शतसाहस्रिका प्रज्ञापारमिता · भाग 8183
अध्यात्मशून्यताया द्वितीया भूमिर् नोपलभ्यते । बहिर्धाशून्यताया द्वितीया भूमिर् नोपलभ्यते । अध्यात्मबहिर्धाशून्यताया द्वितीया भूमिर् नोपलभ्यते । शून्यताशून्यताया द्वितीया भूमिर् नोपलभ्यते । महाशून्यताया द्वितीया भूमिर् नोपलभ्यते । परमार्थशून्यताया द्वितीया भूमिर् नोपलभ्यते । संस्कृतशून्यताया द्वितीया भूमिर् नोपलभ्यते । असंस्कृतशून्यताया द्वितीया भूमिर् नोपलभ्यते । अत्यन्तशून्यताया द्वितीया भूमिर् नोपलभ्यते । अनवराग्रशून्यताया द्वितीया भूमिर् नोपलभ्यते । अनवकारशून्यताया द्वितीया भूमिर् नोपलभ्यते । प्रकृतिशून्यताया द्वितीया भूमिर् नोपलभ्यते । सर्वधर्मशून्यताया द्वितीया भूमिर् नोपलभ्यते । स्वलक्षणशून्यताया द्वितीया भूमिर् नोपलभ्यते । अनुपलम्भशून्यताया द्वितीया भूमिर् नोपलभते । अभावशून्यताया द्वितीया भूमिर् नोपलभ्यते । स्वभावशून्यताया द्वितीया भूमिर् नोपलभ्यते । अभावस्वभावशून्यताया द्वितीया भूमिर् नोपलभ्यते ।
अध्यात्मशून्यतायास् तृतीया भूमिर् नोपलभ्यते । बहिर्धाशून्यतायास् तृतीया भूमिर् नोपलभ्यते । अध्यात्मबहिर्धाशून्यतायास् तृतीयाभूमिर् नोपलभ्यते । शून्यताशून्यतायास् तृतीया भूमिर् नोपलभ्यते । महाशून्यतायास् तृतीया भूमिर् नोपलभ्यते । परमार्थशून्यतायास् तृतीया भूमिर् नोपलभ्यते । संस्कृतशून्यतायास् तृतीया भूमिर् नोपलभ्यते । असंस्कृतशून्यतायास् तृतीया भूमिर् नोपलभ्यते । अत्यन्तशून्यतायास् तृतीया भूमिर् नोप्लभ्यते । अनवराग्रशून्यतायास् तृतीया भूमिर् नोपलभ्यते । अनवकारशून्यतायास् तृतीया भूमिर् नोपलभ्यते । प्रकृतिशून्यतायास् तृतीया भूमिर् नोपलभ्यते । सर्वधर्मशून्यतायास् तृतीया भूमिर् नोपलभ्यते । स्वलक्षणशून्यतायास् तृतीया भूमिर् नोपलभ्यते । अनुपलम्भशून्यतायास् तृतीया भूमिर् नोपलभ्यते । अभावशून्यतायास् तृतीया भूमिर् नोपलभ्यते । स्वभावशून्यतायास् तृतीया भूमिर् नोपलभ्यते । अभावस्वभावशून्यतायास् तृतीया भूमिर् नोपलभ्यते ।
अध्यात्मशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते । बहिर्धाशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते । अध्यात्मबहिर्धाशून्यताश् चतुर्थी भूमिर् नोपलभ्यते । शून्यताशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते । महाशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते । परमार्थशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते । संस्कृतशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते । असंस्कृतशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते । अत्यन्तशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते । अनवराग्रशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते । अनवकारशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते । प्रकृतिशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते । सर्वधर्मशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते । स्वलक्षणशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते । अनुपलम्भशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते । अभावशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते । स्वभावशूनतायाश् चतुर्थी भूमिर् नोपलभ्यते । अभावस्वभावशून्यतायाश् चतुर्थी भूमिर् नोपलभ्यते ।
अध्यात्मशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते । बहिर्धाशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते । अध्यात्मबहिर्धाशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते । शून्यताशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते । महाशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते । परमार्थशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते । संस्कृतशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते । असंस्कृतशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते । अत्यन्तशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते । अनवराग्रशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते । अनवकारशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते । प्रकृतिशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते । सर्वधर्मशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते । स्वलक्षणशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते । अनुपलम्भशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते । अभावशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते । स्वभावशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते । अभावस्वभावशून्यतायाः पञ्चमी भूमिर् नोपलभ्यते ।
अध्यात्मशून्यतायाः षष्ठी भूमिर् नोपलभ्यते । बहिर्धाशून्यतायाः षष्ठी भूमिर् नोपलभ्यते । अध्यात्मबहिर्धाशून्यतायाः षष्ठी भूमिर् नोपलभ्यते । शून्यताशून्यतायाः षष्ठी भूमिर् नोपलभ्यते । महाशून्यतायाः षष्ठी भूमिर् नोपलभ्यते । परमार्थशून्यतायाः षष्ठी भूमिर् नोपलभ्यते । संस्कृतशून्यतायाः षष्ठी भूमिर् नोपलभ्यते । असंस्कृतरशून्यतायाः षष्ठी भूमिर् नोपलभ्यते । अत्यन्तशून्यतायाः षष्ठी भूमिर् नोपलभ्यते । अनवराग्रशून्यतायाः षष्ठी भूमिर् नोपलभ्यते । अनवकारशून्यतायाः षष्ठी भूमिर् नोपलभ्यते । प्रकृतिशून्यतायाः षष्ठी भूमिर् नोपलभ्यते । । सर्वधर्मशून्यतायाः षष्ठी भूमिर् नोपलभ्यते । स्वलक्षणशून्यतायाः षष्ठी भूमिर् नोपलभ्यते । अनुपलम्भशून्यतायाः षष्ठी भूमिर् नोपलभ्यते । अभावशून्यतायाः षष्ठी भूमिर् नोपलभ्यते । स्वभावशून्यतायाः षष्ठी भूमिर् नोपलभ्यते । अभावस्वभावशून्यतायाः षष्ठी भूमिर् नोपलभ्यते ।
अध्यात्मशून्यतायाः सप्तमी भूमिर् नोपलभ्यते । बहिर्धाशून्यतायाः सप्तमी भूमिर् नोपलभ्यते । अध्यात्मबहिर्धाशून्यतायाः सप्तमी भूमिर् नोपलभ्यते । शून्यताशून्यतायाः सप्तमी भूमिर् नोपलभ्यते । महाशून्यतायाः सप्तमी भूमिर् नोपलभ्यते । परमार्थशून्यतायाः सप्तमी भूमिर् नोपलभ्यते । संस्कृतशून्यतायाः सप्तमी भूमिर् नोपलभ्यते । असंस्कृतशून्यतायाः सप्तमी भूमिर् नोपलभ्यते । अत्यन्तशून्यतायाः सप्तमी भूमिर् नोपलभ्यते । अनवराग्रशून्यतायाः सप्तमी भूमिर् नोपलभ्यते । अनवकारशून्यतायाः सप्तमी भूमिर् नोपलभ्यते । प्रकृतिशून्यतायाः सप्तमी भूमिर् नोपलभ्यते । सर्वधर्मशून्यतायाः सप्तमी भूमिर् नोपलभ्यते । स्वलक्षणशून्यतायाः सप्तमी भूमिर् नोपलभ्यते । अनुपलम्भशून्यतायाः सप्तमी भूमिर् नोपलभ्यते । अभावशून्यतायाः सप्तमी भूमिर् नोपलभ्यते । स्वभावशून्यतायाः सप्तमी भूमिर् नोपलभ्यते । अभावस्वभावशून्यतायाः सप्तमी भूमिर् नोपलभ्यते ।
अध्यात्मशून्यताया अष्टमी भूमिर् नोपलभ्यते । बहिर्धाशून्यतायाः अष्टमी भूमिर् नोपलभ्यते । अध्यात्मबहिर्धाशून्यतायाः अष्टमी भूमिर् नोपलभ्यते । शून्यताशून्यतायाः अष्टमी भूमिर् नोपलभ्यते । महाशून्यतायाः अष्टमी भूमिर् नोपलभ्यते । परमार्थशून्यतायाः अष्टमी भूमिर् नोपलभ्यते । संस्कृतशून्यतायाः अष्टमी भूमिर् नोपलभ्यते । असंस्कृतशून्यतायाः अष्टमी भूमिर् नोपलभ्यते । अत्यन्तशून्यतायाः अष्टमी भूमिर् नोपलभ्यते । अनवराग्रशून्यतायाः अष्टमी भूमिर् नोपलभ्यते । अनवकारशून्यतायाः अष्टमी भूमिर् नोपलभ्यते । प्रकृतिशून्यतायाः अष्टमी भूमिर् नोपलभ्यते । सर्वधर्मशून्यतायाः अष्टमी भूमिर् नोपलभ्यते । स्वलक्षणशून्यतायाः अष्टमी भूमिर् नोपलभ्यते । अनुपलम्भशून्यतायाः अष्टमी भूमिर् नोपलभ्यते । अभावशून्यतायाः अष्टमी भूमिर् नोपलभ्यते । स्वभावशून्यतायाः अष्टमी भूमिर् नोपलभ्यते । अभावस्वभावशून्यतायाः अष्टमी भूमिर् नोपलभ्यते ।
अध्यात्मशून्यताया नवमी भूमिर् नोपलभ्यते । बहिर्धाशून्यताया नवमी भूमिर् नोपलभ्यते । अध्यात्मबहिर्धाशून्यताया नवमी भूमिर् नोपलभ्यते । शून्यताशून्यताया नवमी भूमिर् नोपलभ्यते । महाशून्यताया नवमी भूमिर् नोपलभ्यते । परमार्थशून्यताया नवमी भूमिर् नोपलभ्यते । संस्कृतशून्यताया नवमी भूमिर् नोपलभ्यते । असंस्कृतशून्यताया नवमी भूमिर् मोपलभ्यते । अत्यन्तशून्यताया नवमी भूमिर् नोपलभ्यते । अनवराग्रशून्यताया नवमी भूमिर् नोपलभ्यते । अनवकारशून्यताया नवमी भूमिर् नोपलभ्यते । प्रकृतिशून्यताया नवमी भूमिर् नोपलभ्यते । सर्वधर्मशून्यताया नवमी भूमिर् नोपलभ्यते । स्वलक्षणशून्यताया नवमी भूमिर् नोपलभ्यते । अनुपलम्भशून्यताया नवमी भूमिर् नोपलभ्यते । अभावशून्यताया नवमी भूमिर् नोपलभ्यते । स्वभावशून्यताया नवमी भूमिर् नोपलभ्यते । अभावस्वभावशून्यताया नवमी भूमिर् नोपलभ्यते ।
अध्यात्मशून्यताया दशमी भूमिर् नोपलभ्यते । बहिर्धाशून्यताया दशमी भूमिर् नोपलभ्यते । अध्यात्मबहिर्धाशून्यताया दशमी भूमिर् नोपलभ्यते । शून्यताशून्यताया दशमी भूमिर् नोपलभ्यते । महाशून्यताया दशमी भूमिर् नोपलभ्यते । परमार्थशून्यताया दशमी भूमिर् नोपलभ्यते । संस्कृतशून्यताया दशमी भूमिर् नोपलभ्यते । असंस्कृतशून्यताया दशमी भूमिर् नोपलभ्यते । अत्यन्तशून्यताया दशमी भूमिर् नोपलभ्यते । अनवराग्रशून्यताया दशमी भूमिर् नोपलभ्यते । अनवकारशून्यताया दशमी भूमिर् नोपलभ्यते । प्रकृतिशून्यताया दशमी भूमिर् नोपलभ्यते । सर्वधर्मशून्यताया दशमी भूमिर् नोपलभ्यते । स्वलक्षणशून्यताया दशमी भूमिर् नोपलभ्यते । अनुपलम्भशून्यताया दशमी भूमिर् नोपलभ्यते । अभावशून्यताया दशमी भूमिर् नोपलभ्यते । स्वभावशून्यताया दशमी भूमिर् नोपलभ्यते । अभावस्वभावशून्यताया दशमी भूमिर् नोपलभ्यते ।
तत् कस्य हेतोर् न हि सुभूते प्रथमा भूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । न द्वितीया भूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । न तृतीया भूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । न चतुर्थी भूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । न पञ्चमी भूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । न षष्ठी भूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । न सप्तमी भूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । नाष्टमी भूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । न नवमी भूम्यनुपलब्धिर् उपलभ्यते न नोपलभ्यते ऽन्यन्तविशुद्धिताम् उपादाय । न दशमी भूम्यनुपलब्धिर् उपलभ्यते न नोपलाभ्यते ऽत्यन्तविशुद्धिताम् उपादाय ।
अध्यात्मशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । बहिर्धाशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अध्यात्मबहिर्धाशून्यतया सत्त्वपरिपाको नोपलभ्य ऽत्यन्तशुद्धिताम् उपदय । शून्यताशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । महाशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । परमार्थशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । संस्कृतशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । असंस्कृतशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अत्यन्तशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अनवराग्रशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अनवकारशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । प्रकृतिशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । सर्वधर्मशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । स्वलक्षणशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अनुपलम्भशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अभावशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । स्वभावशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविसूद्धिताम् उपादाय । अभावस्वभावशून्यतया सत्त्वपरिपाको नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय ।
अध्यात्मशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । बहिर्धाशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अध्यात्मबहिर्धाशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । शून्यताशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । महाशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । परमार्थशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । संस्कृतशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । असंस्कृतशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अत्यन्तशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अनवराग्रशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अनवकारशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । प्रकृतिशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । सर्वधर्मशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । स्वलक्षणशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अनुपलम्भशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अभावशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । स्वभावशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय । अभावस्वभावशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय ।
अध्यात्मशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते । बहिर्धाशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते । अध्यात्मबहिर्धाशून्यतया पञ्च चक्षूम्षि नोपलभ्यन्ते । शून्यताशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते । महाशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते । परमार्थशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते । संस्कृतशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते । असंस्कृतशून्यतया पञ्च चक्षूंषी नोपलभ्यन्ते । अत्यन्तशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते । अनवराग्रशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते । अनवकारशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते । प्रकृतिशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते । सर्वधर्मशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते । स्वलक्षणशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते । अनुपलम्भशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते । अभावशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते । स्वभावशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते । अभावस्वभावशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते । अत्यन्तविशुद्धिताम् उपादाय ।
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपलम्भयोगेन सर्वधर्माणां महायानेन सर्वाकारज्ञतायां स्थास्यति ॥
शतसाहस्र्यां प्रज्ञापारमितायां दशमः परिवर्तः ॥
अथ एकादशः परिवर्तः ।
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् । महायानं महायानम् इति भगवन्न् उच्यते सदेवासुरमानुषं लोकम् अभिभूय निर्यास्यति तेनोच्यते महायानम् इति । आकाशसमं भगवंस् तन् महायानं । यथाकाशे अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । एवम् एव भगवन्न् अस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । अनेन भगवन् पर्यायेण महायानम् इदं बोधिसत्त्वानां महासत्त्वानां । न चास्य महायानस्याङ्गमो वा निर्गमो वा स्थानं वा दृश्यते । नापि पूर्वान्तो नापरान्तो न मध्यः । तद्यथापि नाम भगवन्न् आकाशस्य नैवागमो वा दृश्यते न निर्गमो वा दृश्यते । न स्थानं दृश्यते । एवम् एव भगवन्न् अस्य महायानस्य नैवागम उपलभ्यते न निर्गम उपलभ्यते नास्थानम् उपलभ्यते । तद्यथापि नाम भगवन्न् आकाशस्य नैव पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते । त्र्यध्वसमताम् उपादाय । एवम् एव भगवन्न् अस्य महायानस्य नैव पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते । त्र्यध्वसमतायानम् इदं भगवन् यद् उत महायानं । तस्मान् महायानं महायानम् इत्य् उच्यते ।
भगवान् आह । एवम् एतत् सुभूते एवम् एतन् महायानम् इदं बोधिसत्त्वस्य महासत्त्वस्य षट्पारमिताः । दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता । इदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य महायानं । पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत सर्वधारणीमुखानि सर्वसमाधिमुखानि । शूरङ्गमसमाधिः । रत्नमुद्रासमाधिः । सिंहविक्रीडितसमाधिः । सुचन्द्रसमाधिः । चन्द्रध्वजकेतुसमाधिः । सर्वधर्मोद्गमसमाधिः । विलोकितमूर्धसमाधिः । धर्मधातुनियतः समाधिः । नियतध्वजकेतुः समाधिः । वज्रः समाधिः । सर्वधर्मप्रवेशमुद्रा समाधिः । समाधिराजसुप्रतिष्ठितः समाधिः । रश्मिप्रमुक्तः समाधिः । बलव्यूहः समाधिः । समुद्गतः समाधिः । निरुक्तिनियतप्रवेशः समाधिः । अधिवचनसंप्रवेशः समाधिः । दिग्विलोकितः समाधिः । साधारणमुद्रा समाधिः । अस ं प्रमोषः समाधिः । सर्वधर्मसमवसरणसागरमुद्रा समाधिः । आकाशस्फुरणः समाधिः । वज्रमण्डलः समाधिः । ध्वजाग्रकेयूरः समाधिः । इन्द्रकेतुः समाधिः । श्रोतोनुगतः समाधिः । सिंहविक्लम्भितः समाधिः । व्यभ्यस्तः समाधिः । रणजहः समाधिः । वैरोचनः समाधिः । अशेषः समाधिः । अनिकेतस्थितः समाधिः । निश्चित्तः समाधिः । विमलप्रदीपः समाधिः । अनन्तप्रभः समाधिः । प्रभाकरः समाधिः । समन्तावभासः समाधिः । शुद्धसारः समाधिः । विमलप्रभः समाधिः । रतिकरः समाधिः । विद्युत्प्रदीपः समाधिः । अक्षयः समाधिः । अजेयः समाधिः । तेजोवती समाधिः । क्षयापगतः समाधिः । अनिञ्जः समाधिः । अवितर्कः समाधिः । सूर्यप्रदीपः समाधिः । चन्द्रविमलः समाधिः । प्रज्ञाप्रदीपः समाधिः । शुद्धप्रतिभासः समाधिः । आलोककरः समाधिः । काराकारः समाधिः । ज्ञानकेतुः समाधिः । वज्रोपमः समाधिः । चित्तस्थितिः समाधिः । समन्तालोकः समाधिः । सुप्रतिष्ठितः समाधिः । रत्नकोटिः समाधिः । वरधर्ममुद्रा समाधिः । सर्वधर्मसमता समाधिः । रतिजहः समाधिः । धर्मोद्गतः समाधिः । अविकिरणः समाधिः । सर्वधर्मपदप्रभेदः समाधिः । समाक्षरावकारः समाधिः । अक्षरापगतः समाधिः । आरम्बणच्छेदनः समाधिः । अविकारः समाधिः । अप्रकारः समाधिः । नामनियतप्रवेशः समाधिः । अनिकेतचारी समाधिः । तिमिरापगतः समाधिः । चारित्रवती समाधिः । अचलः समाधिः । विषवतीर्णः समाधिः । सर्वगुणसञ्चयगतः समाधिः । स्थितनिश्चित्तः समाधिः । शुभपुष्पितशुद्धिः समाधिः । अनन्तप्रतिभानः समाधिः । असमसमः समाधिः । सर्वधर्मातिक्रमणः समाधिः । परिच्छेदकरः समाधिः । विमतिविकिरणः समाधिः । निरधिष्ठानः समाधिः । एकव्यूहः समाधिः । आकाशाभिनिर्हारः समाधिः । एकाकारः समाधिः । आकारानवकारः समाधिः । नैर्वेधिकसर्वभवतलापगतः समाधिः । सङ्केतरुतप्रवेशः समाधिः । गिरिघोषाक्षरविमुक्तः समाधिः । ज्वलनोल्का समाधिः । लक्षणपरिशोधनः समाधिः । अनभिलक्षितः समाधिः । सर्वाकारवरोपेतः समाधिः । सर्वदुःखनिरभिनन्दी समाधिः । अक्षयकरण्डः समाधिः । धारणीमतिः समाधिः । सम्यक्त्वमिथ्यात्वसंग्रसनः समाधिः । सर्वरोधविरोधासंप्रशमनः समाधिः । विमलप्रभः समाधिः । सारवती समाधिः । परिपूर्णचन्द्रविमलप्रभः समाधिः । विद्युत्प्रभः समाधिः । महाव्यूहः समाधिः । सर्वाकारप्रभाकरः समाधिः । समाधिसमता समाधिः । अरजोधिरजोनययुक्तः समाधिः । अरणसमवसरणः समाधिः । अरणसरणसर्वसमवसरणः समाधिः । अनिलम्भनिकेतनिरतः समाधिः । तथतास्थितनिश्चित्तः समाधिः । कायकलिसंप्रमथनः समाधिः । वाक्कलिविध्वंसनगगनकल्पः समाधिः । आकाशासङ्गविमुक्तिनिरुपलेपः समाधिः । इदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य महायानं ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् उताध्यात्मशून्यता । बहिर्धाशून्यता । अध्यात्मबहिर्धाशून्यता । शून्यताशून्यता । महाशून्यता । परमाथशून्यता । संस्कृतशून्यता । असंस्कृतशून्यता । अत्यन्तशून्यता । अनवराग्रशून्यता । अनवकारशून्यता । प्रकृतिशून्यता । सर्वधर्मशून्यता । स्वलक्षणशून्यता । अनुपलम्भशून्यता । अभावशून्यता । स्वभावशून्यता । अभावस्वभावशून्यता । इदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य महायानं ।
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं । यद् उत चत्वारि स्मृत्युपस्थानानि । चत्वारि सम्यक्प्रहाणानि । चत्वार ऋद्धिपादाः । पञ्चेन्द्रियाणि । पञ्च बलानि । सप्त बोध्यङ्गानि । आर्याष्टाङ्गमार्गः । आर्यसत्यानि । ध्यानानि । अप्रमाणानि । आरूप्यसमापत्तयः । अष्टौ विमोक्षाः । नवानुपूर्वविहारसमापत्तयः । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि । अभिज्ञाः समाधयः । धारणीमुखानि । दश तथागतबलानि । चत्वारि वैशारद्यानि । चतस्रः प्रतिस ं विदः । महाकरुणा । अष्टादशावेणिकबुद्धधर्माः । इदम् उच्यते बोधिसत्त्वस्य महसत्त्वस्य महायानं । यत् पुनः सुभूतिर् एवम् आह । सदेवमानुषासुरं लोकम् अभिभूय तन् महायानं निर्यास्यतीति । कतमश् च सदेवमानुषासुरलोकः । यद् उत कामधातुः । रूपधातुः । आरूप्यधातुः सचेत् सुभूते कामधातुस् तथताभविष्यद् अवितथता अनन्यतथताविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतः । अविपरिणामधर्माभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते कामधातुः कल्पितो विठयितः सन्दर्भितः । अनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्मा अभावः । तस्मात् तन् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति । सचेत् सुभूते रूपधातुस् तथताभविष्यत् अवितथता अनन्यतथता विपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतः अविपरिणामधर्माभावो ऽभविष्यत् । नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते रूपधातुः कल्पितो विठयितः सन्दर्भितः । अनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति । सचेत् सुभूते आरूप्यधातुस् तथताभविष्यत् । अवितथता अनन्यतथताविपरितं भूतं सत्यं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्माभावो ऽभविष्यत् । नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत् । तस्मात् तर्हि सुभूते रूपं कल्पितं विठयितं सन्दर्भितं । इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्म अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति । सचेत् सुभूते वेदना तथताभविष्यद् अवितथतानन्यतथता अविपरीता भूता सत्या यथावन् नित्या ध्रुवा शाश्वता अविपरिणामधर्मिणी न खल्व् अभावो ऽभविष्यत् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते वेदना कल्पिता विठयिता सन्दर्भिता । इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते संज्ञा तथताभविष्यद् अवितथतानन्यतथताविपरीता भूता सत्या यथावन् नित्या ध्रुवा शाश्वताविपरिणामधर्मिणी न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते संज्ञा कल्पिता विठयिता सन्दर्भिता । इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते संस्कारास् तथाभविष्यन् न वितथा अनन्यतथा अविपरिभूता सत्या यथावन् नित्या ध्रुवाः शाश्वता अविपरिणामधर्माणः । न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते संस्काराः कल्पिता विठयिताः सन्दर्भिताः । इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते विज्ञानं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवम् अशाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते विज्ञानं कल्पितं विठयितं सन्दर्भितं इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति ।
सचेत् सुभूते चक्षुस् तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अपरिणामधर्म । न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते चक्षुः कल्पितं विठयितं सन्दर्भितं । इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिनिर्याति । सचेत् सुभूते श्रोत्रं तथाभविष्यद् वितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावाभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते श्रोत्रं कल्पितं विठयितं सन्दर्भितं । इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते घ्राणस् तथाभविष्यद् अवितथानन्यतथाविपरितं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत् । यस्मात् तर्हि सुभूते घ्राणं कल्पितं विठयितं सन्दर्भितं । इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मात् सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते जिह्वा तथाभविष्यद् अवितथानन्यतथाविपरीता भूता सत्या यथावन् नित्या ध्रुवा शाश्वताविपरिणामधर्मिणी न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । तस्मात् तर्हि सुभूते जिह्वा कल्पिता विठयिता सन्दर्भिता । इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते कायस् तथाभविष्यद् अवितथानन्यतथाविपरीता भूतः सत्या यथावन् नित्या ध्रुवः शाश्वतो ऽविपरिणामधर्मा खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । तस्मात् तर्हि सुभूते कायः कल्पितो विठयितः सन्दर्भितः । इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते मनस् तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मं न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । तस्मात् तर्हि सुभूते मनः कल्पितं विठयितं सन्दर्भितम् इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति ।
सचेत् सुभूते रूपन् तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते रूपं कल्पितं विठयितं सन्दर्भितम् इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते शब्दस् तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतः सत्यः यथावन् नित्या ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते शब्दः कल्पितो विठयितः सन्दर्भितः इदं सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते गन्धस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यः यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते गन्धः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते रसस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते रसः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते स्पर्शस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् खल्व् एव सुभूते स्पर्शः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुव ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासरं लोकम् अभिभूय निर्याति । सचेत् सुभूते धर्मास् तथाभविष्यद् अवितथानन्यतथाविपरीताः सत्या यथावन् नित्या ध्रुवाः शाश्वता अविपरिणामधर्माः न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति ।
