिक्षतिम् अपरिच्छेदज्ञानं । तत्र कतमद् अन्वयज्ञानं यच् चक्षुर् अनित्यम् इति ज्ञानं श्रोत्रम् अनित्यम् इति ज्ञानं घ्राणम् अनित्यम् इति ज्ञानं जिह्वानित्येति ज्ञानं कायो ऽनित्य इति ज्ञानं मनो ऽनित्यम् इति ज्ञानं । रूपम् अनित्यम् इति ज्ञानं शब्दो ऽनित्य इति ज्ञानं गन्धो ऽनित्य इति ज्ञानं रसो ऽनित्य इति ज्ञानं स्पर्शो ऽनित्य इति ज्ञानं धर्मा अनित्या इति ज्ञानं । चक्षुर्धातुर् अनित्यं इति ज्ञानं । रूपधातुर् अनित्य इति ज्ञानं चक्षुर्विज्ञानधातुर् अनित्य इति ज्ञानं । श्रोत्रधातुर् अनित्य इति ज्ञानं । शब्दधातुर् अनित्य इति ज्ञानं । श्रोत्रविज्ञानधातुर् अनित्य इति ज्ञानं । घ्राणधातुर् अनित्य इति ज्ञानं । गन्धधातुर् अनित्य इति ज्ञानं । घ्राणविज्ञानधातुर् अनित्य इति ज्ञानं । जिह्वाधातुर् अनित्य इति ज्ञानं । रसधातुर् अनित्य इति ज्ञानं । जिह्वाविज्ञानधातुर् अनित्य इति ज्ञानं । कायधातुर् अनित्य इति ज्ञानं । स्पर्शधातुर् अनित्य इति ज्ञानं । कायविज्ञानधातुर् अनित्य इति ज्ञानं । मनोधातुर् अनित्य इति धर्मधातुर् अनित्य इति ज्ञानं । मनोविज्ञानधातुर् अनित्य इति ज्ञानं । पृथिवीधातुर् अनित्य इति ज्ञानं । अब्धातुर् अनित्य इति ज्ञानं । तेजोधातुर् अनित्य इति ज्ञानं । वायुधातुर् अनित्य इति ज्ञानं । आकाशधातुर् अनित्य इति ज्ञानं । विज्ञानधातुर् अनित्य इति ज्ञानं । अविद्यानित्येति ज्ञानं । संस्कारा अनित्या इति ज्ञानं । विज्ञानम् अनित्यम् इति ज्ञानं । नामरूपम् अनित्यम् इति ज्ञानं । षडायतनम् अनित्यम् इति ज्ञानं । स्पर्शो ऽनित्य इति ज्ञानं । वेदनानित्येति ज्ञानं । तृष्णानित्येति ज्ञानं । उपादानम् अनित्यम् इति ज्ञानं । भवो ऽनित्य इति ज्ञानं । जातिर् अनित्येति ज्ञानं । जरामरणम् अनित्यम् इति ज्ञानं ।
तत्र कतमत् स ं वृत्तिज्ञानं यत् परसत्त्वानां परपुद्गलानां चेतसैव चेतोज्ञानं । तत्र कतमत् परिचयज्ञानं । यत् प्रतिपक्षज्ञानं । तत्र कतमद् यथाकतज्ञानं । यत् तथागतस्य सर्वाकारज्ञताज्ञानं । इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् उत त्रीणीन्द्रियाणि । कतमानि त्रीणि । अज्ञातमाज्ञास्यामीतीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियं । तत्र कतमद् अज्ञातमाज्ञास्यामीतीन्द्रियं । यच् छैक्षाणां पुद्गलानाम् अनभिसमिता विनामिता स ं पदविनयं श्रद्धेन्द्रियं वीर्येन्द्रयं स्मृतीन्द्रियं समाधीन्द्रियं प्राज्ञेन्द्रियम् इदम् उच्यते ऽनाज्ञातमाज्ञास्यामीतीन्द्रियं । तत्र कतमद् आज्ञेन्द्रियं । यच् छैक्षाणां पुद्गलानाम् आज्ञातवता श्रद्धेन्द्रियं वीर्येन्द्रयं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् इदम् उच्यते आज्ञेन्द्रियं । तत्र कतमद् आज्ञातावीन्द्रियं । यच् छैक्षाणां पुद्गलानाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां तथागतानां श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् इदम् उच्यते आज्ञातावीन्द्रियं । इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । तच् चानुपलम्भयोगेम ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् उत त्रयः समाधयः । कतमे त्रयः सवितर्कः सविचारः समाधिर् अवितर्को ऽविचारमात्रः समाधिर् अवितर्को ऽविचारः समाधिः । तत्र कतमः सवितर्कः सविचारः समाधिः । इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजप्रीतिसुखं प्रथमं ध्यानम् उपस ं पद्य विहरति । अयम् उच्यते सवितर्कः सविचारः समाधिः । तत्र कतमो ऽवितर्को ऽविचारमात्रः समाधिः । या प्रथमस्य ध्यानस्य द्वितीयस्य ध्यानस्यान्तरिका । अयम् उच्यते ऽवितर्को ऽविचारमात्रः समाधिः । तत्र कतमो ऽविचारः समाधिः । यत् द्वितीयं ध्यानं तृतीयं ध्यानं चतुर्थं ध्यामं आकाशानन्त्यायतनसमापत्तिः । विज्ञानानन्त्यायतनसमापत्तिर् आकिञ्चन्यायतनसमापत्तिर् नैवसंज्ञानासंज्ञायतनसमापत्तिः संज्ञावेदयितनिरोधसमापत्तिर् अयम् उच्यते अवितर्कः अविचारः समाधिः । इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् उत दशानुस्मृतयः । कतमा दश, बुद्धानुस्मृति धर्मानुस्मृतिः संघानुस्मृतिः शीलानुस्मृतिः त्यागानुस्मृतिः देवतानुस्मृतिः । आनापानुस्मृतिर् उद्वेगानुस्मृतिर् मरणानुस्मृतिः कायगतानुस्मृतिः । इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् उत चत्वारि ध्यानानि । चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः । अष्टौ विमोक्षाः । नवानुपूर्वविहारसमापत्तयः । तत्र कतमानि चत्वारि ध्यानानि । इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसपद्य विहरति । सवितर्कसविचाराणां व्युत्पन्नाद् अध्यात्मस ं प्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपस ं पद्य विहरति । स प्रीतेर् विरागाद् उपेक्षको विहरति । स्मृतिमान् स ं प्रजानन् सुखञ् च कायेन प्रतिस ं वेदयति । यत् तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी निष्प्रीतिकं तृतीयं ध्यानम् उपस ं पद्य विहरति । स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव च सौमनस्यदौर्मनस्ययोर् अस्तङ्गमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपस ं पद्य विहरति । तच् चानुपलम्भयोगेन । इमानि चत्वारि ध्यानामि । तत्र कतमानि चत्वार्य् अप्रमाणानि इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनाव्यावध्येन धर्मधातु परमे लोके आकाशधातुपर्यवसाने दश दिशः स्फुरित्वाधिमुच्योपस ं पद्य विहरति । स करुणासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनाव्यावध्येन धर्मधातुपरमे लोक आकाशधातुपर्यवसाने दश दिशः स्फुरित्वाधिमुच्योपस ं पद्य विहरति । स मुदितासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनाव्यावधेन धर्मधातुपरमे लोक आकाशधातुपर्यवसाने दश दिशः स्फुरित्वाधिमुच्योपस ं पद्य विहरति । स उपेक्षासहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनाव्यावध्येन धर्मधातुपरमे लोक आकाशधातुपर्यवसाने दश दिशः स्फुरित्वाधिमुच्योपस ं पद्य विहरति । अनुपलम्भयोगेन । इमानि चत्वार्य् अप्रमाणानि ।
कतमाश् चतस्र आरूप्यसमापत्तयः । इह सुभूते बोधिसत्त्वो महासत्तः प्रज्ञापारमितायां चरन् सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तङ्गामान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्या काशानन्त्यायतनम् उपस ं पद्य विहरति । सर्वश आकाशानन्त्यायतनसमक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपस ं पद्य विहरति । स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति । सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति । तच् चानुपलम्भयोगेन । इमाश् चतस्र आरूप्यसमापत्तयः । तत्र कतमे ऽष्टौ विमोक्षाः । रूपरूपाणि पश्यत्य् अयं प्रथमो विमोक्षाः । अध्यात्मरूपसंज्ञी बहिर्धारूपाणि पश्यत्य् अयं द्वितीयो विमोक्षाः । शून्यताया अधिमुक्तो भवत्य् अयं तृतीयो विमोक्षाः । स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपस ं पद्य विहरति । अयं चतुर्थो विमोक्षः । स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपस ं पद्य विहरति । अयं पञ्चमो विमोक्षः । स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपस ं पद्य विहरति । अयं षष्ठो विमोक्षः । स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपस ं पद्य विहरति । अयं सप्तमो विमोक्षः । स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपस ं पद्य विहरति । अयम् अष्टमो विमोक्षाः । तच् चानुपलम्भयोगेन । इमे ऽष्टौ विमोक्षाः ।
तत्र कतमा नवानुपूर्वाविहारसमापत्तयः । इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः, स वितर्कः स विचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपस ं पद्य विहरति । स वितर्कम् अविचाराणां व्युपसमाद् अध्यात्मस ं प्रसादच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपस ं पद्य विहरति । स प्रीतेर् विरागाद् उपेक्षको विहरति । स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिस ं वेदयति । यत् तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी निष्प्रीतिकं तृतीयं ध्यानम् उपस ं पद्य विहरति । स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव सौममस्यदौर्मनस्ययोर् अस्तङ्गमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपस ं पद्य विहरति । स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् अनित्याकाशानन्त्यायतनम् उपस ं पद्य विहरति । स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपस ं पद्य विहरति । स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नाकिञ्चिद् इत्य् आकिञ्चन्यायतनम् उपस ं पद्य विहरति । स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपस ं पद्य विहरति । स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपस ं पद्य विहरति । इमान् वानुपूर्वविहारसमापत्तयः ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् उत दश तथागतबलानि । कतमानि दश । इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्थानञ् च स्थानतः । अस्थानञ् चास्थानतो यथाभूतं प्रजानाति । अतीतानागतप्रत्युत्पन्नानां धर्माणां कर्मसमादानानाञ् च स्थानशो हेतुशः कर्मविपाकं यथाभूतं प्रजानाति । नानाधातुलोके ऽनेकधातुर् लोके ऽनेकधातुलोक इति । यथाभूतं प्रजानाति । परसत्वानां परपुद्गलानाम् अनेकाधिमुक्तिकानां नानाधिमुक्तिकानां यथाभूतं प्रजानाति । परसत्वानां परपुद्गलानाम् इन्द्रियपरापरज्ञतानां यथाभूतं प्रजानाति । सर्वत्र गामिनीं प्रतिपदं यथाभूतं प्रजानाति । इन्द्रियबलबोध्यङ्गध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानस्थानं यथाभूतं प्रजानाति । सो ऽनेकविधं पूर्वनिवासम् अनुस्मरति । एकम् अपि जातिम् अनुस्मरति । यावज् जातिशतम् अपि सहस्रम् अपि दशसहस्रम् अपि जातिकोटिम् अपि जातिकोटिशतम् अपि जातिकोटिसहस्रम् अपि जातिकोटिशतसहस्रम् अपि जातिकोटिनियुतशतसहस्रम् अप्य् अनुस्मरति । एकम् अपि कल्पम् अनुस्मरति । यावत् कल्पशतम् अपि कल्पसहस्रम् अपि कल्पशतसहस्रम् अपि यावद् अनेकान्य् अपि कल्पकोटिनियुतशतसहस्राण्य् अनुस्मरति । अत्राहम् आसम् एवंनामैवंगोत्र एवंजातिः । एवमाहारः एवंचिरस्थितिका एवमायुष्मन्तः । सो ऽहं ततश् च्युतः सन्न् अमुत्रोपपन्नो यावत् ततश् च्युतः इहोपन्न इति । यावत् साकारं सोद्देशं सनिर्देशम् अनेकविधं पूर्वानिवासम् अनुस्मरति । स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सत्वान् पश्यति । च्यवमानान् उत्पद्यमानान् उपपन्नान् अपि सुवर्णान् दुर्वर्णान् हीनान् प्रणीतान् सुगतान् दुर्गतान् यावद् यथाकर्मोपगान् सत्वान् प्रजानाति । अमी भवन्तः सत्वाः कायदुश्चरितेन समन्वागताः वाग्दुश्चरितेन समन्वागताः । मनोदुश्चरितेन समन्वागताः । आर्याणाम् अपवादका मिथ्यादृष्टयस् तद्धेतोस् तत्प्रत्ययं कायस्य भेदाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते । अमी पुनर् भवन्तः सत्वाः कायसुचरितेन समन्वागताः वाक्सुचरितेन समन्वागताः मनःसुचरितेन समन्वागताः । आर्याणाम् अनपवादकाः सम्यगदृष्टयस् तद्धेतोस् तत्प्रत्ययं कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते इति । आश्रवाणां क्षयाद् अनाश्रवचेतोविमुक्तिं प्रज्ञाविमुक्ति स्वयम् अभिज्ञाय साक्षाकृत्वोपस ं पद्य विहरन्ति । क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं । नापरम् इष्टम् इति प्रजानाति । इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् उत चत्वारि वैशारद्यानि । कतमानि चत्वारि । सम्यक्स ं बुद्धस्य च मे प्रतिजानतै । इमे धर्मा अनभिस ं बुद्धा इति । अत्र वत मे श्रमणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा केनचिद् वा पुनर् लोके सहधर्मेण चोदयेद् इति । निमित्तं न समनुपश्याम्य् अत्र चाहं निमित्तम् असमनुपश्यन् क्षेमं प्राप्तो विहराम्य् अभयं प्राप्तो वैशारद्यप्राप्तः । उदारम् आर्षभं स्थानं प्रजानामि । परिषद्गतः सम्यक् सिंहनादं नदामि । ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सहधर्मेण क्षीणाश्रवस्य वत मे प्रतिजानतः । इमे आश्रवाः अपरिक्षीणाः इति । अत्र वत मे श्रमणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा केनचिद् वा पुनर् लोके सहधर्मेण चोदयति । निमित्तम् एव न समनुपश्याम्य् अत्र चाहं मिमित्तम् असमनुपश्यन् क्षेमप्राप्तो विहराम्य् अभयप्राप्तो वैशारद्यप्राप्तः । उदारम् आर्षभं स्थानं प्रजानामि । परिषद्गतः सम्यक् सिंहनादं नदामि । ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सहधर्मेण । ये खलु पुनर् मयान्तरायिका धर्मा आख्याता । तान् प्रतिषेवतो नालम् अन्तरायेति नेदं स्थानं विद्यते । अत्र वत मे श्रमणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा केनचिद् वा पुनर् लोके सहधर्मेण चोदयेद् इति । निमित्तम् एव न समनुप्यश्याम्य् अत्र चाहं निमित्तम् असमनुपश्यन् क्षेमप्राप्तो विहराम्य् अभयप्राप्तो वैशारद्यप्राप्तः । उदारम् आर्षभं स्थानं प्रतिजानामि । पर्षद्गतः सम्यक् सिंहनादं नदामि । ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सहधर्मेण । याश् च मया प्रतिपद आख्याताः । आर्यनैर्याणिका नैर्वेधिकास् तत्करस्य सम्यग्दुःखक्षयाय ताः प्रतिपद्यमानो न निर्यायासम्यग्दुःखक्षयायेति नेदं स्थानं विद्यते । अत्र वत मे श्रमणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा केनचिद् वा लोके सहधर्मेण चोदयति । मिमित्तम् एव न समनुपश्याम्य् अत्र चाहं निमित्तम् असमनुपश्यन् क्षेमप्राप्तो विहराम्य् अभयप्राप्तो वैशारद्यप्राप्तः । उदारम् आर्षभं स्थानं प्रजानामि । परिषद्गतः सम्यक् सिंहनादं नदामि । ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तनीयः श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सहधर्मेण । इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं तच् चानुपलम्भयोगेम ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत चतस्रः प्रतिस ं विदः । कतमाश् चतस्रः । अर्थप्रतिस ं विद् धर्मप्रतिस ं विन् निरुक्तिप्रतिस ं बित् प्रभानप्रतिस ं वित् । इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् उताष्टादशावेणिका बुद्धधर्माः । कतमे ऽष्टादश । याञ् च रात्रिं तथागतो ऽनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुद्धो याञ् च रात्रिं स देवकं लोकं समारकं सब्रह्माकं सश्रमणब्राह्मणीं प्रजां सदेवमानुषासुरां दुःखक्षयाय गामिनो मार्गेशानुशाशिष्यानुपधिशेषे निर्वाणधातौ परिनिर्वाप्यान्यत्र अत्रान्तरा नास्ति तथागतस्य स्खलितं नास्ति चरितं नास्ति मुषितस्मृतिता नास्ति नानात्वसंज्ञा नास्त्य् असमाहितं चित्तं नास्ति अप्रतिसंख्यायोपेक्षा नास्ति छन्दपरिहानिर् नास्ति वीर्यपरिहानिर् नास्ति स्मृतिपरिहानिर् नास्ति समाधिपरिहानिर् नास्ति प्रज्ञापरिहानिर् नास्ति विमुक्तिपरिहानिर् नास्ति विमुक्तिज्ञानदर्शनपरिहानिः । सर्वं कायकर्म ज्ञानपूर्वङ्गमं ज्ञानानुपरिवर्ति । सर्वं वाक्कर्म ज्ञानपूर्वङ्गमं ज्ञानानुपपरिवर्ति । सर्वं मनःकर्म ज्ञानपूर्वङ्गमं ज्ञानानुपरिवर्ति । अतीते ऽध्वनि अप्रतिहतम् असङ्गं ज्ञानं दर्शनं प्रवर्तते । अनागते ऽध्वन्य् अप्रतिहतम् असंज्ञानदर्शनं प्रवर्तते । प्रत्युत्पन्ने ऽध्वान्य् अप्रतिहतम् असंज्ञानदर्शनं प्रवर्तते । इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । तच् चानुपलम्भयोगेन ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत धारणीमुखानि । कतमानि धारणीमुखानि । अक्षरसमता भाष्यसमता अक्षरमुखम् अक्षरप्रवेशः । तत्र कतमद् अक्षरमुखाक्षरप्रवेशः । अकारो मुखं सर्वधर्माणाम् आद्यनुत्पन्नत्वात् । रकारो मुखं सर्वधर्माणां रजोपगतत्वात् । यकारो मुखं सर्वधर्माणां परमार्थनिर्देशत्वात् । चकारो मुखं सर्वधर्माणां च्यवनोपपत्त्यनुपलब्धित्वात् । सर्वधर्मा न च्यवन्ते नोपपद्यन्ते । नकारो मुखं सर्वधर्माणां नामापगतत्वात् । नामप्रकृत्यानलब्धं न नष्टं । लकारो मुखं सर्वधर्माणां लोकोत्तीर्णत्वात् तृष्णालताहेतुप्रत्ययसमुत्सादितत्वात् । दकारो मुखं सर्वधर्माणां दान्तदमथपरिच्छिन्नत्वात् । वकारो मुखं सर्वधर्माणां बद्धनविगतत्वात् । उकारो मुखं सर्वधर्माणां उभयगतत्वात् । सकारो