सर्वोपकारिणी · श्लोक 21-22
विपर्ययादतत्त्वज्ञानाज्जायमानो बन्धस्त्रिविधः ।
प्राकृतो वैकृतो दाक्षिणश्चेति ।
तत्र पुरुषधिया प्रकृत्युपासनं प्राकृतो बन्धः ।
तथा भूतेन्द्रियाहङ्कारबुद्ध्युपासनं वैकृतः पुरुषतत्त्वमजानतः केवलमिष्टापूर्तकारिणो दाक्षिण इति त्रयाणामिति पुरुषस्वरूपवेदकत्वाभावे बन्धकत्वम् ॥ 20 ॥
नन्वेतदज्ञानत्रयनिवृत्तौ कीदृशो मोक्षो जायत इत्याह ।
त्रिविधो मोक्षः
इष्टापूर्तादिकर्मस्वसारतां पुरुषस्वरूपोपलब्धेरेव सारतां बुद्ध्यमानस्य प्रथमः ततो भूतेन्द्रियादिष्वपि विकारतां ततः पृथगात्मानं जानतः प्रकृतिरूपस्तृतीयः ।
यद्यपि प्रथमद्वितीयौ न तात्त्विकमोक्षौ तथाप्यैकदेशिकान्यताख्यत्या तावद्बन्धापगमेन मोक्षत्वव्यवहार इति द्रष्टव्यम् ।
अत्र बन्धमोक्षसंसाराः प्रकृतावेव न पुरुषे सवासनक्लेशकर्माशयानामपरिणामिनि पुरुषे ऽसम्भवात् तथा च भृत्यजयपराजययोः स्वामिन्युपचारात् प्रकृतिगतानां बन्धादीनां पुरुषे उपचार एव भोगापवर्गयोः प्रकृतिगतयोरपि विवेकाग्रहात् पुरुषसम्बन्धः सुसाधितो भवति ।
एवं च धर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्यैः सप्तभी रूपैः प्रकृतिर्भोगापवर्गरूपपुरुषार्थं प्रत्यात्मानं बध्नाति तत्त्वज्ञानेन विवेकख्यात्या एकेन रूपेण विमोचयति इतीदृशस्य तत्त्वज्ञानस्याभ्यासादादरनैरन्तर्यदीर्घकालसेवितात् सत्त्वपुरुषान्यतासाक्षात्कारि केवलं ज्ञानमुत्पद्यते तेनानादिरपि विपर्ययवासना प्रतिबध्यते ततश्चाध्यवसायाभिमानसङ्कल्पालोचनानि अन्तराणि बाह्याश्च सर्वे व्यापारा आत्मनि प्रतिषिद्धा भवन्ति अयमेव मोक्ष इति सिद्धान्तः ॥ 21 ॥
ननु पुरुषप्रकृत्यादीनामलक्ष्याणां लक्ष्याणां च घटपटादीनामखिलप्रमेयाणां लौकिकैः कथमनुभवो विधेयो ऽत आह ।
त्रिविधं प्रमाणम्
मूल पाठ: Sarvopakāriṇī a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in 22 (-25) sūtras. · Edition: Vindhyesvari Prasada Dvivedin in: Sāṃkhyasaṃgrahaḥ (Chowkhamba Sanskrit Series, 50,1 [fasc. 286], pp. 93-104) · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0