सचेत् सुभूते चक्षुर्विज्ञानं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते चक्षुर्विज्ञानं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं । विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते श्रोत्रविज्ञानं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते श्रोत्रविज्ञानं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते घ्राणविज्ञानन् तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते घ्राणविज्ञानं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते जिह्वाविज्ञानं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते जिह्वाविज्ञानं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते कायविज्ञानं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यात् । यस्मात् तर्हि सुभूते कायविज्ञानं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते मनोविज्ञानं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूति मनोविज्ञानं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति ।
सचेत् सुभूते चक्षुःसंस्पर्शस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते चक्षुःसंस्पर्शः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते श्रोत्रसंस्पर्शस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते श्रोत्रसंस्पर्शः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते घ्राणसंस्पर्शस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते घ्राणसंस्पर्शः कल्पितो विठयितः सन्दर्भितो नित्यो ध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते जिह्वासंस्पर्शस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते जिह्वासंस्पर्शः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते कायसंस्पर्शस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते कायसंस्पर्शः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते मनःसंस्पर्शस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते मनःसंस्पर्शः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते चक्षुःसंस्पर्शप्रत्ययवेदितं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते चक्षुःसंस्पर्शप्रत्ययवेदितं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते श्रोत्रसंस्पर्शप्रत्ययवेदितं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते श्रोत्रसंस्पर्शप्रत्ययवेदितं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते घ्राणसंस्पर्शप्रत्ययवेदितं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते घ्राणसंस्पर्शप्रत्ययवेदितं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते जिह्वासंस्पर्शप्रत्ययवेदितं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते जिह्वासंस्पर्शप्रत्ययवेदितं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते कायसंस्पर्शप्रत्ययवेदितं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते कायसंस्पर्शप्रत्ययवेदितं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते मनःसंस्पर्शप्रत्ययवेदितं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते मनःसंस्पर्शप्रत्ययवेदितं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति ।
सचेत् सुभूते पृथिवीधातुस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते पृथिवीधातुः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते ऽब्धातुस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते ऽब्धातुः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते तेजोधातुस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते तेजोधातुः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते वायुधातुस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते वायुधातुः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते आकाशधातुस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते आकाशधातुः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति ।
सचेत् सुभूते विज्ञानधातुस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते विज्ञानधातुः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते अविद्या तथाभविष्यद् अवितथानन्यतथाविपरीता भूता सत्या यथावन् नित्या ध्रुवा शाश्वताविपरिणामधर्मिणी न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते अविद्या कल्पिता विठयिता सन्दर्भितानित्याध्रुवाशाश्वता विपरिणामधर्मिणी अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते संस्कारास् तथाभविष्यद् अवितथानन्यतथाविपरीता भूताः सत्या यथावन् नित्या ध्रुवाः शाश्वता अविपरिणामधर्माणो न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते संस्काराः कल्पिता विठयिताः सन्दर्भिताः अनित्या अध्रुवा अशाश्वता विपरिणामधर्मणो अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते विज्ञानं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते विज्ञानं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते नामरूपं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते नामरूपं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते षडायतनं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते षडायतनं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते स्पर्शस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते स्पर्शः कल्पितो विठयितो सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो ऽविपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते वेदना तथाभविष्यद् अवितथानन्यतथाविपरीता भूता सत्या यथावन् नित्या ध्रुवा शाश्वताविपरिणामधर्मिणी न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते वेदना कल्पिता विठयिता सन्दर्भितानित्याध्रुवाशाश्वताविपरिणामधर्मिणी अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते तृष्णा तथाभविष्यद् अवितथानन्यतथाविपरीता भूता सत्या यथावन् नित्या ध्रुवा शाश्वताविपरिणामधर्मिणी न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते तृष्णा कल्पिता विठयिता सन्दर्भितानित्याध्रुवाशाश्वताविपरिणामधर्मिणी अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते उपादानं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते उपादानं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते स्पर्शस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते स्पर्शः कल्पितो विठयितो सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो ऽविपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते भवस् तथाभविष्यद् अवितथानन्यतथाविपरीतो भूतः सत्यो यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मा न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते भवः कल्पितो विठयितः सन्दर्भितो ऽनित्यो ऽध्रुवो ऽशाश्वतो विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते जातिस् तथाभविष्यद् अवितथानन्यतथाविपरीता भूता सत्या यथावन् नित्या ध्रुवा शाश्वताविपरिणामधर्मिणी न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते
जातिः कल्पिता विठयिता सन्दर्भितानित्याध्रुवाशाश्वता विपरिणामधर्मिणी अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते जरामरणं तथाभविष्यद् अवितथानन्यतथाविपरीतं भूतं सत्यं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्म न खल्व् अभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते जरामरणं कल्पितं विठयितं सन्दर्भितम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्माभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति ।
सचेत् सुभूते दानपारमिताभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते दानपारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते शीलपारमिताभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते शीलपारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते क्षान्तिपारमिताभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते क्षान्तिपारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते वीर्यपारमिताभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते वीर्यपारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते ध्यानपारमिताभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते ध्यानपारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते प्रज्ञापारमिताभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते प्रज्ञापारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति ।
सचेत् सुभूते अध्यात्मशून्यताभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते अध्यात्मशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते बहिर्धाशून्यताभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते बहिर्धाशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते अध्यात्मबहिर्धाशून्यताभावो ऽभविष्यन् नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते अध्यात्मबहिर्धाशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते शून्यताशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते शून्यताशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते महाशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते महाशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते परमार्थशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते परमार्थशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते संस्कृतशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते शून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते असंस्कृतशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते असंस्कृतशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते ऽत्यन्तशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते अत्यन्तशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते अनवराग्रशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते अनवराग्रशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते अनवकारशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते अनवकारशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते प्रकृतिशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते प्रकृतिशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते सर्वधर्मशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते सर्वधर्मशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते स्वलक्षणशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते स्वलक्षणशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते अनुपलम्भशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते अनुपलम्भशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते ऽभावशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते अभावशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते स्वभावशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते स्वभावशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते अभावस्वभावशून्यताभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते अभावस्वभावशून्यता अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति ।
सचेत् सुभूते चत्वारि स्मृत्युपस्थानानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते स्मृत्युपस्थानानि अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते सम्यक्प्रहाणानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते सम्यक्प्रहाणानि अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते ऋद्धिपादा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते ऋद्धिपादा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते इन्द्रियाणि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते इन्द्रियाण्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते बलानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते बलान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते बोध्यङ्गानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते बोध्यङ्गान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते मार्गो ऽभावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते मार्गो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते आर्यसत्यानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते आर्यसत्यान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते ध्यानानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते ध्यानान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते अप्रमाणानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते अप्रमाणान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते आरूप्यसमापत्तयो भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते आरूप्यसमापत्तयो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते विमोक्षा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते विमोक्षा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते अनुपूर्वविहारसमापत्तयो भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते ऽनुपूर्वविहारसमापत्तयो अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते ऽभिज्ञा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते अभिज्ञा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते समाधयो भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते समाधयो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते धारणीमुखानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते धारणीमुखान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते तथागतबलानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते तथागतबलान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते वैशारद्यानि भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते वैशारद्यान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते प्रतिस ं विदो भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते प्रतिस ं विदो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते महाकारुणा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते महाकारुणाभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते अष्टादशावेणिका बुद्धधर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते अष्टादशावेणिका बुद्धधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति ।
सचेत् सुभूते गोत्रभूधर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते गोत्रभूधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते अष्टमकधर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते अष्टमकधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते आपन्नधर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते आपन्नधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते सकृदागामिधर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते सकृदागामिधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते अनागामिधर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते अनागामिधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते अर्हद्धर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते अर्हद्धर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते प्रत्येकबुद्धधर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते प्रत्येकबुद्धधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते बोधिसत्त्वधर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते बोधिसत्त्वधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते बुद्धधर्मा भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते बुद्धधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते गोत्रभूर् भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते गोत्रभूर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते ऽष्टमको भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते ऽष्टमको ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते श्रोतआपन्नो भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते श्रोतआपन्नो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते सकृदागामी भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते सकृदागामी अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते अनागामी भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते अनागामी अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते ऽर्हन् भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते ऽर्हन्न् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते प्रत्येकबुद्धो भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते प्रत्येकबुद्धो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते बोधिसत्त्वो भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते बोधिसत्त्वो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते तथागतो ऽर्हन् सम्यक्स ं बुद्धो भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते तथागतो ऽर्हन् सम्यक्स ं बुद्धो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते धर्मधातुर् भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते धर्मधातुर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते तथता भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते तथताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते भूतकोटिर् भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते भूतकोटिर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते अचिन्त्यधातुर् भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते अचिन्त्यधातुर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते सदेवमानुषासुरो लोको भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तर्हि सुभूते सदेवमानुषासुरो लोको ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्याति ।
सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्ड एतस्मिन्न् अन्तरे ये चित्तोत्पादास् ते भावो ऽभविष्यन् नाभावो नेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति । यस्मात् तर्हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्ड एतस्मिन्न् अन्तरे ये चित्तोत्पादास् ते ऽभावो न भावस् तस्मान् महायानं स देवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमं ज्ञानं भावो ऽभविष्यन् नाभावो नेदं बोधिसत्त्वो महासत्त्वः सर्ववासनानुसन्धिक्लेश न भावं विदित्वा सर्वाकारज्ञताम् अनुप्राप्स्यत् । सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत् । यस्मात् तहि सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमं ज्ञानम् अभावो न भावस् तस्माद् बोधिसत्त्वो महासत्त्वः सर्ववासनानुसन्धिक्लेशम् अभावं विदित्वा सर्वाकारज्ञताम् अनुप्राप्नोति । स देवमानुषासुरं लोकम् अभिभूय निर्याति । सचेत् सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य द्वात्रिंशन् महापुरुषलक्षणानि भावो ऽभविष्यन् नाभावो नेदं तथागतो ऽर्हन् सम्यक्स ं बुद्धः सदेवमानुषासुरं लोकम् अभिभूय तेजसा श्रिया चाभाविष्यता तप्स्यत् राजिष्यत् । तस्मात् तर्हि सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य द्वात्रिंशन् महापुरुषलक्षणान्य् अभावो न भावस् तस्मात् तथागतो ऽर्हन् सम्यक्मम्बुद्धः सदेवमानुषासुरं लोकम् अभिभूय तेजसा श्रिया च भासते तपति विराजते । सचेत् सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य भावो ऽभविष्यन् नाभावो नेदं तथागतो ऽर्हन् सम्यक्स ं बुद्धो गङ्गानदीवालुकोपमान् लोकधातुनाभयास्फुरिष्यत् । यस्मात् तर्हि सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्याभावो न भावस् तस्मात् तथागतो ऽर्हन् सम्यक्स ं बुद्धो गङ्गानदीवालुकोपमान् लोकधातुनाभयास्फुरति । सचेत् सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य षष्ट्यङ्गोपेतः स्वरो भावो ऽभविष्यन् नाभावो नेदं तथागतो ऽर्हन् सम्यक्स ं बुद्धो दशसु दिक्षु अप्रमेयासंख्येयान् लोकधातून् स्वरेणाभिव्यज्ञपयिष्यत् । यस्मात् तर्हि सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य षष्ट्यङ्गोपेतः स्वरो ऽभावो न भावस् तस्मात् तथागतो ऽर्हन् सम्यक्स ं बुद्धो दशसु दिक्षु अप्रमेयासंख्येयान् लोकधातून् स्वरेणाभिव्यज्ञपयति । सचेत् सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य धर्मचक्रं भावो ऽभविष्यन् नाभावो नेदं तथागतो ऽर्हन् सम्यक्स ं बुद्धो धर्मचक्रं प्रावर्तयिष्यत् । अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सहधर्मेण । यस्मात् तहि सुभूते तथागतस्यार्हतः सम्यक्स ं बुद्धस्य धर्मचक्रम् अभावो न भावस् तस्मात् तथागतो ऽर्हन् सम्यक्स ं बुद्धो धर्मचक्रं प्रवर्तयत्य् अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन मारेण वा केनचिद् वा पुनर् लोके सहधर्मेण । सचेत् सुभूते सत्त्वाभावो ऽभविष्यन् नाभावो येषां कृते तथागतेनार्हता सम्यक्स ं बुद्धेन धर्मचक्रं प्रवर्तितं नेह ते सत्त्वा अनुपधिशेषे निर्वाणधातौ परिणिरवापयिष्यत् । यस्मात् तर्हि सुभूते सत्त्वा अभावो न भाव वा येषां कृते तथागतेनार्हता सम्यक्स ं बुद्धेन धर्मचक्रं प्रवर्तितं । तस्मात् सत्त्वा अनुपधिशेषे निर्वाणधातौ परिनिर्वृताश् च परिनिव्वान्ति च परिनिर्वास्यति च ।
यत् पुनः सुभूतिर् एवम् आह । आकाशसमं तद् यानम् इति । एवम् एतत् सुभूते एवम् एतत् आकाशसमं तद् यानं तद्यथापि नाम सुभूते आकाशस्य न पूर्वा दिक् प्रज्ञायते न दक्षिणा न पश्चिमा नोत्तरा नोर्धा नाधो नानुविदिशः प्रज्ञायन्ते । एवम् एव सुभूते तस्य महायानस्य न पूर्वा दिक् प्रज्ञायते न दक्षिणा न पश्चिमा नोत्तरा नानुविदिशः प्रज्ञायन्ते । तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशं न नीलं न पीतं न लोहितं नावदातं नाञ्जिष्ठं न स्फटिकरजतवर्णम् एवम् एव सुभूते तन् महायानं न नीलं न पीतं न लोहितं नावदातं नाञ्जिष्ठं न स्फटिकरजतवर्णं तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशं नातीतं नानागतं न प्रत्युत्पन्नम् एवम् एव सुभूते तन् महायानं नातीतं नानागातं न प्रत्युत्पन्नं तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशस्य न हानिर् न वृद्धिर् न परिहाणिः एवम् एव तस्य महायानस्य न हानिर् न वृद्धिर् न परिहाणिस् तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशस्य न संक्लेशो न व्यवदानम् एवम् एव सुभूते तस्य महायानस्य न संक्लेशो न व्यवदानं तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशस्य नोत्पादो न विरोधो न स्थितिर् न विष्ठिति न स्थितेर् अन्यथात्वं प्रज्ञायते । एवम् एव सुभूते तस्य महायानस्य नोत्पादो न निरोधो न स्थितिर् न विष्ठितिर् न स्थितेर् अन्यथात्वं प्रज्ञायते । तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशं न कुशलं नाकुशलं न व्याकृतम् एवम् एव सुभूते तन् महायानं न कुशलं नाकुशलं न व्याकृतं तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशं न दृष्टं न श्रुतं न मतं न विज्ञातम् एवम् एव सुभूते तन् महायानं न दृष्टं तद् यानं । न श्रुतं स मतं न विज्ञातं तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशं न ज्ञेयं नाज्ञेयं न विज्ञेयं न परिज्ञेयं न साक्षात्कर्तव्यं न प्रहातव्यं न भावयितव्यम् एवम् एव सुभूते तन् महायानं न ज्ञेयं नाज्ञेयं न विज्ञेयं न परिज्ञेयं न साक्षात्कर्तव्यं न प्रहातव्यं न भावयितव्यं तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशं न विपाको न विपाकधर्म एवम् एव सुभूते तन् महायानं न विपाको न विपाकधर्म तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशं न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नम् एवम् एव सुभूते तन् महायानं न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नं तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशं न सरागं न विरागं न सद्वेषं न विगतद्वेषं न समोहं न विगतमोहं । एवम् एव सुभूते तन् महायानं न सरागं न विरागं न सद्वेषं न विगतद्वेषं न समोहं न विगतमोहं । तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशे न प्रथमश् चित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो न षष्ठो न सप्तमो नाष्टमो न नवमो न दशमश् चित्तोत्पादः । एवम् एव सुभूते तत्र महायाने न प्रथमश् चित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो न षष्ठो न सप्तमो नाष्टमो न नवमो न दशमश् चित्तोत्पादः । तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशे न शुक्लविदर्शनाभूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न तनुभूमिर् न वीतरागभूमिर् न कृताविभूमिर् एवम् एव सुभूते तत्र महायाने न शुक्लविदर्शनाभूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न तनुभूमिर् न कृताविभूमिस् तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशे न श्रोतापत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वम् एवम् एव सुभूते तत्र महायाने न श्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशे न श्रावकभूमिर् न प्रत्येकबुद्धभूमिर् न बोधिसत्त्वभूमिर् न सम्यक्स ं बुद्धभूमिर् एवम् एव सुभूते तत्र महायाने न श्रावकभूमिर् न प्रत्येकबुद्धभूमिर् न बोधिसत्त्वभूमिर् न सम्यक्स ं बुद्धभूमिस् तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशं न रूपि नारूपि न सनिदर्शनं नानिदर्शनं न प्रतिघं नाप्रतिघं न संयुक्तं न वियुक्तम् एवम् एव सुभूते तन् महायानं न रूपि नारूपि न सनिदर्शनं नानिदर्शनं न प्रतिघं नाप्रतिघं न संयुक्तं न वियुक्तं तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा न शुभं नाशुभं । एवम् एव सुभूते तन् महायानं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा न शुभं नाशुभं तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशं न शून्यं नाशून्यं न निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितम् एवम् एव तन् महायानं न शून्यं नाशून्यं न निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितं तेनोच्यते आकाशमम तद् यानं । तद्यथापि नाम सुभूते आकाशं न शान्तं नाशान्तं न विविक्तं नाविविक्तं । एवम् एव सुभूते तन् महायानं न शान्तं नाशान्तं न विविक्तं नाविविक्तं तेनोच्यते आकाशसमं तद् यानं तद्यथापि नाम सुभूते आकाशं नालोको न तमः एवम् एव सुभूते तन् महायानं नालोको न तमः तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशं नोपलभ्यते । एवम् एव तन् महायानं नोपलभ्यते । तेनोच्यते आकाशसमं तद् यानं । तद्यथापि नाम सुभूते आकाशं न प्रव्याहारो नाप्रव्याहारः । एवम् एव सुभूते तन् महायानं न प्रव्याहारो नाप्रव्याहारः । तेनोच्यते आकाशसमं तद् यानं । अनेन सुभूते पर्यायेणाकाशसमं तद् यानं यद् उत महायानम् ।