मुखं सर्वधर्माणां सङ्गानुपलब्धित्वात् । न सज्यते न बध्यते । वकारो मुखं सर्वधर्माणां वाच्यशेष समुच्छिन्नत्वात् । तकारो मुखं सर्वधर्माणां तथताविचलितत्वात् । यकारो मुखं सर्वधर्माणां यावद् अनुपलब्धित्वात् । स्तकारो मुखं सर्वधर्माणां स्तम्भानुपलब्धित्वात् । काकारो मुखं सर्वधर्माणां कारकानुपलब्धित्वात् । सकारो मुखं सर्वधर्माणां समतानुपलब्धित्वात् । समन्तान् न व्यतिवर्तते । मकारो मुखं सर्वधर्माणां मकारानुपलब्धिताम् उपादाय । गकारो मुखं सर्वधर्माणां गममानुपलब्धित्वात् । मकारो मुखं सर्वधर्माणां स्थानानुपलब्धित्वात् । जकारो मुखं सर्वधर्माणां जात्यनुपलब्धित्वात् । श्वकारो मुखं सर्वधर्माणां श्वासानुपलब्धित्वात् । धकारो मुखं सर्वधर्माणां धर्मधात्वनुपलब्धित्वात् । शकारो मुखं सर्वधर्माणां शमथानुपलब्धित्वात् । खकारो मुखं सर्वधर्माणां खसमतानुपलब्धित्वात् । क्षकारो मुखं सर्वधर्माणां क्षयानुपलब्धित्वात् । स्तकारो मुखं सर्वधर्माणां स्तवानुपलब्धित्वात् । ज्ञकारो मुखं सर्वधर्माणां ज्ञानानुपलब्धित्वात् । तकारो मुखं सर्वधर्माणां मासानुपलब्धित्वात् । हकारो मुखं सर्वधर्माणां हेत्वनुपलब्धित्वात् । भकारो मुखं सर्वधर्माणां भङ्गानुपलब्धितः । छकारो मुखं सर्वधर्माणां छेदनानुपलब्धितः । स्मकारो मुखं सर्वधर्माणां स्मरणानुपलब्धितः । ह्वकारो मुखं सर्वधर्माणाम् आह्वानानुपलब्ध्तः । अकारो मुखं सर्वधर्माणाम् उत्साहानुपलब्धितः । धकारो मुखं सर्वधर्माणां धनानुपलब्धितः । ठकारो मुखं सर्वधर्माणां विठयानुपलब्धितः । णकारो मुखं सर्वधर्माणां रणविगतत्वात् । न कश्चिद् गच्छति नागच्छति न तिष्ठति नानिसीदिति न शय्यं कल्पयति न विकल्पयति । लकारो मुखं सर्वधर्माणां फलानुपलब्धित्वात् । स्ककारो मुखं सर्वधर्माणां स्कन्धानुपलब्धित्वात् । प्सकारो मुखं सर्वधर्माणां प्सकारानुपलब्धित्वात् । श्चकारो मुखं सर्वधर्माणां चर्यानुपलब्धित्वात् । ढकारो मुखं सर्वधर्माणां ढकारानुपलब्धित्वात् । हकारो मुखं सर्वधर्माणां हकारानुपलब्धित्वात् । पर्यन्तनिष्ठास्यानेन च्यवन्तेनोपद्यन्ते । नास्त्य् अत उत्तर्य् अक्षरव्यवहारः । तत् कस्य हेतोस् तथा हि न कस्यचित् किञ्चिद् अन्यन् नाम व्यवह्रियते येनाभिलप्येत । येन निन्दिष्यते यल् लिख्येत दृश्येत वाच्येत । तद्यथापि नाम सुभूते आकाशम् एव सर्वधर्मा अनुगन्तव्याः । अयम् उच्यते धारणीमुखप्रवेशः । अकाराद्यक्षरनिर्देशप्रवेशः । यो हि कश्चित् सुभूते बोधिसत्त्वो महासत्त्वः इदम् अकाराद्यक्षरकौशल्यं ज्ञास्यति । स न क्वचिद् रुते संक्षति । सर्वधर्मसमताया संसाधयिष्यति । रुतज्ञानकौशल्यञ् च प्रतिलप्स्यते । यो हि कश्चित् सुभूते बोधिसत्त्वो महासत्त्वः । इदम् अकाराद्यक्षरप्रवेशमुद्राम् अकाराद्यक्षरप्रवेशमुद्रापदानि श्रोष्यति । श्रुत्वा चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति । परेभ्यश् च देशयिष्यति न य प्रतीतया बुद्ध्या तस्य विंशतिर् अनुशंसाः प्रतिकाङ्क्षितव्याः । कतमे विंशतिः । तद् उत स्मृतिमांश् च भविष्यति । मतिमांश् च बुद्धिमांश् च धृतिमांश् च ह्रीमाश् च प्रज्ञावांश् च प्रतिभानवांश् च । इदञ् च धारणीमुखम् अल्पकृच्छ्रेण प्रतिलप्स्यते । न कथं कथीभविष्यति । धिमतिश् चास्य न भविष्यति । न च परस्यान्तिकाच् छूक्षां वाचं श्रुत्वानुनेष्यते । न परुषां वाचं श्रुत्वा प्रतिहंस्यते । नोन्नतो भविष्यति नावनतः । यथास्थित एव भविष्यति । रुतकुशलश् च भविष्यति । स्कन्धकुशलश् च भविष्यति । धातुकुशलश् च भविष्यति । आयतनकुशलश् च भविष्यति । सत्यकुशलः । प्रतीत्यसमुत्पादकुशलः । हेतुकुशलः प्रत्ययकुशलः । धर्मताकुशलः । इन्द्रियपरापरज्ञानकुशलः । च्युतोपपत्तिकुशलः । दिव्यश्रोत्रज्ञानकुशलः । परचित्तज्ञानकुशलः । पूर्वनिवासानुस्मृतिज्ञानकुशलः । ऋद्धिविधिज्ञानकुशलः । आश्रवक्षयज्ञानकुशलः । स्थानास्थाननिर्देशकुशलः । अतिक्रमणकुशलः । प्रतिक्रमणकुशलः । ईर्ष्यापथकुशलः । क्षयत्राय्यकौशलञ् चानुप्राप्स्यति । इदम् अपि सुभूते धारणीमुखम् अकाराद्यक्षरप्रवेशो बोधिसत्त्वस्य महासत्त्वस्य महायानं । तच् चानुपलम्भयोगेन ॥
शतसाहस्र्यां प्रज्ञापारमितायां नवमः परिवर्तः ।
अथ दशमः परिवर्तः ।
यद् अपि सुभूतिर् एवम् आह । कथं बोधिभत्त्वो महासत्त्वो महायानसंप्रस्थितो भवतीति । इह सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् भूमेर् भूमिं संक्रामति । कथञ् च सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् भूमेर् भूमिं संक्रामति । यद् उत संक्रान्त्या सर्वधर्माणां न हि कश्चिद् धर्म आगच्छति वा गच्छति वा संक्रामति वा अपसंक्रामति वा । अपि तु या सर्वधर्माणां भूमिस् तां स न मन्यते । न चिन्तयति । न भूमिपरिकर्म च करोति । न च तां भूमिं समनुपश्यति । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य भूमिपरिकर्म । प्रथमायां सुभूते भूमौ वर्तमानेन बोधिसत्त्वेन महासत्त्वेन दशपरिकर्माणि करणीयानि । कतमानि दश । अध्याशयादिपरिकर्मानुपलम्भयोगेन हितवस्तुतापरिकर्म निमित्तानुपलब्धिताम् उपादाद्य । सर्वसत्त्वसमचित्ततापरिकर्म सत्त्वानुपलब्धिताम् उपादाय । त्यागपरिकर्म दानदायकपरिग्राहकानुपलब्धिताम् उपादाय । कल्याणमित्रसेवनापरिकर्मतैर् अमण्यताम् उपादाय । धर्मपर्येष्टिपरिकर्म सर्वधर्मानुपलब्धिताम् उपादाय । अभीक्ष्णनैष्क्रम्यपरिकर्म गृहानुपलब्धिताम् उपादाय । बुद्धकायस्पृहापरिकर्म लक्षणानुव्यञ्जननिमित्तानुपलब्धिताम् उपादाय । धर्मविवरणपरिकर्म भेदानुपलब्धिताम् उपादाय । मानस्तम्भननिर्घातनपरिकर्मम् अद्भूततानुपलबिताम् उपादाय । सत्यवचनपरिकर्म वचनानुपलब्धिताम् उपादाय । इमानि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रथमायां भूमौ वर्तमानेन दशपरिकर्माणि करणीयानि ।
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन द्वितीयायां भूमौ वर्तमानेनाष्टौ धर्मा अभीक्ष्णं मानसिकर्तव्या । तत्र च प्रतिपत्तव्यं । कतमे ऽष्टौ । यद् उत शीलपरिशुद्धिः कृतज्ञताकृतवेदिता । क्षान्तिबलप्रतिस्थानं । प्रामोद्यं । प्रीत्यनुभवनता । सर्वसत्त्वपरित्यागिता । महाकरुणाया आमुखीभावः । गुरुशुश्रूषा । श्रद्धागौरवता । पारमितासूद्योगपर्येष्टिः । इमे सुभूते बोधिसत्त्वेन महासत्त्वेन द्वितीयायां भूमौ वर्तमानेनाष्टौ धर्माः अभीक्ष्णं मनसिकर्तव्यस् तत्र च प्रतिपत्तव्यम् ।
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन तृतीयायां भूमौ वर्तमानेन पञ्चसु धर्मेषु स्थातव्य । कतमेषु पञ्चसु । यद् उत बहुश्रुत्यातृप्ततायां । तत्र चाक्षरानभिनिवेशेन निरामिडधर्मविचरणतायां । तथा चामन्यनतया बुद्धक्षेत्रे परिशोधनकुशलमूलावरोपणपरिणामनतायां । तथा चामन्यनतया अपरिमितसंसारापरिखेदतायां । तथा चामनन्यतया ह्र्यपत्राप्यस्थानतायां । तथा चामनन्यतया एषु सुभूते पञ्चसु धर्मेषु बोधिसत्त्वेन महासत्त्वेन तृतीयायां भूमौ वर्तमानेन स्थातव्यम् ।
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन च चतुर्थ्यां भूमौ वर्तमानेन दशधर्मान् समादाय वर्तितव्यं । तेन च परित्यक्तव्याः । कतमे दश । अरण्यवासं । अल्पेच्छतया सन्तुष्टिता । धुतगुणसंलेखानुवर्जनता । शिक्षाया अपरित्यागिता । कामगुणजुगुप्सनता । निर्वृते सहगतचित्तोत्पादः । सर्वसत्त्वपरित्यागिता । अनवलीनचित्तता । सर्ववस्त्वनपेक्षणता । इमे सुभूते दश धर्माः बोधिसत्त्वेन महासत्त्वेन चतुर्थ्यां भूमौ वर्तमानेम न परित्यक्तव्याः । समादाय च वर्तितव्यम् ।
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन पञ्चम्यां भूमौ वर्तमानेन षड् धर्माः परिवर्जयितव्याः । कतमे षट् यद् उत गृहिसंस्तवः परिवर्जयितव्यः । भिक्षुणीसंस्तवः । कुलमात्सर्यं । संगणिकास्थानं । आत्मोत्कर्षणता परपंसनता । इमे षट् धर्माः परिवर्जयितव्याः । पुनर् अष्टादश धर्माः परिवर्जयितव्याः । यद् उत दशाकुशलाः कर्मपथाः परिवर्जयितव्याः । मानस्तम्भविपर्यासा, विचिकित्सा, रागद्वेषमोहाधिवासनता, इमे ऽष्टादश धर्मा बोधिसत्त्वेन महासत्त्वेन पञ्चम्यां भूमौ वर्तमानेन परिवर्जयितव्याः ।
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षष्ठ्यां भूमौ वर्तमानेन षड् धर्माः परिपूरयितव्याः । यद् उत षट्पारमिताः । अपरे षड् धर्माः परिवर्जयितव्याः । कतमे षट्श्रावकचित्तं परिवर्जयितव्यं । प्रत्येकबुद्धचित्तं परिवर्जयितव्यं । परितर्षणचित्तं परिवर्जयितव्यं । याचनकं दृष्ट्वानवलीनपरिवर्जयितव्यं । नावलीयितव्यं । सर्ववस्तुनि परित्यज्य दुर्मनस्कतापरिवर्जयितव्याः । स दुर्मनस्केन भवितव्यं । याचनकं दृष्ट्वा विक्षेपचित्तं परिवर्जयितव्यं । न याचनकं विक्षेपः कर्तव्यः । इमे सुभूते बोधिसत्त्वेन महासत्त्वेन षष्ठ्यां भूमौ वर्तमानेन षड् धर्माः परिवर्जयितव्याः ।
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन सप्तम्यां भूमौ वर्तमानेन विंशति धर्मा न कर्तव्याः । कतमे विंशतिः । यद् उत आत्मग्राहो न कर्तव्यः । सत्यग्राहो न कर्तव्यः । जीवग्राहो न कर्तव्यः । पुद्गलग्राहो न कर्तव्यः । उच्छेदग्राहो न कर्तव्यः । शाश्वतग्राहो न कर्तव्यः । निमित्तसंज्ञा न कर्तव्या । हेतुदृष्टिः स्कन्धाभिनिवेशो धात्वभिनिवेशः । आयतनाभिनिवेशः । त्रैधातुकाभिनिवेशः । त्रैधातुकाध्यवसानं । त्रैधातुकालयः । बुद्धनिश्रयदृष्ट्यभिनिवेशः धर्मनिश्रयदृष्ट्यभिनिवेशः । संघनिश्रयदृष्ट्यभिनिवेशः । शीलनिश्रयदृष्ट्यभिनिवेशः । शून्या धर्मा इति विषादः । शून्या निरोधाश् च । इमे सुभूते विंशतिर् धर्मा न कर्तव्याः । तेन विंशतिर् एव धर्माः परिपूरयितव्याः । कतमे विंशतिः । यद् उत शून्यताप्रतिषेधः । आनिमित्तसाक्षात्क्रिया । अप्रणिहितज्ञानं । त्रिमण्डलपरिशुद्धिः । कृपाकारुण्यतासर्वसत्त्वेषु । ते च सत्त्वा नावमन्तव्याः । सर्वधर्मसमतादर्शनं । तत्र चानभिनिवेशः । भूतनयप्रतिवेधः । तेन चामनता । अनुत्पादक्षान्तिः । अनुत्पादज्ञानं । एकनयनिर्देशः । सर्वधर्माणां कल्पनासमुद्घातः । संज्ञाविवर्तः । दृष्टिविवर्तः । क्लेशविवर्तः । शमत्वपरिपश्यनाभूतिः । दान्तचित्तता । अप्रतिहतज्ञानता । अनूनता । अवसरज्ञता । यत्रेच्छाक्षेत्रगमनता । इमे सुभूते बोधिसत्त्वेन महासत्त्वेन सप्तम्यां भूमौ वर्तमानेन विंशति धर्माः परिपूरयितव्याः ।
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेनाष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः । कतमे चत्वारः । यद् उत सर्वसत्त्वचित्तानुप्रवेशः । अभिज्ञाविक्रीडनता । बुद्धक्षेत्रदर्शनता । तेषां बुद्धक्षेत्राणां यथा दृष्टानां परिनिष्पादनता । बुद्धपर्युपासनता । बुद्धकाययथाभूतप्रत्यवेक्षणता । इमे सुभूते चत्वारो धर्हाः परिपूरयितव्याः । पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेनाष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितयाः । यद् उतेन्द्रियपरापरज्ञानता । बुद्धक्षेत्रपरिशोधनता । मायोपमसमाधेर् अभीक्ष्णसमापद्यनता । यथा यथा सत्त्वानां कुशलमूलानि परिनिष्पद्यन्त । तथा तथात्मभावपरिनिष्पादनता । संचिन्त्यभवोपादानता । इमे सुभूते बोधिसत्त्वेन महासत्त्वेनाष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः ।
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयितव्याः । कतमे द्वादश । यद् उत अनन्तप्रणिधानपरिग्रहः । स यथायथा प्रणिदधाति तथातथास्य समृध्यति । देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगरुतज्ञानं । परिपूर्णप्रणिधाननिर्देशज्ञामं । गर्भविक्रान्तिसंपत् । गोत्रस ं पत् । परिवारस ं पत् । जन्मस ं पत् । बोधिवृक्षव्यूहस ं पत् । सर्वगुणपरिपूरिस ं पत् । इमे सुभूते बोधिसत्त्वेन महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयितव्याः ।
दशम्यां पुनः सुभूते भूमौ वर्तमाने बोधिसत्त्वो न महासत्त्वस् तथागत एव वक्तव्यः । एवम् उक्त आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् । कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्याध्याशयादिपरिकर्म । भगवान् आह । यः सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः कुशलमूलानि समुदानयति । इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्याध्याशयादिपरिकर्म । तत्र कतमद् बोधित्त्वस्य महासत्त्वस्य सर्वसत्त्वसमचित्ततापरिकर्म । सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् च आर्यप्रमाणान्य् अभिनिर्हरति । मैत्रीकरुणामुदितोपेक्षम् इदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वसमचित्ततापरिकर्म । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य त्यागपरिकर्म । यत् सर्वसत्त्वेभ्यो ऽविकल्पतं तद् दानं ददातीदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य त्यागपरिकर्म । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रसेवनापरिकर्म । यद् उत तानि बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यान्य् एव सर्वाकारज्ञतायां समादापयन्ति । निवेशयन्ति । प्रतिष्ठापयन्ति । तेषां कल्याणमित्राणां या सेवना भजना पर्युपासना गुरुशुश्रूषणता । इयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रसेवनापरिकर्म । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य धर्मपर्येष्टिपरिकर्म । यत् सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् धर्मं पर्येषते । न श्रावकप्रत्येकबुद्धभूमौ पततीदं बोधिसत्त्वस्य महासत्त्वस्य धर्मपर्येष्टिपरिकर्म । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्याभीक्ष्णं नैष्क्रम्यपरिकर्म । यत् सर्वसत्त्वजाताव् अव्यवकीर्णो निष्क्रमति । तथागतशासने प्रव्रजति । न चास्य कश्चिद् अन्तरायं करोतीदं बोधिसत्त्वस्य महासत्त्वस्याभीक्ष्णं नैष्क्रम्यपरिकर्म । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य बुद्धकायस्पृहापरिकर्म । यद् बुद्धविग्रहं दृष्ट्वा न कदाचिद् बुद्धमनसिकारेण विरहितो भवति यावत् सर्वकारज्ञताम् अनुप्राप्नोतीदं बोधिसत्त्वस्य महासत्त्वस्य बुद्धकायस्पृहापरिकर्म । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य धर्मविवरणपरिकर्म । यद् बोधिसत्त्वो महासत्त्वः संमुखीभूततथागतपरिनिर्वृत्तं सत्त्वेभ्यो धर्मं देशयति । आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं स ं प्रकाशयति । यद् उत सूत्रं गेयं व्याकरणं गाथोदाननिदानेत्युक्तकजातकवैपुल्याद्भुतधर्मावदानोपदेशाद् इदं बोधिसत्त्वस्य महासत्त्वस्य धर्मविवरणपरिकर्म । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य मानस्तम्भनिर्घातनपरिकर्म । येन मानस्तम्भनिर्घातेन न जातु नीचकुलेषूपपद्यते । इदं बोधिसत्त्वस्य महासत्त्वस्य मानस्तम्भनिर्घातनपरिकर्म । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सत्यवचनपरिकर्म । यद् उत यथा वादिता तथा कारिता । इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य सत्यवचनपरिकर्म । इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमायां भूमौ वर्तमानस्य दश परिकर्माणि । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य शीलपरिशुद्धिः । यद् उत श्रावकप्रत्येकबुद्धचित्तानाम् अमनसिकारः । ये ऽपि तद् अन्यदौःशील्यकराः । बोधिपरिपन्थकराः धर्माः तेषाम् अप्य् अमनसिकारः । इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपरिशुद्धिः । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कृतज्ञता कृतकारिता । यद् बोधिसत्त्वो महासत्त्वो बोधिसत्वचर्यां चरन्न् अन्यम् अपि कृतम् ई संसारान् न नासयति । प्राग् एव इयं बोधिसत्त्वस्य महासत्त्वस्य कृतज्ञता कृतकारिता । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिबलप्रतिष्ठानं । यत् सर्वसत्त्वानाम् अन्तिके व्यापाद अविहिंसाचिन्तता । इडं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिबलप्रतिष्ठानं । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य प्रामोद्यप्रीत्यनुभवनता । यद् उत सर्वसत्त्वपरिपाचनता त्रिषु यानेषु । इयं बोधिसत्त्वस्य महासत्त्वस्य प्रामोद्यप्रीत्यनुभवनता । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वापरित्यागिता । यद् उत सर्वसत्त्वानां परित्राणता । इदं बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्यापरित्यागिता । तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य महाकरुणया आमुखीभावः । यद् बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचारिकाञ् चरत एवं भवति । एकैकस्याहं सत्त्वस्यार्थाय गङ्गानदीवालुकोपमान् कल्पान् निरयेषु वसन् तत्र छेदनभेदनकुण्डनस्नेदनपचनान्य् अनुभवेयं यावन् न सत्त्वा बुद्धज्ञानप्रतिष्ठापिता भवेत् । एवं यावत् सर्वसत्त्वानां कृते यात्य् उत्सहनता अपरिखेदः । अयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य महाकरुणाया आमुखीभावः । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गुरुशुश्रूषाश्रद्धागौरवता । यद् उत गुरुणाम् अन्तिके शास्तृसंज्ञा । इयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य गुरुशुश्रूषाश्रद्धागौरवता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य पारमितासूद्योगपर्येष्टिः । यद् उतानन्यकृतकर्मतया पारमितानां पर्येषणता सर्वसत्त्वपरिपाचनतायै । इयं बोधिसत्त्वस्य महासत्त्वस्य पारमितासूद्योगपर्येष्टिः । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बहुश्रुत्यातृप्तता । यत् किञ्चिद् बुद्धैर् भगवद्भिर् भाषितम् इह लोकधातौ समन्ताद् दशसु दिक्षु लोकधातुषु तत् सर्वम् आधारयिष्यामीति यात्य् अतृप्तता । इयं बोधिसत्त्वस्य महासत्त्वस्य बहुश्रुत्यातृप्तता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य निरामिषधर्मदानविवरणता । यद् बोधिसत्त्वो महासत्त्वो धर्मं देशयस् तेन धर्मदानेनान्तशो बोधिम् अपि न प्रतिकाङ्क्षति । इयं बोधिसत्त्वस्य महासत्त्वस्य निरामिषधर्मदानविवरणता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपारिशोधनकुशलमूलावरोपणता । यैः कुशलमूलैर् बुद्धक्षेत्रं परिशोधयन् नामपरचित्तक्षेत्रं परिशोधयति । तेषां कुशल्मूलानां परिणामना । इयं बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनकुशलमूलावरोपणपरिणामगता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यापरिमितसंसारापरिखेदनता । यद् उत कुशलमूलोपस्तम्भनतायै कुशलमूलैर् उपस्तब्धः सत्त्वांश् च परिपाचयति । बुद्धक्षेत्रञ् च परिशोधयति । न च कदाचित् खेदनोपपद्यते । यावत् सर्वकारज्ञतां परिपूरयति । इयं बोधिसत्त्वस्य महासत्त्वस्यापरिमितसंसारापरिखेदनता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य ह्र्यपत्राप्यस्थामं । यद् उत श्रावकप्रत्येकबुद्धचित्तजुगुप्सनता । इदं बोधिसत्त्वस्य महासत्त्वस्य ह्र्यपत्राप्यस्थानं । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यारण्यवासापरित्यागिता । या
श्रावकप्रत्येकबुद्धभूमेर् अतिक्रमणता । इयं बोधिसत्त्वस्य महासत्त्वस्यारण्यवासापरित्यागिता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्याल्पेच्छता । यद् बोधिसत्त्वो महासत्त्वो बोधिम् अपि नेच्छतीतीयं बोधिसत्त्वस्य महासत्त्वस्याल्पेच्छता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सन्तुष्टिता । यत् सर्वाकारज्ञता प्रतिलम्भेनापि न लभ्यते । इयं बोधिसत्त्वस्य महासत्त्वस्य सन्तुष्टिता । कतमा बोधिसत्त्वस्य महासत्वस्य धुतगुणसंलेखे ऽनुवर्तनता । यद् उत गम्भीरेषु धर्मेषु निर्याणक्षान्तिर् इयं बोधिसत्त्वस्य महासत्त्वस्य धुतगुणसंलेखानुवर्तनता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य शिक्षाया अपरित्यागिता । यत्र सर्वशिक्षाणाम् अप्रचारः । इयं बोधिसत्त्वस्य महासत्त्वस्य शिक्षाया
अपरित्यागिता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कामगुणजुगुप्सनता । कामचित्तस्यानुत्पादः । इयं बोधिसत्त्वस्य महासत्त्वस्य कामगुणजुगुप्सनता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य निवृत्तिसहगतश् चित्तोत्पादः । यद् उत सर्वधर्माणाम् अनभिसंस्कारः । अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य निवृत्तिसहगतश् चित्तोत्पादः । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्वस्वपरित्यागिता । या ध्यात्मिकवाहानां धर्माणाम् अग्रहणता । इयं बोधिसत्त्वस्य महासत्त्वस्य सर्वस्वपरित्यागिता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यावलीनचित्तता । यद् विज्ञानच्चितिस् तस्य चित्तं न तिष्ठति । इयं बोधिसत्त्वस्य महासत्त्वस्यावलीनचित्तता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्ववस्तुनिरपेक्षता । यः सर्ववस्तूनाम् अमनसिकारः । इयं बोधिसत्त्वस्य महासत्त्वस्य सर्ववस्तुनिरपेक्षता । तत्र कतमा बोधित्त्वस्य महासत्त्वस्य गृहसंस्तवपरिवर्जनता । यद् उत बुद्धक्षेत्रेण बुद्धक्षेत्रसंक्रमणता । उपपादुकता । प्रादुर्भावमण्डका वायुप्रावरणता । इयं बोधिसत्त्वस्य महासत्त्वस्य गृहिसंस्तवपरिवर्जनता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य भिक्षुणीसंस्तवपरिवर्जनता । यद् भिक्षुण्या सार्धम् अच्छसंघातमात्रं न तिष्ठति । न च तन्निदानं परितर्षणाचित्तम् उत्पादयति । स च तन्निदानं चीवरम् उपादयति । इयं बोधिसत्त्वस्य महासयस्य भिक्षुणीसंस्तवपरिवर्जनता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कुलेषु मात्सर्यपरिवर्जनता । इह सुभूते बोधिसत्त्वेन महासत्त्वेनैकचित्तम् उत्पादयितव्यम् । तन् मया सर्वसत्त्वानां सुखोपधानं कर्तव्यम् । तद् एते सत्त्वाः स्वपुण्यैर् एव सुखिता नात्र मया मात्सर्यचित्तम् उत्पाद्यम् । एवं बोधिसत्त्वेन महासत्त्वेन कुलमात्सर्यं परिवर्जयितव्यम् । तत्र कथं बोधिसत्त्वेन महासत्त्वेन संगणिकास्थानं परिवर्जयितव्यम् । यत्र बोधिसत्त्वस्य महासत्त्वस्य संगणिकास्थानस्थितस्य श्रावकप्रत्येकबुद्धा भवेयुः । तत् प्रतिसंयुक्ताः कया भवेयुः । तत् प्रतिसंयुक्तावादचित्तोत्पादा उत्पद्येरम् । तत्र बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् । इयं बोधिसत्त्वस्य महासत्वस्य संगणिस्थानपरिवर्जनता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्योत्कर्षणपरिवर्जनता । तत्र कथं बोधिसत्त्वेन महासत्त्वेन व्यापादः परिवर्जयितव्यः । यद् व्यापादविचिकित्साचित्तानाम् अवकाशं न ददाति । कलहचित्तस्य विग्रहचित्तस्य वावकाशं न ददातीतीयं बोधिसत्त्वस्य महासत्त्वस्य व्यापादपरिवर्जनता । या आत्मिकानां धर्माणाम् असमनुपश्यनता । इयं बोधिसत्त्वस्य महासत्त्वस्योत्कर्षणपरिवर्जनता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य परपंसनापरिवर्जनता । यद् उत बाह्यानां धर्माणाम् असमनुपश्यनता । इतीयं बोधिसत्त्वस्य महासत्त्वस्य परपंसनतापरिवर्जनता । तत्र कथं बोधिसत्त्वेन महासत्त्वेन दशाकुशलाः कर्मपथाः परिवर्जयितव्याः । तथा ह्य् एते सुगतेर् अप्य् अन्तरायकराः प्राग् एवार्यमार्गस्य प्राग् एवानुत्तरायां स ं बोधेः । एवं बोधिसत्त्वेन महासत्त्वेन दशाकुशलाः कर्मपथाः परिवर्जयितव्या । तत्र कथं बोधिसत्त्वेन महासत्त्वेनाधिमानः परिवर्जयितव्यः । समं समनुपश्यति कुतः पुनर् अधिकं येनाधिमन्येत एवम् अधिमानः परिवर्जयितव्यः । तत्र कथं बोधिसत्त्वेन महासत्त्वेन स्तम्भः परिवर्जयितव्यः । तथा हि स तद् वस्तु न समनुपश्यति । यत्रास्य स्तम्भ उत्पद्येत । एव बोधिसत्त्वेन महासत्त्वेन स्तम्भः परिवर्जयितव्यः । तत्र कथं बोधिसत्त्वेन महासत्त्वेन विपर्यासाः परिवर्जयितव्याः । वस्त्वनुपलब्धिताम् उपादाय । एवं बोधिसत्त्वेन महासत्त्वेन विपर्यासाः परिवर्जयितव्याः । तत्र कथं बोधिसत्त्वेन महासत्त्वेन रागद्वेषमोहानाधिवासयितव्याः । तथा हि सरागद्वेषमोहानां वस्तु न समनुपश्यति । एवं बोधिसत्त्वेन महासत्त्वेन रागद्वेषमोहानाधिवासयितव्याः ।
तत्र कतमे षष्ठ्यां भूमौ षट् धर्माः परिपूरयितव्याः । यद् उत षट्पारमिताः । दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता, परिपूरयितव्याः । तथा ह्य् आसु षट्सु पारमितासु, स्थित्वा बुद्धा भगवन्तः श्रावकप्रत्येकबुद्धाश् च पञ्चविधस्य ज्ञेयार्णवस्य पारङ्गता गच्छन्ति गमिष्यन्ति च । कतमस्य पञ्चविधस्य । यद् उतातीतस्यानागतस्य प्रत्युत्पन्नस्यावक्तव्यस्यासंस्कृतस्य । एवं बोधिसत्त्वेन महासत्त्वेन षट् धर्माः परिपूरयितव्याः । तत्र कथं बोधिसत्त्वेन महासत्त्वेन श्रावकचित्तं परिवर्जयितव्यम् । तथा हि नैष मार्गो बोधये । प्रत्येकबुद्धचित्तं परिवर्जयितव्यम् । तथा हि नैष मार्गो बोधये । परितर्षणचित्तं नोत्पादयितव्यम् । तथा हि नैष मार्गो बोधये । याचनकं दृष्ट्वा बोधये । नावलीनचित्तम् उत्पादयितव्यम् । तत् कस्य हेतोस् तथा हि नैष मार्गो बोधये । सर्ववस्तुनि परित्ज्यज्यता । न दुर्मनस्केन भवितव्यम् । तत् कस्य हेतोस् तथा हि । नैष मार्गो बोधये । प्रथमचित्तोत्पादम् उपादाय । नित्यं दानं दातव्यम् । न सक्तचित्ते न भवितव्यम् । तत्र कथं बोधिसत्त्वेन महासत्त्वेनात्मग्रहो न कर्तव्यः । तथा हि अत्यन्ततया आत्मा न संविद्यते । जीवग्रहो न कर्तव्यः । तथा ह्य् अत्यन्ततया जीवो न संविद्यते । पुद्गलग्रहो न कर्तव्यस् तथा ह्य् अत्यन्ततया पुद्गलो न विद्यते । तत्र कथं बोधिसत्त्वेन महासत्त्वेन नोच्छेदग्रहो न कर्तव्यः तथा हि न कश्चिद् धर्म उच्छिद्यते ऽत्यन्तानुपलम्भात् सर्वधर्माणां । तत्र कथं बोधिसत्त्वेन महासत्त्वेन शाश्वतग्रहो न कर्तव्यः । तत् कस्य हेतोस् तथा हि धर्मा नोत्पद्यन्ते न शाश्वतो भवति नोच्छेदः । तत्र कथं बोधिसत्त्वेन महासत्त्वेन निमित्तसंज्ञा न कर्तव्या । तथा ह्य् अत्यन्ततया संक्लेशो न संविद्यते । तत्र कथं बोधिसत्त्वेन महासत्त्वेन हेतुदृष्टिर् न कर्तव्या । तथा हि तां दृष्टिं न समनुपश्यति । तत्र कथं बोधिसत्त्वेन महासत्त्वेन नामरूपाभिनिवेशो न कर्तव्यः । तथा हि स तद् वस्तु न समनुपश्यति । तत्र कथ बोधिसत्त्वेन महासत्त्वेन स्कन्धाभिनिवेशो न कर्तव्यः । तथा ह्य् अत्यन्ततया स्कन्धो न संविद्यते । एवं स्कन्धाभिनिवेशो न कर्त्व्यः । तत्र कथं बोधिसत्त्वेन महासत्त्वेन धात्वभिनिवेशो न कर्तव्यः । तथा ह्य् अत्यन्ततया धातवो न संविद्यन्ते । एवं धात्वभिनिवेशो न कर्तव्यः । तत्र कथं बोधिसत्त्वेन महासत्त्वेनायतनाभिनिवेशो न कर्तव्यः । तथा ह्य् अत्यन्ततया आयतनानि न संविद्यन्ते । एवम् आयतनाभिनिवेशो न कर्तव्यः । तत्र कथं बोधिसत्त्वेम महासत्त्वेन त्रैधातुकाभिनिवेशो न कर्तव्यः । तथा ह्य् अस्य स्वभावेन संविद्यते । एवं बोधिसत्त्वेन महासत्त्वेन त्रैधातुकाभिनिवेशो न कर्तव्यः । तत्र कथं बोधिसत्त्वेन महासत्त्वेन त्रैधातुकाध्यवसानं न कर्तव्यम् । तथा हि तद् वस्तु न संविद्यते नोपलभ्यते । एवं बोधिसत्त्वेन महासत्त्वेन त्रैधातुकाध्यवसानं न कर्तव्यम् । तत्र कथं बोहिसत्त्वेन महासत्त्वेन त्रैधातुकालयो न कर्तव्यः । तथा हि तस्य वस्तु न संविद्यते एवं त्रैधातुकालयो न कर्तव्यः । तत्र कथं बोधिसत्त्वेन महासत्त्वेन त्रैधातुकनिश्रयो न कर्तव्यः । तथा हि तस्य तद् वस्तु न संविद्यते । एवं बोधिसत्त्वेन महासत्त्वेन त्रैधातुकनिश्रयो न कर्तव्यः । तत्र कथं बोधिसत्त्वेन महासत्त्वेन बुद्धनिश्रयदृष्ट्यभिनिवेशो न कर्तव्यः । तथा हि न बुद्धदृष्टिनिश्रयो बुद्धदर्शनम् । एवं बोधिसत्त्वेन महासत्त्वेन बुद्धनिश्रयदृष्ट्यभिनिवेशो न कर्तव्यः । तत्र कथं बोधिसत्त्वेन महासत्त्वेन धर्मनिश्रयदृष्ट्यभिनिवेशो न कर्तव्यः । तथा हि न धर्मदृष्टिनिश्रयाद् धर्मदर्शनम् । एवं बोधिसत्त्वेन महासत्त्वेन धर्ममिश्रयदृष्ट्यभिनिवेशो न कर्तव्यः । तत्र कथं बोधिसत्त्वेन महासत्त्वेन सङ्घनिश्रयदृष्ट्यभिनिवेशो न कर्तव्यः । तथा हि न सङ्घदृष्टिनिश्रयात् सङ्घदर्शनम् । एवं बोधिसत्त्वेन महासत्त्वेन सङ्घनिश्रयदृष्ट्यभिनिवेशो न कर्तव्यः । तत्र कथं बोधिसत्त्वेन महासत्त्वेन शीलनिश्रयदृष्ट्यभिनिवेशो न कर्तव्यः । तथा हि न शीलदृष्टिनिश्रयाच् छीलपरिशुद्धिर् एवं बोधिसत्त्वेन महासत्त्वेन शीलनिश्रयदृष्ट्यभिनिवेशो न कर्तव्यः । तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्या धर्मा इति विषादो न कर्तव्यः । तथा हि सर्वधर्मा स्वलक्षणेन शून्याः न शून्यतया । एवं बोधिसत्त्वेन महासत्त्वेन शून्यतायां विषादो न कर्तव्यः । तत्र कथं बोधिसत्त्वेन महासत्त्वेनावरोधयितव्या । तथा हि सर्वधर्माः शून्या न शून्यताशून्यतां विरोधयति । एवं बोधिसत्त्वेन महासत्त्वेन शून्यता न विरोधयितव्या । तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्यता परिपूरयितव्या । स्वलक्षणशून्यता परिपूरिर् बोधिसत्त्वस्य महासत्त्वस्य शून्यता परिपूरिः । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यानिमित्तसाक्षात्क्रिया । यद् उत सर्वनिमित्तानाम् अमनसिकारः । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्याप्रणिहितज्ञानं यत् स त्रैधातुकचित्तं न प्रवर्तते । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः । यद् उत दश कुशलकर्मपथपरिपूरिः । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सत्त्वेषु कृपाकरुणतापरिपूरिः । यद् उत महाकरुणाप्रतिलम्भः । तत्र कथं बोधिसत्त्वेन महासत्त्वेन सत्त्वा नावगन्तव्याः । यद् उत मैत्रीपरिपूर्या । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्माणां समतादर्शनम् । यद् उतानुक्षेपो प्रक्षयः । सर्वधर्माणां । तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य भूतनयप्रतिवेधः । यः सर्वधर्माणाम् एकनयप्रतिवेधः । अप्रतिवेधः । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यानुत्पादक्षान्तिः । या सर्वधर्माणाम् अनुत्पादायानिरोधयो ऽनभिसंस्काराय क्षान्तिः । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्यानुत्पादज्ञानं । यन् नामरूपानुत्पादज्ञानं । इदं बोधिसत्त्वस्य महासत्त्वस्यानुत्पादज्ञानं । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यैकनयनिर्देशः । यया असमुदाचारता । अयं बोधिसत्त्वस्य महासत्त्वस्यैकनयनिर्देशः । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कल्यतासमुद्घातः । या सर्वधर्माणाम् अविकल्पनता । तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य दृष्टिविवर्तः । या श्रावकभूमेः प्रत्येकबुद्धभूमेश् च दृष्टिविवर्तनता । तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य क्लेशविवर्तः । यः सर्ववासनानुसन्धिक्लेशक्षयः । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य शमथविपश्यनाभूमिः । यद् उत सर्वाकारज्ञताज्ञानं । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य दान्तचित्तता ।
यन् न त्रैधातुकैर् अतिविन्दति । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य शान्तचित्तता । या षण्णाम् इन्द्रियाणां प्रतिसंहरणता । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्याप्रतिहतज्ञानं । यद् उत बुद्धचक्षुः प्रतिलम्भः । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यानूनया च सर्वज्ञतया षड् आयतनापेक्षा । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य यत्रेच्छाक्षेत्रगमनं । यत्र तत्र पर्षन्मण्डल आत्मभावदर्शनं । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वचित्तानुप्रवेशः । यद् एकचित्तेन सर्वसत्त्वानां चित्तचैतसिकानि प्रतिजानाति । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडता । याभिर् अभिज्ञाभिर् विक्रीडन् बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामति । बुद्धदर्शनाय न चास्य बुद्धसंज्ञा भवति । तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रदर्शनं । यद् एकस्मिन्न् एव बुद्धक्षेत्रे स्थित्वापरिमाणानि बुद्धक्षेत्राणि पश्यति । न चास्य बुद्धक्षेत्रसंज्ञा भवति । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य
यथादृष्टिबुद्धक्षेत्रपरिनिष्पादनता । यस् त्रिसाहस्रमहासाहस्रलोकधात्वीश्वरचक्रवर्तिभूमौ स्थित्वा त्रिसाहस्रमहासाहस्रलोकधातोः परित्यजनं तेन चासनता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धपर्युपासनता । या धर्मपर्युपासनता सर्वसत्त्वानुग्रहं प्रति । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धकाययथाभूतप्रत्यवेक्षणता । या धर्मकाययथाभूतप्रत्यवेक्षणता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्येन्द्रियपरापरज्ञानता । या दश कुशलेषु स्थित्वा सर्वसत्त्वानाम् इन्द्रियपरिपूरिप्रजाननता । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनता । या सत्त्वचित्तपरिशोधनतानुपलम्भयोगेन । तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य मायोपमः समाधिः । यत्र समाधौ स्थित्वा बोधिसत्त्वो महासत्त्वः सर्वाः क्रियाः करोति । न चास्य चित्तं क्वचिद् धर्मे प्रवर्तते । तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्याभीक्ष्णं समापद्यनता । यद् बोधिसत्त्वस्य महासत्त्वस्य विपाकजः समाधिः । तत्र कथं बोधिसत्त्वो महासत्त्वो यथायथा संज्ञानां कुशलमूलपरिनिष्पत्तिर् भवति । तथातथात्मभावं परिनिष्पादयति । इह बोधिसत्त्वो महासत्त्वः सञ्चिन्त्यात्मभावं परिगृह्णाति । यथायथा सत्त्वपरिपाको भवति । तत्र कथं बोधिसत्त्वो महासत्त्वः सञ्चिन्त्यात्मभावम् उपादत्ते । यद् उत सर्वसत्त्वपरिपाकः । तत्र कथं बोधिसत्त्वो महासत्त्वो यथायथा प्रणिदधाति । तथातथास्य समृध्यति । इदं बोधिसत्त्वो महासत्त्वः षण्णां पारमितानां परिपूर्णत्वाद् यथायथा प्रणिदधाति तथातथा समृध्यति ।
