भाषा

ENहिગુ
ग्रंथ पाठ

शतगाथा · अध्याय 1

1.1

शतगाथा
कौमार्ये पठ्यतां विद्या शैत्ये संपाल्यतां च गौः ।
क्षेत्त्रं च कर्ष्यतां पीतं त्रयः सुफलहेतवः

1.2

गते ऽपि वयसि ग्राह्या विद्या सर्वात्मना बुधैः ।
यद्यपि फलदा स्यान्न सुलभा सान्यजन्मनि

1.3

गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम् ।
विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः

1.4

गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः ।
अलिरेति वनात्कमलं न दर्दुरस्य तन्निवासो ऽपि

1.5

गुणिषु दुर्लभा आढया आढयेषु गुणिनस्तथा

1.6

अनेके सन्ति भूभागा रत्नवन्तस्तु दुर्लभाः ।
दुर्लभाः प्रणिनां सन्ति मातृपितृयुतस्तु च

1.7

गुणाः कुर्वन्ति दूतत्वं दूरे ऽपि बसतां सताम् ।
केतकीगन्धमाघ्रातुं स्वयमायान्ति षट्पदाः

1.8

विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते

1.9

अल्पस्तु कालो विविधाश्च विधा ः सिमायुषो या कियती? न बुद्धा ।
हंसा लभन्ते च यथा पयो ऽद्भ्यस् तथैव तत्वं लभतां च यत्तत्

1.10

एकस्थाननिवासिनो ऽतिसमयात् स्युस्ते वियुक्ताः किल
विच्छेदान्न हि चान्तरं किमपि तत् त्याज्यं न किं तत्स्थलम् ।
वैवश्याद्धि वियोगतो मनसि जायन्ते विधाता अति
तत्स्थानं यदि हीयते सहजतः स्याच्चातिशान्तिः सुखम्

1.11

सह वसतामप्यसतां जलरुहजलवद्भवत्यसंश्लेषः ।
दूरे ऽपि सतां वसतां प्रीतिः कुमुदेन्दुवद्भवति

1.12

प्रपञ्चा यत्नओतो हेयाः संसर्गः क्रियतां सताम् ।
दिनं रोगभयान्मुक्तं शताब्दाच्चापि तद् वरम्

1.13

सर्वथेहाः परित्याज्याश्चेदशक्यं तदा पुनः ।
निर्वाणाप्त्युन्मुखो भूयात् तदियं तस्य भेषजम्

1.14

उदयन्त्वमूनि सुबहूनि महामहांसि चन्दो चन्दो ऽप्यलं भुवनमण्डलमण्डनाय । सूर्यादूते न तदुदेति न चास्तमेति येनोदितेन दिनमस्तमितेन रात्रिः

1.15

यदुदेति विना सूर्य तेजस्वि तन्न जायते ।
सूर्योदयो वरं चास्ति ह्यन्येषामुदयेन किम्

1.17

कुसुमस्तबकस्येव द्वे गती तु महात्मनाम् ।
मूध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥ 16 ।
वाणि कठोरा भणिता हि दुष्टैर्या सर्परूपा सुजनान् हिनस्ति ।
ते भेषजं क्षान्तिमयं च प्रज्ञां संसेव्य चिन्तारहिता भवन्ति

1.18

धीराः कष्टमनुप्राप्ता न भवन्ति विषादिनः ।
प्रविश्य वदनं राहोः किं नोदेति पुनः शशी

1.19

यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु ।
तस्य ज्ञानेन मोक्षेण किं जटाभस्मचिवरैः

1.20

वनानि दहतो वह्नेः सखा भवति मारुतः ।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम्

1.21

परस्तुतगुणैर्यस्तु निर्गुणो ऽपि गुणी भवेत् ।
इन्द्रो ऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः

1.22

कुलीनो ऽपि भवेद् गर्वी कार्पाण्यसहितो धनी ।
देवतास्तांश्च निन्दन्ति सर्गो ऽयं जलवह्निवत्

1.23

दूरस्थो ऽपि समीपस्थो यो यस्य मनसि स्थितः ।
यो यस्य हृदये नास्ति समीपस्थो ऽपिदूरतः