यद् अपि सुभूतिर् एवम् आह । यथाकाशे ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । एवम् एव तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाश इति । एवम् एतत् सुभूते एवम् एतत् यथाकाशे ऽप्रमेयाणाम् असंख्येयानां सत्वानाम् अवकाशः । एवम् एतस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्वानाम् अवकाशः । तत् कस्य हेतोः सत्त्वासत्तया हि सुभूते आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । अनेनापि पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां तत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं सर्वं तन् नोपलभ्यते । पुनर् अपरं सुभूते सत्त्वाप्रमाणतया आकाशप्रमाणता वेदितव्या । आकाशप्रमाणतया महायानप्रमाणता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं सर्व तन् नोपलभ्यते । पुनर् अपरं सुभूते सत्त्वापरिमाणतया आकाशापरिमाणता वेदिता । आकाशापरिमाणतया महायानापरिमाणता वेदिता । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते ये च यच् चाकाशं यच् च महायानं सर्वम् एतन् नोपलभ्यते । पुनर् अपरं सुभूते सत्त्वासत्तया धर्मधात्वसत्ता वेदितव्या । धर्मधात्वसत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तया अप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या । असंख्ययासत्तयापरिमाणासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते ये च सत्त्वा यश् च धर्मधातुर् यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं सर्वम् एतन् नोपलभ्यते । पुनर् अपरं सुभूते सत्त्वासत्तया तथतासत्ता वेदितव्या । तथतासत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तयाप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या । असंख्येयासत्तयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिम् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्तानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते ये च सत्त्वा यश् च धर्मधातुर् यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं सर्वम् एतन् नोपलभ्यते । पुनर् अपरं सुभूते सत्तासत्तया तथतासत्ता वेदितव्या । तथतासत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तयाप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या । असंख्येयासत्तयापरिमाणासत्ता वेदितव्या । अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते ये च सत्त्वा या च तथता यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः सर्वम् एतन् नोपलभ्यते ।
पुनर् अपरं सुभूते आत्मसत्तया सत्त्वासत्ता वेदितव्या । सत्त्वासत्तया जीवासत्ता वेदितव्या । जीवासत्तया जन्त्वसत्ता वेदितव्या । जन्त्वसत्तया पोषासत्ता वेदितव्या । पोषासत्तया पुरुषासत्ता वेदितव्या । पुरुषासत्तया पुद्गलासत्ता वेदितव्या । पुद्गलासत्तया मनुजासत्ता वेदितव्या । मनुजासत्तया मानवासत्ता वेदितव्या । मानवासत्तया कारकासत्ता वेदितव्या । कारकासत्तया वेदकासत्ता वेदितव्या । वेदकासत्तया जानकासत्ता वेदितव्या । जानकासत्तया पश्यकासत्ता वेदितव्या । पश्यकासत्तया भूतकोट्यसत्ता वेदितव्या । भूतकोट्यसत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तयाप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या । असंखेयासत्तयापरिमाणासत्ता वेदितव्या । अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलः । यश् च मनुजो यश् च मानवो । यश् च कारको ऽकारको यश् च जानको यश् च पश्यको या च भूतकोटि यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः सर्वम् एतन् नोपलभ्यते । पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या । सत्त्वासत्तया जीवासत्ता वेदितव्या । जीवासत्तया जन्त्वसत्ता वेदितव्या । जन्त्वसत्तया पोषासत्ता वेदितव्या । पोषासत्तया पुरुषासत्ता वेदितव्या । पुरुषासत्तया पुद्गलासत्ता वेदितव्या । पुद्गलासत्तया मनुजासत्ता वेदितव्या । मनुजासत्तया मानवासत्ता वेदितव्या । मानवासत्तया कारकासत्ता वेदितव्या । कारकासत्तया वेदकासत्ता वेदितव्या । वेदकासत्तया जानकासत्ता वेदितव्या । जानकासत्तया पश्यकासत्ता वेदितव्या । पश्यकासत्तयाचिन्त्यधात्वसत्ता वेदितव्या । अचिन्त्यधात्वसत्तया रूपासत्ता वेदितव्या । रूपासत्तया वेदनासत्ता वेदितव्या । वेदनासत्तया संज्ञासत्ता वेदितव्या । संज्ञासत्तया संस्कारासत्ता वेदितव्या । संस्कारासत्तया विज्ञानासत्ता वेदितव्या । विज्ञानासत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तयाप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या । असंख्येयासत्तयापरिमाणासत्ता वेदितव्या । अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यच् च पश्यको यश् चाचिन्त्यधातुर् यच् च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं यच् चाकाशं यच् च महायानं यथाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः सर्वम् एतन् नोपलभ्यते । पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या । सत्त्वासत्तया जीवासत्ता वेदितव्या । जीवासत्तया जन्त्वसत्ता वेदितव्या । जन्त्वसत्तया पोषासत्ता वेदितव्या । पोषासत्तया पुरुषासत्ता वेदितव्या । पुरुषासत्तया पुद्गलासत्ता वेदितव्या । पुद्गलासत्तया मनुजासत्ता वेदितव्या । मनुजासत्तया मानवासत्ता वेदितव्या । मानवासत्तया कारकासत्ता वेदितव्या । कारकासत्तया वेदकासत्ता वेदितव्या । वेदकासत्तया जानकासत्ता वेदितव्या । जानकासत्तया पश्यकासत्ता वेदितव्या । पश्यकासत्तया चक्षुरसत्ता वेदितव्या । चक्षुरसत्तया श्रोत्रासत्ता वेदितव्या । श्रोत्रासत्तया घ्राणासत्ता वेदितव्या । घ्राणासत्तया जिह्वासत्ता वेदितव्या । जिह्वासत्तया कायासत्ता वेदितव्या । कायासत्तया मनोसत्ता वेदितव्या । मनोसत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तयाप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या । असंख्येयसत्तयापरिमाणासत्ता वेदितव्या । अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यत् चक्षुर् यच् च श्रोत्रं यच् च घ्राणं यच् च जिह्वा यश् च कायः यच् च मनः यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः । तत् सर्वं नोपलभ्यते ।
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या । सत्त्वासत्तया जीवासत्ता वेदितव्या । जीवासत्तया जन्त्वसत्ता वेदितव्या । जन्त्वसत्तया पोषासत्ता वेदितव्या । पोषासत्तया पुरुषासत्ता वेदितव्या । पुरुषासत्तया पुद्गलासत्ता वेदितव्या । पुद्गलासत्तया मनुजासत्ता वेदितव्या । मनुजासत्तया मानवासत्ता वेदितव्या । मानवासत्तया कारकासत्ता वेदितव्या । कारकासत्तया वेदकासत्ता वेदितव्या । वेदकासत्तया जानकासत्ता वेदितव्या । जानकासत्तया पश्यकासत्ता वेदितव्या । पश्यकासत्तया रूपासत्ता वेदितव्या । रूपासत्तया शब्दासत्ता वेदितव्या । शब्दासत्तया गन्धासत्ता वेदितव्या । गन्धासत्तया रसासत्ता वेदितव्या । रसासत्तया स्पर्शासत्ता वेदितव्या । स्पर्शासत्तया धर्मासत्ता वेदितव्या । धर्मासत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तयाप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या । असंख्येयसत्तयापरिमाणासत्ता वेदितव्या । अपरिमाणसत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयाणां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यच् च रूपं यश् च शब्दः यश् च गन्धो यश् च रसो यश् च स्पर्शः ये च धर्माः यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः । सर्वम् एतन् नोपलभ्यते ।
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या । सत्त्वासत्तया जीवासत्ता वेदितव्या । जीवासत्तया जन्त्वसत्ता वेदितव्या । जन्त्वसत्तया पोषासत्ता वेदितव्या । पोषासत्तया पुरुषासत्ता वेदितव्या । पुरुषासत्तया पुद्गलासत्ता वेदितव्या । पुद्गलासत्तया मनुजासत्ता वेदितव्या । मनुजासत्तया मानवासत्ता वेदितव्या । मानवासत्तया कारकासत्ता वेदितव्या । कारकासत्तया वेदकासत्ता वेदितव्या । वेदकासत्तया जानकासत्ता वेदितव्या । जानकासत्तया पश्यकासत्ता वेदितव्या । पश्यकासत्तया चक्षुर्विज्ञानासत्ता वेदितव्या । चक्षुर्विज्ञानासत्तया श्रोत्रविज्ञानासत्ता वेदितव्या । श्रोत्रविज्ञानासत्तया घ्राणविज्ञानासत्ता वेदितव्या । घ्राणविज्ञानासत्तया जिह्वाविज्ञानासत्ता वेदितव्या । जिह्वाविज्ञानासत्तया कायविज्ञानासत्ता वेदितव्या । कायविज्ञानासत्तया मनोविज्ञानासत्ता वेदितव्या । मनोविज्ञानासत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तयाप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या । असंख्येयासत्तयापरिमाणासत्ता वेदितव्या । अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण महायाने ऽप्रमेयाणाम् असंख्येयाणां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यच् च चक्षुर्विज्ञानं यच् च श्रोत्रविज्ञानं यच् च घ्राणविज्ञानं यच् च जिह्वाविज्ञानं यच् च कायविज्ञानं यच् च मनोविज्ञानं यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः सर्वम् एतन् नोपलभ्यते ।
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या । सत्त्वासत्तया जीवासत्ता वेदितव्या । जीवासत्तया जन्त्वसत्ता वेदितव्या । जन्त्वसत्तया पोषासत्ता वेदितव्या । पोषासत्तया पुरुषासत्ता वेदितव्या । पुरुषासत्तया पुद्गलासत्ता वेदितव्या । पुद्गलासत्तया मनुजासत्ता वेदितव्या । मनुजासत्तया मानवासत्ता वेदितव्या । मानवासत्तया कारकासत्ता वेदितव्या । कारकासत्तया वेदकासत्ता वेदितव्या । वेदकासत्तया जानकासत्ता वेदितव्या । जानकासत्तया पश्यकासत्ता वेदितव्या । पश्यकासत्तया चक्षुःसंस्पर्शासत्ता वेदितव्या । चक्षुःसंस्पर्शासत्तया श्रोत्रसंस्पर्शासत्ता वेदितव्या । श्रोत्रसंस्पर्शासत्तया घ्राणसंस्पर्शासत्ता वेदितव्या । घ्राणसंस्पर्शासत्तया जिह्वासंस्पर्शासत्ता वेदितव्या । जिह्वासंस्पर्शासत्तया कायसंस्पर्शासत्ता वेदितव्या । कायसंस्पर्शासत्तया मनःसंस्पर्शासत्ता वेदितव्या । मनःसंस्पर्शासत्तया आकाशासत्ता वेदितव्या । आकाशसत्तया महायानासत्ता वेदितव्या । महायानासत्तयाप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या । असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या । अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयाणां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यश् च चक्षुःसंस्पर्शो यश् च श्रोत्रसंस्पर्शो यश् च घ्राणसंस्पर्शो यश् च जिह्वासंस्पर्शो यश् च कायसंस्पर्शो यश् च मनःसंस्पर्शो यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः । सर्वम् एतन् नोपलभ्यते ।
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या । सत्त्वासत्तया जीवासत्ता वेदितव्या । जीवासत्तया जन्त्वसत्ता वेदितव्या । जन्त्वसत्तया पोषासत्ता वेदितव्या । पोषासत्तया पुरुषासत्ता वेदितव्या । पुरुषासत्तया पुद्गलासत्ता वेदितव्या । पुद्गलासत्तया मनुजासत्ता वेदितव्या । मनुजासत्तया मानवासत्ता वेदितव्या । मानवासत्तया कारकासत्ता वेदितव्या । कारकासत्तया वेदकासत्ता वेदितव्या । वेदकासत्तया जानकासत्ता वेदितव्या । जानकासत्तया पश्यकासत्ता वेदितव्या । पश्यकासत्तया चक्षुःसंस्पर्शजावेदनासत्ता वेदितव्या । चक्षुःसंस्पर्शजावेदनासत्तया श्रोत्रसंस्पर्शजावेदनासत्ता वेदितव्या । श्रोत्रसंस्पर्शजावेदनासत्तया घ्राणसंस्पर्शजावेदनासत्ता वेदितव्या । घ्राणसंस्पर्शजावेदनासत्तया जिह्वासंस्पर्शजावेदनासत्ता वेदितव्या । जिह्वासंस्पर्शजावेदनासत्तया कायसंस्पर्शजावेदनासत्ता वेदितव्या । कायसंस्पर्शजावेदनासत्तया मनःसंस्पर्शजावेदनासत्ता वेदितव्या । मनःसंस्पर्शजावेदनासत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तयाप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तया असंख्येयासत्ता वेदितव्या । असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या । अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयाणां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको या च चक्षुःसंस्पर्शजावेदना या च श्रोत्रसंस्पर्शजावेदना या च घ्राणसंस्पर्शजावेदना या च जिह्वासंस्पर्शजावेदना या च कायसंस्पर्शजावेदना या च मनःसंस्पर्शजावेदना यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः सर्वम् एतन् नोपलभ्यते ।
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या । सत्त्वासत्तया जीवासत्ता वेदितव्या । जीवासत्तया जन्त्वसत्ता वेदितव्या । जन्त्वसत्तया पोषासत्ता वेदितव्या । पोषासत्तया पुरुषासत्ता वेदितव्या । पुरुषासत्तया पुद्गलासत्ता वेदितव्या । पुद्गलासत्तया मनुजासत्ता वेदितव्या । मनुजासत्तया मानवासत्ता वेदितव्या । मानवासत्तया कारकासत्ता वेदितव्या । कारकासत्तया वेदकासत्ता वेदितव्या । वेदकासत्तया जानकासत्ता वेदितव्या । जानकासत्तया पश्यकासत्ता वेदितव्या । पश्यकासत्त्या पृथिवीधात्वसत्ता वेदितव्या । पृथिवीधात्वसत्तया अब्धात्वसत्ता वेदितव्या । अब्धात्वसत्तया तेजोधात्वसत्ता वेदितव्या । तेजोधात्वसत्तया वायुधात्वसत्ता वेदितव्या । वायधात्वसत्तया आकाशधात्वसत्ता वेदितव्या । आकाशधात्वसत्तया विज्ञानधात्वसत्ता वेदितव्या । विज्ञानधात्वसत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तया अप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या । असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या । अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यश् च पृथिवीधातुर् यश् चाब्धातुर् यश् च तेजोधातुर् यश् च वायुधातुर् यश् चाकाशधातुर् यश् च विज्ञानधातुर् यच् चाकाशं यच् च महायानं यच् चाप्रमेयं । यच् चासंख्येय यच् चापरिमाणं ये च सर्वधर्माः । सर्वम् एतन् नोपलभ्यते ।
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या । सत्त्वासत्तया जीवासत्ता वेदितव्या । जीवासत्तया जन्त्वसत्ता वेदितव्या । जन्त्वसत्तया पोषासत्ता वेदितव्या । पोषासत्तया पुरुषासत्ता वेदितव्या । पुरुषासत्तया पुद्गलासत्ता वेदितव्या । पुद्गलासत्तया मनुजासत्ता वेदितव्या । मनुजासत्तया मानवासत्ता वेदितव्या । मानवासत्तया कारकासत्ता वेदितव्या । कारकासत्तया वेदकासत्ता वेदितव्या । वेदकासत्तया जानकासत्ता वेदितव्या । जानकासत्तया पश्यकासत्ता वेदितव्या । पश्यकासत्तया अविद्यासत्ता वेदितव्या । अविद्यासत्तया संस्कारासत्ता वेदितव्या । संस्कारासत्तया विज्ञानासत्ता वेदितव्या । विज्ञानासत्तया नामरूपासत्ता वेदितव्या । नामरूपासत्तया षडायतनासत्ता वेदितव्या । षडायतनासत्तया स्पर्शासत्ता वेदितव्या । स्पर्शासत्तया वेदनासत्ता वेदितत्या । वेदनासत्तया तृष्णासत्ता वेदितव्या । तृष्णासत्तया उपादानासत्ता वेदितव्या । उपादानासत्तया भवासत्ता वेदितव्या । भवासत्तया जात्यसत्ता वेदितव्या । जात्यसत्तया जरामरणासत्ता वेदितव्या । जरामरणासत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तयाप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या । असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या । अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको या चाविद्या ये च संस्कारा यच् च विज्ञानं यच् च नामरूपं यच् च षडायतनं यश् च स्पर्शो या च वेदना या च तृष्णा यच् चोपादानं यश् च भवो या च जातिर् यच् च जरामरणं यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः । सर्वम् एतन् नोपलभ्यते ।
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या । सत्त्वासत्तया जीवासत्ता वेदितव्या । जीवासत्तया जन्त्वसत्ता वेदितव्या । जन्त्वसत्तया पोषासत्ता वेदितव्या । पोषासत्तया पुरुषासत्ता वेदितव्या । पुरुषासत्तया पुद्गलासत्ता वेदितव्या । पुद्गलासत्तया मनुजासत्ता वेदितव्या । मनुजासत्तया मानवासत्ता वेदितव्या । मानवासत्तया कारकासत्ता वेदितव्या । कारकासत्तया वेदकासत्ता वेदितव्या । वेदकासत्तया जानकासत्ता वेदितव्या । जानकामत्तया पश्यकासत्ता वेदितव्या । पश्यकासत्तया दानपारमितासत्ता वेदितव्या । दानपारमितासत्तया शीलपारमितासत्ता वेदितव्या । शीलपारमितासत्तया क्षान्तिपारमितासत्ता वेदितव्या । क्षान्तिपारमितासत्तया वीर्यपारमितासत्ता वेदितव्या । वीर्यपारमितासत्तया ध्यानपारमितासत्ता वेदितव्या । ध्यानपारमितासत्तया प्रज्ञापारमितासत्ता वेदितव्या । प्रज्ञापारमितासत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तयाप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या । असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या । अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि । यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यच् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको या च दानपारमिता या च शीलपारमिता या च क्षान्तिपारमिता या च वीर्यपारमिता या च ध्यानपारमिता या च प्रज्ञापारमिता यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः सर्वम् एतन् नोपलभ्यते ।
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या । सत्त्वासत्तया जीवासत्ता वेदितव्या । जीवासत्तया जन्त्वसत्ता वेदितव्या । जन्त्वसत्तया पोषासत्ता वेदितव्या । पोषासत्तया पुरुषासत्ता वेदितव्या । पुरुषासत्तया पुद्गलसत्ता वेदितव्या । पुद्गलासत्तया मनुजासत्ता वेदितव्या । मनुजासत्तया मानवासत्ता वेदितव्या । मानवासत्तया कारकासत्ता वेदितव्या । कारकासत्तया वेदकासत्ता वेदितव्या । वेदकासत्तया जानकासत्ता वेदितव्या जानकासत्तया पश्यकासत्ता वेदितव्या । पश्यकासत्तया अध्यात्मशून्यतासत्ता वेदितव्या । अध्यात्मशून्यतासत्तया बहिर्धाशून्यतासत्ता वेदितव्या । बहिर्धाशून्यतासत्तया अध्यात्मबहिर्धाशून्यतासत्ता वेदितव्या । अध्यात्मबहिर्धाशून्यतासत्तया शून्यताशून्यतासत्ता वेदितव्या । शून्यताशून्यतासत्तया महाशून्यतासत्ता वेदितव्या । महाशून्यतासत्तया परमार्थशून्यतासत्ता वेदितव्या । परमार्थशून्यतासत्तया संस्कृतरशून्यतासत्ता वेदितव्या । संस्कृतशून्यतासत्तयासंस्कृतशून्यतासत्ता वेदितव्या । असंस्कृतशून्यतासत्तया अत्यन्तशून्यतासत्ता वेदितव्या । अत्यन्तशून्यतासत्तया अनवराग्रशून्यतासत्ता वेदितव्या । अनवराग्रशून्यतासत्तया अनवकारशून्यतासत्ता वेदितव्या । अनवकारशून्यतासत्तया प्रकृतिशून्यतासत्ता वेदितव्या । प्रकृतिशून्यतासत्तया सर्वधर्मशून्यतासत्ता वेदितव्या । सर्वधर्मशून्यतासत्तया स्वलक्षणशून्यता वेदितव्या । स्वलक्षणशून्यतासत्तया अनुपलम्भशून्यतासत्ता वेदितव्या । अनुपलम्भशून्यतासत्तया अभावशून्यतासत्ता वेदितव्या । अभावशून्यतासत्तया स्वभावशून्यतासत्ता वेदितव्या । स्वभावशून्यतासत्तया अभावस्वभावशून्यतासत्ता वेदितव्या । अभावस्वभावशून्यतासत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तया अप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तया अपरिमाणासत्ता वेदितव्या । अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजा यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको या चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च शून्यताशून्यता या च महाशून्यता या च परमाथशून्यता या च संस्कृतशून्यता या चासंस्कृतशून्यता या चात्यन्तशून्यता या चानवराग्रशून्यता या चानवकारशून्यता या च प्रकृतिशून्यता या च सर्वधर्मशून्यता या च स्वलक्षणशून्यता या चानुपलम्भशून्यता या चाभावशून्यता या च स्वभावशून्यता या चाभावस्वभावशून्यता यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंक्येयं यच् चापरिमाणं ये च सर्वधर्माः । सर्वम् एतन् नोपलभ्यते ।
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या । सत्त्वासत्तया जीवसत्ता वेदितव्या । जीवसत्तया जन्त्वसत्ता वेदितव्या । जन्त्वसत्तया पोषासत्ता वेदितव्या । पोषासत्तया पुरुषासत्ता वेदितव्या । पुरुषासत्तया पुद्गलासत्ता वेदितव्या । पुद्गलासत्तया मनुजासत्ता वेदितव्या । मनुजासत्तया मानवासत्ता वेदितव्या । मानवासत्तया कारकासत्ता वेदितव्या । कारकासत्तया वेदकासत्ता वेदितव्या । वेदकासत्तया जानकासत्ता वेदितव्या । जानकासत्तया पश्यकासत्ता वेदितव्या । पश्यकासत्तया स्मृत्युपस्थानासत्ता वेदितव्या । स्मृत्युपस्थानासत्तया सम्यक्प्रहाणासत्ता वेदितव्या । सम्यक्प्रहाणासत्तया ऋद्धिपादासत्ता वेदितव्या । ऋद्धिपादासत्तया इन्द्रियासत्ता वेदितव्या । इन्द्रियासत्तया बलासत्ता वेदितव्या । बलासत्तया बोध्यङ्गासत्ता वेदितव्या । बोध्यङ्गासत्तया आर्याष्टाङ्गमार्गासत्ता वेदितव्या । आर्याष्टाङ्गमार्गासत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तयाप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या । असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या । अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यानि स्मृत्युपस्थानानि यानि सम्यक्प्रहाणानि ये चर्धिपादाः यानीन्द्रियाणि यानि बलानि यानि बोध्यङ्गानि यश् चार्याष्टामार्गो यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः । सर्वम् एतन् नोपलभ्यते ।
पुनर् अपरं सुभूते आत्मसत्तया सत्त्वासत्ता वेदितव्या । सत्त्वासत्तया जीवासत्ता वेदितव्या । जीवासत्तया जन्त्वसत्ता वेदितव्या । जन्त्वसत्तया पोषासत्ता वेदितव्या । पोषासत्तया पुरुषासत्ता वेदितव्या । पुरुषासत्तया पुद्गलासत्ता वेदितव्या । पुद्गलासत्तया मनुजासत्ता वेदितव्या । मनुजासत्तया मानवासत्ता वेदितव्या । मानवासत्तया कारकासत्ता वेदितव्या । कारकासत्तया वेदकासत्ता वेदितव्या । वेदकासत्तया जानकासत्ता वेदितव्या । जानकासत्तया पश्यकासत्ता वेदितव्या । पश्यकासत्तया आर्यसत्यासत्ता वेदितव्या आर्यसत्यासत्तया ध्यानासत्ता वेदितव्या । ध्यानासत्तया अप्रमाणासत्ता वेदितव्या । अप्रमाणासत्तया आरूप्यसमापत्त्यसत्ता वेदितव्या । आरूप्यसमापत्त्यसत्तया विमोक्षासत्ता वेदितव्या । विमोक्षासत्तया अनुपूर्वविहारसमापत्त्यसत्ता वेदितव्या । अनुपूर्वविहारसमापत्त्यसत्तया शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्ता वेदितव्या । शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तया अभिज्ञासत्ता वेदितव्या । अभिज्ञासत्तया समाध्यसत्ता वेदितव्या । समाध्यसत्तया धारणीमुखासत्ता वेदितव्या । धारणीमुखासत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तया अप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या । असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या । अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यानि चार्यसत्यानि यानि चाप्रमाणानि याश् चारूप्यसमापत्तयो ये च विमोक्षा याश् चानुपूर्वविहारसमापत्तयो यानि च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि याश् चाभिज्ञाः ये च समाधयो यानि च धारणीमुखानि यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः । सर्वम् एतन् नोपलभ्यते ।