तत्र कथं बोधिसत्वो महासत्त्वो देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगरुतज्ञानं प्रतिविध्यति । यद् उत निरुक्तिप्रतिसंविदा । तत्र कथं बोधिसत्त्वो महासत्त्वः परिपूर्णप्रतिभानिर्देशज्ञानं प्रतिविध्यति । यद् उत प्रतिभानसंविदा । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गर्भावक्रान्तिसंपत् । इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वासु जातिषूपपादुक उपपद्यते । इह बोधिसत्त्वस्य महासत्त्वस्य गर्भावक्रान्तिसंपत् । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कुलस ं पत् । यद् बोधिसत्त्वो महासत्त्वो महाकुलेषु प्रत्याजायते । इयं बोधिसत्त्वस्य महासत्त्वस्य कुलस ं पत् । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य जातिस ं पत् । यद् बोधिसत्त्वो महासत्त्वः क्षत्रियमहासालकुलेषु वा ब्राह्मणमहासालकुलेषु वा प्रत्याजायते । इयं बोधिसत्त्वस्य महासत्त्वस्य जातिस ं पत् । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गोत्रस ं पत् । यद् बोधिसत्त्वो महासत्त्वो यतो गोत्रात् पौर्वका बोधिसत्त्वो अभूवन् । तत्र गोत्रे प्रत्याजायते । इयं बोधिसत्त्वस्य महासत्त्वस्य गोत्रस ं पत् । तत्र कतमा बोधिसत्त्वस्य माहसत्त्वस्य परिचारस ं पत् । यद् बोधिसत्त्वो महासत्त्वो बोधौ सत्त्वान् प्रतिष्ठाप्य बोधिसत्त्वपरिचार एव भवति । इयं बोधिसत्त्वस्य महासत्त्वस्य परिचारस ं पत् । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य जन्मस ं पत् । यद् बोधिसत्त्वो महासत्त्वो जातमात्र एवासंख्येयलोकधातून् अवभासेन स्फुरति । तांश् च षड् विकारं प्रकम्पयति । इयं बोधिसत्त्वस्य महासत्त्वस्य जन्मस ं पत् । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्याभिनिष्क्रमणस ं पत् । यद् बोधिसत्त्वो महासत्त्वः प्रव्रज्यायै निष्क्रामति । अनेकैः सत्त्वकोटीनियुतशतसहस्रैः सार्धं ते च सत्त्वा नियता भवन्ति । त्रिषु यानेषु । इयं बोधिसत्त्वस्य महासत्त्वस्याभिनिष्क्रमणस ं पत् । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षव्यूहस ं पत् । यद् बोधिसत्त्वो महासत्त्वो बोधिवृक्षमूलं सुवर्णमयं भवति । स्कन्धो वैदूर्यमयः । सप्तरत्नमय्यः शाखाः सर्वरत्नमयानि पत्रपुष्पाणि यस्य वृक्षस्य पुण्यो गन्धो ऽवभासाश् चानन्तालोकधातून् स्फुरति । इमं बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षव्यूहस ं पत् । तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्वगुणपरिपूरिस ं पत् । या बोधिसत्त्वस्य महासत्त्वस्य सत्त्वपरिपाकविशुद्धिश् च बुद्धक्षेत्रपरिशुद्धिश् च । इयं बोधिसत्त्वस्य महासत्त्वस्य सर्वगुणपरिपूरिस ं पत् । तत्र कथं बोधिसत्त्वो महासत्त्वो दशम्यां भूमौ स्थितस् तथागत एव वक्तव्यः । यस्य बोधिसत्त्वस्य महासत्त्वस्य सर्वपारमिताः परिपूर्णां भवन्ति । दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिस ं विदः । अष्टादशावेणिका बुद्धधर्माः । सर्वाकारज्ञताज्ञानं सर्ववासनानुसन्धिक्लेशप्रहाणं । महाकरुणा । सर्वबुद्धधर्माश् च परिपूर्णा भवन्ति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दशम्यां भूमौ स्थितस् तथागत एव वक्तव्यः । तत्र कतमा सुभूते बोधिसत्त्वस्य महासत्त्वस्य दश भूमयः । इह सुभूते बोधिसत्त्वो महासत्त्व उपायकौशलेन दानपारमितायां चरन् शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन् प्रज्ञापारमितायां चरन् । अध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन् अध्यात्मबहिर्धाशून्यतायां चरन् शून्यताशून्यतायां चरन् महाशून्यतायां चरन् पर्मार्थशून्यतायां चरन् संस्कृतशून्यतायां चरन् असंस्कृतशून्यतायां चरन् अत्यन्तशून्यतायां चरन् अनवराग्रशून्यतायां चरन् अनवकारशून्यतायां चरन् प्रकृतिशून्यतायां चरन् सर्वधर्मशून्यतायां चरन् स्वलक्षणशून्यतायां चरन् अनुपलम्भशून्यतायां चरन् अभावशून्यतायां चरन् स्वभावशून्यतायां चरन् अभावस्वभावशून्यतायां चरन् स्मृत्यूपस्थानेषु चरन् सम्यक्प्रहाणेषु चरन् ऋद्धिपादेषु चरन् इन्द्रियेषु चरन् बलेषु चरन् बोध्यङ्गेषु चरन् आर्याष्टाङ्गमार्गे चरन् आर्यसत्येषु चरन् ध्यानेषु चरन् अप्रमाणेषु चरन् आरूप्यसमापत्तिषु चरन् विमोक्षेषु चरन् अनुपूर्वविहारसमापत्तिषु चरन् शून्यतानिमित्ताप्रणिहितविमोक्षेषु चरन् अभिज्ञासु चरन् धारणीमुखेषु चरन् समाधिषु चरन् तथागतबलेषु चरन् चतुर्षु वैशारद्येषु चरन् चतुःप्रतिस ं वित्सु चरन् महामैत्र्ये चरन् महाकरुणायां चरन् अष्टादशस्व् आवेणिकबुद्धधर्मेषु चरन् शुक्लविपश्यनाभूमिम् अतिक्रामति । गोत्रभूमिं समतिक्रामति । अष्टमकभूमिं समतिक्रामति । दर्शनभूमिं समतिक्रामति । तनुभूमिं समतिक्रामति । वीतरागभूमिं समतिक्रामति । कृताविभूमिं समतिक्रामति । प्रत्येकबुद्धभूमिं समतिक्रामति । बोधिसत्त्वभूमिं समतिक्रामति । इह सुभूते बोधिसत्त्वो महासत्त्वो नवभूमिम् अतिक्रामति । बुद्धभूमौ तिष्ठति । इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दश भूमयः । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो महायानं संप्रस्थितो वेदितव्यः ।
यत् पुनः सुभूतिर् एवम् आह । कुतस् तद् यानं निर्यास्यतीति । त्रैधातुकान् निर्यास्यति । येन सर्वाकारज्ञता तेन स्थास्यति । तत् पुनर् अद्वययोगेन । तत् कस्य हेतोस् तथा हि सुभूते यच् च महायानं या च सर्वाकारज्ञता उभाव् एतौ धर्मौ न विसंयुक्तौ संयुक्ताव् अरूपिणाव् अनिदर्शनाव् अप्रतिधातैकलक्षणौ । तत् कस्य हेतोः । न हि सुभूते अलक्षणा धर्मा निर्यान्ति वा निर्यास्यति वा निर्याता वा धर्मधातोः । स सुभूते निर्याणम् इच्छेद् यः अलक्षणानां धर्माणां निर्याणम् इच्छेत् । तथतायाः स सुभूते निर्याणम् इच्छेद् यो ऽवितथतायाः सुभूते निर्याणम् इच्छेत् । भूतकोटेः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । अचिन्त्यधातोः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । आकाशधातोः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । रागक्षयधातोः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । प्रहाणधातोः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । विरागधातोः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । निरोधधातोः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । रूपशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्मणां निर्याणम् इच्छेत् । वेदनाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । संज्ञाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । संस्कारशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । विज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तत् कस्य हेतोर् न हि सुभूते रूपशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न वेदनाशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । स संज्ञाशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न संस्कारशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञताया तिष्ठति । न विज्ञानशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । तत् कस्य हेतोस् तथा हि । स सुभूते रूपं रूपेण शून्यं । वेदना वेदनया शून्या । संज्ञा संज्ञया शून्या । संस्काराः संस्कारैः शून्या । विज्ञानं विज्ञानेन शून्यं । चक्षुःशून्यतायाः स सुभूते निर्याताम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । श्रोत्रशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । घ्राणशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । जिह्वाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । कायशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । मनःशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तत् कस्य हेतोर् न हि सुभूते चक्षुःशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञातायां तिष्ठति । न श्रोत्रशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न प्राणशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न जिह्वाशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न कायशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न मनःशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । तत् कस्य हेतोस् तथा हि सुभूते चक्षुश् चक्षुषा शून्यं । श्रोत्रं श्रोत्रेण शून्यं । घ्राणं घ्राणेन शून्यं । जिह्वा जिह्वया शून्या । कायः कायेन शून्यः । मनो मनसा शून्यं ।
रूपशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । शब्दशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । गन्धशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । रसशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणामां धर्माणां निर्याणम् इच्छेत् । स्पर्शशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । धर्मशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तत् कस्य हेतोर् न हि सुभूते रूपशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न शब्दशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न गन्धशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न रसशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न स्पर्शशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न धर्मशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । तत् कस्य हेतोस् तथा हि सुभूते रूपं रूपेण शून्यं शब्दः शब्देन शून्यः गन्धो गन्धेन शून्यः रसो रसेन शून्यः स्पर्शः स्पर्शेन शून्यः धर्माः धर्मैः शून्याः ।
चक्षुर्विज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । श्रोत्रविज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । घ्राणविज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । जिह्वाविज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । कायविज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । मनोविज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तत् कस्य हेतोर् न हि सुभूते चक्षुर्विज्ञानशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न श्रोत्रविज्ञानशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न घ्राणविज्ञानशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न जिह्वाविज्ञानशून्यता त्रैधातुकान् निर्याति । सर्वाकारज्ञतायां तिष्ठति । न कायविज्ञानशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न मनोविज्ञानशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । तत् कस्य हेतोस् तथा हि सुभूते चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं । श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं । घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं । जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं । कायविज्ञानं कायविज्ञानेन शून्यं ।
चक्षुःसंस्पर्शशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । श्रोत्रसंस्पर्शशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । घ्राणसंस्पर्शशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । जिह्वासंस्पर्शशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । कायसंस्पर्शशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । मनःसंस्पर्शशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तत् कस्य हेतोर् न हि सुभूते चक्षुःसंस्पर्शशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न श्रोत्रसंस्पर्शशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न घ्राणासंस्पर्शशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न जिह्वासंस्पर्शशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न कायसंस्पर्शशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न मनःसंस्पर्शशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । तत् कस्य हेतोस् तथा हि सुभूते चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः । श्रोत्रस ं पर्शः श्रोत्रसंस्पर्शेन शून्यः । घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यः । जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः । कायसंस्पर्शः कायसंस्पर्शेन शून्यः । मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः ।
चक्षुःसंस्पर्शप्रत्ययवेदनायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । श्रोत्रसंस्पर्शप्रत्ययवेदनायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । घ्राणसंस्पर्शप्रत्ययवेदनायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । जिह्वासंस्पर्शप्रत्ययवेदनायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । कायसंस्पर्शप्रत्ययवेदनायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । मनःसंस्पर्शप्रत्ययवेदनायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तत् कस्य हेतोर् न हि चक्षुःसंस्पर्शप्रत्ययवेदना त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न श्रोत्रसंस्पर्शप्रत्ययवेदना त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न घ्राणसंस्पर्शप्रत्ययवेदना त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न जिह्वासंस्पर्शप्रत्ययवेदना त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न कायसंस्पर्शप्रत्ययवेदना त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न मनःसंस्पर्शप्रत्ययवेदना त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । तत् कस्य हेतोस् तथा हि सुभूते चक्षुःसंस्पर्शप्रत्ययवेदना चक्षुःसंस्पर्शप्रत्ययवेदनया शून्या । श्रोत्रसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदनया शून्या । घ्राणसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदनया शून्या । जिह्वासंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदनया शून्या । कायसंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदनया शून्या । मनःसंस्पर्शप्रत्ययवेदना मनःसंस्पर्शप्रत्ययवेदनया शून्या ।
स्वप्नस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । मायायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । मरीच्याः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । प्रतिश्रुत्कायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । प्रतिभासस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तथागतनिर्मितस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तत् कस्य हेतोर् न हि सुभूते स्वप्नस्य स्वभावस् त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न मायायाः स्वभावस् त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न मरीच्याः स्वभावस् त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न प्रतिश्रुत्कायाः स्वभावस् त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न प्रतिभासस्य स्वभावस् त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न तथागतनिर्मितस्य स्वभावस् त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । तत् कस्य हेतोस् तथा हि सुभूते स्वप्नस्वभावः स्वप्नस्वभावेन शून्यः । मायास्वभावो मायास्वभावेन शून्यः । मरीचिस्वभावो मरीचिस्वभावेन शून्यः । प्रतिश्रुत्कास्वभावः प्रतिश्रुत्कास्वभावेन शून्यः । प्रतिभासस्वभावः प्रतिभासस्वभावेन शून्यः । तथागतनिर्मितस्वभावस् तथागतनिर्मितस्वभावेन शून्यः ।
दानपारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । शीलपारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । क्षान्तिपारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । वीर्यपारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । ध्यानपारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । प्रज्ञापारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तत् कस्य हेतोस् तथा हि सुभूते दानपारमितायाः स्वभावो न त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यः शीलपारमितायाः स्वभावो न स त्रैधातुकान् निर्याति । यः क्षान्तिपारमितायाः स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो वीर्यपारमितायाः स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो ध्यानपारमितायाः स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यः प्रज्ञापारमितायाः स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । तत् कस्य हेतोस् तथा हि सुभूते दानपारमितायाः स्वभावो दानपारमितास्वभावेन शून्यः । शीलपारमितायाः स्वभावः शीलपारमितास्वभावेन शून्यः । क्षान्तिपारमितायाः स्वभावः क्षान्तिपारमितास्वभावेन शून्यः । वीर्यपारमितायाः स्वभावो वीर्यपारमितास्वभावेन शून्यः । ध्यानपारमितायाः स्वभावो ध्यानपारमितास्वभावेन शून्यः । प्रज्ञापारमितायाः स्वभावः प्रज्ञापारमितास्वभावेन शून्यः ।
अध्यात्मशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । बहिर्धाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । अध्यात्मबहिर्धाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । शून्यताशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । महाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । परमार्थशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । संस्कृतशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । असंस्कृतशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । अत्यन्तशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । अनवराग्रशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । अनवकारशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । प्रकृतिशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । सर्वधर्मशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । स्वलक्षणशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । अनुपलम्भशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । अभावशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्मणां निर्याणम् इच्छेत् । स्वभावशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । अभावस्वभावशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तत् कस्य हेतोर् न हि सुभूते ऽध्यात्मशून्यता त्रैधातूकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न बहिर्धाशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । नाध्यात्मबहिर्धाशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न शून्यताशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न महाशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न परमार्थशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न संस्कृतशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । नासंस्कृतशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । नात्यन्तशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । नानवराग्रशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । नानवकारशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न प्रकृतिशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न सर्वधर्मशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न स्वलक्षणशून्यता त्रैधातुकान् निर्याति न सर्वाकारज्ञतायां तिष्ठति । नानुपलम्भशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । नाभावशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । न स्वभावशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । नाभावस्वभावशून्यता त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति ।
तत् कस्य हेतोस् तथा हि सुभूते ऽध्यात्मशून्यताध्यात्मशून्यतया शून्या । बहिर्धाशून्यता बहिर्धाशून्यतया शून्या । अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतया शून्या । शून्यताशून्यता शून्यतया शून्या । महाशून्यता महाशून्यतया शून्या । परमार्थशून्यता परमार्थशून्यतया शून्या । संस्कृतशून्यता संस्कृतशून्यतया शून्या । असंस्कृतशून्यतासंस्कृतशून्यतया शून्या । अत्यन्तशून्यता अत्यन्तशून्यतया शून्या । अनवराग्रशून्यता अनवराग्रशून्यतया शून्या । अनवकारशून्यता अनवकारशून्यतया शून्या । प्रकृतिशून्यता प्रकृतिशून्यतया शून्या । सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या । स्वलक्षणशून्यता स्वलक्षणशून्यातया शून्या । अनुपलम्भशून्यता अनुपलम्भशून्यतया शून्या । अभावशून्यता अभावशून्यतया शून्या । स्वभावशून्यता स्वभावशून्यतया शून्या । अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या ।
स्मृत्युपस्थानानां सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । सम्यक्प्रहाणानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । ऋद्धिपादानां च सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां निर्याणम् इच्छेत् । इन्द्रियाणां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । बलानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । बोध्यङ्गानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । आर्याष्टाङ्गमार्गस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तत् कस्य हेतोस् तथा हि सुभूते यः स्मृत्युपस्थानानां स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यः सम्यक्प्रहाणानां स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायाः तिष्ठति । य ऋद्धिपादानां स्वभावो न स त्रैधातूकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यः इन्द्रियाणां स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो बलानां स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो बोध्यङ्गानां स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो मार्गस्य स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । तत् कस्य हेतोस् तथा हि । स्मृत्युपस्थानस्वभावः स्मृत्युपस्थानस्वभावेन शून्यं_ । सम्यक्प्रहाणस्वभावः सम्यक्प्रहाणस्वभावेन शून्यः । ऋद्धिपादस्वभाव ऋद्धिपादस्वभावेन शून्यः । इन्द्रियस्वभावः इन्द्रियस्वभावेन शून्यः । बलस्वभावो बलस्वभावेन शून्यः । बोध्यङ्गस्वभावो बोध्यङ्गस्वभावेन शून्यः । मार्गस्वभावो मार्गस्वभावेन शून्यः ।
आर्यसत्यानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । ध्यानानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । अप्रमाणानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । आरूप्यसमापत्तीनां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । विमोक्षाणां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । नवानुपूर्वविहारसमापत्तीनां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । शून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । आनिमित्तस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । अप्रणिहितस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तत् कस्य हेतोस् तथा हि सुभूते य आर्यसत्यानां स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो ध्यानानां स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो ऽप्रमाणानां स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । य आरूप्यसमापत्तीनां स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो ऽष्टानां विमोक्षाणां स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो नवानुपूर्वविहारसमापत्तीनां स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यः शून्यतायाः स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो ऽप्रमाणहितस्य स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । तत् कस्य हेतोस् तथा हि सुभूते आर्यसत्यस्य स्वभाव आर्यसत्यस्वभावेन शून्यः । ध्यानस्वभावो ध्यानस्वभावेन शून्यः । अप्रमाणस्वभावो ऽप्रमाणस्वभावेन शून्यः । आरूप्यसमापत्तिस्वभाव आरूप्यसमापत्तिस्वभावेन शून्यः । विमोक्षस्वभावो विमोक्षस्वभावेन शून्यः । नवानुपूर्वविहारस्वभावो नवानुपूर्वविहारस्वभावेन शून्यः । शून्यतास्वभावः शून्यतास्वभावेन शून्यः । आनिमित्तस्वभाव आनिमित्तस्वभावेन शून्यः । अप्रणिहितस्वभावो ऽप्रणिहितस्वभावेन शून्यः ।
अभिज्ञानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । समाधीनां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । धारणीमुखानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तत् कस्य हेतोस् तथा हि सुभूते यो ऽभिज्ञानां स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यः समाधीनां स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो धारणीमुखानां स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । तत् कस्य हेतोस् तथा हि सुभूते अभिज्ञास्वभावो ऽभिज्ञास्वभावेन शून्यः । समाधिस्वभावः समाधिस्वभावेन शून्यः । धारणीमुखस्वभावो धारणीमुखस्वभावेन शून्यः ।
दशानां तथागतबलानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । चतुर्णां वैशारद्यानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । चतसृणां प्रतिस ं विदां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । अष्टादशानाम् आवेणिकबुद्धधर्माणां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तत् कस्य हेतोस् तथा हि सुभूते यो दशानां तथागतबलानां स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यश् चतुर्णां वैशारद्यानां स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यश् चतसृणां प्रतिस ं विदां स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो ऽष्टादशानाम् आवेणिकबुद्धधर्माणां स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । तत् कस्य हेतोस् तथा हि । सुभूते तथागतबलस्वभावस् तथागतबलस्वभावेन शून्यः । वैशारद्यस्वभावो वैशारद्यस्वभावेन शून्यः । प्रतिस ं वित्स्वभावः प्रतिस ं वित्स्वभावेन शून्यः । आवेणिकबुद्धधर्मस्वभाव आवेणिकबुद्धधर्मस्वभावेन शून्यः ।
अर्हतः सुभूते क्षीणाश्रवस्योत्पत्तिम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । प्रत्येकबुद्धस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । बोधिसत्त्वस्य महासत्त्वस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तथागतस्यार्हतः सम्यक्स ं बुद्धस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तत् कस्य हेतोस् तथा हि सुभूते यो ऽर्हतः सम्यक्स ं बुद्धस्य स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यः प्रत्येकबुद्धस्य स्वभावो न च त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो बोधिसत्त्वस्य महासत्त्वस्य स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यस् तथागतस्यार्हतः सम्यक्स ं बुद्धस्य स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । तत् कस्य हेतोस् तथा हि सुभूते अर्हत्स्वभावो ऽर्हत्स्वभावेन शून्यः । प्रत्येकबुद्धस्वभावः प्रत्येकबुद्धस्वभावेन शून्यः । बोधिसत्त्वस्वभावो बोधिसत्त्वस्वभावेन शून्यः । तथागतस्वभावस् तथागतस्वभावेन शून्यः ।
श्रोतआपत्तिफलस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । सकृदागामिफलस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । अनागामिफलस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् अर्हत्वस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । प्रत्येकबोधेः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । मर्गाकारज्ञतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । सर्वाकारज्ञतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तत् कस्य हेतोस् तथा हि सुभूते यः श्रोतआपत्तिफलस्य स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यः सकृदागामिफलस्य स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो ऽनागामिफलस्य स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो ऽर्हत्वस्य स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यः प्रत्येकबोधेः स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो मार्गाकारज्ञतायाः स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यः सर्वाकारज्ञतायाः स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । तत् कस्य हेतोस् तथा हि सुभूते श्रोतआपत्तिफलस्वभावः श्रोतआपत्तिफलस्वभावेन शून्यः । सकृदागामिफलस्वभावः सकृदागामिफलस्वभावेन शून्यः । अनागामिफलस्वभावो ऽनागामिफलस्वभावेन शून्यः । अर्हत्वस्वभावो ऽर्हत्वस्वभावेम शून्यः । प्रत्येकबोधिस्वभावः प्रत्येकबोधिस्वभावेन शून्यः । मार्गाकारज्ञतास्वभावो मार्गाकारज्ञतास्वभावेन शून्यः । सर्वाकारज्ञतास्वभावः सर्वाकारज्ञतास्वभावेन शून्यः ।
शब्दः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । निमित्तस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां मिर्याणम् इच्छेत् । सङ्केतस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । व्यवहारस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । प्रज्ञप्तेः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तत् कस्य हेतोस् तथा हि नामशून्यता नामशून्यतास्वभावेन शून्या । निमित्तशून्यता निमित्तशून्यतास्वभावेन शून्या । सङ्केतशून्यता सङ्केतशून्यतास्वभावेन शून्या । व्यवदानशून्यता व्यवदानशून्यतास्वभावेन शून्या । प्रज्ञप्तिशून्यता प्रज्ञप्तिशून्यतास्वभावेन शून्या ।
अनुत्पादस्य सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । अनिरोधस्य सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । संक्लेशस्य सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । व्यवदानस्य सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । अनभिसंस्कारस्य सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् । तत् कस्य हेतोस् तथा हि यो ऽनुत्पादस्य स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो ऽनिरोधस्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यः संक्लेशस्य स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो व्यवदानस्य स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । यो ऽनभिसंस्कारस्य स्वभावो न स त्रैधातुकान् निर्याति । न सर्वाकारज्ञतायां तिष्ठति । तत् कस्य हेतोस् तथा हि । अनुत्पादस्वभावो ऽनुत्पादस्वभावेन शून्यः । निरोधस्वभावो निरोधस्वभावेन शून्यः । संक्लेशस्वभावः संक्लेशस्वभावेन शून्यः । व्यवदानस्वभावो व्यवदानस्वभावेन शून्यः । अनभिसंस्कारस्वभावो ऽनभिसंस्कारस्वभावेन शून्यः ।