1.24

परेषां वैभवं दृष्ट्वा मनो यस्य प्रकुप्यति ।
न तस्यार्थोपलब्धिस्तु चितं पुण्यं च नश्यति

1.25

रागोपमं नास्ति मलं हि लोके ईर्ष्योपमा नास्ति च कापि हानिः ।
याञ्चासमो नास्ति च को ऽपि बन्धुर्दानोपमो नास्ति च मित्रवर्गः

1.26

क्षुधासमा नास्ति शरीरवेदना चिन्तासमा नास्ति शरीरशोषणा ।
गुणैः समा नास्ति शरीरभूषणा क्षान्त्या समं नास्ति शरीरवर्मं वै

1.27

धनेन किं क्षुद्रजनस्य मित्रैः किं वञ्चकस्यापि च मत्सरस्य ।
किं हानिदस्यातिगुणग्रहैश्च किं वा विपत्तौ विमुखात्मजेन

1.28

सर्वथा स्वहितमाचरणीयं किं करिष्यति जनो बहुजल्पः ।
बिद्यते हि न स कश्चिदुपायः सर्वलोकपरितोषकरो यः

1.29

प्रसङ्गस्यानुकूलो यः प्रज्ञ एव स पालयेत् ।
सत्यासत्ये च मैत्रिद्वेषौ कुर्यात् स्वपरैः सह

1.30

न द्विषन्तः क्षयं यान्ति यावज्जीवमपि घ्नतः ।
क्रोधमेव तु यो हन्ति तेन सर्वे द्विषो हताः

1.31

सत्कारो गुणिनां श्रेयान् दुर्जनस्य विनीतता ।
कोशपूर्तिः सदाचारैः श्रेयो देशपरीक्षणम्

1.32

यावन्मार्गो भवेत् दृष्टो यावच्चरणपुष्टता ।
प्रज्ञा ह्रासो न यावद्धि तावत्कुर्यात् स्वयं हितम्

1.33

व्यभिचारेष्वासत्तः राजा तस्य हि निरक्षरो मन्त्रि ।
तदा धनाशा कुत्र रक्ष्या असवः प्रयत्नेन

1.34

सर्व यत्र विनेतारः सर्वे पण्डितमानिनः ।
सर्वे प्रभुत्वमिच्छन्ति तद् वृन्दमवसीदति

1.35

मूषको रक्षयेदन्नं मार्जारी नवनीतकम् ।
काकश्चालयेत् पाकं वस्तूनां तत्र का कथा

1.36

मालाकार इवारामे न यथाङ्गारकारकः ।
पुष्पं पुष्पं विचिन्वीत मूलोच्छेदं न कारयेत्

1.37

वल्मीकं मधुजातं च शुक्लपक्षे च चन्द्रमाः ।
भिक्षाद्रव्यं नृपद्रव्यं स्तोकं स्तोकेन वर्धते

1.38

हीनता याचने यत्र स्यात्तत्र न च याच्यताम् ।
कामं हि न भवेदिन्द्रो हिमाज्जीवति तित्तरिः

1.39

मयूर ! ग्रीष्मस्य तु तापयुक्त आशायुतः खस्य जले भवेस्त्वम् ।
कण्ठन्तु नो नामय गौरवेण नीरे तडागस्य तु दूषितस्य

1.40

सिंहो बली हरिणरक्तपामांसभोजी संवत्सरेण कुरुते रतिमेकवारम् ।
यो गर्दभः खलु रजःकणमात्रभोजी कामी भवेदनुदिनं वद को ऽत्र हेतुः

1.41

सर्पाः पिबन्ति पवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति । कन्दैः फलैर्मुनिवरा गमयन्ति कालम् संतोष एव पुरुषस्य परं निधानम्

1.42

स शोभते पुष्पितपुष्पवच्च सुमण्डितं यस्य मुखं सुवर्णैः ।
अनक्षरं यस्य मुखं भवेच्वेत् तन्नेत्रवक्त्रे भुबि छिद्रवच्च

1.43

मुक्तामणिभ्यां च हि गर्दभस्य किं शूकरस्य प्रियभोजनेन ।
अन्धस्यदीप्त्या बधिरस्य गीतैमूर्खस्य धर्मेण किमस्ति कृत्यम्