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्तया वेदितव्या । सत्त्वासत्तया जीवासत्ता वेदितव्या । जीवासत्तया जन्त्वसत्ता वेदितव्या । जन्त्वसत्तया पोषासत्ता वेदितव्या । पोषासत्तया पुरुषासत्ता वेदितव्या । पुरुषासत्तया पुद्गलासत्ता वेदितव्या । पुद्गलासत्तया मनुजासत्ता वेदितव्या । मनुजासत्तया मानवासत्ता वेदितव्या । मानवासत्तया कारकासत्ता वेदितव्या । कारकासत्तया वेदकासत्ता वेदितव्या । वेदकासत्तया जानकासत्ता वेदितव्या । जानकासत्तया पश्यकासत्ता वेदितव्या । पश्यकासत्तया तथागतबलासत्ता वेदितव्या । तथागतबलासत्तया वैशारद्यासत्ता वेदितव्या । वैशारद्यासत्तया प्रतिस ं विदसत्ता वेदितव्या । प्रतिस ं विदसत्तया महाकरुणासत्ता वेदितव्या । महाकरुणासत्तया आवेणिकबुद्धधर्मासत्ता वेदितव्या । आवेणिकबुद्धधर्मासत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तया अप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या । असंख्येयासत्तयापरिमाणासत्ता वेदितव्या । अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यानि च तथागतबलानि यानि च वैशारद्यानि याश् च प्रतिस ं विदो या च महाकरुणा ये चावेणिकबुद्धधर्माः यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः । सर्वम् एतन् नोपलभ्यते ।
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या । सत्त्वासत्तया जीवासत्ता वेदितव्या । जीवासत्तया जन्त्वसत्ता वेदितव्या । जन्त्वसत्तया पोषासत्ता वेदितव्या । पोषासत्तया पुरुषासत्ता वेदितव्या । पुरुषासत्तया पुद्गलासत्ता वेदितव्या । पुद्गलासत्तया मनुजासत्ता वेदितव्या । मनुजासत्तया मानवासत्ता वेदितव्या । मानवासत्तया कारकासत्ता वेदितव्या । कारकासत्तया वेदकासत्ता वेदितव्या । वेदकासत्तया जानकासत्ता वेदितव्या । जानकासत्तया पश्यकासत्ता वेदितव्या । पश्यकासत्तया गोत्रभूधर्मासत्ता वेदितव्या । गोत्रभूधर्मासत्तया अष्टामकधर्मासत्ता वेदितव्या । अष्टामकधर्मासत्तया दर्शनकभूम्यसत्ता वेदितव्या । दर्शनकभूम्यसत्तया तनुभूम्यसत्ता वेदितव्या । तनुभूम्यसत्तया वीतरागभूम्यसत्ता वेदितव्या । वीतरागभूम्यसत्तया कृताविभूम्यसत्ता वेदितव्या । कृताविभूम्यसत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तया अप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तया असंख्येयासत्ता वेदितव्या । असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या । अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशं । तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको ये च गोत्रभूधर्माः ये चाष्टामकधर्माः ये च दर्शनकभूमिधर्माः ये च तनुभूमिधर्माः ये च वीतरागभूमिधर्माः ये च कृताविधर्माः यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः । सर्वम् एतन् नोपलभ्यते ।
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या । सत्त्वासत्तया जीवासत्ता वेदितव्या । जीवासत्तया जन्त्वसत्ता वेदितव्या । जन्त्वसत्तया पोषासत्ता वेदितव्या । पोषासत्तया पुरुषासत्ता वेदितत्या । पुरुषासत्तया पुद्गलासत्ता वेदितव्या । पुद्गलासत्तया मनुजासत्ता वेदितव्या । मनुजासत्तया मानवासत्ता वेदितव्या । मानवासत्तया कारकासत्ता वेदितव्या । कारकासत्तया वेदकासत्ता वेदितव्या । वेदकासत्तया जानकासत्ता वेदितव्या । जानकासत्तया पश्यकासत्ता वेदितव्या । पश्यकासत्तया श्रोतआपन्नासत्ता वेदितव्या । श्रोतआपन्नासत्तया सकृदागाम्यसत्ता वेदितव्या । सकृदागाम्यसत्तया अनागाम्यसत्ता वेदितव्या । अनागाम्यसत्तया अर्हदसत्ता वेदितव्या । अर्हदसत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तया अप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तया असंख्येयासत्ता वेदितव्या । असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या । अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यश् च श्रोतआपन्नो यश् च सकृदागामी यश् चानागामी यश् चार्हन् यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः । सर्वम् एतन् नोपलभ्यते ।
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वासत्ता वेदितव्या । सत्त्वासत्तया जीवासत्ता वेदितव्या । जीवासत्तया जन्त्वसत्ता वेदितव्या । जन्त्वसत्तया पोषासत्ता वेदितव्या । पोषासत्तया पुरुषासत्ता वेदितव्या । पुरुषासत्तया पुद्गलासत्ता वेदितव्या । पुद्गलासत्तया मनुजासत्ता वेदितव्या । मनुजासत्तया मानवासत्ता वेद्तित्या । मानवासत्तया कारकासत्ता वेदितव्या । कारकासत्तया वेदकासत्ता वेदितव्या । वेदकासत्तया जानकासत्ता वेदितव्या । जानकासत्तया पश्यकासत्ता वेदितव्या । पश्यकासत्तया प्रत्येकबुद्धासत्ता वेदितव्या । प्रत्येकबुद्धासत्तया सम्यक्स ं बुद्धासत्ता वेदितव्या । सम्यक्स ं बुद्धासत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तया अप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तयासंख्येयासत्ता वेदितव्या । असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या । अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यश् च प्रत्येकबुद्धो यश् च सम्यक्स ं बुद्धो यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः । सर्वम् एतन् नोपलभ्यते ।
पुनर् अपरं सुभूते आत्मासत्तया सत्त्वसत्ता वेदितव्या । सत्त्वासत्तया जीवासत्ता वेदितव्या । जीवासत्तया जन्त्वसत्ता वेदितव्या । जन्त्वसत्तया पोषासत्ता वेदितव्या । पोषासत्तया पुरुषासत्ता वेदितव्या । पुरुषासत्तया पुद्गलासत्ता वेदितव्या । पुद्गलासत्तया मनुजासत्ता वेदितव्या । मनुजासत्तया मानवासत्ता वेदितव्या । मानवासत्तया कारकासत्ता वेदितव्या । कारकासत्तया वेदकासत्ता वेदितव्या । वेदकासत्तया जानकासत्ता वेदितव्या । जानकासत्तया पश्यकासत्ता वेदितव्या । पश्यकासत्तया श्रावकयानासत्ता वेदितव्या । श्रावकयानासत्तया प्रत्येकबुद्धयानासत्ता वेदितव्या । प्रत्येकबुद्धयानासत्तया बुद्धयानासत्ता वेदितव्या । बुद्धयानासत्तया सर्वाकारज्ञतासत्ता वेदितव्या । सर्वाकारज्ञतासत्तया आकाशासत्ता वेदितव्या । आकाशासत्तया महायानासत्ता वेदितव्या । महायानासत्तया अप्रमेयासत्ता वेदितव्या । अप्रमेयासत्तया असंख्येयासत्ता वेदितव्या । असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या । अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या । अनेनापि सुभूते पर्यायेण तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अवकाशः । तत् कस्य हेतोस् तथा हि सुभूते यश् चात्मा यश् च सत्त्वो यश् च जीवो यश् च जन्तुर् यश् च पोषो यश् च पुरुषो यश् च पुद्गलो यश् च मनुजो यश् च मानवो यश् च कारको यश् च वेदको यश् च जानको यश् च पश्यको यच् च श्रावकयानं यच् च प्रत्येकबुद्धयानं यच् च बुद्धयानं या च सर्वाकारज्ञता यच् चाकाशं यच् च महायानं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः । सर्वम् एतन् नोपलभ्यते ।
तद्यथापि नाम सुभूते निर्वाणधाताव् अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः । एवम् एव तम्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः । अनेनापि सुभूते पर्यायेण यथाकाशे अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः । एवम् एव तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयाणाम् अपरिमाणानां सत्त्वानाम् अवकाशः । यद् अपि सुभूतिर् एवम् आह नापि तस्य महायानस्य गतिर् दृश्यते नागतिर् दृश्यते न स्थानं दृश्यते इति । एवम् एतत् सुभूते एवम् एतत् । न तस्य महायानस्यागतिर् वा गतिर् वा दृश्यते । तत् कस्य हेतोर् अचला हि सुभूते सर्वधर्माः । तेन कुतश्चिद् आगच्छन्ति न क्वचिद् गच्छन्ति न क्वचित् तिष्ठन्ति । तत् कस्य हेतोस् तथा हि सुभूते रूपं न कुतश्चिद् आगच्छति । न क्वचिद् गच्छति । न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते रूपस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति । न क्वचित् तिष्ठति । न रूपस्य तथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति । न रूपस्य स्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति । न रूपस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वेदना कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते वेदनायाः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वेदनायास् तथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वेदनायाः स्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वेदनाया लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति । न संज्ञा कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते संज्ञायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न संज्ञायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति । न क्वचित् तिष्ठति । न संज्ञायाः स्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति । न संज्ञाया लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति । न संस्काराः कुतश्चिद् आगच्छन्ति । न क्वचिद् गच्छन्ति न क्वचित् तिष्ठन्ति । तत् कस्य हेतोर् न हि सुभूते संस्काराणां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न संस्काराणां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न संस्काराणां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न संस्काराणां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न विज्ञानं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते विज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न विज्ञानस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न विज्ञानस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति । न क्वचित् तिष्ठति । न विज्ञानस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति ।
न चक्षुः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते चक्षुषः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति । न क्वचित् तिष्ठति । न चक्षुषस् तथता कुतश्चिद् आगच्छति । न क्वश्चिद् गच्छति । न क्वचित् तिष्ठति । न चक्षुषः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति । न क्वचित् तिष्ठति । न चक्षुषो लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति । न क्वचित् तिष्ठति । न श्रोत्रं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते श्रोत्रस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचित् तिष्ठति । न श्रोत्रस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । श्रोत्रस्य स्वभावो न कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । श्रोत्रस्य लक्षणं न कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न घ्राणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते घ्राणस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न घ्राणस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न घ्राणस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति । न क्वचित् तिष्ठति । न घ्राणस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जिह्वा कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते जिह्वायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जिह्वायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जिह्वायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जिह्वाया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न कायः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते कायस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति । न क्वचित् तिष्ठति । न कायस्य तथता न कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न कायस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न कायस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न मनः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते मनसः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न मनसस् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न मनसः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न मनसो लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति ।
न रूपं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते रूपस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न रूपस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न रूपस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न रूपस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति । न क्वचित् तिष्ठति । न शब्दः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते शब्दस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न शब्दस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न शब्दस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न शब्दस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न गन्धः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते गन्धस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न गन्धस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न गन्धस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न गन्धस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति । न क्वचित् तिष्ठति । न रसः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते रसस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न रसस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति । न क्वचित् तिष्ठति । न रसस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न रसस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्पर्शः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते स्पर्शस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्पर्शस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्पर्शस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्पर्शस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न धर्माः कुतश्चिद् आगच्छन्ति । न क्वचिद् गच्छन्ति न क्वचित् तिष्ठन्ति । तत् कस्य हेतोर् न हि सुभूते धर्माणां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न धर्माणां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न धर्माणां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न धर्माणां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति ।
न चक्षुर्विज्ञानं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते चक्षुर्विज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न चक्षुर्विज्ञानस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न चक्षुर्विज्ञानस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न चक्षुर्विज्ञानस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न श्रोत्रविज्ञानं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते श्रोत्रविज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न श्रोत्रविज्ञानस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न श्रोत्रविज्ञानस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न श्रोत्रविज्ञानस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न घ्राणविज्ञानं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते घ्राणविज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न घ्राणविज्ञानस्य तथता न कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न घ्राणविज्ञानस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न घ्राणविज्ञानस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जिह्वाविज्ञानं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते जिह्वाविज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जिह्वाविज्ञानस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जिह्वाविज्ञानस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जिह्वाविज्ञानस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न कायविज्ञानं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते कायविज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न कायविज्ञानस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न कायविज्ञानस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न कायविज्ञानस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न मनोविज्ञानं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते मनोविज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न मनोविज्ञानस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न मनोविज्ञानस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न मनोविज्ञानस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति ।
न चक्षुःसंस्पर्शः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते चक्षुःसंस्पर्शस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न कचित् तिष्ठति । न चक्षुःसंस्पर्शस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न चक्षुःसंस्पर्शस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न चक्षुःसंस्पर्शस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न श्रोत्रसंस्पर्शः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते श्रोत्रसंस्पर्शस्य कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न श्रोत्रसंस्पर्शस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न श्रोत्रसंस्पर्शस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न श्रोत्रसंस्पर्शस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न घ्राणसंस्पर्शः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते घ्राणसंस्पर्शस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न घ्राणसंस्पर्शस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न घ्राणसंस्पर्शस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न घ्राणसंस्पर्शस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जिह्वासंस्पर्शः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते जिह्वासंस्पर्शस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जिह्वासंस्पर्शस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जिह्वासंस्पर्शस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जिह्वासंस्पर्शस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न कायसंस्पर्शः कुतश्चिद् आगच्छति । न कश्चिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते कायसंस्पर्शस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न कायसंस्पर्शस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न कायसंस्पर्शस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न कायसंस्पर्शस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न मनःसंस्पर्शः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते मनःसंस्पर्शस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न मनःसंस्पर्शस्य तथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति । न क्वचित् तिष्ठति । न मनःसंस्पर्शस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न मनःसंस्पर्शस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न चक्षुःसंस्पर्शजावेदना कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोस् तथा हि सुभूते चक्षुःसंस्पर्शजावेदनायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न चक्षुःसंस्पर्शजावेदनायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न चक्षुःसंस्पर्शजावेदनायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति । न क्वचित् तिष्ठति । न चक्षुःसंस्पर्शजावेदनाया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न श्रोत्रसंस्पर्शजावेदना कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोस् तथा हि सुभूते श्रोत्रसंस्पर्शजावेदनायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न श्रोत्रसंस्पर्शजावेदनायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न श्रोत्रसंस्पर्शजावेदनायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति । न क्वचित् तिष्ठति । न श्रोत्रसंस्पर्शजावेदनाया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न घ्राणसंस्पर्शजावेदना कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते घ्राणसंस्पर्शजावेदनायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न घ्राणसंस्पर्शजावेदनायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न घ्राणसंस्पर्शजावेदनायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति । न क्वचित् तिष्ठति । न घ्राणसंस्पर्शजावेदनाया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जिह्वासंस्पर्शजावेदना कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते जिह्वासंस्पर्शजावेदनायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जिह्वासंस्पर्शजावेदनायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जिह्वासंस्पर्शजावेदनायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति । न क्वचित् तिष्ठति । न जिह्वासंस्पर्शजावेदनाया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न कायसंस्पर्शजावेदना कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते कायसंस्पर्शजावेदनायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न कायसंस्पर्शजावेदनायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न कायसंस्पर्शजावेदनायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति । न क्वचित् तिष्ठति । न कायसंस्पर्शजावेदनाया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न मनःसंस्पर्शजावेदना कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते मनःसंस्पर्शजावेदनायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न मनःसंस्पर्शजावेदनायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न मनःसंस्पर्शजावेदनायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति । न क्वचित् तिष्ठति । न मनःसंस्पर्शजावेदनाया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति ।
न पृथिवीधातुः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते पृथिवीधातोः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न पृथिवीधातोस् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न पृथिवीधातोः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न पृथिवीधातोर् लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाब्धातुः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते ऽब्धातोः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाब्धातोस् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाब्धातोः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाब्धातोर् लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न तेजोधातुः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते तेजोधातोः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न तेजोधातोस् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न तेजोधातोः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न तेजोधातोर् लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वायुधातुः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते वायुधातोः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वायुधातोस् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वायुधातोः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वायुधातोर् लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाकाशधातुः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते आकाशधातोः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाकाशधातोस् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाकाशधातोः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाकाशधातोर् लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति ।