तद् अनेनापि ते सुभूते पर्यायेणैवं वेदितव्यम् । महायानं त्रैधातुकान् निर्याति । येन सर्वाकारज्ञता तेन यास्यत्य् अचाल्य तत् स्थानं । यत् पुनः सुभूतिर् एवम् आह । क्व तद् यानं स्थास्यतीति । न क्वचित् तद् यानं स्थास्यति । तत् कस्य हेतोस् तथा ह्य् अस्थिताः सर्वधर्माः प्रतिष्ठानुपलब्धितः । अपि तु खलु पुनः सुभूते अस्थानस्थानयोगेन तद् यानं स्थास्यति । तद्यथापि नाम सुभूते धर्मधातुर् न स्थितो नास्थितः । एवम् एव सुभूते तद् यानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते तथता न स्थिता नास्थिता । एवम् एव सुभूते तद् यानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते भूतकोटिर् न स्थिता नास्थिता । एवम् एव तद् यानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते ऽचिन्त्यधातुर् न स्थितो नास्थितः । एवम् एव तद् यानं न स्थितं नास्थितं । तत् कस्य हेतोर् न हि सुभूते धर्मधातुस्वभावः स्थितो वास्थितो वा । न तथतायाः स्वभावः स्थितो वास्थितो वा । न भूतकोटेः स्वभावः स्थितो वास्थितो वा । नाचिन्त्यधातुस्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा हि सुभूते । धर्मधातुस्वभावो धर्मधातुस्वभावेन शून्यः । तथतास्वभावस् तथतास्वभावेन शून्यः । भूतकोटेः स्वभावो भूतकोटिस्वभावेन शून्यः । अचिन्त्यधातुस्वभावो ऽचिन्त्यधातुस्वभावेन शून्यः । तद्यथापि नाम सुभूते आकाशधातुर् न स्थितो नास्थितः । एवम् एव सुभूते तद् यानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते रागक्षयधातुर् न स्थितो नास्थितः । एवम् एव सुभूते तद् यानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते प्रहाणधातुर् न स्थितो नास्थितः । एवम् एव सुभूते तद् यानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते विरागधातुर् न स्थितो नास्थितः । एवम् एव सुभूते यद् यानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते निरोधधातुर् न स्थितो नास्थितः । एवम् एव सुभूते तद् यानं न स्थितं नास्थितं । तत् कस्य हेतोर् न हि सुभूते । आकाशधातुः स्थितो वास्थितो वा । न रागक्षयधातुस्वभावः स्थितो वास्थितो वा । न प्रहाणधातुस्वभावः स्थितो वास्थितो वा । न विरागधातुस्वभावः स्थितो वास्थितो वा । न निरोधधातुस्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा हि सुभूते । आकाशधातुस्वभाव आकाशधातुस्वभावेन शून्याः । रागक्षयधातुस्वभावो रागक्षयधातुस्वभावेन शून्यः । प्रहाणधातुस्वभावः प्रहाणधातुस्वभावेन शून्यः । विरागधातुस्वभावो विरागधातुस्वभावेन शून्यः । निरोधधातुस्वभावो निरोधधातुस्वभावेन शून्यः ।
तद्यथापि नाम सुभूते रूपशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते वेदनाशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते संज्ञाशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं । न स्थितं नास्थितं । तद्यथापि नाम सुभूते संस्कारशून्यता न स्थिता नास्तिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते विज्ञानशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तत् कस्य हेतोस् तथा हि सुभूते न रूपस्वभावः स्थितो वास्थितो वा । न वेदनास्वभावः स्थितो वास्थितो वा । न संज्ञास्वभावः स्थितो वास्थितो वा । न संस्कारस्वभावः स्थितो वास्थितो वा । न विज्ञानस्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा हि । रूपं रूपेण शून्यं वेदना वेदनया शून्या । संज्ञा संज्ञया शून्या । संस्काराः संस्कारैः शून्याः । विज्ञानं विज्ञानेन शून्या ।
तद्यथापि नाम सुभूते चक्षुःशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते श्रोत्रशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते घ्राणशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते जिह्वाशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते कायशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते मनःशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तत् कस्य हेतोर् न हि सुभूते चक्षुःस्वभावः स्थितो वास्थितो वा । न श्रोत्रस्वभावः स्थितो वास्थितो वा । न घ्राणस्वभावः स्थितो वास्थितो वा । न जिह्वास्वभावः स्थितो वास्थितो वा । कायस्वभावः स्थितो वास्थितो वा । मनःस्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा हि चक्षुश् चक्षुषा शून्यं श्रोत्रं श्रोत्रेण शून्यं । घ्राणं घ्राणेन शून्यं । जिह्वा जिह्वया शून्या कायः कायेन शून्यः । मनो मनसा शून्यं ।
तद्यथापि नाम सुभूते रूपशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते शब्दशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते गन्धशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते रसशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते स्पर्शशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते धर्मशून्यता न स्थिथा नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तत् कस्य हेतोर् न हि सुभूते रूपस्वभावः स्थितो वास्थितो वा । न शब्दस्वभावः स्थितो वास्थितो वा । न गन्धस्वभावः स्थितो वास्थितो वा । न रसस्वभावः स्थितो वास्थितो वा । न स्पर्शस्वभावः स्थितो वास्थितो वा । न धर्मस्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा हि रूपं रूपेण शून्यं । शब्दो शब्देन शून्यः । गन्धो गन्धेन शून्यः । रसो रसेन शून्यः । स्पर्शः स्पर्शेन शून्यः । धर्मः धर्मैः शून्याः ।
तद्यथापि नाम सुभूते चक्षुर्विज्ञानशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते श्रोत्रविज्ञानशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते घ्राणविज्ञानशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते जिह्वाविज्ञानशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते कायविज्ञानशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते मनोविज्ञानशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तत् कस्य हेतोर् न हि सुभूते चक्षुर्विज्ञानस्वभावः स्थितो वास्थितो वा । न श्रोत्रविज्ञानस्वभावः स्थितो वास्थितो वा । न घ्राणविज्ञानस्वभावः स्थितो वास्थितो वा । न जिह्वाविज्ञानस्वभावः स्थितो वास्थितो वा । न कायविज्ञानस्वभावः स्थितो वास्थितो वा । मनोविज्ञानस्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा हि चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं । श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं । घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं । जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं । कायविज्ञानं कायविज्ञानेन शून्यं । मनोविज्ञानं मनोविज्ञानेन शून्यम् ।
तद्यथापि नाम सुभूते चक्षुःसंस्पर्शशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते श्रोत्रसंस्पर्शशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते घ्राणसंस्पर्शशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते जिह्वासंस्पर्शशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते कायसंस्पर्शशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथा नाम सुभूते मनःसंस्पर्शशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तत् कस्य हेतोर् न हि चक्षुःसंस्पर्शस्वभावः स्थितो वास्थितो वा । न घ्राणसंस्पर्शस्वभावः स्थितो वास्थितो वा । न जिह्वासंस्पर्शस्वभावः स्थितो वास्थितो वा । न कायसंस्पर्शस्वभावः स्थितो वास्थितो वा । न मनःसंस्पर्शस्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा हि सुभूते चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः । श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यः । घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यः । जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः । कायसंस्पर्शः कायसंस्पर्शेन शून्यः । मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः ।
तद्यथापि नाम सुभूते चक्षुःसंस्पर्शप्रत्ययवेदितशून्यता न स्थिता नास्थ्तिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते श्रोत्रसंस्पर्शप्रत्ययवेदितशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते घ्राणसंस्पर्शप्रत्ययवेदितशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते जिह्वासंस्पर्शप्रत्ययवेदितशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते कायसंस्पर्शप्रत्ययवेदितशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते मनःसंस्पर्शप्रत्ययवेदितशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तत् कस्य हेतोर् न हि सुभूते चक्षुःसंस्पर्शप्रत्ययवेदितस्वभावः स्थितो वास्थितो वा । न श्रोत्रसंस्पर्शप्रत्ययवेदितस्वभावः स्थितो वास्थितो वा । न घ्राणसंस्पर्शप्रत्ययवेदितस्वभावः स्थितो वास्थितो वा । न जिह्वासंस्पर्शप्रत्ययवेदितस्वभावः स्थितो वास्थितो वा । न कायसंस्पर्शप्रत्ययवेदितस्वभावः स्थितो वास्थितो वा । न मनःसंस्पर्शप्रत्ययवेदितस्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा हि चक्षुःसंस्पर्शप्रत्ययवेदितं चक्षुःसंस्पर्शप्रत्ययवेदितेन शून्यं । श्रोत्रसंस्पर्शप्रत्ययवेदितं श्रोत्रसंस्पर्शप्रत्ययवेदितेन शून्यं । घ्राणसंस्पर्शप्रत्ययवेदितं घाणसंस्पर्शप्रत्ययवेदितेन शून्यं । जिह्वासंस्पर्शप्रत्ययवेदितं जिह्वासंस्पर्शप्रत्ययवेदितेन शून्यं । कायसंस्पर्शप्रत्ययवेदितं कायसंस्पर्शप्रत्ययवेदितेन शून्यं । मनःसंस्पर्शप्रत्ययवेदितं मनःसंस्पर्शप्रत्ययवेदितेन शून्यम् ।
तद्यथापि नाम सुभूते स्वप्नो न स्थितो नास्थितः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते माया न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते मरीचिर् न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते प्रतिश्रुत्का न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते प्रतिभासो न स्थितो नास्थितः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते तथागतनिर्मितो न स्थितो नास्थितः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तत् कस्य हेतोर् न हि स्वप्नस्वभावः स्थितो वास्थितो वा । न मायास्वभावः स्थितो वास्थितो वा । न मरीचिस्वभावः स्थितो वास्थितो वा । स प्रतिश्रुत्कस्वभावः स्थितो वास्थितो वा । न प्रतिभासस्वभावः स्थितो वास्थितो वा । न तथागतनिर्मितस्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा हि स्वप्नः स्वप्नेन शून्यः । माया मायया शून्या । मरीचिर् मरीच्या शून्या । प्रतिश्रुत्का प्रतिश्रुत्कया शून्या । प्रतिभासः प्रतिभासेन शून्यः । तथागतनिर्मितस् तथागतनिर्मितेन शून्यः ।
तद्यथापि नाम सुभूते दानपारमिता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते शीलपारमिता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते क्षान्तिपारमिता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते वीर्यपारमिता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते ध्यानपारमिता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते प्रज्ञापारमिता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तत् कस्य हेतोर् न हि सुभूते दानपारमितास्वभावः स्थितो वास्थितो वा । न शीलपारमितास्वभावः स्थितो वास्थितो वा । न क्षान्तिपारमितास्वभावः स्थितो वास्थितो वा । न वीर्यपारमितास्वभावः स्थितो वास्थितो वा । न ध्यानपारमितास्वभावः स्थितो वास्थितो वा । न प्रज्ञापारमितास्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा हि दानपारमिता दानपारमिताया शून्या । शीलपारमिता शीलपारमिताया शून्या । क्षान्तिपारमिता क्षान्तिपारमिताया शून्या । वीर्यपारमिता वीर्यपारमिताया शून्या । ध्यानपारमिता ध्यानपारमिताया शून्या । प्रज्ञापारमिता प्रज्ञापारमिताया शून्या ।
तद्यथापि नाम सुभूते अध्यात्मशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते बहिर्धाशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते अध्यात्मबहिर्धाशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते शून्यताशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते महाशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते परमार्थशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते संस्कृतशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते ऽसंस्कृतशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते अत्यन्तशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते ऽनवराग्रशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते ऽनवकारशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते प्रकृतिशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते सर्वधर्मशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महयानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते स्वलक्षणशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते ऽनुपलम्भशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते ऽभावशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते स्वभावशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते अभावस्वभावशून्यता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितम् ।
तत् कस्य हेतोर् न हि सुभूते ऽध्यात्मशून्यतास्वभावः स्थितो वास्थितो वा । न बहिर्धाशून्यतास्वभावः स्थितो वास्थितो वा । नाध्यात्मबहिर्धाशून्यतास्वभावः स्थितो वास्थितो वा । न शून्यताशून्यतास्वभावः स्थितो वास्थितो वा । न महाशून्यतास्वभावः स्थितो वास्थितो वा । न परमार्थशून्यतास्वभावः स्थितो वास्थितो वा । न संस्कृतशून्यतास्वभावः स्थितो वास्थितो वा । नासंस्कृतशून्यतास्वभावः स्थितो वास्थितो वा । नात्यन्तशून्यतास्वभावः स्थितो वास्थितो वा । नानवराग्रशून्यतास्वभावः स्थितो वास्थितो वा । नानवकारशून्यतास्वभावः स्थितो वास्थितो वा । न प्रकृतिशून्यतास्वभावः स्थितो वास्थितो वा । न सर्वधर्मशून्यतास्वभावः स्थितो वास्थितो वा । न स्वलक्षणशून्यतास्वभावः स्थितो वास्थितो वा । नानुपलम्भशून्यतास्वभावः स्थितो वास्थितो वा । नाभावशून्यतास्वभावः स्थितो वास्थितो वा । न स्वभावशून्यतास्वभावः स्थितो वास्थितो वा । नाभावस्वभावशून्यतास्वभावः स्थितो वास्थितो वा ।
तत् कस्य हेतोस् तथा ह्य् अध्यात्मशून्यताध्यात्मशून्यतया शून्या । बहिर्धाशून्यता बहिर्धाशून्यतया शून्या । अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतया शून्या । शून्यताशून्यता शून्यताशून्यतया शून्या । महाशून्यता महाशून्यतया शून्या । परमार्थशून्यता परमार्थशून्यतया शून्या । संस्कृतशून्यता संस्कृतशून्यतया शून्या । असंस्कृतशून्यता असंस्कृतशून्यतया शून्या । अत्यन्तशून्यता अत्यन्तशून्यतया शून्या । अनवराग्रशून्यता अनवराग्रशून्यतया शून्या । अनवकारशून्यतानवकारशून्यतया शून्या । प्रकृतिशून्यता प्रकृतिशून्यतया शून्या । सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या । स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या । अनुपलम्भशून्यतानुपलम्भशून्यतया शून्या । अभावशून्यता अभावशून्यतया शून्या । स्वभावशून्यतया स्वभावशून्यता शून्या । अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या ।
तद्यथापि नाम सुभूते स्मृत्युपस्थानानि न स्थितानि नास्थितानि । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते सम्यक्प्रहाणानि न स्थितानि नास्थितानि । एवम् अपि सुभूते तन् महायानं नस्थितं नास्थितं । तद्यथापि नाम सुभूते ऋद्धिपादाः न स्थिता नास्थिताः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते इन्द्रियाणि न स्थितानि नास्थितानि । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम शुभूते बलानि न स्थितानि नास्थितानि । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते बोध्यङ्गानि न स्थितानि नास्थितानि । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते आर्याष्टाङ्गामार्गो न स्थितो नास्थितः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तत् कस्य हेतोर् न हि सुभूते स्मृत्युपस्थानस्वभावः स्थितो वास्थितो वा । न सम्यक्प्रहाणस्वभावः स्थितो वास्थितो वा । नार्धिपादस्वभावः स्थितो वास्थितो वा । नेन्द्रियस्वभावः स्थितो वास्थितो वा । न बलस्वभावः स्थितो वास्थितो वा । न बोध्यङ्गस्वभावः स्थितो वास्थितो वा । नार्याष्टाङ्गमार्गस्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा हि स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि । सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि । ऋद्धिपादाः ऋद्धिपादैः शून्याः । इन्द्रियाणीन्द्रियैः शून्यानि । बालानि बलैः शून्यानि । बोध्यङ्गानि बोध्यङ्गैः शून्यानि । मार्गो मार्गेण शून्यः ।