1.44

कातन्त्रशाब्दवेत्ता हि वैद्यश्च सिद्धसारवित् ।
काष्ठखङ्गधरश्चोपहासं यान्ति त्रयो ऽपि ते

1.45

देहीदं वचनं निम्नं न दास्याम्यतिनिम्नकम् ।
गृहाणेत्युत्तमं वाक्यं न गृह्णाम्यतिशोभनम्

1.46

क्षतिं बिहाय येनापि प्रयोगेण हितस्य किम् ।
स्वकायरक्षणेनापि किञ्चैव धनतृष्णया

1.47

किंशुकस्य फलप्राप्तिर्यथा व्यर्थ बुभुक्षवे ।
धनिनश्च तथादातुर्जीवनं निष्प्रयोजनम्

1.48

कामातुराणां न भयं न लज्जा क्षुधातुराणां न बलं न तेजः ।
रोगातुराणां न सुखं न निद्रा मार्गातुराणां न भयं न वीर्यम्

1.49

धनलिप्सुः सुह्रित् त्याज्या भार्या च व्यभिचारिणी ।
अधर्मी च नृपः क्रूरो मन्त्री पिशुन एव च

1.50

कुप्रदेशो हि दुर्व्यवसायो दुष्टो ऽथ वै सुहृत् ।
बैद्यो ऽदक्षो ऽपि दुःसेव्यम् वस्तु हेया इमे ऽपि च

1.51

अहितं हितमाचारशून्यबुद्धेः श्रुतिसमयैर्बहुभिर्वहिष्कृतस्य ।
उदरभरणमात्ने केवलेच्छोर्मनुजपशोश्च को विशेषः

1.52

अर्धजलभरः कुम्भो मूर्ध्नि यत्नेन धार्यते ।
क्रुध्यन्ति दुर्जना नूनं सत्कारेणातिसेवया

1.53

स्तोकेनोन्नतिमायाति स्तोके नायात्यधोगतिम् ।
अहो ! सुसदृशी चेष्टा तुलायष्टेः खलस्य च

1.54

यथा बार्यो न लशुनस्य गन्धः कस्तूरिकाचन्दनचन्द्रसंज्ञैः ।
तथा न वार्या वरशास्त्रशिक्षाभ्यासेन दुष्टस्य च दुष्टतापि

1.55

दुर्जनः परिहर्तव्यो विद्ययालङ्कृतो ऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः

1.56

दुर्जना दुर्बला यावत् तावत् साधुस्वभावकाः ।
न्यूने शरदि नीरे हि नदीं सर्वे तरन्ति च

1.57

ज्वरादत्युष्णता रौक्षात् कफश्च वर्धते यथा ।
गुणाचारस्वभावैः स्युर्दुष्टा न परिवर्तिताः

1.58

दुष्टा नरा भृत्यगणो ऽवमानी प्रशिक्षिता नैव हयाः कुभार्या ।
प्रताडनेनैव भवन्ति नम्राः सुकर्मयोग्या न कदापि चैते

1.59

वृथा वृष्टिः समुद्रस्य वृथा तृप्तस्य भोजनम् ।
वृथा दानं समर्थस्य वृथा हीनस्य सत्कृतिः

1.60

पद्मानि सत्पुत्रमुखे लसन्ति रोहन्ति नूनं कुलटासुतस्य ।
विषस्य पत्राणि यथा करोति दुष्कर्म यो वै लभते फलन्तत्

1.61

अभ्रच्छाया खले प्रीतिः सिद्धमन्नं च योषितः ।
तृणाग्निर्हिमबिन्दुश्च षडेते बुद्बुदोपमाः

1.62

शुष्कं मांसं स्त्रियो वृद्धा मद्यं च तरुणं दधि ।
नक्ते भोजो दिवा स्वापः षडेते प्राणहारिणः

1.63

सद्यो मासं नवं सर्पिर्बालास्त्री पयसौदनम् ।
उष्णोदकं तरुच्छाया षडेते प्राणकारिणः

1.64

कान्तावियोगः स्वजनापमानो ऋणस्य शेषः कुनरस्य सेवा ।
दारिद्रभात्प्रविमुक्त मित्रं विनाग्निनैएते प्रदहन्ति पञ्च