न विज्ञानधातुः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते विज्ञानधातोः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न विज्ञानधातोस् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न विज्ञानधातोः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न विज्ञानधातोर् लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाविद्या कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते अविद्यायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाविद्यायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाविद्यायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाविद्याया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न संस्काराः कुतश्चिद् आगच्छन्ति । न क्वचिद् गच्छन्ति । न क्वचित् तिष्ठन्ति । तत् कस्य हेतोर् न हि सुभूते संस्काराणां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न संस्काराणां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न संस्काराणां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न संस्काराणां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति । न विज्ञानं सुभूते कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते विज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न विज्ञानस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न विज्ञानस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न विज्ञानस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न नामरूपं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते नामरूपस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न नामरूपस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न नामरूपस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न नामरूपस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न षडायतनं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते षडायतनस्य प्रकृटिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न षडायतनस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न षडायतनस्य स्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति । न षडायतनस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्पर्शः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते स्पर्शस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्पर्शस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्पर्शस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्पर्शस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वेदना कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते वेदनायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वेदनायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वेदनायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वेदनाया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न तृष्णा कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते तृष्णायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न तृष्णायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न तृष्णायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न तृष्णाया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद्
गच्छति न क्वचित् तिष्ठति । नोपादानं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते उपादानस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नोपादानस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नोपादानस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नोपादानस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न भवः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते भवस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न भवस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न भवस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न भवस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जातिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते जातेः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जातेस् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जातेः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जातेर् लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जरामरणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते जरामरणस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जरामरणस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जरामरणस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न जरामरणस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति ।
न दानपारमिता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते दानपारमितायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न दानपारमितायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न दानपारमितायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न दानपारमिताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न शीलपारमिता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते शीलपारमितायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न शीलपारमितायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न शीलपारमितायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न शीलपारमिताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न क्षान्तिपारमिता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते क्षान्तिपारमितायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न क्षान्तिपारमितायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न क्षान्तिपारमितायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न क्षान्तिपारमिताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वीर्यपारमिता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते वीर्यपारमितायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वीर्यपारमितायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वीर्यपारमितायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वीर्यपारमिताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न ध्यानपारमिता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते ध्यानपारमितायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न ध्यानपारमितायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न ध्यानपारमितायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न ध्यानपारमिताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न प्रज्ञापारमिता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते प्रज्ञापारमितायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न प्रज्ञापारमितायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न प्रज्ञापारमितायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न प्रज्ञापारमिताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति ।
नाध्यात्मशून्यता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते अध्यात्मशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाध्यात्मशून्यतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाध्यात्मशून्यतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाध्यात्मशून्यताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न बहिर्धाशून्यता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते बहिर्धाशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न बहिर्धाशून्यतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न बहिर्धाशून्यतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न बहिर्धाशून्यताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाध्यात्मबहिर्धाशून्यता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते अध्यात्मबहिर्धाशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाध्यात्मबहिर्धाशून्यतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाध्यात्मबहिर्धाशून्यतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाध्यात्मबहिर्धाशून्यताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न शून्यताशून्यता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते शून्यताशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न शून्यताशून्यतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न शून्यताशून्यतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न शून्यताशून्यताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न महाशून्यता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते महाशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न महाशून्यतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न महाशून्यतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न महाशून्यताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न परमार्थशून्यता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते परमार्थशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न परमार्थशून्यतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न परमार्थशून्यतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न परमार्थशून्यताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न संस्कृतशून्यता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते संस्कृतशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न संस्कृतशून्यतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न संस्कृतशून्यतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न संस्कृतशून्यताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । । नासंस्कृतशून्यता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते असंस्कृतशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नासंस्कृतशून्यतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नासंस्कृतशून्यतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नासंस्कृतशून्यताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नात्यन्तशून्यता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते अत्यन्तशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नात्यन्तशून्यतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नात्यन्तशून्यतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नात्यन्तशून्यताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित्
तिष्ठति । नानवराग्रशून्यता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते अनवराग्रशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नानवराग्रशून्यतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नानवराग्रशून्यतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नानवराग्रशून्यताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नानवकारशून्यता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते अनवकारशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नानवकारशून्यतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नानवकारशून्यतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नानवकारशून्यताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न प्रकृतिशून्यता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते प्रकृतिशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न प्रकृतिशून्यतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न प्रकृतिशून्यतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न प्रकृतिशून्यताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न सर्वधर्मशून्यता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते सर्वधर्मशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न सर्वधर्मशून्यतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न सर्वधर्मशून्यतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न सर्वधर्मशून्यताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्वलक्षणशून्यता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते स्वलक्षणशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्वलक्षणशून्यतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्वलक्षणशून्यतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्वलक्षणशून्यताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नानुपलम्भशून्यता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते अनुपलम्भशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नानुपलम्भशून्यतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नानुपलम्भशून्यतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नानुपलम्भशून्यताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाभावशून्यता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते अभावशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाभावशून्यतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाभावशून्यतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाभावशून्यताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्वभावशून्यता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते स्वभावशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्वभावशून्यतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्वभावशून्यतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्वभावशून्यताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाभावस्वभावशून्यता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते अभावस्वभावशून्यतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाभावस्वभावशून्यतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाभावस्वभावशून्यतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाभावस्वभावशून्यताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति ।
न स्मृत्युपस्थानानि कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते स्मृत्युपस्थानानां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्मृत्युपस्थानानां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्मृत्युपस्थानानां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न स्मृत्युपस्थानानां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न सम्यक्प्रहाणानि कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते सम्यक्प्रहाणानां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न सम्यक्प्रहाणानां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न सम्यक्प्रहाणानां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न सम्यक्प्रहाणानां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नर्धिपादाः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते ऋद्धिपादानां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नर्धिपादानां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नर्धिपादानां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नर्धिपादानां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नेन्द्रियाणि कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते इन्द्रियाणां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नेन्द्रियाणां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नेन्द्रियाणां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नेन्द्रियाणां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति ।
न बलानि कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते बलानां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न बलानां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न बलानां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न बलानां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न बोध्यङ्गानि कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते बोध्यङ्गानां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न बोध्यङ्गानां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न बोध्यङ्गानां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न बोध्यङ्गानां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न मार्गः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते मार्गस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न मार्गस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न मार्गस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न मार्गस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नार्यसत्यानि कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते आर्यसत्यानां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नार्यसत्यानां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नार्यसत्यानां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नार्यसत्यानां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न ध्यानानि कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते ध्यानानां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न ध्यानानां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न ध्यानानां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न ध्यानानां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । । नाप्रमाणानि कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते अप्रमाणानां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाप्रमाणानां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाप्रमाणानां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाप्रमाणानां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नारूप्यसमापत्तयः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते आरूप्यसमापत्तीनां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नारूप्यसमापत्तीनां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नारूप्यसमापत्तीनां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नारूप्यसमापत्तीनां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न विमोक्षाः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते विमोक्षाणां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न विमोक्षाणां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न विमोक्षाणां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न विमोक्षाणां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नानुपूर्वविहारसमापत्तयः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते नवानुपूर्वविहारसमापत्तीनां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न नवानुपूर्वविहारसमापत्तीनां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न नवानुपूर्वविहारसमापत्तीनां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न
नवानुपूर्वविहारसमापत्तीनां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाभिज्ञाः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते अभिज्ञानां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाभिज्ञानां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाभिज्ञानां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाभिज्ञानां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न समाधयः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते समाधीनां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न समाधीनां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न समाधीनां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न समाधीनां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न धारणीमुखानि कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते धारणीमुखानां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न धारणीमुखानां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न धारणीमुखानां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न धारणीमुखानां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न दश तथागतबलानि कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते दशानां तथागतबलानां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न दशानां तथागतबलानां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न दशानां तथागतबलानां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न दशानां तथागतबलानां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न चत्वारि वैशारद्यानि कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते वैशारद्यानां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वैशारद्यानां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वैशारद्यानां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न वैशारद्यानां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न चतस्रः प्रतिस ं विदः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते चतसृणां प्रतिस ं विदां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न चतसृणां प्रतिस ं विदां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न चतसृणां प्रतिस ं विदां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न चतसृणां प्रतिस ं विदां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न महाकरुणा कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते महाकरुणायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न महाकरुणायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न महाकरुणायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न महाकरुणाया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाष्टादशावेणिका बुद्धधर्माः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते आवेणिकबुद्धधर्माणां प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नावेणिकबुद्धधर्माणां तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नावेणिकबुद्धधर्माणां स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नावेणिकबुद्धधर्माणां लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति ।
न सुभूते धर्मधातुः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते धर्मधातोः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न धर्मधातोस् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न धर्मधातोः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न धर्मधातोर् लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न सुभूते तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते तथतायाः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न तथतायास् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न तथतायाः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न तथताया लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न भूतकोटिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते भूतकोटेः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न भूतकोटेस् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न भूतकोटेः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न भूतकोटेर् लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न सुभूते अचिन्त्यधातुः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते ऽचिन्त्यधातोः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाचिन्त्यधातोस् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाचिन्त्यधातोः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नाचिन्त्यधातोर् लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न सुभूते बोधिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते बोधेः प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न बोधेस् तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न बोधेः स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न बोधेर् लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न सुभूते बुद्धः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते बुद्धस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न बुद्धस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न बुद्धस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न बुद्धस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न सुभूते संस्कृतं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते संस्कृतस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न संस्कृतस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न संस्कृतस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न संस्कृतस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । न सुभूते ऽसंस्कृतं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । तत् कस्य हेतोर् न हि सुभूते ऽसंस्कृतस्य प्रकृतिः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नासंस्कृतस्य तथता कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नासंस्कृतस्य स्वभावः कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । नासंस्कृतस्य लक्षणं कुतश्चिद् आगच्छति । न क्वचिद् गच्छति न क्वचित् तिष्ठति । एवं तस्य महायानस्य नागतिर् दृश्यते न गतिर् दृश्यते न स्थानं दृश्यते ।