तद्यथापि नाम सुभूते आर्यसत्यानि न स्थितानि नास्थितानि । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते ध्यानानि न स्थितानि नास्थितानि । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते अप्रमाणानि न स्थितानि नास्थितानि । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते आरूप्यसमापत्तयो न स्थिता नास्थिताः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते ऽष्टौ विमोक्षाः न स्थिता नास्थिताः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते अनुपूर्वविहारसमापत्तयो न स्थिताः नास्थिताः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न स्थितानि नास्थितानि । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते अभिज्ञा न स्थिता नास्थिताः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते समाधयो न स्थिता नास्थिताः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते धारणीमुखानि न स्थितानि नास्थितानि । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तत् कस्य हेतोर् न हि सुभूते आर्यसत्यस्वभावः स्थितो वास्थितो वा । न ध्यानस्वभावः स्थितो वास्थितो वा । नाप्रमाणस्वभावः स्थितो वास्थितो वा । नारूप्यसमापत्तिस्वभावः स्थितो वास्थितो वा । नाष्टविमोक्षस्वभावः स्थितो वास्थितो वा । नानुपूर्वविहारसमापत्तिस्वभावः स्थितो वास्थितो वा । न शून्यतानिमित्ताप्रणिहितविमोक्षस्वभावः स्थितो वास्थितो वा नाभिज्ञास्वभावः स्थितो वास्थितो वा । न समाधिस्वभावः स्थितो वास्थितो वा । न धारणीमुखस्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा ह्य् आर्यसत्यान्य् आर्यसत्यैः शून्यानि । ध्यानानि ध्यानैः शून्यानि । अप्रमाणान्य् अप्रमाणैः शून्यानि । आरूप्यसमापत्तयः आरूप्यसमापत्तिभिः शून्याः । विमोक्षाः विमोक्षैः शून्याः । अनुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तिभिः शून्याः । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखैः शून्यानि । अभिज्ञाः अभिज्ञाभिः शून्याः । समाधयः समाधिभिः शून्याः । धारणीमुखानि धारणीमुखैः शून्यानि ।
तद्यथापि नाम सुभूते दश तथागतबलानि न स्थितानि नास्थितानि । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते चत्वारि वैशारद्यानि न स्थितानि नास्थितानि । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते चतस्रः प्रतिस ं विदो न स्थिताः नास्थिताः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते महाकरुणा न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते अष्टादशावेणिकबुद्धधर्मा न स्थिताः नस्थिताः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तत् कस्य हेतोर् न हि सुभूते दशतथागतबलास्वभावः स्थितो वास्थितो वा । न वैशारद्यस्वभावः स्थितो वास्थितो वा । न प्रतिस ं वित्स्वभावः स्थितो वास्थितो वा । न महाकरुणास्वभावः स्थितो वास्थितो वा । नावेणिकबुद्धधर्मस्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा हि दशतथागतबलानि बलैः शून्यानि । चत्वारि वैशारद्यानि वैशारद्यैः शून्यानि । चतस्रः प्रतिस ं विदः प्रतिस ं वित्स्वभावैः शून्याः । महाकरुणा महाकरुणया शून्या । अष्टादशावेणिकबुबुद्धधर्माः आवेणिकबुद्धधर्मैः शून्याः ।
तद्यथापि नाम सुभूते ऽर्हत्क्षीणाश्रया न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते प्रत्येकबुद्धो न स्थितो नास्थितः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तत् कस्य हेतोर् न हि सुभूते ऽर्हत्क्षीणाश्रवस्वभावः स्थितो वास्थितो वा । न प्रत्येकबुद्धस्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा हि अर्हत्स्वभावो ऽर्हत्स्वभावेन शून्यः । प्रत्येकबुद्धस्वभावः प्रत्येकबुद्धस्वभावेन शून्यः ।
तद्यथापि नाम सुभूते बोधिसत्त्वो न स्थितो नास्थितः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते तथागतो ऽर्हत् सम्यक्स ं बुद्धो न स्थितो नास्थितः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तत् कस्य हेतोर् न हि सुभूते बोधिसत्त्वस्वभावः स्थितो वास्थितो वा । न तथागतस्वभावः स्थितो वास्थितो । तत् कस्य हेतोस् तथा हि बोधिसत्त्वस्वभावो बोधिसत्त्वस्वभावेन शून्यः । तथागतस्वभावस् तथागतस्वभावेन शून्यः ।
तद्यथापि नाम सुभूते श्रोतआपत्तिफलं न स्थितं नास्थितं । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते सकृदागामिफलं न स्थितं नास्थितं । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते अनागामिफलं न स्थितं नास्थितं । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते ऽर्हत्वं न स्थितं नास्थितं । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते प्रत्येकबोधिर् न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तत् कस्य हेतोर् न हि सुभूते श्रोतआपत्तिफलस्वभावः स्थितो वास्थितो वा । न सकृदागामिफलस्वभावः स्थितो वास्थितो वा । नानागामिफलस्वभावः स्थितो वास्थितो वा । नार्हत्त्वस्वभावः स्थितो वास्थितो वा । न प्रत्येकबोधिस्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा हि श्रोतआपत्तिफलस्वभावः श्रोतआपत्तिफलस्वभावेन शून्यः । सकृदागामिफलस्वभावः सकृदागामिफलस्वभावेन शून्यः । अनागामिफलस्वभावो ऽनागामिफलस्वभावेन शून्यः । अर्हत्त्वस्वभावो ऽर्हत्त्वस्वभावेन शून्यः । प्रत्येकबोधिस्वभावः प्रत्येकबोधिस्वभावेन शून्यः ।
तद्यथापि नाम सुभूते मार्गाकारज्ञता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते सर्वाकारज्ञता न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तत् कस्य हेतोर् न सुभूते मार्गाकारज्ञतास्वभावः स्थितो वास्थितो वा । न सर्वाकारज्ञतास्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा हि मार्गाकारज्ञतास्वभावो मार्गाकारज्ञतास्वभावेन शून्यः । सर्वाकारज्ञतास्वभावः सर्वाकारज्ञतास्वभावेन शून्यः ।
तद्यथापि नाम सुभूते नाम स्वभावं न स्थितं नास्थितं । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते निमित्तं न स्थितं नास्थितं । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते सङ्केतो न स्थितो नास्थितः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते व्यवहारो न स्थितो नास्थितः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते प्रज्ञप्तिर् न स्थिता नास्थिता । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तत् कस्य हेतोर् न हि सुभूते नाम स्वभावः स्थितो वास्थितो वा । न नाम निमित्तस्वभावः स्थितो वास्थितो वा । न सङ्केतस्वभावः स्थितो वास्थितो वा । न व्यवहारस्वभावः स्थितो वास्थितो वा । न प्रज्ञप्तिस्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा हि नाम स्वभावो नाम स्वभावेन शून्यः । निमित्तस्वभावो निमित्तस्वभावेन शून्यः । सङ्केतस्वभावः सङ्केत्स्वभावेन शून्यः । व्यवहारस्वभावो व्यवहारस्वभावेन शून्यः । प्रज्ञप्तिस्वभावः प्रज्ञप्तिस्वभावेन शून्यः ।
तद्यथापि नाम सुभूते ऽनुत्पादो न स्थितो नास्थितः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते ऽनिरोधो न स्थितो नास्थितः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि न सुभूते ऽसंक्लेशो न स्थितो नास्थितः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तद्यथापि नाम सुभूते ऽव्यवदानं न स्थितं नास्थितं । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तत् कस्य हेतोर् न हि सुभूते ऽनुत्पादस्वभावः स्थितो वास्थितो वा । न निरोधस्वभावः स्थितो वास्थितो वा । नासंक्लेशस्वभावः स्थितो वास्थितो वा । नाव्यवदानस्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा हि अनुत्पादस्वभावो ऽनुत्पादस्वभावेन शून्यः । अनिरोधस्वभावो ऽनिरोधस्वभावेन शून्यः । असंक्लेशस्वभावो ऽसंक्लेशस्वभावेन शून्यः । अव्यवदानस्वभावो ऽव्यवदानस्वभावेन शून्यः ।
तद्यथापि नाम सुभूते ऽनभिसंस्कारो न स्थितो नास्थितः । एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं । तत् कस्य हेतोर् न हि सुभूते ऽनभिसंस्कारस्वभावः स्थितो वास्थितो वा । तत् कस्य हेतोस् तथा हि अनभिसंस्कारस्वभावो ऽनभिसंस्कारस्वभावेन शून्यः । अनेन पर्यायेण तद् यानं न क्वचित् स्थास्यत्य् अस्थितस्थानयोगेन ।
यत् पुनः सुभूतिर् एवम् आह कस् तेन यानेन निर्यास्यतीति । न कश्चित् तेन यानेन निर्यास्यतीति । न कश्चित् तेन यानेन निर्याति । तत् कस्य हेतोस् तथा हि सुभूते यच् च तद् यानं यश् च निर्यायाद् येन च निर्यायाद् यतश् च निर्यायात् । सर्वत्र ते धर्मा न संविद्यन्ते नोपलभ्यन्ते । एवम् अस ं विद्यमानेष्व् अनुपलभ्यमानेषु सर्वधर्मेषु कतमो धर्मः कतमेन धर्मेण निर्यास्यति । तत् कस्य हेतोस् तथा हि सुभूते ऽत्यन्ततथात्मा नोपलभ्यते । सत्त्वो नोपलभ्यते । जीवो नोपलभ्यते । जन्तुर् नोपलभ्यते । पोषो नोपलभ्यते । पुरुषो नोपलभ्यते । पुद्गलो नोपलभ्यते । मनुजो नोपलभ्यते । मानवो नोपलभ्यते । कारको नोपलभ्यते । वेदको नोपलभ्यते । जानको नोपलभ्यते । पश्यको नोपलभ्यते । अत्यन्तविशुद्धिताम् उपादाय । आत्मनो ऽत्यन्तविशुद्धिताम् उपादाय । सत्त्वस्यात्यन्तविशुद्धिताम् उपादाय । जीवस्यात्यन्तविशुद्धिताम् उपादाय । जन्तोर् अत्यन्तविशुद्धिताम् उपादाय । पोषस्यात्यन्तविशुद्धिताम् उपादाय । पुरुषस्यात्यन्तविशुद्धिताम् उपादाय । पुद्गलस्यात्यन्तविशुद्धिताम् उपादाय । मनुजस्यात्यन्तविशुद्धिताम् उपादाय । मानवस्यात्यन्तविशुद्धिताम् उपादाय । कारकस्यात्यन्तविशुद्धिताम् उपादाय । वेदकस्यात्यन्तविशुद्धिताम् उपादाय । जानकस्यात्यन्तविशुद्धिताम् उपादाय । पश्यकस्यात्यन्तविशुद्धिताम् उपादाय । धर्मधातुर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । तथता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । भूतकोटिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अचिन्त्यधातुर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । स्कन्धा नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । धातवो नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । आयतनानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । प्रतीत्यसमुत्पादो नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । दानपारमिता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । शीलपारमिता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । क्षान्तिपारमिता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । वीर्यपारमिता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । ध्यानपारमिता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । प्रज्ञापारमिता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय ।
अध्यात्मशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । बहिर्धाशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अध्यात्मबहिर्धाशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । शून्यताशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । महाशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । परमार्थशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । संस्कृतशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । असंस्कृतशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अत्यन्तशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अनवराग्रशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अनवकारशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । प्रकृतिशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । सर्वधर्मशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । स्वलक्षणशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अनुपलम्भशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अभावशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । स्वभावशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अभावस्वभावशून्यता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय ।
स्मृत्युपस्थानानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । सम्यक्प्रहाणानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाया । ऋद्धिपादा नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । इन्द्रियाणि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । बलानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । बोध्यङ्गानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । आर्याष्टाङ्गमार्गो नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । आर्यसत्यानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । ध्यानानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । अप्रमाणानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । आरूप्यसमापत्तयो नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । अष्टौ विमोक्षा नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । अनुपूर्वविहारसमापत्तयो नोपलभ्यन्ते ऽन्यन्तविशुद्धिताम् उपादाय । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । अभिज्ञा नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । समाधयो नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । धारणीमुखानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । तथागतबलानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । वैशारद्यानि नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । प्रतिस ं विदो नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । महाकरुणा नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । आवेणिकबुद्धधर्मा नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । श्रोतआपत्ती नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय । सकृदागामिनो नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । अनागामिनो नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । अर्हन्तो नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । प्रत्येकबुद्धा नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । बोधिसत्त्वा नोपलभ्यन्ते ऽत्यन्तविशुद्धिताम् उपादाय । तथागतो ऽर्हन् सम्यक्स ं बुद्धो नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । श्रोतआपत्तिफलं नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । सकृदागामिफलं नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अनागामिफलं नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अर्हत्वं नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । प्रत्येकबोधिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । मार्गाकारज्ञता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । सर्वाकारज्ञता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अनुत्पादो नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अनिरोधो नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । असंक्लेशो नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अव्यवदानं नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अनभिसंस्कारो नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । पूर्वान्तो नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अपरान्तो नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । प्रत्युत्पन्नं नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । आगामि नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । गतिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । स्थितिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । च्युतिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । उपपत्तिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । हानिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । वृद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । कस्यानुपलब्ध्या सर्वं नोपलभ्यते ।
धर्मधात्वनुपलब्ध्या नोपलभ्यते धर्मधातुस् तत् कस्य हेतोर् न हि सुभूते धर्मधात्वनुपलब्धिर् उपलभ्यते नोपलभ्यते । तथतानुपलब्ध्या नोपलभ्यते । तत् कस्य हेतोर् न हि सुभूते तथतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । भूतकोट्यनुपलब्ध्या नोपलभ्यते भूतकोटिस् तत् कस्य हेतोर् न हि सुभूते भूतकोट्यनुपलब्धिर् उपलभ्यते नोपलभ्यते । अचिन्त्यधात्वनुपलब्ध्या नोपलभ्यते । अचिन्त्यधातुस् तत् कस्य हेतोर् न हि सुभूते ऽचिन्त्यधात्वनुपलब्धिर् उपलभ्यते न नोपलभ्यते । स्कन्धधात्वायतनानुपलब्ध्या नोपलभ्यते स्कन्धधात्वायतनानि । तत् कस्य हेतोर् न हि सुभूते स्कन्धधात्वायतनानुपलब्धिर् उपलभ्यते न नोपलभ्यते । प्रतीत्यसमुत्पादानुपलब्ध्या नोपलभ्यते प्रतीत्यम् उत्पादः । तत् कस्य हेतोर् न हि सुभूते प्रतीत्यसमुत्पादानुपलब्धिर् उपलभ्यते न नोपलभ्यते ।
दानपारमितानुपलब्ध्या नोपलभ्यते दानपारमिता । तत् कस्य हेतोर् न हि सुभूते दानपारमितानुपलब्धिर् उपलभ्यते न नोपलभ्यते । शीलपारमितानुपलब्ध्या नोपलभ्यते शीलपारमिता । तत् कस्य हेतोर् न हि सुभूते शीलपारमितानुपलब्धिर् उपलभ्यते न नोपलभ्यते । क्षान्तिपारमितानुपलब्ध्या नोपलभ्यते क्षान्तिपारमिता । तत् कस्य हेतोर् न हि सुभूते क्षान्तिपारमितानुपलब्धिर् उपलभ्यते न नोपलभ्यते । वीर्यपारमितानुपलब्ध्या नोपलभ्यते वीर्यपारमिता । तत् कस्य हेतोर् न हि सुभूते वीर्यपारमितानुपलब्धिर् उपलभ्यते न नोपलभ्यते । ध्यानपारमितानुपलब्ध्या नोपलभ्यते ध्यानपारमिता । तत् कस्य हेतोर् न हि सुभूते ध्यानपारमितानुपलब्धिर् उपलभ्यते न नोपलभ्यते । प्रज्ञापारमितानुपलब्ध्या नोपलभ्यते प्रज्ञापारमिता । तत् कस्य हेतोर् न हि सुभूते प्रज्ञापारमितानुपलब्धिर् उपलभ्यते न नोपलभ्यते ।
अध्यात्मशून्यतानुपलब्ध्या नोपलभ्यते अध्यात्मशून्यता । तत् कस्य हेतोर् न हि सुभूते अध्यात्मशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । बहिर्धाशून्यतानुपलब्ध्या नोपलभ्यते बहिर्धाशून्यता । तत् कस्य हेतोर् न हि सुभूते बहिर्धाशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । अध्यात्मबहिर्धाशून्यतानुपलब्ध्या नोपलभ्यते अध्यात्मबहिर्धाशून्यता । तत् कस्य हेतोर् न हि सुभूते अध्यात्मबहिर्धाशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । शून्यताशून्यतानुपलब्ध्या नोपलभ्यते शून्यताशून्यता । तत् कस्य हेतोर् न हि सुभूते शून्यताशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । महाशून्यतानुपलब्ध्या नोपलभ्यते महाशून्यता । तत् कस्य हेतोर् न हि सुभूते महाशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । परमार्थशून्यतानुपलब्ध्या नोपलभ्यते परमार्थशून्यता । तत् कस्य हेतोर् न हि सुभूते परमार्थशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । संस्कृतशून्यतानुपलब्ध्या नोपलभ्यते संस्कृतशून्यता । तत् कस्य हेतोर् न हि सुभूते संस्कृतशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । असंस्कृतशून्यतानुपलब्ध्या नोपलभ्यते ऽसंस्कृतशून्यता । तत् कस्य हेतोर् न हि सुभूते ऽसंस्कृतशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । अत्यन्तशून्यतानुपलब्ध्या नोपलभ्यते ऽत्यन्तशून्यता । तत् कस्य हेतोर् न हि सुभूते ऽत्यन्तशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । अनवराग्रशून्यतानुपलब्ध्या नोपलभ्यते ऽनवराग्रशून्यता । तत् कस्य हेतोर् न हि सुभूते अनवराग्रशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । अनवकारशून्यतानुपलब्ध्या नोपलभ्यते ऽनवकारशून्यता । तत् कस्य हेतोर् न हि सुभूते ऽनवकारशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । प्रकृतिशून्यतानुपलब्ध्या नोपलभ्यते प्रकृतिशून्यता । तत् कस्य हेतोर् न हि सुभूते प्रकृतिशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । सर्वधर्मशून्यतानुपलब्ध्या नोपलभ्यते सर्वधर्मशून्यता । तत् कस्य हेतोर् न हि सुभूते सर्वधर्मरशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । स्वलक्षणशून्यतानुपलब्ध्या नोपलभ्यते स्वलक्षणशून्यता । तत् कस्य हेतोर् न हि सुभूते स्वलक्षणशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । अनुपलम्भशून्यतानुपलब्ध्या नोपलभ्यते ऽनुपलम्भशून्यता । तत् कस्य हेतोर् न हि सुभूते ऽनुपलम्भशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । अभावशून्यतानुपलब्ध्या नोपलभ्यते अभावशून्यता । तत् कस्य हेतोर् न हि सुभूते ऽभावशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । स्वभावशून्यतानुपलब्ध्या नोपलभ्यते स्वभावशून्यता । तत् कस्य हेतोर् न हि सुभूते स्वभावशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । अभावस्वभावशून्यतानुपलब्ध्या नोपलभ्यते ऽभावस्वभावशून्यता । तत् कस्य हेतोर् न हि सुभूते अभावस्वभावशून्यतानुपलब्धिर् उपलभ्यते न नोपलभ्यते ।
स्मृत्युपस्थानानुपलब्ध्या नोपलभ्यन्ते स्मृत्युपस्थानानि । तत् कस्य हेतोर् न हि सुभूते स्मृत्युपस्थानानुपलब्धिर् उपलभ्यते न नोपलभ्यते । सम्यक्प्रहाणानुपलब्ध्या नोपलभ्यन्ते सम्यक्प्रहाणानि । तत् कस्य हेतोर् न हि सुभूते सम्यक्प्रहाणानुपलब्धिर् उपलभ्यते न नोपलभ्यते । ऋद्धिपादानुपलब्ध्या नोपलभ्यन्ते ऋद्धिपादाः । तत् कस्य हेतोर् न हि सुभूते ऋद्धिपादानुपलब्धिर् उपलभ्यते न नोपलभ्यते । इन्द्रियानुपलब्ध्या नोपलभ्यन्ते इन्द्रियाणि । तत् कस्य हेतोर् न हि सुभूते इन्द्रियानुपलब्धिर् उपलभ्यते न नोपलभ्यते । बलानुपलब्ध्या नोपलभ्यन्ते बलानि । तत् कस्य हेतोर् न हि सुभूते बलानुपलब्धिर् उपलभ्यते न नोपलभ्यते । बोध्यङ्गानुपलब्ध्या नोपलभ्यन्ते बोध्यङ्गानि । तत् कस्य हेतोर् न हि सुभूते बोध्यङ्गानुपलब्धिर् उपलभ्यते न नोपलभ्यते । मार्गानुपलब्ध्या नोपलभ्यते मार्गः । तत् कस्य हेतोर् न हि सुभूते मार्गानुपलब्धिर् उपलभ्यते न नोपलभ्यते । आर्यसत्यानुपलब्ध्या नोपलभ्यन्ते आर्यसत्यानि । तत् कस्य हेतोर् न हि सुभूते आर्यसत्यानुपलब्धिर् उपलभ्यते न नोपलभ्यते । ध्यानानुपलब्ध्या नोपलभ्यन्ते ध्यानानि । तत् कस्य हेतोर् न हि सुभूते ध्यानानुपलब्धिर् उपलभ्यते न नोपलभ्यते । अप्रमाणानुपलब्ध्या नोपलभ्यन्ते ऽप्रमाणानि । तत् कस्य हेतोर् न हि सुभूते ऽप्रमाणानुपलब्धिर् उपलभ्यते न नोपलभ्यते । आरूप्यसमापत्त्यनुपलब्ध्या नोपलभ्यन्ते आरूप्यसमापत्तयः । तत् कस्य हेतोर् न हि सुभूते आरूप्यसमापत्त्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । विमोक्षानुपलब्ध्या नोपलभ्यन्ते विमोक्षाः । तत् कस्य हेतोर् न हि सुभूते विमोक्षानुपलब्धिर् उपलभ्यते न नोपलभ्यते । अनुपूर्वविहारसमापत्त्यनुपलब्ध्या नोपलभ्यन्ते ऽनुपूर्वविहारसमापत्तयः । तत् कस्य हेतोर् न हि सुभूते अनुपूर्वविहारसमापत्त्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानुपलब्ध्या नोपलभ्यन्ते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि । तत् कस्य हेतोर् न हि सुभूते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानुपलब्धिर् उपलभ्यते न नोपलभ्यते । अभिज्ञानुपलब्ध्या नोपलभ्यते ऽभिज्ञा । तत् कस्य हेतोर् न हि सुभूते ऽभिज्ञानुपलब्धिर् उपलभ्यते न नोपलभ्यते । समाध्यनुपलब्ध्या नोपलभ्यन्ते समाधयः । तत् कस्य हेतोर् न हि सुभूते समाध्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । धारणीमुखानुपलब्ध्या नोपलभ्यन्ते धारणीमुखानि । तत् कस्य हेतोर् न हि सुभूते धारणीमुखानुपलब्धिर् उपलभ्यते न नोपलभ्यते । तथागतबलानुपलब्ध्या नोपलभ्यन्ते तथागतबलानि । तत् कस्य हेतोर् न हि सुभूते तथागतबलानुपलब्धिर् उपलभ्यते न नोपलभ्यते । वैशारद्यानुपलब्ध्या नोपलभ्यन्ते वैशारद्यानि । तत् कस्य हेतोर् न हि सुभूते वैशारद्यानुपलब्धिर् उपलभ्यते न नोपलभ्यते । प्रतिस ं विदनुपलब्ध्या नोपलभ्यन्ते प्रतिस ं विदः । तत् कस्य हेतोर् न हि सुभूते प्रतिस ं विदनुपलब्धिर् उपलभ्यते न नोपलभ्यते । महाकरुणानुपलब्ध्या नोपलभ्यते महाकरुणा । तत् कस्य हेतोर् न हि सुभूते महाकरुणानुपलब्धिर् उपलभ्यते न नोपलभ्यते । अष्टादशवेणिकबुद्धधर्मानुपलब्ध्या नोपलभ्यन्ते अष्टादशवेणिकबुद्धधर्माः । तत् कस्य हेतोर् न हि सुभूते अष्टादशवेणिकबुद्धधर्मानुपलब्धिर् उपलभते न नोपलभ्यते ।
श्रोतआपन्नानुपलब्ध्या नोपलभ्यते श्रोतआपन्नः । तत् कस्य हेतोर् न हि सुभूते श्रोतआपन्नानुलब्धिर् उपलभ्यते न नोपलभ्यते । सकृदागाम्यनुपलब्ध्या नोपलभ्यते सकृदागामि । तत् कस्य हेतोर् न हि सुभूते सकृदागाम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । अनागाम्यनुपलब्ध्या नोपलभ्यते ऽनागामि । तत् कस्य हेतोर् न हि सुभूते अनागाम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । अर्हत्त्वानुपलब्ध्या नोपलभ्यते ऽर्हन् । तत् कस्य हेतोर् न हि सुभूते ऽर्हत्त्वानुलब्धिर् उपलभ्यते न नोपलभ्यते । प्रत्येकबुद्धानुपलब्ध्या नोपलभ्यते प्रत्येकबुद्धः । तत् कस्य हेतोर् न हि सुभूते प्रत्येकबुद्धानुपलब्धिर् उपलभ्यते न नोपलभ्यते । बोधिसत्त्वानुपलब्ध्या नोपलभ्यते बोधिसत्त्वः । तत् कस्य हेतोर् न हि सुभूते बोधिसत्त्वानुपलब्धिर् उपलभ्यते न नोपलभ्यते । तथागतानुपलब्ध्या नोपलभ्यते तथागतः । तत् कस्य हेतोर् न हि सुभूते तथागतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । श्रोतआपत्तिफलानुपलब्ध्या नोपलभ्यते श्रोतआपत्तिफलं । तत् कस्य हेतोर् न हि सुभूते श्रोतआपत्तिफलानुपलब्धिर् उपलभ्यते न नोपलभते । सकृदागामिफलानुपलब्ध्या नोपलभ्यते सकृदागामिफलं । तत् कस्य हेतोर् न हि सुभूते सकृदागामिफलानुपलब्धिर् उपलभ्यते न नोपलभ्यते । अनागामिफलानुपलब्ध्या नोपलभ्यते ऽनागामिफलं । तत् कस्य हेतोर् न हि सुभूते अनागामिफलानुपलब्धिर् उपलभ्यते न नोपलभ्यते । अर्हत्त्वानुपलब्ध्या नोपलभ्यते अर्हत्त्वं । तत् कस्य हेतोर् न हि सुभूते अर्हत्त्वानुपलब्धिर् उपलभ्यते न नोपलभ्यते । प्रत्येकबोध्यनुपलब्ध्या नोपलभ्यते प्रत्येकबोधिः । तत् कस्य हेतोर् न हि सुभूते प्रत्येकबोध्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । मार्गाकारज्ञतानुपलब्ध्या नोपलभ्यते मार्गाकारज्ञता । तत् कस्य हेतोर् न हि सुभूते मार्गाकारज्ञतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । सर्वाकारज्ञतानुपलब्ध्या नोपलभ्यते सर्वाकारज्ञता । तत् कस्य हेतोर् न हि सुभूते सर्वाकारज्ञतानुपलब्धिर् उपलभ्यते न नोपलभ्यते । अनुत्पादानुपलब्ध्या नोपलभ्यते ऽनुत्पादः । तत् कस्य हेतोर् न हि सुभूते अनुत्पादानुपलब्धिर् उपलभ्यते न नोपलभ्यते । अनिरोधानुपलब्ध्या नोपलभ्यते ऽनिरोधः । तत् कस्य हेतोर् न हि सुभूते अनिरोधानुपलब्धिर् उपलभ्यते न नोपलभ्यते । असंक्लेशानुपलब्ध्या नोपलभ्यते असंक्लेशः । तत् कस्य हेतोर् न हि सुभूते असंक्लेशानुपलब्धिर् उपलभ्यते न नोपलभ्यते । अव्यवदानानुपलब्ध्या नोपलभ्यते ऽव्यवदानं । तत् कस्य हेतोर् न हि सुभूते अव्यवदानानुपलब्धिर् उपलभ्यते न नोपलभ्यते । अनभिसंस्कारानुपलब्ध्या नोपलभ्यते ऽनभिसंस्कारः । तत् कस्य हेतोर् न सुभूते ऽनभिसंस्कारानुपलब्धिर् उपलभ्यते न नोपलभ्यते । पूर्वान्तानुपलब्ध्या नोपलभ्यते पूर्वान्तः । तत् कस्य हेतोर् न हि सुभूते पूर्वान्तानुपलब्धिर् उपलभ्यते न नोपलभ्यते । अपरान्तानुपलब्ध्या नोपलभ्यते ऽपरान्तः । तत् कस्य हेतोर् न हि सुभूते अपरान्तानुपलब्धिर् उपलभ्यते न नोपलभ्यते । प्रत्युत्पन्नानुपलब्ध्या नोपलभ्यते प्रत्युत्पन्नः । तत् कस्य हेतोर् न हि सुभूते प्रत्युत्पन्नानुपलब्धिर् उपलभ्यते न नोपलभ्यते । आगत्यनुपलब्ध्या नोपलभ्यते आगतिः । तत् कस्य हेतोर् न हि सुभूते आगत्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । गत्यनुपलब्ध्या नोपलभ्यते गतिः । तत् कस्य हेतोर् न हि सुभूते गत्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । स्थित्यनुपलब्ध्या नोपलभ्यते स्थितिः । तत् कस्य हेतोर् न हि सुभूते स्थित्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । च्युत्यनुपलब्ध्या नोपलभ्यते च्युतिः । तत् कस्य हेतोर् न हि सुभूते च्युत्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । उपपत्त्यनुपलब्ध्या नोपलभ्यते उपपत्तिः । तत् कस्य हेतोर् न हि सुभूते उपपत्त्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । हान्यनुपलब्ध्या नोपलभ्यते हानिः । तत् कस्य हेतोर् न हि सुभूते हान्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । वृद्ध्यनुपलब्ध्या नोपलभ्यते वृद्धिः । तत् कस्य हेतोर् न हि सुभूते वृद्ध्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ।
प्रथमा भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते । तत् कस्य हेतोर् न हि सुभूते प्रथमभूम्यनुपलद्भिर् उपलभ्यते न नोपलभ्यते । द्वितीया भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते । तत् कस्य हेतोर् न हि सुभूते द्वितीयभूम्यनुपलब्धिर् उपलभ्यते । तृतीया भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते । तत् कस्य हेतोर् न हि सुभूते तृतीयभूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । चतुर्थो भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते । तत् कस्य हेतोर् न हि सुभूते चतुर्थभूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । पश्चमी भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते । तत् कस्य हेतोर् न हि सुभूते पञ्चमभूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । षष्ठा भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते । तत् कस्य हेतोर् न हि सुभूते षष्ठभूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । सप्तमी भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते । तत् कस्य हेतोर् न हि सुभूते सप्तमभूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । अष्टमी भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते । तत् कस्य हेतोर् न हि सुभूते अष्टमभूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । नवमी भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते । तत् कस्य हेतोर् न हि सुभूते नवमभूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते । दशमी भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते । तत् कस्य हेतोर् न हि सुभूते दशमभूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ।
कतमा प्रथमा भूमिः कतमा द्वितीया भूमिः कतमा तृतीया भूमिः कतमा चतुर्थी भूमिः कतमा पञ्चमी भूमिः कतमा षष्ठी भूमिः कतमा सप्तमी भूमिः कतमा अष्टमी भूमिः कतमा नवमी भूमिः कतमा दशमी भूमिः । यद् उत शुक्लविदर्शनाभूमिर् गोत्रभूमिर् अष्टमकभूमिनिर्दर्शमभूमिः स्तनभूमिर् वीतरागभूमिः कृताविभूमिः प्रत्येकबुद्धभूमिर् बोधिसत्त्वभूमिर् बुद्धभूमिः ।
अध्यात्मशून्यतायाः प्रथमा भूमिर् नोपलभ्यते । बहिर्धाशून्यतायाः प्रथमा भूमिर् नोपलभ्यते । अध्यात्मबहिर्धाशून्यतायाः प्रथमा भूमिर् नोपलभ्यते । शून्यताशून्यतायाः प्रथमा भूमिर् नोपलभ्यते । महाशून्यतायाः प्रथमा भूमिर् नोपलभ्यते । परमार्थशून्यतायाः प्रथमा भूमिर् नोपलभ्यते । संस्कृतशून्यतायाः प्रथमा भूमिर् नोपलभ्यते । असंस्कृतशून्यतायाः प्रथमा भूमिर् नोपलभ्यते । अत्यन्तशून्यतायाः प्रथमा भूमिर् नोपलभ्यते । अनवराग्रशून्यतायाः प्रथमा भूमिर् नोपलभ्यते । अनवकारशून्यतायाः प्रथमा भूमिर् नोपलभ्यते । प्रकृतिशून्यतायाः प्रथमा भूमिर् नोपलभ्यते । सर्वधर्मशून्यतायाः प्रथमा भूमिर् नोपलभ्यते । स्वलक्षणशून्यतायाः प्रथमा भूमिर् नोपलभ्यते । अनुपलम्भशून्यतायाः प्रथमा भूमिर् नोपलभ्यते । अभावशून्यतायाः प्रथमा भूमिर् नोपलभ्यते । स्वभावशून्यतायाः प्रथमा भूमिर् नोपलभ्यते । अभावस्वभावशून्यतायाः प्रथमा भूमिर् नोपलभ्यते ।
मूल पाठ: Śatasāhasrikā Prajñāpāramitā, Part I · Edition: Pratāpacandra Ghoṣa Śatasāhasrikā Prajñāpāramitā Calcutta Asiatic Society of Bengal 1902-1913 Bibliotheca Indica Kimura, Takayasu Pañcaviṃśatisāhasrikā Prajñāpāramitā Tokyo Sankibo Busshorin Publishing Co. 1986-2009 · Data entry Reinhold Grünendahl Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0