1.65

कर्मी ह्यलाभी बलिनो ऽपकर्ता दर्पी च भिक्षुर्ह्यधनः सुखार्थी ।
कटूक्तिभाषी प्रियसुन्दरीणामेते मृषाचारिजनाश्च पञ्च

1.66

धर्मदातान्नत्र्दाता च भयत्रातोपदेशकः ।
शरीरोत्पादकश्चेति पञ्चैते हितकारिणः

1.67

प्रारावृतो हि सन्यासात् स्री पतित्रयदर्शिका ।
जम्बूको जालमुक्तश्च त्रयो ऽमी वञ्चका मताः

1.68

भोजनापाचका वैद्द्या नृपाश्चासत्यवादिनः ।
पापिन उच्चवंशीया अयोग्याः स्युस्त्रयो जनाः

1.69

याचकः स्वादुभोजि च दर्पी भिक्षापरो भवेत् ।
शास्त्रार्थी भवतादज्ञस्त्रयो हासं भजन्ति च

1.70

सकृज्जल्पन्ति राजानः आर्यो हि दृश्यते सकृत् ।
सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत्

1.71

स्थूलवपुस्तपस्वी च शूरश्चाप्यकृतव्रणः ।
शयानैकाकिनी च स्त्री त्रयमेतन्न विशवसेत्

1.72

अन्येषां हिंसको विप्रो मिथ्याचारिनृपो ऽपि च ।
भोगी कामरतो भिक्षुर्निन्दाभाजस्त्रयो भुवि

1.73

विद्वान् विनयसम्पन्नो वीरो ऽतिशान्त एव च ।
त्यागारम्भं धनी कुर्यात् कीर्तनीयास्त्रयो ऽपि च

1.74

दयी परहिते लीनो दुष्टश्च परनाशकः ।
इच्छाभिर्बालक नूनं त्रयो ऽतृप्ता इमे भुवि

1.75

अर्थनाशान्मनस्तापं दुश्चरितां गृहे स्त्रियम् ।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत्

1.76

विज्ञायते ऽध्वा शशितारकाणां ज्योतिर्विदाध्वा गणितेन खस्य ।
न दृश्यते तेन गृहे तु पत्न्याः कामादिमिथ्याचरणं कुकृतम्

1.77

गरुणा तत्त्ववेत्तुः किं वैद्येनारोगिणश्च किम् ।
पारे गतस्य किं नावा कान्तया किं विरागिणः

1.78

देवसुजनविप्राणां सत्ये विद्वद्गणस्य हि ।
गूढे वचसि भोज्ये ऽस्ति प्रीति पृथग्जनस्य च

1.79

शैले शैले न माणिक्यं मीने मीने न मौक्तिम् ।
साधवो हे न सर्वत्र चन्दनं न वने वने

1.80

हंसो न भाति चतुरो बकयूथमध्ये गोमायुमण्डलगतो न विभाति सिंहः ।
जात्यो न भाति तुरगः खरयूथमध्ये विद्वान् न भाति पुरुषेषु निरक्षरेषु

1.81

कोकिलानां स्वरो रूपं नारीरुपमपत्रपा च ।
विद्यारूपं विदग्धानां क्षमारूपं तपस्विनाम्

1.82

प्रभावशालिने पुंसे का क्षमाप्रतिकारिणे ।
विनीताय च शान्ताय जनाय का सहिष्णुता

1.83

परो ऽपि हितवान् बन्धुर्बन्धुरप्यहितः परः ।
अहितो देहजो व्याधिः हितमारण्यमौषधम्

1.84

महाजनस्य संसर्गः कस्य नोन्नतिकारकः ।
पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते

1.85

विश्वासप्रतिपन्नानां वञ्चने का विदग्धता ।
अङ्कमारुह्य सुप्तस्य हन्तुः किं नाम पौरुषम्

1.86

कौमारे पितरौ पातः भर्त्री रक्षति यौवने ।
रक्षन्ति वार्द्धके पुत्रा नाज्ञः स्वातन्त्र्यमर्हति

1.87

आसक्तिर्न भवेद्द्यावत् तावत्तु गुण एव सः ।
प्रविष्टे ऽस्यां महासक्तौ गुणादानं कुतो भवेत्