यद् अपि सुभूतिर् एवम् आह । नाप्य् अस्य यानस्य पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्य उपलभ्यते । अध्वसमतानाम् इदं यानं महायानं । तस्मान् महायानम् इत्य् उच्यते । इति । एवम् एतत् सुभूते एवम् एतत् । नाप्य् अस्य यानस्य पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्य उपलभ्यते । त्र्यध्वसमतानाम् इदं यानं तस्मान् महायानम् इत्य् उच्यते । तत् कस्य हेतोस् तथा हि सुभूते अतीतो ऽध्वातीतेन शून्यः । अनागतो ऽध्वानागतेन शून्यः । प्रत्युत्पन्नो ऽध्वाप्रत्युत्पन्नेन शून्यः । त्र्यध्वसमता त्र्यध्वसमतया शून्यः । महायानं महायानेन शून्यः । बोधिसत्त्वो बोधिसत्त्वेन शून्यः । न सुभूते शून्यता एका न द्वे न तिस्रः न चतस्रः न पञ्च न षट् न सप्त नाष्टौ न नव न दश न पृथक् तस्मात् त्र्यध्वसमतायानम् इदं बोधिसत्त्वानां महासत्त्वानां नैवात्र समतोपलभ्यते । न विषमता । नैवात्र राग उपलभ्यते । न विरागः । न द्वेष उपलभ्यते नाद्वेषः । न मोह उपलभ्यते नामोहः । न नामोपलभ्यते नानाम । न संस्कृत उपलभ्यते नासंस्कृतः । न कुशलम् उपलभ्यते नाकुशलं । न सावद्यम् उपलभ्यते नानवद्यं । न साश्रवम् उपलभ्यते नानाश्रवं । न संक्लेशम् उपलभ्यते न निःक्लेशं । न लौकिकम् उपलभ्यते न लोकोत्तरं । नोत्पाद्य उपलभ्यते न निरोधं । न संक्लेशम् उपलभ्यते न व्यवदानं । नैवात्र नित्यम् उपलभ्यते नानित्यं । न सुखम् उपलभ्यते न दुःखं । नात्मोपलभ्यते नानात्मा । न शान्तम् उपलभ्यते नाशान्तं । न कामधातुर् उपलभ्यते न कामधातुसमतिक्रमः । न रूपधातुर् उपलभ्यते न रूपधातुसमतिक्रमः । नारूप्यधातुर् उपलभ्यते नारूप्यधातुसमतिक्रमः । न संसार उपलभ्यते न निर्वाणं । तत् कस्य हेतोस् तथा ह्य् अस्य स्वभावो नोपलभ्यते ।
व्यतीतं सुभूते रूपम् अतीतेन रूपेण शून्यं तत् कस्य हेतोर् न हि शून्यतायाम् अतीतं रूपम् उपलभ्यते । शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते कुतः पुनः शून्यतायाम् अतीतं रूपम् उपलभ्यते । अतीता वेदना अतीतया वेदनाया शून्या । तत् कस्य हेतोर् न हि शून्यतायाम् अतीता वेदनोपलभ्यते । शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते कुतः पुनः शून्यतायाम् अतीता वेदनोपलभ्यते । अतीता संज्ञा अतीतया संज्ञया शून्या । तत् कस्य हेतोर् न हि शून्यतायाम् अतीता संज्ञोपलभ्यते । शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते । कुतः पुनः शून्यतायाम् अतीता संज्ञोपलभ्यते । अतीताः संस्काराः अतीतैः संस्कारैः शून्या तत् कस्य हेतोर् न हि सुभूते शून्यतायाम् अतीताः संस्कारा उपलभ्यन्ते । शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते । कुतः पुनः शून्यतायाम् अतीताः संस्कारा उपलभ्यन्ते । अतीतं विज्ञानम् अतीतेन विज्ञानेन शून्यं । तत् कस्य हेतोर् न हि शून्यतायाम् अतीतं विज्ञानम् उपलभ्यते । शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते । कुतः पुनः शून्यतायाम् अतीतं विज्ञानम् उपलभ्यते ।
अनागतं सुभूते रूपम् अनागतेन रूपेण शून्यं । तत् कस्य हेतोर् न हि शून्यतायाम् अनागतं रूपम् उपलभ्यते । शून्यतैव तावच् छून्याशून्यतयोपलभ्यते । कुतः पुनः शून्यतायाम् अनागतं रूपम् उपलभ्यते । अनागता वेदना अनागतया वेदनाया शून्या । तत् कस्य हेतोर् न हि शून्यतायाम् अनागता वेदनोपलभ्यते । शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते । कुतः पुनः शून्यतायाम् अनागता वेदनोपलभ्यते । अनागता संज्ञा अनागतया संज्ञया शून्या । तत् कस्य हेतोर् न हि सुभूते अनागता संज्ञोपलभ्यते । शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते । कुतः पुनः शून्यतायाम् अनागता संज्ञोपलभ्यते । अनागताः संस्काराः अनागतैः संस्कारैः शून्याः । तत् कस्य हेतोर् न हि सुभूते शून्यतायाम् अनागताः संस्काराः उपलभ्यन्ते । शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते । कुतः पुनः शून्यतायाम् अनागताः संस्कारा उपलभ्यन्ते । अनागतं विज्ञानम् अनागते न विज्ञानेन शून्यं । तत् कस्य हेतोर् न सुभूते शून्यतायाम् अनागतं विज्ञानम् उपलभ्यते शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते । कुतः पुनः शून्यतायाम् अनागतं विज्ञानम् उपलभ्यते ।
प्रत्युत्पन्नं सुभूते रूपं प्रत्युत्पन्नेन रूपेण शून्यं । तत् कस्य हेतोर् न हि सुभूते शून्यतायां प्रत्युत्पन्नं रूपम् उपलभ्यते । शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते । कुतः पुनः शून्यतायां प्रत्युत्पन्नं रूपम् उपलभ्यते । प्रत्युत्पन्ना वेदना प्रत्युत्पन्नया वेदनाया शून्या । तत् कस्य हेतोर् न हि सुभूते शून्यतायां प्रत्युत्पन्ना वेदनोपलभ्यते । शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते । कुतः पुनः शून्यतायां प्रत्युत्पन्ना वेदनोपलभ्यते । प्रत्युत्पन्ना संज्ञा प्रत्युत्पन्नया संज्ञया शून्या । तत् कस्य हेतोर् न हि शून्यतायां प्रत्युत्पन्ना संज्ञोपलभ्यते । शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते । कुतः पुनः शून्यतायां प्रत्युत्पन्ना संज्ञोपलभ्यते । प्रत्युत्पन्नाः संस्काराः प्रत्युत्पन्नैः संस्कारैः शून्याः । तत् कस्य हेतोर् न हि सुभूते शून्यतायां प्रत्युत्पन्नाः संस्काराः उपलभ्यन्ते । शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते । कुतः पुनः शून्यतायां प्रत्युत्पन्नाः संस्काराः उपलभ्यन्ते । प्रत्युत्पन्नं विज्ञानं प्रत्युत्पन्नेन विज्ञानेन शून्यं । तत् कस्य हेतोर् न हि सुभूते शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलभ्यते । शून्यतैव तावच् छून्याशून्यतया नोपलभ्यते । कुतः पुनः शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलभ्यते ।
पूर्वान्ततः सुभूते दानपारमिता नोपलभ्यते । अपरान्ततो दानपारमिता नोपलभ्यते । प्रत्युत्पन्नतो दनापारमिता नोपलभ्यते । त्र्यध्वसमतायां दानपारमिता नोपलभ्यते । न सुभूते समतायाम् अतीताध्वोपलभ्यते । न समतायाम् अनागताध्वोपलभ्यते । न समतायां प्रत्युत्पन्नाध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीताध्वोपलभ्यते । कुतो ऽनागतोध्वोपलभ्यते । कुतः पुनः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः शीलपारमिता नोपलभ्यते । अपरान्ततः शीलपारमिता नोपलभ्यते । प्रत्युत्पन्नतः शीलपारमिता नोपलभ्यते । त्र्यध्वसमतायां शीलपारमिता नोपलभ्यते । तत् कस्य हेतोर् न हि सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । न समतायाम् अनागतो ऽध्वोपलभ्यते । न समतायां प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वोपलभ्यते । कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः क्षान्तिपारमिता नोपलभ्यते । अपरान्ततः क्षान्तिपारमिता नोपलभ्यते । प्रत्युत्पन्नतः क्षान्तिपारमिता नोपलभ्यते । त्र्यध्वसमतायां क्षान्तिपारमिता नोपलभ्यते । तत् कस्य हेतोर् न हि सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । न समतायाम् अनागतो ऽध्वोपलभ्यते । न समतायां प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा उपलभ्यते । कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततो वीर्यपारमिता नोपलभ्यते । अपरान्ततो वीर्यपारमिता नोपलभ्यते । प्रत्युत्पन्नतो वीर्यपारमिता नोपलभ्यते । त्र्यध्वसमतायां वीर्यपारमिता नोपलभ्यते । तत् कस्य हेतोर् न हि सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । न समतायाम् अनागतो ऽध्वोपलभ्यते । न समतायां प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वोपलभ्यते । कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततो ध्यानपारमिता नोपलभ्यते । अपरान्ततो ध्यानपारमिता नोपलभ्यते । प्रत्युत्पन्नतो ध्यानपारमिता नोपलभ्यते । त्र्यध्वसमतायां ध्यानपारमिता नोपलभ्यते । तत् कस्य हेतोर् न हि सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । न समतायाम् अनागतो ऽध्वोपलभ्यते । न समतायां प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वोपलभ्यते । कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते प्रज्ञापारमिता नोपलभ्यते । अपरान्ततः प्रज्ञापारमिता नोपलभ्यते । प्रत्युत्पन्नतः प्रज्ञापारमिता नोपलभ्यते । त्र्यध्वसमतायां प्रज्ञापारमिता नोपलभ्यते । तत् कस्य हेतोर् न हि सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । न समतायाम् अनागतो ऽध्वोपलभ्यते न समतायां प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वोपलभ्यते । कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते ।
पूर्वान्ततः सुभूते अध्यात्मशून्यता नोपलभ्यते । अपरान्तताध्यात्मशून्यता नोपलभ्यते । प्रत्युत्पन्नतो ऽध्यात्मशून्यता नोपलभ्यते । त्र्यध्वसमतायाम् अध्यात्मशून्यता नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वोपलभ्यते । न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वोपलभ्यते । कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते बहिर्धाशून्यता नोपलभ्यते । अपरान्ततो बहिर्धाशून्यता नोपलभ्यते । प्रत्युत्पन्नतो बहिर्धाशून्यता नोपलभ्यते । त्र्यध्वसमतायां बहिर्धाशून्यता नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वोपलभ्यते । न प्रत्युत्पन्नो ऽध्वोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वोपलभ्यते । कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते ऽध्यात्मबहिर्धाशून्यता नोपलभ्यते । अपरान्ततो ऽध्यात्मबहिर्धाशून्यता नोपलभ्यते । प्रत्युत्पन्नतो ऽध्यात्मबहिर्धाशून्यता नोपलभ्यते । त्र्यध्वसमतायाम् अध्यात्मबहिर्धाशून्यता नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वोपलभ्यते । न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वोपलभ्यते । कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते शून्यताशून्यता नोपलभ्यते । अपरान्ततः शून्यताशून्यता नोपलभ्यते । प्रत्युत्पन्नतः शून्यताशून्यता नोपलभ्यते । त्र्यध्वसमतायां शून्यताशून्यता नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते महाशून्यता नोपलभ्यते । अपरान्ततो महाशून्यता नोपलभ्यते । प्रत्युत्पन्नतो महाशून्यता नोपलभ्यते । त्र्यध्वसमतायां महाशून्यता नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनपगतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते परमार्थशून्यता नोपलभ्यते । अपरान्ततः परमार्थशून्यता नोपलभ्यते । प्रत्युत्पन्नतः परमार्थशून्यता नोपलभ्यते । त्र्यध्वसमतायां परमार्थशून्यता नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते संस्कृतशून्यता नोपलभ्यते । अपरान्ततः संस्कृतशून्यता नोपलभ्यते । प्रत्युत्पन्नतः संस्कृतशून्यता नोपलभ्यते । त्र्यध्वसमतायां संस्कृतशून्यता नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते ऽसंस्कृतशून्यता नोपलभ्यते । अपरान्ततो ऽसंस्कृतशून्यता नोपलभ्यते । प्रत्युत्पन्नतो ऽसंस्कृतशून्यता नोपलभ्यते । त्र्यध्वसमतायाम् असंस्कृतशून्यता नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते अत्यन्तशून्यता नोपलभ्यते । अपरान्ततो ऽत्यन्तशून्यता नोपलभ्यते । प्रत्युत्पन्नतो ऽत्यन्तशून्यता नोपलभ्यते । त्र्यध्वसमतायाम् अत्यन्तशून्यता नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते ऽनवराग्रशून्यता नोपलभ्यते । अपरान्ततो ऽनवराग्रशून्यता नोपलभ्यते । प्रत्युत्पन्नतो ऽनवराग्रशून्यता नोपलभ्यते । त्र्यध्वसमतायाम् अनवराग्रशून्यता नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते ऽनवकारशून्यता नोपलभ्यते । अपरान्ततो ऽनवकारशून्यता नोपलभ्यते । प्रत्युत्पन्नतो ऽनवकारशून्यता नोपलभ्यते । त्र्यध्वसमतायाम् अनवकारशून्यता नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते प्रकृतिशून्यता नोपलभ्यते । अपरान्ततः प्रकृतिशून्यता नोपलभ्यते । प्रत्युत्पन्नतः प्रकृतिशून्यता नोपलभ्यते । त्र्यध्वसमतायां प्रकृतिशून्यता नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते सर्वधर्मशून्यता नोपलभ्यते । अपरान्ततः सर्वधर्मशून्यता नोपलभ्यते । प्रत्युत्पन्नतः सर्वधर्मशून्यता नोपलभ्यते । त्र्यध्वसमतायां सर्वधर्मशून्यता नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते स्वलक्षणशून्यता नोपलभ्यते । अपरान्ततः स्वलक्षणशून्यता नोपलभ्यते । प्रत्युत्पन्नतः स्वलक्षणशून्यता नोपलभ्यते । त्र्यध्वसमतायां स्वलक्षणशून्यता नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो
ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते ऽनुपलम्भशून्यता नोपलभ्यते । अपरान्ततो ऽनुपलम्भशून्यता नोपलभ्यते । प्रत्युत्पन्नतो ऽनुपलम्भशून्यता नोपलभ्यते । त्र्यध्वसमतायाम् अनुपलम्भशून्यता नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते अभावशून्यता नोपलभ्यते । अपरान्ततो ऽभावशून्यता नोपलभ्यते । प्रत्युत्पन्नतो ऽभावशून्यता नोपलभ्यते । त्र्यध्वसमतायाम् अभावशून्यता नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते स्वभावशून्यता नोपलभ्यते । अपरान्ततः स्वभावशून्यता नोपलभ्यते । प्रत्युत्पन्नतः स्वभावशून्यता नोपलभ्यते । त्र्यध्वसमतायां स्वभावशून्यता नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते ।
समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते ऽभावस्वभावशून्यता नोपलभ्यते । अपरान्ततो ऽभावस्वभावशून्यता नोपलभ्यते । प्रत्युत्पन्नतो ऽभावस्वभावशून्यता नोपलभ्यते । त्र्यध्वसमतायाम् अभावस्वभावशून्यता नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते ।
पूर्वान्ततः सुभूते स्मृत्युपस्थानानि नोपलभ्यन्ते । अपरान्ततः स्मृत्युपस्थानानि नोपलभ्यन्ते । प्रत्युत्पन्नतः स्मृत्युपस्थानानि नोपलभ्यन्ते । त्र्यध्वसमतायां स्मृत्युपस्थानानि नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते सम्यक्प्रहाणानि नोपलभ्यन्ते । अपरान्ततः सम्यक्प्रहाणानि नोपलभ्यन्ते । प्रत्युत्पन्नतः सम्यक्प्रहाणानि नोपलभ्यन्ते । त्र्यध्वसमतायां सम्यक्प्रहाणानि नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते ऋद्धिपादा नोपलभ्यन्ते । अपरान्ततः ऋद्धिपादा नोपलभ्यन्ते । प्रत्युत्पन्नतः ऋद्धिपादा नोपलभ्यन्ते । त्र्यध्वसमतायाम् ऋद्धिपादा नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते इन्द्रियाणि नोपलभ्यन्ते । अपरान्ततः इन्द्रियाणि नोपलभ्यन्ते । प्रत्युत्पन्नत इन्द्रियाणि नोपलभ्यन्ते । त्र्यध्वसमतायाम् इन्द्रियाणि नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते बलानि नोपलभ्यते । अपरान्ततो बलानि नोपलभ्यते । प्रत्युत्पन्नतो बलानि नोपलभ्यते । त्र्यध्वसमतायां बलानि नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते बोध्यङ्गानि नोपलभ्यन्ते । अपरान्ततो बोध्यङ्गानि नोपलभ्यन्ते । प्रत्युत्पन्नतो बोध्यङ्गानि नोपलभ्यन्ते । त्र्यध्वसमतायां बोध्यङ्गानि नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते आर्याष्टाङ्गमार्गो नोपलभ्यते । अपरान्ततः आर्याष्टाङ्गमार्गो नोपलभ्यते । प्रत्युत्पन्नत आर्याष्टाङ्गमार्गो नोपलभ्यते । त्र्यध्वसमतायाम् आर्याष्टाङ्गमार्गो नोपलभ्यते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते आर्यसत्यानि नोपलभ्यन्ते । अपरान्तत आर्यसत्यानि नोपलभ्यन्ते । प्रत्युत्पन्नत आर्यसत्यानि नोपलभ्यन्ते । त्र्यध्वसमतायाम् आर्यसत्यानि नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते ध्यानानि नोपलभ्यन्ते । अपरान्ततो ध्यानानि नोपलभ्यन्ते । प्रत्युत्पन्नतो ध्यानानि नोपलभ्यन्ते । त्र्यध्वसमतायां ध्यानानि नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते अप्रमाणानि नोपलभ्यन्ते । अपरान्ततो ऽप्रमाणानि नोपलभ्यन्ते । प्रत्युत्पन्नतो ऽप्रमाणानि नोपलभ्यन्ते । त्र्यध्वसमतायाम् अप्रमाणानि नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते आरूप्यसमापत्तयो नोपलभ्यन्ते । अपरान्तत आरूप्यसमापत्तयो नोपलभ्यन्ते । प्रत्युत्पन्नत आरूप्यसमापत्तयो नोपलभ्यन्ते । त्र्यध्वसमतायाम् आरूप्यसमापत्तयो नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते अष्टौ विमोक्षा नोपलभ्यन्ते । अपरान्ततो ऽष्टौ विमोक्षा नोपलभ्यन्ते । प्रत्युत्पन्नतो ऽष्टौ विमोक्षा नोपलभ्यन्ते । त्र्यध्वसमतायाम् अष्टौ विमोक्षा नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते नवानुपूर्वविहारसमापत्तयो नोपलभ्यन्ते । अपरान्ततो नवानुपूर्वविहारसमापत्तयो नोपलभ्यन्ते । प्रत्युत्पन्नतो नवानुपूर्वविहारसमापत्तयो नोपलभ्यन्ते । त्र्यध्वसमतायां नवानुपूर्वविहारसमापत्तयो नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोपलभ्यन्ते । अपरान्ततः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोपलभ्यन्ते । प्रत्युत्पन्नतः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोपलभ्यन्ते । त्र्यध्वसमतायां शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः
सुभूते अभिज्ञा नोपलभ्यते । अपरान्ततो ऽभिज्ञा नोपलभ्यते । प्रत्युत्पन्नतो ऽभिज्ञा नोपलभ्यते । त्र्यध्वसमतायाम् अभिज्ञा नोपलभ्यते । न सुभूते समतायाम् अतीतो
ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते समाधयो नोपलभ्यन्ते । अपरान्ततः समाधयो नोपलभ्यन्ते । प्रत्युत्पन्नतः समाधयो नोपलभ्यन्ते । त्र्यध्वसमतायां समाधयो नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते धारणीमुखानि नोपलभ्यन्ते । अपरान्ततः धारणीमुखानि नोपलभ्यन्ते । प्रत्युत्पन्नतः धारणीमुखानि नोपलभ्यन्ते । त्र्यध्वसमतायां धारणीमुखानि नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते दश तथागतबलानि नोपलभ्यन्ते । अपरान्ततो दश तथागतबलानि नोपलभ्यन्ते । प्रत्युत्पन्नतो दश तथागतबलानि नोपलभ्यन्ते । त्र्यध्वसमतायां दश तथागतबलानि नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते चत्वारि वैशारद्यानि नोपलभ्यन्ते । अपरान्ततश् चत्वारि वैशारद्यानि नोपलभ्यन्ते । प्रत्युत्पन्नतश् चत्वारि वैशारद्यानि नोपलभ्यन्ते । त्र्यध्वसमतायां चत्वारि वैशारद्यानि नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते चतस्रः प्रतिस ं विदो नोपलभ्यन्ते । अपरान्ततश् चतस्रः प्रतिस ं विदो नोपलभ्यन्ते । प्रत्युत्पन्नतश् चतस्रः प्रतिस ं विदो नोपलभ्यन्ते । त्र्यध्वसमतायां चतस्रः प्रतिस ं विदो नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते महाकरुणा नोपलभ्यते । अपरान्ततो महाकरुणा नोपलभ्यते । प्रत्युत्पन्नतो महाकरुणा नोपलभ्यते । त्र्यध्वसमतायां महाकरुणा नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते । पूर्वान्ततः सुभूते अष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते । अपरान्ततो ऽष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते । प्रत्युत्पन्नतो ऽष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते । त्र्यध्वसमतायाम् अष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते । न सुभूते समतायाम् अतीतो ऽध्वोपलभ्यते । नानागतो ऽध्वा न प्रत्युत्पन्नो ऽध्वोपलभ्यते । समतैव तावत् समतायां नोपलभ्यते । कुतः पुनः समतायाम् अतीतो ऽध्वोपलभ्यते । कुतो ऽनागतो ऽध्वा कुतः प्रत्युत्पन्नो ऽध्वोपलभ्यते ।
पुनर् अपरं सुभूते पूर्वान्ततः पृथग्जनो नोपलभ्यते । अपरान्ततः पृथग्जनो नोपलभ्यते । प्रत्युत्पन्नतः पृथग्जनो नोपलभ्यते । त्र्यध्वसमतायां पृथग्जनो नोपलभ्यते । तत् कस्य हेतोः सत्त्वानुपलब्धिताम् उपादाय । पुनर् अपरं सुभूते पूर्वान्ततः श्रावको नोपलभ्यते । अपरान्ततः श्रावको नोपलभ्यते । प्रत्युत्पन्नतः श्रावको नोपलभ्यते । त्र्यध्वसमतायां श्रावको नोपलभ्यते । तत् कस्य हेतोः सत्त्वानुपलब्धिताम् उपादाय । पुनर् अपरं सुभूते पूर्वान्ततः प्रत्येकबुद्धो नोपलभ्यते । अपरान्ततः प्रत्येकबुद्धो नोपलभ्यते । प्रत्युत्पन्नतः प्रत्येकबुद्धो नोपलभ्यते । त्र्यध्वसमतायां प्रत्येकबुद्धो नोपलभ्यते । तत् कस्य हेतोः सत्त्वानुपलब्धिताम् उपादाय । पुनर् अपरं सुभूते पूर्वान्ततो बोधिसत्त्वो नोपलभ्यते । अपरान्ततो बोधिसत्त्वो नोपलभ्यते । प्रत्युत्पन्नतो बोधिसत्त्वो नोपलभ्यते । त्र्यध्वसमतायां बोधिसत्त्वो नोपलभ्यते । तत् कस्य हेतोः सत्त्वानुपलब्धिताम् उपादाय । पुनर् अपरं सुभूते पूर्वान्ततस् तथागतो नोपलभ्यते । अपरान्ततस् तथागतो नोपलभ्यते । प्रत्युत्पन्नतस् तथागतो नोपलभ्यते । त्र्यध्वसमतायां तथागतो नोपलभ्यते । तत् कस्य हेतोः सत्त्वानुपलब्धिताम् उपादाय । एवं खलु बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वा त्रिष्व् अध्वसु शिक्षित्वा सर्वाकारज्ञता परिपूरयितव्या । इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य त्र्यध्वसमतानाममहायानं । यत्र स्थित्वा बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरं लोकम् अभिभूय सर्वाकारज्ञतायां निर्याति ।
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् । साधु साधु भगवन् यावत् सुभाषितम् इदं भगवता बोधिसत्त्वानां महासत्त्वानां त्र्यध्वसमतानाममहयानं । अत्र भगवन् महायाने शिक्षित्वातीतैर् अपि बोधिसत्त्वैर् महासत्त्वैः सर्वाकारज्ञता समनुप्राप्ता । अनागता अपि भगवन् बोधिसत्त्वा महासत्त्वा अत्रैव महायाने शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्स्यन्ति । ये ऽपि ते भगवन्न् एतर्हि दशसु दिक्षु अप्रमेयासंख्येयेषु लोकधातुष्व् अपरिमाणा बोधिसत्त्वा महासत्त्वास् ते ऽप्य् अत्र महायाने शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नुवन्ति । तस्मात् तर्हि भगवन् महायानम् इदं बोधिसत्त्वानां महासत्त्वानां यद् उत त्र्यध्वसमतानाम । एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत् । एवम् एतत् सुभूते एवम् एतत् । अत्र महायाने शिक्षित्वातीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्स ं बुद्धैः सर्वाकारज्ञतानुप्राप्ता चानुप्राप्स्यते चानुप्राप्यते च ॥
शतसाहस्र्याः प्रज्ञापारमितायाः एकादश परिवर्तः ॥
अथ द्वादशः परिवर्तः ।
अथ खलु पूर्णो मैत्रायणीपुत्रो भगवन्तम् एतद् अवोचत् । अयं भगवन् सुभूतिः स्थविरस् तथागतेनार्हता सम्यक्स ं बुद्धेन प्रज्ञापारमितायाः कृते अध्येषितः स महायानम् उपदेष्टव्यं मन्यते । अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् । मा हैवाहं भगवन् प्रज्ञापारमिताम् अतिक्रम्य महायानम् उपदिशामि । भगवान् आह । नो हीदं सुभूते ऽनुलोमं त्वं सुभूते प्रज्ञापारमिताया महायानम् उपदिश्यसि । तत् कस्य हेतोस् तथा हि सुभूते ये केचित् कुशला धर्माः श्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति । सुभूतिर् आह । कतमे भगवन् कुशला धर्मा बोधिपक्षाः वा के धर्माश् च प्रत्येकबुद्धधर्माश् च बोधिसत्त्वधर्माश् च बुद्धधर्माश् च ये प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति । भगवान् आह । तद्यथा चत्वारि स्मृत्युपस्थानानि । चत्वारि सम्यक्प्रहाणानि । चत्वार ऋद्धिपादाः । पञ्चेन्द्रियाणि । पञ्च बलानि । सप्त बोध्यङ्गानि । आर्याष्टाङ्गमार्गः । चत्वार्य् आर्यसत्यानि । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि । चत्वारि ध्यानानि । चत्वार्य् अप्रमाणानि । चतस्र आरूप्यसमापत्तयः । षड् अभिज्ञाः । दानपारमिता । शीलपारमिता । क्षान्तिपारमिता । वीर्यपारमिता । ध्यानपारमिता । प्रज्ञापारमिता । अध्यात्मशून्यता । बहिर्धाशून्यता । अध्यात्मबहिर्धाशून्यता । शून्यताशून्यता । महाशून्यता । परमार्थशून्यता । संस्कृतशून्यता । असंस्कृतशून्यता । अत्यन्तशून्यता । अनवराग्रशून्यता । अनवकारशून्यता । प्रकृतिशून्यता । सर्वधर्मशून्यता । स्वलक्षणशून्यता । अनुपलम्भशून्यता । अभावशून्यता । स्वभावशून्यता । अभावस्वभावशून्यता । सर्वसमाधयः । सर्वधारणीमुखानि । दश तथागतबलानि । चत्वारि वैशारद्यानि । चतस्रः प्रतिस ं विडः । महामैत्री । महाकरुणा । महामुदिता । महोपेक्षा । अष्टादशावेणिका बुद्धधर्माः । असंप्रमेयधर्मता । महोपेक्षाविहारिता । इमे सुभूते कुशला धर्मा बोधिपक्षाः । श्रावकधर्माश् च प्रत्येकबुद्धधर्माश् च बोधिसत्त्वधर्माश् च बुद्धधर्माश् च ये प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति । यच् च सुभूते महायानं यच् च प्रज्ञापारमिता ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता । यच् च रूपं या च वेदना या च संज्ञा ये च संस्काराः यच् च विज्ञानं यच् च चक्षुः यच् च रूपं यच् च चक्षुर्विज्ञानं यश् च चक्षुःसंस्पर्शो या च चक्षुःसंस्पर्शप्रत्ययवेदना । यच् च श्रोत्रं यश् च शब्दो यच् च श्रोत्रविज्ञानं यश् च श्रोत्रसंस्पर्शो या च श्रोत्रसंस्पर्शप्रत्ययवेदना । यच् च घ्राणं यश् च गन्धो यच् च घ्राणविज्ञानं यश् च घ्राणसंस्पर्शो या च घ्राणसंस्पर्शप्रत्ययवेदना । या च जिह्वा यश् च रसो यच् च जिह्वाविज्ञानं यश् च जिह्वासंस्पर्शो या च जिह्वासंस्पर्शप्रत्ययवेदना । यश् च कायो यश् च स्पर्शो यच् च कायविज्ञानं यश् च कायसंस्पर्शो या च कायसंस्पर्शप्रत्ययवेदना । यच् च मनो ये च धर्मा यच् च मनोविज्ञानं यश् च मनःसंस्पर्शो या च मनःसंस्पर्शप्रत्ययवेदना । या चाविद्या ये च संस्कारा यच् च विज्ञान यच् च नामरूपं यच् च षडायतनं यश् च स्पर्शो या च वेदना या च तृष्णा यच् चोपादानं यश् च भवो या च जातिर् यच् च जरामरणं । या च दानपारमिता या च शीलपारमिता या च क्षान्तिपारमिता या च वीर्यपारमिता या च ध्यानपारमिता या च प्रज्ञापारमिता । या चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च शून्यताशून्यता या च महाशून्यता या च परमार्थशून्यता या च संस्कृतशून्यता या चासंस्कृतशून्यता या चात्यन्तशून्यता या चानवराग्रशून्यता या चानवकारशून्यता या च प्रकृतिशून्यता या च सर्वधर्मशून्यता या च स्वलक्षणशून्यता या चानुपलम्भशून्यता या चाभावशून्यता या च स्वभावशून्यता या चाभावस्वभावशून्यता । यानि च स्मृत्युपस्थानानि यानि च सम्यक्प्रहाणानि । ये चर्धिपादाः । यानि चेन्द्रियाणि यानि च बलानि यानि च बोध्यङ्गानि यश् चार्याष्टाङ्गमार्गः । यानि चार्यासत्यानि यानि च ध्यानानि यानि चाप्रमाणानि याश् चारूप्यसमापत्तयो याश् च षड् अभिज्ञाः । यानि चाष्टाभिध्यायतनानि । यानि दश कृत्स्नायतनानि । ये चाष्टौ विमोक्षाः । याश् च नवानुपूर्वविहारसमापत्तयः । यच् च दुःखं यश् च समुदयो यश् च निरोधो यश् च मार्गः । यानि च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि । ये च समाधयो यानि च धारणीमुखानि यानि च दश तथागतबलानि । यानि च चत्वारि वैशारद्यानि । याश् च चतस्रः प्रतिस ं विदो या च महाकरुणा ये चाष्टादशावेणिका बुद्धधर्माः । यश् च कामधातुर् यश् चारूप्यधातुर् ये च कुशलधर्माः ये च साश्रवा धर्माः ये चानाश्रवा धर्माः ये च लौकिका धर्माः ये च लोकोत्तरा धर्माः ये च संस्कृतधर्माः ये चासंस्कृतधर्माः यश् च तथागतधर्मः । यश् च तथागतेन प्रवेशितो धर्मविनयो यश् च धर्मधातुर् या च तथता या च भूतकोटि यश् चाचिन्त्यधातुर् यश् च निर्वाणधातुः सर्वत्र एते धर्माः न संयुक्ता न विसंयुक्ताः । अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः । अनेन त्वं सुभूते पर्यायेण प्रज्ञापारमिताया अनुलोमं महायानम् उपदिशामि । तत् कस्य हेतोर् न हि सुभूते ऽन्यन् महायानम् अन्या प्रज्ञापारमिता । इति हि महायानञ् च प्रज्ञापारमिता चाद्वयम् एतद् अध्वैधीकारं । नान्यन् महायानम् अन्या ध्यानपारमिता । इति हि महायानञ् च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्या वीर्यपारमिता । इति हि महायानञ् च वीर्यपारमिता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्या क्षान्तिपारमिता । इति हि महायानञ् च क्षान्तिपारमिता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्या शीलपारमिता । इति हि महायानञ् च शीलपारमिता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्या दानपारमिता । इति हि महायानञ् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्याध्यात्मशून्यता । इति हि महायानञ् चाध्यात्मशून्यता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्या बहिर्धाशून्यता । इति हि महायानञ् च बहिर्धाशून्यता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्याध्यात्मबहिर्धाशून्यता । इति हि महायानञ् चाध्यात्मबहिर्धाशून्यता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्या शून्यताशून्यता । इति हि महायानञ् च शून्यताशून्यता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्या महाशून्यता । इति हि महायानञ् च महाशून्यता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानं नान्या परमार्थशून्यता । इति हि महायानञ् च परमार्थशून्यता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्या
संस्कृतशून्यता । इति हि महायानञ् च संस्कृतशून्यता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्यासंस्कृतशून्यता । इति हि महायानञ् चासंस्कृतशून्यता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्यात्यन्तशून्यता । इति हि महायानञ् चात्यन्तशून्यता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्यानवराग्रशून्यता । इति हि महायानञ् चानवराग्रशून्यता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्यानवकारशून्यता । इति हि महायानञ् चानवकारशून्यता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्या प्रकृतिशून्यता । इति हि महायानञ् च प्रकृतिशून्यता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्या सर्वधर्मशून्यता । इति हि महायानञ् च सर्वधर्मशून्यता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्या स्वलक्षणशून्यता । इति हि महायानञ् च स्वलक्षणशून्यता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्यानुपलम्भशून्यता । इति हि महायानञ् चानुपलम्भशून्यता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्याभावशून्यता । इति हि महायानञ् चाभावशून्यता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्या स्वभावशून्यता । इति हि महायानञ् च स्वभावशून्यता चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्याभावस्वभावशून्यता । इति हि महायानञ् चाभावस्वभावशून्यता चाद्वयम् एतद् अद्वैधीकारं ।
नान्यन् महायानम् अन्यानि स्मृत्युपस्थानानि । इति हि महायानञ् च स्मृत्युपस्थानानि चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्यानि सम्यक्प्रहाणानि । इति हि महायानञ् च सम्यक्प्रहाणानि चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्ये ऋद्धिपादाः । इति हि महायानञ् चर्धिपादाश् चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्यानीन्द्रियाणि । इति हि महायानञ् चेन्द्रियाणि चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्यानि बलानि । इति हि महायानञ् च बलानि चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्यानि बोध्यङ्गानि । इति हि महायानञ् च बोध्यङ्गानि चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्य आर्याष्टाङ्गमार्गः । इति हि महायानञ् चार्याष्टाङ्गमार्गश् चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्यान्य् आर्यसत्यानि । इति हि महायानञ् चार्यसत्यानि चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्यानि ध्यानानि । इति हि महायानञ् च ध्यानानि चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्यान्य् अप्रमाणानि । इति हि महायानञ् चाप्रमाणानि चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्या आरूप्यसमापत्तयः । इति हि महायानञ् चारूप्यसमापत्तयश् चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्ये ऽष्टौ विमोक्षाः । इति हि महायानञ् च विमोक्षाश् चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्या नवानुपूर्वविहारसमापत्तयः । इति हि महायानञ् चानुपूर्वविहारसमापत्तयश् चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्यानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि । इति हि महायानञ् च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि चाद्वयम् एतद् द्वैधीकारं । नान्यन् महायानम् अन्या अभिज्ञा । इति हि महायानञ् चाभिज्ञाश् चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्ये समाधयः । इति हि महायानञ् च समाधयश् चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्यानि धारणीमुखानि । इति हि महायानञ् च धारणीमुखानि चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्यानि दश तथागतबलानि । इति हि महायानञ् च तथागतबलानि चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्यानि वैशारद्यानि । इति हि महायानञ् च वैशारद्यानि चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्याश् चतस्रः प्रतिस ं विदः । इति हि महायानञ् च प्रतिस ं विदश् चाद्वयम् एतद् अद्वैधीकारं । नान्यन् महायानम् अन्या महाकरुणा । इति हि महायानञ् च महाकरुणा चाद्वयम् एतद् अद्वैधीकारं । नान्यन् माहायानम् अन्ये ऽष्टादशावेणिका बुद्धधर्माः । इति हि महायानञ् चावेणिकबुद्धधर्माश् चाद्वयम् एतद् अद्वैधीकारं ।
अनेन सुभूते पर्यायेण महायानम् उपदिश्य प्रज्ञापारमितोपदिष्टा भवति । प्रज्ञापारमिताम् उपदिश्य महायानम् उपदिष्टं भवति । अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् । अपि तु खलु पुनर् भगवन् पूर्वान्ततो बोधिसत्त्वो नोपलभ्यते । अपरान्ततो बोधिसत्त्वो नोपलभ्यते । मध्यतो ऽपि बोधिसत्त्वो नोपलभ्यते । रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । वेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । संज्ञापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । रूपं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते । वेदना बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते । संज्ञा बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते । संस्कारा बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते । विज्ञानं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते । एवम् अहं भगवन् सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वम् असमनुपश्यन्न् अनुपलम्भमानः कतमं बोधिसत्त्वं कतमस्यां पज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि । बोधिसत्त्वम् एव तावत् सकलं न समनुपश्यामि नोपलभे । तत् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि । बोधिसत्त्वो महासत्त्व इति भगवन्न् उच्यते नाममात्रम् एतत् । यथा आत्मेति भगवन्न् अच्यते ऽत्यन्तानभिनिर्वृत्तश् चात्मा । एवम् एव भगवन् बोधिसत्त्वो महासत्त्व इत्य् उच्यते ऽत्यन्तानभिनिर्वृत्तश् च बोधिसत्त्वः । एवम् अभावस्वभावानां धर्माणां कतमत् तद् रूपं यद् अनभिनिर्वृत्तं । कतमा सा वेदनायानभिनिवृत्ता । कतमा सा संज्ञा यानभिनिर्वृत्ता । कतमे ते संस्कारा ये ऽनभिनिर्वृत्ताः । कतमत् तद् विज्ञानं यद् अनभिनिर्वृत्तं । यच् च भगवन्न् अनभिनिर्वृत्तं । न तद् रूपं या चानभिनिर्वृत्ता न सा वेदना । या चानभिनिर्वृत्ता न सा संज्ञा । ये चानभिनिर्वृत्ता न ते संस्काराः । यद् अनभिनिर्वृत्तं न तद् विज्ञानं । तत् किम् अनभिनिर्वृत्तम् अनभिनिर्वृत्तायां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि । न चान्यत्रानभिनिर्वृत्तेर् बोधिसत्त्वो महासत्त्व उपलभ्यते । यो बोधाय चरेत् । सचेद् एकनिर्दिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपाद्यते । चरत्य् अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां ।
अथायुष्मान् शारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत् । केन कारणेनायुष्मन् सुभूते पूर्वान्ततो बोधिसत्त्वो नोपैति । अपरान्ततो बोधिसत्त्वो नोपैति मध्यतो बोधिसत्त्वो नोपैति । केन कारणेनायुष्मन् सुभूते रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । वेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । संज्ञापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । केन कारणेनायुष्मन् सुभूते रूपं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते । वेदना बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते । संज्ञा बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते । विज्ञानं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते । केन कारणेनायुष्मन् सुभूते एवं वदस्य् एवम् अहं सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वम् असमनुपश्यन्न् अनुपलभमानः कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि । केन कारणेनायुष्मन् सुभूते एवं वदसि बोधिसत्त्वम् एव तावत् सकलं न समनुपश्यामि नोपलभे । कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अवदिष्याम्य् अनुशासिष्यामि । केन कारणेनायुष्मन् सुभूते एवं वदसि बोधिसत्त्वो बोधिसत्त्व इति भगवन्न् उच्यते । यावद् एव नाममात्रम् एतत् । केन कारणेनायुष्मन् सुभूते एवं वदसि यथा आत्मेत्य् उच्यते अत्यन्तानभिनिर्वृत्तश् चात्मा । एवम् एव भगवन् बोधिसत्त्वो महासत्त्व इत्य् उच्यते अत्यन्तानभिनिर्वृत्तश् च बोधिसत्त्वः । एवम् अभावस्वभावानां सर्वधर्माणां कतमत् तद् रूपं यद् अनभिनिर्वृत्तं । कतमा सा वेदना यानभिनिर्वृत्ता । कतमा सा संज्ञा यानभिनिर्वृत्ता । कतमे ते संस्कारा ये ऽनभिनिर्वृत्ता । कतमं तद् विज्ञानं यद् अनभिनिर्वृत्तं । यद् अनभिनिर्वृत्तं न तद् रूपं । यानभिनिर्वृत्ता न सा वेदना । यानभिनिवृत्ता न सा संज्ञा । ये ऽनभिनिर्वृत्ता न ते संस्काराः । यद् अनभिनिर्वृत्तं न तद् विज्ञानं । केन कारणेन सुभूते एवं वदसि तत् किम् अनभिनिर्वृत्तम् अनभिनिर्वृत्तायां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि । केन कारणेन सुभूते एवं नान्यत्रानभिनिर्वृत्तैर् बोधिसत्त्व उपलभ्यते यो बोधाय चरेत् । केन कारणेन सुभूते एवं वदसि सचेद् एवं निर्देश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरत्य् अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् इति । एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत् । सत्त्वासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । सत्त्वविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । सत्त्वास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । सत्त्वासत्तयापरान्ततो बोधिसत्त्वो नोपैति । सत्त्वाशून्यतया सत्त्वविविक्ततया सत्त्वास्वभावतया अपरान्ततो बोधिसत्त्वो नोपैति । सत्त्वासत्तया मध्यतो बोधिसत्त्वो नोपैति । सत्त्वशून्यतया सत्त्वविविक्ततया सत्त्वास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र सत्त्वासत्तयो सत्त्वशून्यतायां सत्त्वविविक्ततायां सत्त्वास्वभावतायां पूर्वान्त उपलभ्यते नापरान्तो न मध्य उपलभ्यते । न चान्यासत्त्वासत्तान्या सत्त्वशून्यतान्या सत्त्वविविक्ततान्या सत्त्वास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यो मध्य इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च सत्त्वासत्ता या च सत्त्वशून्यता या च सत्त्वविविक्तता या च सत्त्वस्वभावता यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं । रूपासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । रूपशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । रूपविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । रूपास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । रूपासत्तयापरान्ततो बोधिसत्त्वो नोपैति । रूपशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । रूपविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । रूपास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । रूपासत्तया मध्यतो बोधिसत्त्वो नोपैति । रूपशून्यतया मध्यतो बोधिसत्त्वो नोपैति । रूपविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । रूपास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र रूपासत्तयो रूपशून्यतायां रूपविविक्ततायां रूपास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते । न चान्यारूपासत्तान्या रूपशून्यतान्या रूपविविक्ततान्या रूपास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यो मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च रूपासत्ता या च रूपशून्यता या च रूपविविक्तता या च रूपास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
वेदनासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । वेदनाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । वेदनाविविक्ततया पूर्वन्ततो बोधिसत्त्वो नोपैति । वेदनास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । वेदनासत्तयापरान्ततो बोधिसत्त्वो नोपैति । वेदनाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । वेदनाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । वेदनास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । वेदनासत्तया मध्यतो बोधिसत्त्वो नोपैति । वेदनाशून्यतया मध्यतो बोधिसत्त्वो नोपैति । वेदनाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र वेदनासत्तया वेदनाशून्यतायां वेदनाविविक्ततायां वेदनास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यं उपलभ्यते । न चान्या वेदनासत्तान्या वेदनाशून्यतान्या वेदनाविविक्ततान्या वेदनास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुश्मञ् छारद्वतीपुत्र या च वेदनासत्ता या च वेदनाशून्यता या च वेदनाविविक्ततो या च वेदनास्वभावतायश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
संज्ञासत्तायायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । संज्ञाशून्यतया पूर्वान्ततो बोधिसत्वो नोपैति । संज्ञाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । संज्ञास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । संज्ञासत्तयापरान्ततो बोधिसत्त्वो नोपैति । संज्ञाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । संज्ञाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । संज्ञास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । संज्ञासत्तया मध्यतो बोधिसत्त्वो नोपैति । संज्ञाशून्यतया मध्यतो बोधिसत्त्वो नोपैति । संज्ञाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । संज्ञास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र संज्ञासत्तायां संज्ञाशून्यतायां संज्ञाविविक्ततायां संज्ञास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या संज्ञासत्तान्या संज्ञाशून्यतान्या संज्ञाविविक्ततान्या संज्ञास्वभावता । अन्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्या मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च संज्ञासत्ता या च संज्ञाशून्यता या च संज्ञाविविक्तता या च संज्ञास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
संस्कारासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । संस्कारशून्यतया पूर्वन्ततो बोधिसत्त्वो नोपैति । संस्कारविविक्ततया पूर्वन्ततो बोधिसत्त्वो नोपैति । संस्कारास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । संस्कारासत्तयापरान्ततो बोधिसत्त्वो नोपैति । संस्कारशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । संस्कारविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । संस्कारास्वभावतयापरान्ततो बोधिसत्त्वा नोपैति । संस्कारासत्तया मध्यतो बोधिसत्त्वो नोपैति । संस्कारशून्यतया मध्यतो बोधिसत्त्वो नोपैति । संस्कारविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । संस्कारास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारदतीपुत्र संस्कारासत्तयां संस्कारशून्यतायां संस्कारविविक्ततायां संस्कारास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या संस्कारासत्तान्या संस्कारशून्यतान्या संस्कारविविक्ततान्या संस्कारास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र । या च संस्कारासत्ता या च संस्कारशून्यता या च संस्कारविविक्तता या च संस्कारास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
विज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । विज्ञानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । विज्ञानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । विज्ञानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । विज्ञानासत्तयापरान्ततो बोधिसत्त्वो नोपैति । विज्ञानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । विज्ञानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । विज्ञानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । विज्ञानासत्तया मध्यतो बोधिसत्त्वो नोपैति । विज्ञानशून्यतया मध्यतो बोधिसत्त्वो नोपैति । विज्ञानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । विज्ञानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र विज्ञानासत्तायां विज्ञानशून्यतायां विज्ञानविविक्ततायां विज्ञानास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या विज्ञानासत्तान्या विज्ञानशून्यतान्या विज्ञानविविक्ततो ऽन्या विज्ञानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च विज्ञानासत्ता या च विज्ञानशून्यता या च विज्ञानविविक्तता या च विज्ञानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
चक्षुरसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । चक्षुःशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । चक्षुर्विविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । चक्षुरस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । चक्षुरसत्तयापरान्ततो बोधिसत्त्वो नोपैति । चक्षुःशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । चक्षुर्विविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । चक्षुरस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । चक्षुरसत्तया मध्यतो बोधिसत्त्वो नोपैति । चक्षुःशून्यतया मध्यतो बोधिसत्त्वो नोपैति । चक्षुर्विविक्ततया मध्यतो बोधिसत्त्वो नोपैति । चक्षुरस्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र चक्षुरसत्तायां चक्षुःशून्यतायां चक्षुर्विविक्ततायां चक्षुरस्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते न चान्या चक्षुरसत्तान्या चक्षुःशून्यतान्या चक्षुर्विविक्ततो ऽन्या चक्षुरस्वभावतान्या बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च चक्षुरसत्ता या च चक्षुःशून्यता या च चक्षुर्विविक्तता या च चक्षुरस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
श्रोत्रासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । श्रोत्रशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । श्रोत्रविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । श्रोत्रास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । श्रोत्रासत्तयापरान्ततो बोधिसत्त्वो नोपैति । श्रोत्रशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । श्रोत्रविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । श्रोत्रास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । श्रोत्रासत्तया मध्यतो बोधिसत्त्वो नोपैति । श्रोत्रशून्यतया मध्यतो बोधिसत्त्वो नोपैति । श्रोत्रविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । श्रोत्रास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र श्रोत्रासत्तायां श्रोत्रशून्यतायां श्रोत्रविविक्ततायां श्रोत्रास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या श्रोत्रासत्तान्या श्रोत्रशून्यतान्या श्रोत्रविविक्ततान्या श्रोत्रास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च श्रोत्रासत्ता या च श्रोत्रशून्यता या च श्रोत्रविविक्तता या च श्रोत्रस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
घ्राणासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । घ्राणशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । घ्राणविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । घ्राणास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । घ्राणासत्तयापरान्ततो बोधिसत्त्वो नोपैति । घ्राणशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । घ्राणविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । घ्राणास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । घ्राणासत्तया मध्यतो बोधिसत्त्वो नोपैति । घ्राणशून्यतया मध्यतो बोधिसत्त्वो नोपैति । घ्राणविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । घ्राणास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र घ्राणासत्तायां घ्राणशून्यतायां घ्राणविविक्ततायां घ्राणास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या घ्राणासत्तान्या घ्राणशून्यतान्या घ्राणविविक्ततान्या घ्राणास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च घ्राणासत्ता या च घ्राणशून्यता या च घ्राणविविक्तता या च घ्राणास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
जिह्वासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । जिह्वाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । जिह्वाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । जिह्वास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । जिह्वासत्तयापरान्ततो बोधिसत्त्वो नोपैति । जिह्वाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । जिह्वाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । जिह्वास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । जिह्वासत्तया मध्यतो बोधिसत्त्वो नोपैति । जिह्वाशून्यतया मध्यतो बोधिसत्त्वो नोपैति । जिह्वाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । जिह्वास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र जिह्वासत्तायां जिह्वाशून्यतायां जिह्वाविविक्ततायां जिह्वास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या जिह्वासत्तान्या जिह्वाशून्यतान्या जिह्वाविविक्ततान्या जिह्वास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च जिह्वासत्ता या च जिह्वाशून्यता या च जिह्वाविविक्तता या च जिह्वास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
कायासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । कायशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । कायविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । कायास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । कायासत्तयापरान्ततो बोधिसत्त्वो नोपैति । कायशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । कायविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । कायास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । कायासत्तया मध्यतो बोधिसत्त्वो नोपैति । कायशून्यतया मध्यतो बोधिसत्त्वो नोपैति । कायविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । कायास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र कायासत्तायां कायशून्यतायां कायविविक्ततायां कायास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या कायासत्तान्या कायशून्यतान्या कायविविक्ततान्या कायास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च कायासत्ता या च कायशून्यता या च कायविविक्तता या च कायास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
मनोसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । मनःशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । मनोविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । मनोस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । मनोसत्तयापरान्ततो बोधिसत्त्वो नोपैति । मनःशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । मनोविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । मनोस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । मनोसत्तया मध्यतो बोधिसत्त्वो नोपैति । मनःशून्यतया मध्यतो बोधिसत्त्वो नोपैति । मनोविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । मनोस्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र मनोसत्तायां मनःशून्यतायां मनोविविक्ततायां मनोस्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या मनोसत्तान्या मनःशून्यतान्या मनोविविक्ततान्या मनोस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च मनोसत्ता या च मनःशून्यता या च मनोविविक्तता या च मनोस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
रूपासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । रूपशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । रूपविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । रूपास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । रूपासत्तयापरान्ततो बोधिसत्त्वो नोपैति । रूपशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । रूपविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । रूपास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । रूपासत्तया मध्यतो बोधिसत्त्वो नोपैति । रूपशून्यतया मध्यतो बोधिसत्त्वो नोपैति । रूपविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । रूपास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र रूपासत्तायां रूपशून्यतायां रूपविविक्ततायां रूपास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या रूपासत्तान्या रूपशून्यतान्या रूपविविक्ततान्या रूपास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च रूपासत्ता या च रूपशून्यता या च रूपविविक्तता या च रूपास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
शब्दासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । शब्दशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । शब्दविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । शब्दास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । शब्दासत्तयापरान्ततो बोधिसत्त्वो नोपैति । शब्दशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । शब्दविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । शब्दास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । शब्दासत्तया मध्यतो बोधिसत्त्वो नोपैति । शब्दशून्यतया मध्यतो बोधिसत्त्वो नोपैति । शब्दविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । शब्दास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र शब्दासत्तायां शब्दशून्यतायां शब्दविविक्ततायां शब्दास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या शब्दासत्तान्या शब्दशून्यतान्या शब्दविविक्ततान्या शब्दास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च शब्दासत्ता या च शब्दशून्यता या च शब्दविविक्तता या च शब्दास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
गन्धासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । गन्धशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । गन्धविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । गन्धास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । गन्धासत्तयापरान्ततो बोधिसत्त्वो नोपैति । गन्धशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । गन्धविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । गन्धास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । गन्धासत्तया मध्यतो बोधिसत्त्वो नोपैति । गन्धशून्यतया मध्यतो बोधिसत्त्वो नोपैति । गन्धविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । गन्धास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र गन्धासत्तायां गन्धशून्यतायां गन्धविविक्ततायां गन्धास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या गन्धासत्तान्या गन्धशून्यतान्या गन्धविविक्ततान्या गन्धास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च गन्धासत्ता या च गन्धशून्यता या च गन्धविविक्तता या च गन्धास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
रसासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । रसशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । रसविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । रसास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । रसासत्तयापरान्ततो बोधिसत्त्वो नोपैति । रसशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । रसविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । रसास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । रसासत्तया मध्यतो बोधिसत्त्वो नोपैति । रसशून्यतया मध्यतो बोधिसत्त्वो नोपैति । रसविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । रसास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र रसासत्तायां रसशून्यतायां रसविविक्ततायां रसास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या रसासत्तान्या रसशून्यतान्या रसविविक्ततान्या रसास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च रसासत्ता या च रसशून्यता या च रसविविक्तता या च रसास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
स्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । स्पर्शशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । स्पर्शविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । स्पर्शास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । स्पर्शासत्तयापरान्ततो बोधिसत्त्वो नोपैति । स्पर्शशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । स्पर्शविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । स्पर्शास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । स्पर्शासत्तया मध्यतो बोधिसत्त्वो नोपैति । स्पर्शशून्यतया मध्यतो बोधिसत्त्वो नोपैति । स्पर्शविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । स्पर्शास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र स्पर्शासत्तायां स्पर्शशून्यतायां स्पर्शविविक्ततायां स्पर्शास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या स्पर्शासत्तान्या स्पर्शशून्यतान्या स्पर्शविविक्ततान्या स्पर्शास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च स्पर्शासत्ता या च स्पर्शशून्यता या च स्पर्शविविक्तता या च स्पर्शास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
धर्मासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । धर्मशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । धर्मविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । धर्मास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । धर्मासत्तयापरान्ततो बोधिसत्त्वो नोपैति । धर्मशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । धर्मविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । धर्मास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । धर्मासत्तया मध्यतो बोधिसत्त्वो नोपैति । धर्मशून्यतया मध्यतो बोधिसत्त्वो नोपैति । धर्मविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । धर्मास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र धर्मासत्तायां धर्मशून्यतायां धर्मविविक्ततायां धर्मास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या धर्मासत्तान्या धर्मशून्यतान्या धर्मविविक्ततान्या धर्मास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च धर्मासत्ता या च धर्मशून्यता या च धर्मविविक्तता या च धर्मास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
चक्षुर्विज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । चक्षुर्विज्ञानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । चक्षुर्विज्ञानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । चक्षुर्विज्ञानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । चक्षुर्विज्ञानासत्तयापरान्ततो बोधिसत्त्वो नोपैति । चक्षुर्विज्ञानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । चक्षुर्विज्ञानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । चक्षुर्विज्ञानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । चक्षुर्विज्ञानासत्तया मध्यतो बोधिसत्त्वो नोपैति । चक्षुर्विज्ञानशून्यतया मध्यतो बोधिसत्त्वो नोपैति । चक्षुर्विज्ञानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । चक्षुर्विज्ञानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र चक्षुर्विज्ञानासत्तायां चक्षुर्विज्ञानशून्यतायां चक्षुर्विज्ञानविविक्ततायां चक्षुर्विज्ञानास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या चक्षुर्विज्ञानासत्तान्या चक्षुर्विज्ञानशून्यतान्या चक्षुर्विज्ञानविविक्ततान्या चक्षुर्विज्ञानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च चक्षुर्विज्ञानासत्ता या च चक्षुर्विज्ञानशून्यता या च चक्षुर्विज्ञानविविक्तता या च चक्षुर्विज्ञानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
श्रोत्रविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । श्रोत्रविज्ञानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । श्रोत्रविज्ञानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । श्रोत्रविज्ञानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । श्रोत्रविज्ञानासत्तयापरान्ततो बोधिसत्त्वो नोपैति । श्रोत्रविज्ञानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । श्रोत्रविज्ञानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । श्रोत्रविज्ञानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । श्रोत्रविज्ञानासत्तया मध्यतो बोधिसत्त्वो नोपैति । श्रोत्रविज्ञानशून्यतया मध्यतो बोधिसत्त्वो नोपैति । श्रोत्रविज्ञानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । श्रोत्रविज्ञानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र श्रोत्रविज्ञानासत्तायां श्रोत्रविज्ञानशून्यतायां श्रोत्रविज्ञानविविक्ततायां श्रोत्रविज्ञानास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या श्रोत्रविज्ञानासत्तान्या श्रोत्रविज्ञानशून्यतान्या श्रोत्रविज्ञानविविक्ततान्या श्रोत्रविज्ञानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च श्रोत्रविज्ञानासत्ता या च श्रोत्रविज्ञानशून्यता या च श्रोत्रविज्ञानविविक्तता या च श्रोत्रविज्ञानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
घ्राणविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । घ्राणविज्ञानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । घ्राणविज्ञानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । घ्राणविज्ञानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । घ्राणविज्ञानासत्तयापरान्ततो बोधिसत्त्वो नोपैति । घ्राणविज्ञानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । घ्राणविज्ञानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । घ्राणविज्ञानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । घ्राणविज्ञानासत्तया मध्यतो बोधिसत्त्वो नोपैति । घ्राणविज्ञानशून्यतया मध्यतो बोधिसत्त्वो नोपैति । घ्राणविज्ञानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । घ्राणविज्ञानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र घ्राणविज्ञानासत्तायां घ्राणविज्ञानशून्यतायां घ्राणविज्ञानविविक्ततायां घ्राणविज्ञानास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या घ्राणविज्ञानासत्तान्या घ्राणविज्ञानशून्यतान्या घ्राणविज्ञानविविक्ततान्या घ्राणविज्ञानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च घ्राणविज्ञानासत्ता या च घ्राणविज्ञानशून्यता या च घ्राणविज्ञानविविक्तता या च घ्राणविज्ञानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
जिह्वाविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । जिह्वाविज्ञानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । जिह्वाविज्ञानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । जिह्वाविज्ञानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । जिह्वाविज्ञानासत्तयापरान्ततो बोधिसत्त्वो नोपैति । जिह्वाविज्ञानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । जिह्वाविज्ञानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । जिह्वाविज्ञानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । जिह्वाविज्ञानासत्तया मध्यतो बोधिसत्त्वो नोपैति । जिह्वाविज्ञानशून्यतया मध्यतो बोधिसत्त्वो नोपैति । जिह्वाविज्ञानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । जिह्वाविज्ञानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र जिह्वाविज्ञानासत्तायां जिह्वाविज्ञानशून्यतायां जिह्वाविज्ञानविविक्ततायां जिह्वाविज्ञानास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या जिह्वाविज्ञानासत्तान्या जिह्वाविज्ञानशून्यतान्या जिह्वाविज्ञानविविक्ततान्या जिह्वाविज्ञानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च जिह्वाविज्ञानासत्ता या च जिह्वाविज्ञानशून्यता या च जिह्वाविज्ञानविविक्तता या च जिह्वाविज्ञानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
कायविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । कायविज्ञानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । कायविज्ञानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । कायविज्ञानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । कायविज्ञानासत्तयापरान्ततो बोधिसत्त्वो नोपैति । कायविज्ञानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । कायविज्ञानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । कायविज्ञानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । कायविज्ञानासत्तया मध्यतो बोधिसत्त्वो नोपैति । कायविज्ञानशून्यतया मध्यतो बोधिसत्त्वो नोपैति । कायविज्ञानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । कायविज्ञानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र कायविज्ञानासत्तायां कायविज्ञानशून्यतायां कायविज्ञानविविक्ततायां कायविज्ञानास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या कायविज्ञानासत्तान्या कायविज्ञानशून्यतान्या कायविज्ञानविविक्ततान्या कायविज्ञानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च कायविज्ञानासत्ता या च कायविज्ञानशून्यता या च कायविज्ञानविविक्तता या च कायविज्ञानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
मनोविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । मनोविज्ञानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । मनोविज्ञानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । मनोविज्ञानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । मनोविज्ञानासत्तयापरान्ततो बोधिसत्त्वो नोपैति । मनोविज्ञानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । मनोविज्ञानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । मनोविज्ञानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । मनोविज्ञानासत्तया मध्यतो बोधिसत्त्वो नोपैति । मनोविज्ञानशून्यतया मध्यतो बोधिसत्त्वो नोपैति । मनोविज्ञानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । मनोविज्ञानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र मनोविज्ञानासत्तायां मनोविज्ञानशून्यतायां मनोविज्ञानविविक्ततायां मनोविज्ञानास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या मनोविज्ञानासत्तान्या मनोविज्ञानशून्यतान्या मनोविज्ञानविविक्ततान्या मनोविज्ञानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च मनोविज्ञानासत्ता या च मनोविज्ञानशून्यता या च मनोविज्ञानविविक्तता या च मनोविज्ञानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
चक्षुःसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । चक्षुःसंस्पर्शशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । चक्षुःसंस्पर्शविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । चक्षुःसंस्पर्शास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । चक्षुःसंस्पर्शासत्तयापरान्ततो बोधिसत्त्वो नोपैति । चक्षुःसंस्पर्शशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । चक्षुःसंस्पर्शविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । चक्षुःसंस्पर्शास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । चक्षुःसंस्पर्शासत्तया मध्यतो बोधिसत्त्वो नोपैति । चक्षुःसंस्पर्शशून्यतया मध्यतो बोधिसत्त्वो नोपैति । चक्षुःसंस्पर्शविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । चक्षुःसंस्पर्शास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र चक्षुःसंस्पर्शासत्तायां चक्षुःसंस्पर्शशून्यतायां चक्षुःसंस्पर्शविविक्ततायां चक्षुःसंस्पर्शास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या चक्षुःसंस्पर्शासत्तान्या चक्षुःसंस्पर्शशून्यतान्या चक्षुःसंस्पर्शविविक्ततान्या चक्षुःसंस्पर्शास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च चक्षुःसंस्पर्शासत्ता या च चक्षुःसंस्पर्शशून्यता या च चक्षुःसंस्पर्शविविक्तता या च चक्षुःसंस्पर्शास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
श्रोत्रसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । श्रोत्रसंस्पर्शशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । श्रोत्रसंस्पर्शविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । श्रोत्रसंस्पर्शास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । श्रोत्रसंस्पर्शासत्तयापरान्ततो बोधिसत्त्वो नोपैति । श्रोत्रसंस्पर्शशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । श्रोत्रसंस्पर्शविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । श्रोत्रसंस्पर्शास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । श्रोत्रसंस्पर्शासत्तया मध्यतो बोधिसत्त्वो नोपैति । श्रोत्रसंस्पर्शशून्यतया मध्यतो बोधिसत्त्वो नोपैति । श्रोत्रसंस्पर्शविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । श्रोत्रसंस्पर्शास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र श्रोत्रसंस्पर्शासत्तायां श्रोत्रसंस्पर्शशून्यतायां श्रोत्रसंस्पर्शविविक्ततायां श्रोत्रसंस्पर्शास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या श्रोत्रसंस्पर्शासत्तान्या श्रोत्रसंस्पर्शशून्यतान्या श्रोत्रसंस्पर्शविविक्ततान्या श्रोत्रसंस्पर्शास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च श्रोत्रसंस्पर्शासत्ता या च श्रोत्रसंस्पर्शशून्यता या च श्रोत्रसंस्पर्शविविक्तता या च श्रोत्रसंस्पर्शास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
घ्राणसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । घ्राणसंस्पर्शशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । घ्राणसंस्पर्शविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । घ्राणसंस्पर्शास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । घ्राणसंस्पर्शासत्तयापरान्ततो बोधिसत्त्वो नोपैति । घ्राणसंस्पर्शशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । घ्राणसंस्पर्शविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । घ्राणसंस्पर्शास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । घ्राणसंस्पर्शासत्तया मध्यतो बोधिसत्त्वो नोपैति । घ्राणसंस्पर्शशून्यतया मध्यतो बोधिसत्त्वो नोपैति । घ्राणसंस्पर्शविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । घ्राणसंस्पर्शास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र घ्राणसंस्पर्शासत्तायां घ्राणसंस्पर्शशून्यतायां घ्राणसंस्पर्शविविक्ततायां घ्राणसंस्पर्शास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या घ्राणसंस्पर्शासत्तान्या घ्राणसंस्पर्शशून्यतान्या घ्राणसंस्पर्शविविक्ततान्या घ्राणसंस्पर्शास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च घ्राणसंस्पर्शासत्ता या च घ्राणसंस्पर्शशून्यता या च घ्राणसंस्पर्शविविक्तता या च घ्राणसंस्पर्शास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
जिह्वासंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । जिह्वासंस्पर्शशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । जिह्वासंस्पर्शविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । जिह्वासंस्पर्शास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । जिह्वासंस्पर्शासत्तयापरान्ततो बोधिसत्त्वो नोपैति । जिह्वासंस्पर्शशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । जिह्वासंस्पर्शविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । जिह्वासंस्पर्शास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । जिह्वासंस्पर्शासत्तया मध्यतो बोधिसत्त्वो नोपैति । जिह्वासंस्पर्शशून्यतया मध्यतो बोधिसत्त्वो नोपैति । जिह्वासंस्पर्शविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । जिह्वासंस्पर्शास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र जिह्वासंस्पर्शासत्तायां जिह्वासंस्पर्शशून्यतायां जिह्वासंस्पर्शविविक्ततायां जिह्वासंस्पर्शास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या जिह्वासंस्पर्शासत्तान्या जिह्वासंस्पर्शशून्यतान्या जिह्वासंस्पर्शविविक्ततान्या जिह्वासंस्पर्शास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च जिह्वासंस्पर्शासत्ता या च जिह्वासंस्पर्शशून्यता या च जिह्वासंस्पर्शविविक्तता या च जिह्वासंस्पर्शास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
कायसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । कायसंस्पर्शशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । कायसंस्पर्शविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । कायसंस्पर्शास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । कायसंस्पर्शासत्तयापरान्ततो बोधिसत्त्वो नोपैति । कायसंस्पर्शशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । कायसंस्पर्शविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । कायसंस्पर्शास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । कायसंस्पर्शासत्तया मध्यतो बोधिसत्त्वो नोपैति । कायसंस्पर्शशून्यतया मध्यतो बोधिसत्त्वो नोपैति । कायसंस्पर्शविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । कायसंस्पर्शास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र कायसंस्पर्शप्रत्ययवेदनासत्तायां कायसंस्पर्शप्रत्ययवेदनाशून्यतायां कायसंस्पर्शप्रत्ययवेदनाविविक्ततायां कायसंस्पर्शप्रत्ययवेदनास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या कायसंस्पर्शप्रत्ययवेदनासत्तान्या कायसंस्पर्शप्रत्ययवेदनाशून्यतान्या कायसंस्पर्शप्रत्ययवेदनाविविक्ततान्या कायसंस्पर्शप्रत्ययवेदनास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च कायसंस्पर्शप्रत्ययवेदनासत्ता या च कायसंस्पर्शप्रत्ययवेदनाशून्यता या च कायसंस्पर्शप्रत्ययवेदनाविविक्तता या च कायसंस्पर्शप्रत्ययवेदनास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
मनःसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । मनःसंस्पर्शप्रत्ययवेदनाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । मनःसंस्पर्शप्रत्ययवेदनाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति । मनःसंस्पर्शप्रत्ययवेदनास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । मनःसंस्पर्शप्रत्ययवेदनासत्तयापरान्ततो बोधिसत्त्वो नोपैति । मनःसंस्पर्शप्रत्ययवेदनाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । मनःसंस्पर्शप्रत्ययवेदनाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । मनःसंस्पर्शप्रत्ययवेदनास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । मनःसंस्पर्शप्रत्ययवेदनासत्तया मध्यतो बोधिसत्त्वो नोपैति । मनःसंस्पर्शप्रत्ययवेदनाशून्यतया मध्यतो बोधिसत्त्वो नोपैति । मनःसंस्पर्शप्रत्ययवेदनाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । मनःसंस्पर्शप्रत्ययवेदनास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत् कस्य हेतोर् न ह्य् आयुष्मञ् छारद्वतीपुत्र मनःसंस्पर्शप्रत्ययवेदनासत्तायां मनःसंस्पर्शप्रत्ययवेदनाशून्यतायां मनःसंस्पर्शप्रत्ययवेदनाविविक्ततायां मनःसंस्पर्शप्रत्ययवेदनास्वभावतायां पूर्वान्त उपलभ्यते । नापरान्त उपलभ्यते । न मध्यम् उपलभ्यते । न चान्या मनःसंस्पर्शप्रत्ययवेदनासत्तान्या मनःसंस्पर्शप्रत्ययवेदनाशून्यतान्या मनःसंस्पर्शप्रत्ययवेदनाविविक्ततान्या मनःसंस्पर्शप्रत्ययवेदनास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यं । इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च मनःसंस्पर्शप्रत्ययवेदनासत्ता या च मनःसंस्पर्शप्रत्ययवेदनाशून्यता या च मनःसंस्पर्शप्रत्ययवेदनाविविक्तता या च मनःसंस्पर्शप्रत्ययवेदनास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यम् । सर्वम् एतद् अद्वयम् अद्वैधीकारं ।
शतसाहस्र्याः प्रज्ञापारमितायाः द्वादशः परिवर्तः ॥
इति प्रथमखण्डः समाप्तः ॥
मूल पाठ: Śatasāhasrikā Prajñāpāramitā, Part I · Edition: Pratāpacandra Ghoṣa Śatasāhasrikā Prajñāpāramitā Calcutta Asiatic Society of Bengal 1902-1913 Bibliotheca Indica Kimura, Takayasu Pañcaviṃśatisāhasrikā Prajñāpāramitā Tokyo Sankibo Busshorin Publishing Co. 1986-2009 · Data entry Reinhold Grünendahl Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0