1.88

निजरीत्या जनाः प्रायो ऽपरानाकलयन्ति हि ।
ऋषयः प्रेतमालोक्य ब्रुवन्ति तं तपस्विनम्

1.89

दुर्जनदूषितमनसां पुंसां सुजने ऽपि नास्ति विश्वासः ।
बालः पयसा दग्धो दध्यपि फूत्कृत्य भक्षयति

1.90

अरघट्टघटी युक्ता वशीभवति योषितः ।
भवत्यारम्भिको यो ऽपि भवत्येव तदद्भुतः

1.91

सत्कृतो महतां यो ऽस्ति वेत्ति तमधमस्तृणम् ।
पण्डितैः पूजितस्तूपे काकः करोति चासनम्

1.92

फलं केतकवृक्षस्य यद्यप्यम्बु प्रसादकम् ।
न नामग्रहणादेव तस्य वारि प्रसीदति

1.93

शिष्टा न गृह्णन्ति पुरा प्रतिज्ञां गृह्णन्ति चेत् ते कठिनप्रतिज्ञाम् ।
अङ्गिकृतां तां परिपालयन्ति पाषाणरेखामिव ते तदानीम्

1.94

प्राप्नोति वित्तं ह्यधमो ति किञ्चिद् गर्वी परेषामवमाननायाम् ।
संजायते लब्धधनः सुमर्त्यः सुपक्वधान्येन समं विनम्रः

1.95

नास्ति प्रज्ञासमं चक्षुर्नास्ति मोहसमं तमः ।
नास्ति रोगसमः शत्रुर्नास्ति मृत्युसमं भयम्

1.96

अत एव कठोरातिमृत्युः सम्भाव्यते ध्रुवम् ।
कामाच्चित्तमपावृत्य सद्धर्मे ऽपेक्ष्यते स्पृहा

1.97

गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः ।
सुस्वादु तोयाः प्रभवन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः

1.98

कार्यमालोचितापायं मतिमद्भिर्विचेष्टितम् ।
नापत्तिर्भविता तत्र जाता परिहृतापि सा

1.99

अल्पा दृढा ये मृदुभाषिणश्च तेभ्यो ऽवधानं करणीयमेव ।
निर्याति सूर्यः सघनाद्धि मेघात् स्यात् तत्प्रकाशस्तु तदातितीक्ष्णः

1.100

शान्तिप्रियाः स्युः खलु यौवने ऽपि वैदुष्य एवं विनता भवेयुः ।
सहिष्णवस्तेजसि चातिनम्राः सुदुर्लभा एवमरिन्दमाः स्युः

1.101

म्लेच्छेष्वपि समृद्धाः स्युर्वीरा एवं पशुष्वपि ।
वक्तारः सार्थकोक्तीनां सज्जनाः स्युः सुदुर्लभाः

1.102

सम्पच्चलं नश्वरयौवनं च प्राणा भवेयुर्यमदन्तमध्ये ।
उपेक्षते तत्र सुखं न चेह जनः प्रपातस्थ इवास्ति चान्धः

1.103

ये क्लेशरोगिणो भुक्त्वा न च सद्धर्मभेषजम् ।
प्रमत्ता विषयासक्ता भवाब्धिं न तरन्ति ते

1.104

जगता गतिशीलेन शिरःस्थो दृश्यते ऽन्तकः ।
तदाप्रियं भवेदन्नं क्रियान्तरस्य का कथा

1.105

प्रतीक्षते क्रियाणां न पूर्ति चापूर्तिमन्तकः ।
श्वस्तनं चाद्य कुर्याच्च पूर्व मध्याह्निकं वरम्

1.106

अस्थिरं जीवनं लोके यौवनं धनमस्थिरं ।
अस्थिएरे पुत्रपत्न्यौ च धर्मसत्यहिताः स्थिराः

1.107

राज्ञो ऽतिजीवितं युक्तं द्रुतमृत्युर्वरं ऋषेः ।
सतो जीवनमन्तो वा वरं त्वाखेटकस्य न

मूल पाठ: Śatagāthā · Edition: Losang Norbu Shastri: Śatagāthā. Sarnath : Central Institute of Higher Tibetan Studies, 2001, pp. 59-158. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc