सर्वोल्लासतन्त्रम् · अध्याय 1
स्रीगुरवे नमः ।
अथ श्रीसर्वानन्दनाथकृत-सर्वोल्लासस्य
उल्लासनिर्णयः ॥
प्रकृतेर्लक्षणं शास्त्रर्देवतामूर्तिकल्पनं ।
उल्लासे प्रथमे वक्ष्ये निगमागमलक्षणम्
वक्ष्येऽहं तन्त्रनामानि द्वितीयोल्लासकेपि च ।
त्रिचतुःपञ्चमोलासे सृष्ट्युत्पत्तिं वदाम्यहम्
षष्ठे सृष्टिलयं वक्ष्ये सप्तमे भावलक्षणम् ।
आचारञ्चाष्टमे वक्ष्ये कुमार्या लक्षणं विधिम्
वक्ष्येऽहं नवमोल्लासे भावादिनामलक्षणम् ।
दशमे श्रीगुरोर्ध्यानमेकादशेऽपि लक्षणम्
द्वादशे वैष्णवाचारं ततो भक्तिं त्रयोदशे ।
वक्ष्ये चतुर्दशोल्लासे बलि-लक्षणमुत्तमम्
अष्टाङ्गयोगसंसिद्धिं वैष्णवाचारमेव च ।
वक्ष्ये पञ्चदशोल्लासे शैवाचारं तथैव च
बिभावौ वीरपशवोर्ल्लक्षणं पञ्चतत्त्वकम् ।
तत्त्वस्यैवानुकल्पञ्च तिलकञ्चैव षोडशे
उल्लासे सप्तदशके यन्त्रराजस्य लक्षणम् ।
शाक्ताचारक्रमं वक्ष्ये वामदक्षिणभेदतः
निन्दकस्य पशोश्चापि अष्टादशे निरूपितम् ।
लक्षणं साधकानाञ्च दिव्यचक्रस्य लक्षणम्
वीरचक्रक्रमं वक्ष्ये उल्लासेऽप्यूनविंशतौ ।
चक्रस्थानमासनञ्च चक्रमध्ये प्रवेशनम्
वक्ष्येऽहं देवचक्रस्य लक्षणञ्चैव विंशतौ ।
जात्यभेदं चक्रमध्ये तथा द्रव्यनिरूपणम्
(ख्)
गुरोः कृपाप्रसादेन तं वक्ष्येऽप्येकविंशतौ ।
द्वाविंशतिकोल्लासे पात्राधारौ च लक्षणौ
आद्य-तत्त्वस्य-माहात्म्यं वक्ष्येऽहं त्रयोविंशतौ ।
द्रव्याभेदं शक्तिशुद्धिं चतुर्विंशतिकेऽपि च
पञ्चविंशतिकोल्लासे चाद्य-तत्त्वस्य शोधनम् ।
आनन्दभैरवध्यानं तथैवानन्दभैरवीम्
षड्विंशतौ प्रवक्ष्यामि संक्षेपे द्रव्यशोधनम् ।
मांसं मत्स्यञ्च मुद्राञ्च लक्षणं शोधनं तथा
गुरुपादरजो ध्यात्वा वक्ष्येऽहं सप्तविंशतौ ।
वक्ष्येऽहं लक्षणं शक्तेरष्टाविंशतिकेऽपि च
ऊनविंशदिकोल्लासे वक्ष्येऽहं शक्तिशोधनम् ।
विधानं सम्विदा-पानमुल्लासे त्रिंशदिकेऽपि च
श्रीचक्रस्य च पात्रस्य चाधारस्य च लक्षणम् ।
एकत्रिंशदिकोलासे वक्ष्ये नानाप्रकारकम्
साधकस्य च पात्राणि द्वात्रिंशति निरूपणम् ।
वटुकादिवलिस्त्रित्रिंशदिके परिकीर्तितः
न्यासं तर्पणकं कर्म चतुस्त्रिंशति लक्षणम् ।
पञ्चत्रिंशदिके वक्ष्ये प्राथनं पात्रवन्दनम्
षट्त्रिंशति महोल्लासे नियमं पात्रलक्षणम् ।
सप्तत्रिंशदिकोल्लासे श्रीगुरोर्ध्यानलक्षणम्
अष्टविंशदिकोल्लासे मधुदान-प्रमाणकम् ।
ऊनचत्वारिंशदीति पञ्चमस्य विधानकम्
चत्वारिंशदिकोल्लासे वक्ष्ये क्रीडादिलक्षणम् ।
एकचत्वारिंशदीति पञ्चमानान्दलक्षणम्
द्वाचत्वारिंशदीति साधकानन्दलक्षणम् ।
आनन्दं नवपात्रस्य त्रिचत्वारिंशदीति च
(ग्)
चौचत्वारिंशदुल्लासे पञ्चमस्य च लक्षणम् ।
पञ्चचत्वारिंशदीति आनन्दस्तोत्रमुत्तमम्
अभिषेकक्रमं वक्ष्ये षट्चत्वारिंशदीति च ।
सप्तचत्वारिंशदीति दक्षिणाचारभावकम्
अष्टचत्वारिंशदीति वामाचारं विशेषकम् ।
पुष्पप्रमाणं तत्रैव पञ्चधा सप्तधेति च
ऊनपञ्चाशदुल्लासे विधानं पुष्पशोधनं ।
वक्ष्ये पञ्चाशदुल्लासे लक्षणं कुलयोषिताम्
एकपञ्चाशदुल्लासे मैथुनस्य च लक्षणम् ।
द्वापञ्चाशदिकोल्लासे शक्तिज्ञानं प्रकाशकम्
त्रिपञ्चाशदिकोल्लासे सिद्धान्ताचारलक्षणम् ।
चतुःपञ्चाशदुलासे पूर्णानन्दविशेषकम्
पञ्चपञ्चाशदुल्लसे पूर्णानन्दस्य लक्षणम् ।
षट्पञ्चाशदिकोलासे शक्त्यानन्दस्य लक्षणम्
सप्तपञ्चाशदुल्लासे शक्तिमाहात्म्यमुत्तमम् ।
अष्टपञ्चाशदुल्लासे हंसबीजस्य लक्षणम्
ध्यानत्रस्य माहात्म्यं वक्ष्येऽहमूनषष्टिके ।
दिव्याचारक्रमं वक्ष्ये षष्टमुल्लासे सुनिश्चितम्
कौलाचार एकषष्टौ कथितो ग्रन्थकृद्बुधः ।
प्रकृतेर्लक्षणं यद् यत् स्वरूपञ्च द्विषष्टिके
त्रिषष्टौ ब्रह्मणः ज्ञानं जीवन्मुक्तस्ततः परम् ।
चतुःषष्टौ समाप्तश्च ग्रन्थोल्लास-यथोदितः
इत्युल्लास-निर्णयः समाप्तः ।
सर्वोल्लासतन्त्रम् ।
श्रीसर्वानन्दनाथविरचितम् ।
प्रथमोल्लासः ।
श्रीगुरवे नमः [ख्: नमः परम देवतायै] ।
प्रणम्य [ग्, घ्: नमामि] प्रकृतिं नित्यां जगदात्मस्वरूपिणीम् ।
सर्वोल्लासं महोल्लासं महोल्लासे वदाम्यहम्
निगमादागमाच्छास्त्राद् भावाचारं समुद्धृतम् ।
श्रीसर्वानन्दनाथोक्तं श्रीदेव्याश्चरणाम्बुजे
गणेशतन्त्रे श्रीशिव उवाच -
त्वं देवि परमा नित्या त्रिगुणा त्रिगुणात्मिका ।
प्रकृतेर्लक्षणं किञ्चित्तव स्थाने वदाम्यहम्
एकाधिक्ये गुणानाञ्चेद्विकृतिः स्यान्महेश्वरि ।
त्रिगुणानां समानानां प्रकृतिः सूक्ष्मरूपिणौ
समेऽपि नित्या या देवी विषमे साध्यनित्यका ।
नित्यानित्यप्रबोधार्थं हेतुर्ज्ञेयः परस्परम्
केचित् (?) स्थूलं नित्यरूपं केचित् (?) सूक्ष्मं प्रकल्पयेत् ।
नित्यानित्यं जगत् सर्वमात्मरूपेण भावितम्
प्. २)
आत्मा च परमेशानि त्रिधारूपं सनातनम् ।
परमात्मा च वाह्यात्मा जीवात्मेति प्रकीर्तितम्
जीवात्मा लिङ्गरूपी च शुद्धदीपशिखाकृतिः ।
तेजोध्यानं महद्रूपं तेजीयः सूक्ष्मरूपकम्
हेतुना भाषितं यद्यत्तत्तत् स्थूलं महेश्वरि ।
तेजोध्यानं विना कश्चिद् (?) ध्यानमात्रं नचेच्छिवे
यथा धृतस्य तक्रस्य हेतुर्दुघं महेश्वरि ।
स्थूलस्यापि च सूक्ष्मस्य तेजोहेतुर्ध्रुवन्तथा
मनोऽपि तेजः परमे ! स्थूलमिन्द्रियभाषितम् ।
मनोऽतीतं सूक्ष्ममेकमेकमात्रं निरञ्जनम्
निरञ्जनं सर्वरूपं सर्वज्ञानस्य कारणम् ।
साक्षिवद्भाति तद्ब्रह्म प्रकृतिर्विकृतिः शिवे
अथ निगमलक्षणं यामले -
निर्गतः शङ्करीवक्त्राद् गतश्च गिरिशानने ।
मतः श्रीवासुदेवस्य तस्मान्निगम उच्यते
अथ निगमाख्याकथनम् ।
कल्पसारं कल्पतत्त्वं कल्पद्रुममतःपरम् ।
पुरा प्रोक्ता कल्पलता कल्पानन्दञ्च [घ्: कल्पानन्देति] पञ्चधा
अथागमलक्षणम् ।
आगतः शिववक्तेभ्यो गतश्च गिरिजाननम् [ग्: गिरिजानने] ।
मतः श्रीवासुदेवस्य तस्मादागम उच्यते
प्. ३) अथागमनिगमप्रकाशकथनम् ।
वासुदेवोऽपि तच्छ्रुत्वाप्युवाच गणेशं प्रति ।
नन्दीश्वराय तद्वाक्यं निगमागमसम्मतम्
गणेशेन प्रवक्तव्यं यामलेषु प्रकाशितम् ।
एवं परस्परं व्याप्त आगमोनिगमः क्षितौ
चतुःष्ट्यागमः प्रोक्तः पञ्चधा निगमः शिवे ।
यामलञ्च चतुर्धोक्तं तस्माच्छास्त्रं प्रकाशितम्
अथ यामलोत्पत्तिः ।
सूक्ष्मेऽपि निर्मला या च स्थूले सा यामलः शिवे ।
यामलोक्तं स्थूलरूपं सर्वशास्त्रस्य बोधनम्
अथ शास्त्रोत्पत्तिः ।
चतुःषष्ट्यागमः प्रोक्तः पञ्चधा निगमस्तथा ।
यामलञ्च चतुर्धोक्तं तस्माच्छास्त्रं प्रकाशितम्
निगमादागमो जात आगमाद् यामलो भवेत् ।
यामलाद्वेद-संजातं वेदाज्जातं पुराणकम्
पुराणात् स्मृति-संजातं स्मृतेः शास्त्राणि यानि च ।
तानि गृह्णाणि यत्नेन चोत्तमं हि क्रमोत्क्रमात्
अथ युगभेदे शास्त्राचरणम् ।
सत्ये श्रुत्युक्तकर्माणि त्रेतायां स्मृतिसम्मतम् ।
द्वापरे च पुराणानि कलावागमसम्मतम्
आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः ।
नहि देवाः प्रसीदन्ति कलौ चान्धविधान्तः
प्. ४) अथ शास्त्रेण देवताया मूर्तिनिरूपणम् ।
परमात्मागमः प्रोक्तो वेदो जीव उदाहृतः ।
पुराणान्यङ्गशास्त्राणि चाङ्गं प्रत्यङ्गकं स्मृतिः
अन्यानि सर्वशास्त्राणि रोमादीनि क्रमेण च ।
शास्त्रेण ज्ञायते रूपं देवतायाः प्रभेदकम्
नारायणी तन्त्रे -
निगमात्मा महेशानि परमात्मागमो ध्रुवम् ।
जीवात्मा यामलं प्रोक्तं वाह्यात्मा वेदरूपकम्
अङ्गानि च पुराणानि अङ्गस्याङ्गं स्मृतिः प्रिये ।
अन्यानि यानि शास्त्राणि तनूरुहाणि पार्वति
शास्त्रेण देवतारूपं जायते युगभेदतः ॥
अथ वेदोत्पत्तिकथनम् ।
ब्रह्मयामसम्भूतं सामवेदमतं शिवे ।
रुद्र-यामलसंजातम् [घ्, ङ्: सम्भूतम्] ऋग्वेदां परमं
महत्
विष्णु-यामलसम्भूतं यजुर्वेदं कुलेश्वरि ।
शक्ति-यामलसम्भूतमथर्वं परमं महत्
सामवेदमतं सत्ये त्रेतायां ऋङ्मतं शिवे ।
द्वापरेच यजुर्वेदमर्थर्वस्य मतं कलौ
३१ ॥
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे -
प्रथमोल्लासः
द्वितीयोल्लासः ।
अथ तन्त्राख्याकथनम् ।
तोडले श्रीदेव्युवाच -
देवेश प्राणनाथेश लोकानां मुक्तिदायक !
अधुना श्रोतुमिच्छामि तन्त्रनामानुकीर्तनम्
श्रीशिव उवाच -
शृणु देवि महाभागे दासोऽहं तव कामिनि ।
तव स्नेहेन वद्धोऽस्मि तन्त्राख्यां कथयाम्यहम्
न वक्तव्यं महाभागे दुष्कर्मे नास्तिके नरे ।
मम प्राणाधिकं तन्त्रं लोकानां मुक्तिदायकम्
अनन्तो (?) देवदेवी च अनन्तं तन्त्रमेव च ।
गदितुं नैव शक्नोमि ब्रह्माण्डान्तेऽपि पार्वति
तवाज्ञया महेशानि लोकानां त्राणहेतवे ।
चतुःषष्टीनि [क्, ग्: चतुःषष्ट्यानि] (?) तन्त्राणि मयैवोक्तानि कामिनि
कालीतन्त्रं मुण्डमाला-तारा-निर्वाणकानि च ।
शिवसारं वीरतन्त्रं लिङ्गार्चन-लतार्चने
तोडलं नीलतन्त्रञ्च राधातन्त्रं महेश्वरि ।
विश्वसारं भैरवाख्यं भैरवीतन्त्रमेव च
सिद्धेश्वरं मातृभेदं समयातन्त्रकं शिवे ।
गुप्तसाधनतन्त्रञ्च मातृकातन्त्रमेव च
प्. ६) मायातन्त्रं महामाया अक्षयातन्त्रकं शिवे
कुमार्याख्यामहत्तन्त्रं कुलार्णवमतःपरम्
कालिकाकुलसर्वस्वं कालिकाकल्पतन्त्रकम् ।
वाराही योगिनीतन्त्रं योगिनीहृदयं शिवे
सनत्कुमारतन्त्रञ्च त्रिपुरासारतन्त्रकम् ।
योगिनीविजयं भद्रे मालिनीतन्त्रमेव च
कुक्कुटाख्यं महत्तन्त्रं श्रीगणेशाख्यतन्त्रकम् ।
भूततन्त्रं तथोड्डीशं कामधेनु तथोत्तमम्
वीरभद्रं महत्तन्त्रं वामकेश्वरमेव च ।
कुलचूडामणितन्त्रं भावचूडामणि प्रिये
ज्ञानार्णवञ्च वरदातन्त्रचिन्तामणिन्ततः ।
कालीविलासकं तन्त्रं हंसतन्त्रं महेश्वरि
चिदाम्बरतटं तन्त्रं विज्ञापनमतःपरम् ।
फेत्कारिणीञ्च नित्याख्यं तन्त्रमुत्तरसंज्ञकम्
नारायणीमहत्तन्त्रं ऊर्द्ध्वाम्नायकतन्त्रकम् ।
ज्ञानद्वीपं गौतमीयं तन्त्रं निरुत्तरं शिवे
गान्धर्वं कुञ्जिकातन्त्रं तन्त्रमुक्तावलिन्ततः ।
वृहत् श्रीक्रमतन्त्रञ्च स्वतन्त्रं तन्त्रकं शिवे
योनितन्त्रञ्च कामाख्यां तन्त्रं प्रोक्तं वरानने ।
चतुःषष्ट्यानि (?) तन्त्राणि मयैवोक्तानि संप्रति
प्रतितन्त्रे पटलानि चतुःषष्ट्यानि (?) पार्वति ।
असंख्यानि च तन्त्राणि भावानि विविधानि च
सर्वं यामलसंगीतं चतुःषष्टिप्रकारकम् ।
प्रधानमेतद्विज्ञेयं चतुर्युगमतं ध्रुवम्
२० ॥
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे -
द्वितीयोल्लासः
तृतीयोल्लासः ।
अथ सृष्ट्युत्पत्तिकथनम् [ग्: -प्रकरणम्] ।
ज्ञानद्वीपे श्रीपार्वत्युवाच -
देवेश प्राणनाथेश लोकानां मुक्तिदायक ।
सृष्टिप्रलयमाहात्म्यं मम स्थाने प्रकाशय
श्रीशिव उवाच -
सृष्टिं विना महेशानि प्रलयः को भविष्यति ।
प्रलयञ्च विना देवि का सृष्टिश्चोपजायते
बीजं विना न वृक्षः स्याद्विनावृक्षं न बीजकम् ।
तथा सृष्टि-लयं देवि नित्यानित्यं हि कल्पनम्
कल्पनायां भवेत् सृष्टिः कल्पनायां लयो भवेत् ।
सृष्टि-प्रलय-माहात्म्यं गदितुं नैव शक्यते
किञ्चिन्मात्रं प्रवक्तव्यं जलबिम्बं जले यथा ।
तव स्नेहेन वद्धोऽहं किञ्चिन्मात्रं प्रकाशितम्
निराकारं महाघोरं प्रकृतिं पुरुषात्मकम् ।
सृष्टिकालेऽपि तद्ब्रह्म प्रकृति-पुंस्वरूपधृक् [घ्: प्रकृतिः
पुरुषरूपधृक]
क्षणकाकाररूपोऽसौ प्रकृतिश्च पुमान् शिवे ।
केचिद्वदन्ति प्रकृतिं केचिच्च पुरुषं शिवे
केचिद्वदन्ति योगीन्द्राः प्रकृतिंपुरुषात्मकम् ।
तद्ब्रह्मावाच्यं विज्ञेयं वाचातीतं सुनिर्मलम्
प्. ९) मनोऽतीतं क्रियातीतं वाचातीतं महेश्वरि ।
ज्ञानार्थं साधकस्यापि वदाम्येकत्वमाश्रितम्
प्रकृत्या जायते सर्वं पुरुषस्यापि लालसात् ।
पुरुषाज्जायते सर्वं प्रकृत्या अपि लालसात्
कामोद्भावमदोन्मत्ता पूर्णानन्दसमाश्रिता ।
पुरुषादपि स्रष्टाहं (?) विपरीता वभूव सा
महाकाली समाख्याता [क्, ख्: समाख्या सा] महाकालः
सदाशिवः ।
महाकालीप्रलीनोऽत्र महाकालः प्रकीर्तितः
महाकालप्रलीनात्र महाकाली प्रकीर्तिता ।
विद्याविद्योभयोरेका भावातीता महेश्वरी
शक्तिभावं समाश्रित्य चोक्तं सृष्टिप्रकारकम् ।
सृष्टिरूपं शक्तिमात्रं भावमात्र [क्, ख्: भावमात्रं]
प्रबोधकम्
शक्तिज्ञानं भावमात्रमभावं पुरुषं प्रिये ।
उभयोरेकभावत्वं प्रकृति-पुरुषात्मकम्
द्वितीया तारिणी जाता कामार्ता त्राणदायिका ।
पतिं देहि जगन्मातः कामभावेन काङ्घिता
इति श्रुत्वा महादेवः स्वदेहात् पुरुषं ददौ ।
तं प्राप्य सा महाविद्या विपरीता समाश्रिता [घ्, ङ्: विपरीत-
समाश्रिता]
तृतीया षोडशी जाता षोडशी वयसान्विता ।
राजराजेश्वरी विद्या सर्वदेवप्रपूजिता
मदिरापूर्णनयना कामभावसदान्विता ।
पतिं देहि महाकाली-कारणानन्दसंयुतम्
इति श्रुत्वा महादेवि दक्षिणामूर्तिरव्ययः ।
दक्षभागं समाश्रित्य सर्वदा परिसंस्थितः
प्. ९) पञ्चभूतात्मकं यद् यद्वामदक्षिणभेदतः ।
वामे च षोडशी ज्ञेया दक्षिणे पुरुषोऽव्ययः
नित्यानित्यमयं ब्रह्म सृष्टिरूपं प्रकाशकम् ।
साधकस्य हितार्थाय स्वानन्दार्थे महेश्वरि
त्रिपुराद्या महाविद्या चाष्टभागेन संस्थिता ।
भुवनेशी भैरवी च छिन्नमस्ता महेश्वरि
धूमावती च बगला मातङ्गी कमला शिवे ।
इत्यष्टशक्तिसंयुक्तश्चाष्टभागः सदाशिवः
दक्षिणादिक्रमेणैव चाष्टभागः समावृतः ।
इति ते कथितं कान्ते सृष्ट्युत्पत्तिप्रकारकम् ।
यस्य विज्ञानमात्रं हि जीवन्मुक्तस्य कारणम्
विभिन्ने क्षणकाकारे तारिणी त्राणदायिनी ।
मदिराघूर्णनयना मदनाकाङ्क्षिता सदा
कामानन्दो महादेवो नामाक्षोभ्यसमाश्रितः ।
तस्या योनिं समासाद्य शृङ्गारसृष्टिमान् सदा [ग्: मुदा ]
भावातीता महाकाली तारिणीभावसंयुता ।
त्रिपुरा सृष्टिरूपा च त्रिधैकैका [घ्: त्रिधैकात्मा] त्रिधा शिवे
कालिका बीजरूपा च नीलारूपा च तारिणी ।
सुन्दरी सृष्टिरूपा च सृष्टिरूपमिदं प्रिये
राधातन्त्रे सृष्ट्युत्पत्तिकथनम् ।
पूर्णानन्दे महाघोरे प्रकृतिः पुंसमावृता ।
क्षणकाकाररूपा सा भावातीता समाश्रिता
आत्मेन्द्रियसुखं देवि [क्: देवं ] स्वात्ममात्रप्रमाणकम् ।
उवाच परमा शक्तिः शृङ्गारं कुरु मे प्रिय
प्. १०) इति श्रुत्वा महादेव उवाच प्रकृतिं प्रति ।
तस्याकृष्टोऽप्यहं [ख्: तेनाकृष्टोऽप्यहं] देवि शृङ्गारं कुरु
मे प्रिये
तस्यास्तस्य च वाक्येन वाधितं [क्, ग्: वाधितुं] न परस्परम् ।
तत्क्षणात् सा महाशक्तिः कृष्णोऽभूत् परमेश्वरी
दृष्ट्वा कृणन्तु [घ्: कृष्णस्य] पुंरूपं राधाऽभूत्
परमेश्वरः ।
राधांशेन पुमान् ज्ञेयः कृष्णांशात् शक्तिरूपधृक् [घ्:
कृष्णांशे नारी-रूपिणी ] ।
सृष्टिरूपमिदं ज्ञेयं वैष्णवस्य मतं ध्रुवम्
अथ त्रिपुरासारतन्त्रे सृष्ट्युत्पत्तिकथनम् ।
महाकाली घोररूपा देहचिह्नविवर्जिता ।
महाकालोऽप्यषष्टश्च (?) सिसृक्षाभावमाश्रितः [क्:
शिशुभावसमाश्रिताः; ख्: भावशृङ्गारसमाश्रिताः]
महाकाल्या महास्तोत्रं मन्त्रं यन्त्रं क्रियान्वितम् ।
बलिदानान्वितं देवि पुरश्चरणसंयुतम्
अथ महाकालविरचितं श्यामास्तोत्रम् ।
कर्पूरं मध्यमान्त्यस्वरपरिरहितं सेन्दुवामाक्षियुक्तं
बीजन्ते मातरेतत्त्रिपुरहरवधु त्रिःकृतं ये जपन्ति ।
तेषां गद्यानि पद्यानि च मुखकुहरादुल्लसन्त्येव वाचः
स्वच्छन्दं द्वान्तधाराधररुचिरुचिरे सर्वसिद्धिं गतानाम्
इत्यादिद्वाविंशतिश्लोकेनोक्तम् ।
इति श्रुत्वा महाकाली वभूव त्रिपुरेश्वरी ।
परमाश्चर्य-सत्-शोभा त्रिकुटा त्रिगुणान्विता
प्. ११) दृष्ट्वापि सुन्दरीरूपं सुन्दरोऽभूत् सदाशिवः ।
स्तोत्रं कुर्यात् [ख्, ङ्: कृत्वा] वहुविधं महाभावसमावृतम्
अथ सुन्दरीस्तोत्रम् ।
त्रिगुणात्मा त्रिविधा च त्रिविन्दु त्रित्वमानिनी ।
त्रिभुषा च त्रिरूपा च त्रिपुरायै नमोनमः
इत्यादिषट्श्लोकेनोक्तं महाकाल-विरचितं त्रिपुरास्तोत्रम् ।
स्तोत्रं श्रुत्वा महादेवी पूर्णानन्देन भाषिता ।
स्वेच्छया सा महाविद्या तेजीयस्त्वा विवर्द्धिनी
वीरभावो महादेवो दक्षिणा मूर्तिरव्ययः ।
यदा दक्षसमासाद्यस्तदा सा दक्षिणा परा
तस्या योनिं समासाद्य संहरेदखिलं जगत् ।
महाकालीमहाकाली योनिमध्ये लयः प्रिये
योनिस्थानं हि विज्ञेयं महात्रिपुरसुन्दरीम् ।
तस्यास्त्रिरेखा विज्ञेया त्रिपुरात्रिपुरात्मिका
त्रिपुरे त्रिपुरादेवी त्रिपुरारिसमन्विता ।
शून्यं चन्द्रं वार्णञ्च त्रिपुरं परिकल्पितम्
वाङ्मया या महादेवी कामरूपामयी च सा ।
शक्तिमात्रस्थिता नित्या त्रिकुटेति महाकला
सुन्दरी सुन्दरं व्याप्य सुन्दरः सुन्दरीं यदा ।
तदा सा तारिणी विद्या महाघोरपरेश्वरी
मदिराघूर्णनयना कामार्ता कामदायिनी ।
द्वितीया सा महाविद्या पूर्णभावेन कामिनी
पतिं देहि जगन्मातः पञ्चमानन्दसंयुतम् ।
इति श्रुत्वा महादेवः संक्षोभ्यञ्च परित्यजेत्
परस्परञ्च संव्याप्यमेकदेहं द्विदेहकम् ।
एकात्माभाङ्महादेवो द्वित्वात्मा तारिणी तदा
प्. १२) द्वित्वात्माभाङ्महादेव एकात्मा तारिणी तदा ।
तत्क्षणात् परमेशान एकभावद्विभाकम् ।
स्तोत्रं कुर्यान्महादेव्यास्तारिण्यास्त्राणदायकम्
अथ तारास्तोत्रम् ।
तारिणी त्राणदात्री स्यात्त्राणात्मा त्राणभाषिणी ।
त्राणयुक्ता त्राणभुक्ता त्राणभुक्ता पुरातनी
इत्यादि ।
स्तोत्रं श्रुत्वा महादेवी तारा घोरतरा परा ।
चतुर्भुजा नीलवर्णा त्रिनेत्रा शववाहिनी
दृष्ट्वैतत्तारिणीरूपं कालिका घोरदक्षिणा ।
चतुर्भुजा कृष्णवर्णा त्रिनेत्रा शववाहना
पञ्चाशद्वर्णभिर्मालामुण्डमालाक्षमालिका ।
दृष्ट्वैतत् कालिकां विद्यां श्रीविद्या त्रिपुरात्मिका
चतुर्भुजा रक्तवर्णा त्रिनेत्रा पञ्चपूइता ।
आदान्तमध्यरहिता नित्या सर्वप्रपूजिता
सत्यरूपा महाकाली सत्ये पूजा महाफला ।
त्रितारूपा सुन्दरी स्यात् [ग्: स्युः] त्रेतायां फलदायिनी
द्वापरे तारिणी पूज्या द्वापरेति च तारिणी ।
कलौ च त्रिदेवा [ख्: त्रिदेव] पूज्या कालीति त्रिदेवा [क्, ङ्: त्रिदेवी] परा
[घ्: कलौतु त्रिपुरापूज्या कालीति त्रिपुरापरा ]
सुन्दरीसंयुता काली कालिका सुन्दरीयुता ।
उभयोर्मिलिता तारा तारेति चोभयात्मिका
नाममात्रं विभेदं हि साधकः सिद्धिहेतवे [घ्:
साधकानाञ्च सिद्धये] ।
एका विद्या त्रिनामाख्या तमः सत्त्वं रजस्तथा
त्रिदेवेति त्रिधात्मेति द्विदेवेति द्विधात्मिका ।
एक देवेति चैकात्मा कालीतारेति सुन्दरी
प्. १३) त्रिधात्मना भवेत् सर्वं तेजस्तेजीय-निर्मलम् ।
त्रिधैकात्मा यदा ज्ञात्वा तदा मोक्षं लयं ध्रुवम्
क्रियात्मापि चात्मभिन्नं ध्यात्वा सालोक्यभाग्भवेत् ।
तेजीयश्चैव सारूप्यं सायोज्यम्बा महेश्वरि
ध्यात्वा निर्मलवद्भासं [घ्: भावं] सायोज्यम्वापि मौक्तिकम् ।
एवं चतुर्विधा (?) ध्याअं चतुर्युगमतं ध्रुवम् [क्:
चतुयुगमतःपरम्; ख्: चतुर्वर्गमतः परम्]
इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे
तृतीयोल्लासः
चतुर्थोल्लासः ।
अथान्यप्रकारेण सृष्ट्युत्पत्तिकथनम् ।
ज्ञानार्णवे श्रीपार्वत्युवाच -
यदा चन्द्रश्च सूर्यश्च जलं वसुमतीप्रिय !
गङ्गादि नास्ति तीर्थादि विप्रादिर्जातिभेदकः
पश्वाचारश्च शैवश्च वीरश्च दिव्य एव च ।
सिद्धान्तश्चापि कौलश्च एतद्भावं नचेद् यदा
उत्पत्तिः केन वा कुत्र केन वा कुत्रचिल्लयः ।
कथय प्राणनाथेश सन्देहो येन नश्यति
श्रीशङ्कर उवाच -
गुदं लिङ्गं हस्तपादौ वाक्यञ्च परमेश्वरि ।
त्यागं शृङ्गारमाकर्षं गमनं स्तुतिगञ्जनम्
श्रवणं दर्शनं घ्राणं स्पर्शनं रसवोधनम् ।
दशेन्द्रियमिति प्रोक्तं मन एकादशं प्रिये
इदं शरीरं विज्ञेयं वन्धमोक्ष [ग्: मुक्त] प्रबोधकम् ।
मनोऽपि नैष्ठिकं यत्र तत्रेन्द्रियलयं ध्रुवम्
यथा वृक्षादिषु छाया लयमाना जलादिषु ।
जले नष्टे पुनश्छाया वृक्षादिषु प्रलीयते
तथेन्द्रियक्रियानाशे पुनर्मनसि लीयते ।
मनस्युत्पद्यते सर्वं भावमिन्दिर्यसंयुतम्
लयमानं पुनस्तस्मिन् भावमिन्द्रियवर्जितम् ।
इन्द्रियस्य गतेर्भावादाचारो जायते प्रिये
प्. १५) आचारश्च क्रिया ज्ञेया क्रियया किं भवेन्नहि ।
क्रियामात्रं जगत् सर्वं जगत्तस्यापि बीजकम्
श्रीशङ्कर्युवाच -
आचारमूला जातिः स्यादाचारः शास्त्रमूलकः ।
देववाक्यं शास्त्रमूलं देवः साधकमूलकः
क्रियामूलः साधकश्च क्रियापि फलमूलिका ।
फलमूलं सुखं देव सुखमानन्दमूलकम्
आनन्दं ज्ञानमूलञ्च ज्ञानं ज्ञेयस्य मूलकम् ।
तत्त्वमूलं ज्ञेयमात्रं तत्त्वं हि ब्रह्ममूलकम्
ब्रह्मज्ञानमैकामूलमैक्यं हि सर्वमूलकम् ।
ऐक्यं हि परमेशान भावातीतं सुनिश्चितम्
भावातीतात् कथं सर्वं पकाशं भावमात्रकम् ।
अङ्कुरः स्याद् यत्र बीजे तस्मावृक्षः प्रफुल्लकः
विनाङ्कुरेण बीजोऽभूत् विनाकामेन कामुकः ।
द्वयोर्योगं विना देव किञ्चिन्मात्रं न जायते
एकमात्रे स्थिते देव द्वितीयादि न जायते ।
द्वितीयादिस्थिते देव चैकत्वं नैव जायते
संख्यामात्रं महादेव संख्येयस्य विवक्षितम् ।
संख्येयस्य महादेव संख्ययस्य विवक्षितम्
अस्याद्यमन्तं कस्माच्च कथञ्चापि प्रकाशय ।
अहं त्वं को महादेव कथं कस्माद्वदस्व मे
श्रीशङ्कर उवाच -
भावं हि सृष्टिरूपं स्यादभावं सृष्टिवर्जितम् ।
भावाभावविनिर्मुक्तमभावं भावमेव च
भावातीतमयं भावं भावं भावातीतं परम् ।
यथा दर्पणबिम्बेषु प्रतिबिम्बञ्च दर्शनम्
प्. १६) तथा द्वित्वादिकं सर्वं भावेष्वेकेषु दृश्यते ।
द्वित्वमेकत्वसंयुक्तमेकत्वं द्वित्वसंयुतम्
संख्येयञ्च विना संख्या विज्ञातुं नैव शक्यते ।
द्वित्वभावं विनैकत्वं कथमुत्पद्यते शिवे
एकभावं विना कस्माद् द्वित्वभावं प्रकाशितम् ।
परस्परं विना वाक्यं गदितुं नैव शक्यते
यथा द्रव्यं गुणाक्तञ्च गुणो द्रव्याक्त एव च ।
परस्परं विना किञ्चिद् ज्ञानमात्रं नचेत् क्वचित्
जनकञ्च विना जन्यो न जन्यो जनकं विना ।
फलं विना क्रिया न स्यात् फलं न स्यात् क्रियां विना
तथा ज्ञानञ्च ज्ञेयञ्च परस्परमपेक्षितम् ।
ज्ञानं भावं महेशानि ज्ञेयं भावविवर्जितम्
ज्ञानं ज्ञेयञ्च यस्यैक्यं तस्य मुक्तिरखण्डिता ।
एकभावं द्विभावाक्तं द्विभावमेकभावकम्
आत्मभिन्नं हि त्वंमात्रमात्माहं सर्वरूपिणम् ।
अहं ज्ञानं विना क्वापि त्वं ज्ञानं नैव जायते ॥
त्वं ज्ञानञ्च विना क्वापि अहं ज्ञानं न जायते
यथाकाशः सर्वरूपः सर्वद्रव्येषु संस्थितः ।
तथाहं त्वं सर्वरूपः सर्वद्रव्येषु संस्थितः
त्वं ज्ञानं खण्डमित्युक्तं पूर्णज्ञानमहं ध्रुवम् ।
यथैतत्तेन खण्डात्मा वर्जिते व्यापितं जगत्
आकाशस्य न भेदः स्याद् घटोपलक्षितो यथा ।
तथाहं त्वं देहलक्षो देहं हि तन्मयं ध्रुवम्
घटे नष्टे घटाकाशो यथाकाशे प्रलीयते ।
देहे नष्टे तथाहं त्वं परमात्मनि लीयते
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे चतुर्थोल्लसः
पञ्चमोल्लासः ।
अथवान्यप्रकारेण सृष्टिनिरूपणम् ।
निर्वाणतन्त्रे -
सत्यलोके निराकारा महाज्योतिः - स्वरूपिणी ।
माययाछादितात्मानं क्षणकाकाररूपिणी
हस्तपादादिरहिता चन्द्रसूर्याग्निरूपिणी ।
मायावल्कलसंत्यज्य [मायावल्कलमुत्सृज्य द्विधा भिन्ना
जगन्मयीति प्राणतोषणीधृतनिर्वाणतन्त्रीयपाठः] द्विधा
भूत्वा यदोन्मुखी
शिवशक्तिविभागेन जायते सृष्टिकल्पना ।
प्रथमे जायते पुत्त्रो ब्रह्मसंज्ञो हि पार्वति
श्रीकालिकोवाच -
शृणु पुत्त्र महावीर [घ्: महाधीर] विवाहं कुरु यत्नतः ।
एतच्छ्रुत्वा ततो ब्रह्मा उवाच सादरं प्रिये
त्वां विना जननी नास्ति शक्तिं मे देहि सुन्दरीम् ।
तच्छ्रुत्वा जगतां माता स्वदेहान्मोहिनीं ददौ
द्वितीया सा महाविद्या सावित्री परमा कला ।
अस्याः सङ्गं समासाद्य वेदविस्तारणं कुरु
अनायासं सृष्टिकर्ता भवेस्त्वं [भव त्वं
(मुद्रितनिर्वाणतन्त्रे)] महीमण्डले ।
द्वितीये [द्वितीयो (प्राणतोषणीधृतो निर्वाणतन्त्रीयपाठः)] जायते
पुत्त्रो विष्णुः सत्त्वगुणाशयः
प्. १८) श्रीकालिकोवाच -
शृणु पुत्त्र महावीर विवाहं कुरु यत्नतः ।
विष्णुरुवाच -
तव दर्शनमात्रेण निष्कामी जायते पुमान्
कथं करोमि हे मात्र्मोहिनीं देहि मे शिवे ।
देहाच्छक्तिं विनिःसृत्य [विनिष्कृष्य - (प्राणतोषणीधृतो
निर्वाणतन्त्रीयपाठः)।] ददौ तस्मै च कालिका
वैष्णवीं तां महाविद्यां श्रीविद्यां परम्श्वरीम् ।
तामाश्रित्य महाविष्णुः पालयत्यखिलं जगत्
तृतीये [तृतीयो -] जायते पुत्त्रो महायोगी सदाशिवः ।
तं दृष्ट्वा सा महाकाली तुष्टियुक्ता भवेत्तदा
शृणु पुत्त्र महायोगिन् मद्वाक्यं हृदये कुरु ।
त्वां विना पुरुषः को वा मां विना कापि कामिनि ।
अतस्त्वं परमानन्द विवाहं कुरु मे शिव
श्रीशिव उवाच -
यदुक्तं मयि हे मातस्त्वां विना नास्ति मोहिनी ।
सत्यमेतज्जगन्मातर्मां विना पुरुषो न च
अस्मिन् - देहे संस्थिते च न करोमि विवाहकम् ।
कुरु देहान्तरं मातः करुणा यदि वर्तते
तत्क्षणे सा महाकाली ददौ भुवनसुन्दरीम् ।
आदिभूता यथा काली तथा भुवनसुन्दरी
प्. १९) तामाश्रित्य महायोगी संहरत्यखिलं जगत् ।
शक्तिरष्टविभागेन भागश्चाष्टविधा भवेत् [घ्:
शम्भोरष्टविभागाश्च शक्तिश्चाष्टविधा भवेत् - इति
मुद्रितनिर्वाणतन्त्रीयपाठः । शक्तिविभागेन
शम्भुनाष्टविधोभवेत्]
कालिकाद्या महाविद्या ह्यनेन परमेश्वरि ।
इति ते कथितं कान्ते यथासृष्टिनिरूपणम् ।
गोपनीयं प्रयत्नेन विद्योत्पत्तिर्यथा [क्, ग्, ङ्: विद्युत्पत्तिर्यथा
प्रिये] प्रिये
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे
पञ्चमोल्लासः ॥
षष्ठोल्लासः ।
अथ लयप्रकरणम् ।
ज्ञानद्वीपे श्रीदेव्युवाच -
केन रुपेण वा स्वामिन् लयोऽभूत् सृष्टिरन्ततः [घ्: कुत्रचित्] ।
कथयस्व मम स्थाने [घ्: कथय प्राणनाथेश] यदि त
मययनुग्रहः
श्रीशिव उवाच ।
यथा जले जलं देवि क्षीरे क्षीरं घृते घृतम् ।
अविशेषं तथा ज्ञेयं जीवात्म-परमात्मनोः
क्षीरवर्ण [क्: क्षीरे वर्णे] यथाप्येकं तथैकं परमेश्वरम् ।
नानारुपवती गौः स्यात्तथा [क्: दुग्धं] नानात्मको लयः
जीवात्मा पञ्चभूतात्मा बाह्यात्मा तत्समायुतम् ।
बाह्यात्मा स्थूलरूपञ्च जीवात्मा सूक्ष्मभावकम् ।
स्थूलसूक्ष्मोभयोर्नाशे तदेव परमात्मकम्
घटमध्ये घटाकाशं देहेषु देहिनं तथा ।
यन्त्रमध्ये यथा शब्दं देहेऽहंमात्रशब्दकम् [घ्, ङ्:
देहेषु देहिशब्दकम्]
नष्टे तस्मिन् [घ्: नष्टेप्येते] यथाकाशश्रवणकाकारवच्छिवे ।
विभागं [घ्: विभावं] सृष्टिमात्रं हि लयमानमभेदकम्
प्. ५१) श्रीदेव्युवाच -
क्षणाकारं हि यत् प्रोक्तमेकेषु द्वित्वलक्षितम् ।
किमर्थं [क्: किंरूपं] सृष्टिरारम्भं किमर्थं [क्: किं
रूपं] नाशकर्तृकम्
महानिर्वाणतन्त्रे श्रीशिव उवाच -
महाकाली परात्मा च क्षणकाकाररूपिणी ।
माययाच्छादितात्मानं तन्मध्ये समभावतः
महारुद्रः स एवात्मा महाविष्णुः स एव हि ।
महाब्रह्मा स एवात्मा नाममात्रविभेदकः
एकमूर्तिस्त्रिनामानि ब्रह्मविष्णुमहेश्वराः ।
नानाभावमनो यस्य तस्य मुक्तिर्न विद्यते
ब्रह्माण्डास्तत्र जायन्ते लक्षं लक्षं सुलोचने ।
तत्र ब्रह्मा तत्र विष्णुस्तत्र रुद्रः प्रविन्यसेत्
केचिद्वदन्ति स ब्रह्मा केचिद्विष्णुः प्रकथ्यते ।
केचिद्वदन्ति रुद्रः स एको देवो निरञ्जनः
आद्याशक्तियुतो देवश्चकाकाररूपकः ।
आनन्दघनसंयुक्तः [घ्: -सन्दोहः] प्रभुः प्रकृतिरूपधृक्
निर्गुणस्यालयः साक्षान्महाकाल्यालयः प्रिये ।
तत्रैव वर्तते नित्यश्चणकाकाररूपकः
तस्य रूपपरं नित्यं परानन्दपरात्परं ।
नित्यानन्दकरा देवि कालिका दक्षिणे स्थिता
आद्याशक्तिर्महामाया देवनिर्माणकारिणी ।
जायते च क्षितौ वृक्षो यथा पृथ्व्यां प्रलीयते
तोयात्तु वुद्वुदं जातं यथा तोये प्रलीयते ।
जलदे तडितुत्पत्तिर्यथा मेघे प्रलीयते
प्. २२) तथा ब्रह्मादयो देवाः कालिकायां प्रजायते (?) ।
तथा प्रलयकालेतु पुनस्तस्यां प्रलीयते (?)
शक्तिज्ञानं विना देवि मुक्तिर्हास्याय कल्प्यते ।
एकांशेन भवेद्ब्रह्मा एकांशेन जनार्दनः
एकांशेन भवेच्छम्भुः कालिकायाः सुलोचने ।
अपरा सा महाकाली नद्यादीनां समुद्रवत्
गोष्पदे च यथा तोयं ब्रह्माद्या देवता स्तया ।
गोष्पदे किं विजानीयात् समुद्रस्य जलं शिवे
तेन ब्रह्मा न जानाति विष्णुः किं वेत्ति शङ्करः ।
सृष्टिकर्त्र्या यदा काल्या पाल्यन्ते च सुरादयः
तदा प्रलयकालेतु पुनस्तस्यां प्रलीयते ।
अतो निर्वाणदा काली पुरुषस्य च शर्मदाअ [घ्: सष्वदा]
क्षणकाकाररूपेण प्रकाशञ्च मनोमयम् ।
यथा सूर्यो जगद्भाति ज्ञेयञ्च क्षणकं तथा
एका शक्तिर्द्विधा भूत्वा मध्ये पुरुषभाषितम् ।
पुनः प्रलीन-कालेऽपि द्विधैकं पुंसगोपितम्
नित्यानित्य-द्विधैकात्मा [क्: नित्यानित्यंयदकात्मा]
द्विधाभावाश्रितः पुमान् ।
नित्यानित्यं यदैकात्मा तदैकं ब्रह्मविग्रहम्
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे
षष्ठोल्लासः
सप्तमोल्लासः ।
अथ भावप्रशंसा -
निगम-कल्पानन्दे श्रीशिव उवाच -
समुह्याचारसङ्केतं भावसङ्केतमेवहि ।
सूचितं परमेशानि कथयस्वानुकम्पया
श्रीदेव्युवाच -
सर्वतन्त्रेषु विद्यासु भावसङ्केतमेवहि ।
तथापि शक्तितन्त्रेषु विशेषं सर्वसाधनम्
साधनं भावमात्रं हि भावेन भाव्यवान् भवेत् ।
आचारेण विना भावं कदाचिन्नैव जायते
श्रीशिव उवाच -
कस्मादुत्पद्यते भावः कस्मिन् [ग्, घ्: कस्माद्] भावः प्रलीयते ।
भाववान् फलभाक् किम्बा केन वाचारवान् भवेत्
श्रीदेव्युवाच -
भावस्तु मानसो धर्मः शब्दस्य हि कथं भवेत् ।
किञ्चिद् भावं प्रवक्तव्यं दिङ्मात्रदर्शनं यथा
यथेक्षुगुडमाधुर्यं रसना ज्ञायते प्रभो ।
तथा भावं महादेव मनसा परिभाव्यते
मनस्युत्पद्यते भावो मनसीति प्रलीयते ।
मनसीति स्थितो भावः पुनर्मनसि लीयते
प्. २४) यथा वृक्षलताद्याश्च सृष्टिस्थितिलयः क्षितो ।
तथा भावं महेशान मनस्येव न संशयः
तोयाज्जातं यथा बिम्बं तोयेषु लीयते प्रिय ।
मनस्युत्पद्यते भावं लीयमानं मनस्यपि ॥
क्रियाक्त्वद्भवेद्भावः स्वर्णस्य कुण्डलादिवत्
आगमोक्तभाव प्रशंसा -
भावचूडामणौ श्रीदेव्युवाच -
देवेश प्राणनाथेश लोकानां भावदायक ।
केन रूपेण लोकोऽपि फलभाग् जायते नरः
श्रीशिव उवाच -
भावं विना वरारोहे नैव शब्दं प्रकाशितम् ।
शब्दमूलो भवेद्भावो भावं हि सर्वमूलकम्
भावाज्ञोऽपि वक्षः श्रुत्वा क्रियामीष्मति यो नरः ।
पुमान् स्त्रीवेशधारी च यथाङ्गं भङ्गवत् शिवे
तस्माच्च परमेशानि भावं ज्ञात्वा क्रियाञ्चरेत् ।
भावं विना महेशानि फलभाग् जायते यदि ॥
नपुंसकस्य कान्ता किं पत्यानन्दविवर्द्धिनी
क्रियामूलो भवेद्भावः क्रियापि भावमूलिका ।
क्रिया-शक्तो भावयुक्तो फलभाक् परमेश्वरि
श्रीदेव्युवाच -
मम प्राणाधिको देव स्तुतिनिन्दाविवर्जितः ।
भावमूला क्रिया प्रोक्ता न भावेन क्रिया कथम्
श्रीशिव उवाच -
क्रियायुक्तं भावमूलं क्रियापि भावमूलिका ।
परस्परं विना न स्यात् ज्ञानं ज्ञेयं यथाप्रिये
प्. २५) बहुजापात्तथा होमात् कायक्लेशादिविस्तरात् ।
न भवेन महादेवि क्रियापि न फलप्रदा
किं वीरसाधनैर्लक्षैः किमाकर्षैः कुलाकुलैः ।
किं पीठपूजनेनैव किं कन्याभोजनादिभिः
स्वयोषित्प्रेमदानेन किं परेषां तथैव च ।
किं जितेन्द्रियभावेन किं कुलाचारकर्मणा ।
यदि भावविशुद्धिः स्यान्नस्यात् फलपरायणः
भावेन लभते मुक्तिं भावेन कुलवर्द्धनम् ।
भावेन गोत्रवृद्धिः स्याद्भावेन कुलशोधनम्
किं न्यासविस्तरेणैव किं भूतशुद्धिविस्तरैः ।
किं तथा पूजनेनैव यदि भावो न जायते
केनैव [घ्: केनापि] पूज्यते विद्या न च केन [घ्: न केनापि]
प्रपूज्यते ।
फलाभावाच्च देवेशि भावाभावः प्रजायते
भावनारसमापन्नो भवेद् योगी महाकविः ।
जडोऽपि शुद्धतां याति भावनारसतत्परः
शुद्धाशुद्धं हि देवेशि भावेन लभते ध्रुवम् ।
बन्धं मुक्तिं तथाभावं भावेन लभतेऽपि च
पशुं वीरञ्च दिव्यञ्च कौलञ्च परमेश्वरि ।
भावेन लभते सर्वं पापं पुण्यञ्च निश्चितम्
मानञ्चैवापमानञ्च सुखं [ग्, घ्: हृष्टं] दुःखं
महेश्वरि ।
जीवात्मानं परात्मानं भावेन लभतेऽपि च
आनन्दञ्च निरानन्दं पानञ्चैवह्यपानकम् ।
भुक्तम्बा चोपवासम्बा भावेन लभते ध्रुवम्
ब्राह्मणं क्षत्रियं वैश्यं शुद्रञ्च परमेश्वरि ।
भावेन लभतेऽप्येतान् भावेऽप्येतान् विनश्यति
लघुं गुरुं शिवं शक्तिं पूज्यं पूजाञ्च पूजकम् ।
भावेन लभतेऽप्येतान् भावेऽप्येतान् विनश्यति
प्. २६) श्रीदेव्युवाच -
भावमात्रं जगत् सर्वं सृष्टिस्थित्यन्तकारकम् ।
तेषां मध्ये श्रेष्ठभावं ममस्थाने प्रकाशय
श्रीमहादेव उवाच -
चतुर्धा भावमात्रं हि चतुर्धाचारमात्रकम् ।
प्रकाशमात्रं त्रिविधं भावाचारं महेश्वरि
अथ चतुर्धा भावलक्षणम् ।
अधमा देहान् भावन्ति जीवं भावन्ति मध्यमाः ।
मोक्षं भावन्त्युत्तमाश्च भावातीतास्तदुत्तमाः
अधमाः स्वकुलाचाराः श्रुत्याचारास्तु मध्यमाः ।
उत्तमा मोक्षदाचाराः स्वेच्छाचारास्तदुत्तमाः
अधमा प्रतिमा पूजा जपस्तोत्रादि-मध्यमा ।
उत्तमा निजपूजा [घ्: मानसी पूजा] च सोऽहं पुजोत्तमोत्तमा
अधमा इह पश्यन्ति परकालन्तु मध्यमाः ।
मोक्षं पश्यन्त्युत्तमाश्च नापश्यन्त्युत्तमोत्तमाः
अधमाः कर्मभीताश्च भक्तिभीताश्च मध्यमाः ।
उत्तमा मोक्षभीताश्च भीतो नास्त्युत्तमोत्तमाः
नरजन्माधमा ज्ञेया देवादिजन्म-मध्यमाः ।
ज्ञानी जन्मोत्तमः मोक्तो जन्म नास्त्युत्तमोत्तमः
अधमो जन्मसंख्यातो जन्मजन्म च मध्यमः ।
उत्तमश्चैकजन्मापि जन्म नास्त्युत्तमोत्तमः
अधमं कृत्रिमं यन्त्रं पुष्पादियन्त्रमध्यमम् ।
उत्तमं योनियन्त्रश्च सर्वयन्तोत्तमोत्तमम्
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे
सप्तमोल्लासः
अष्टमोल्लासः ।
अथ त्रिविधप्रकारभावाचारलक्षणम् ।
समयाचारतन्त्रे श्रीशिव उवाच -
भावस्तु त्रिविधो देवि दिव्य-वीर-पशु-क्रमात् ।
आचारस्त्रिविधो देवि क्रमेणोदाहृतो मया
एक एव महान् भावो नानात्वं भजते प्रिये ।
परादिभावभेदेन भावभेदस्त्रिधापि च ।
एकभावः परं ब्रह्म सर्वविघ्नप्रणाशकम्
कुमारीतन्त्रे श्रीदेव्युवाच -
देव-देव महादेव लोकानां हितकारक ।
एकभावः कथं देव मम स्थाने प्रकाशय
श्री शिव उवाच -
द्विवर्षादधिकं यावत् यावदष्टाब्दकन्यका ।
कुमारी तत्र विख्याता यन्त्र-तन्त्रफलप्रदा
तस्याः षोडशपर्यन्तं युवती च प्रचक्षते ।
तत्र भावः प्रकाशो यः स भावः परमो मतः
दशवर्षाधिका नारी षोडशाब्दं महेश्वरि ।
तावद् युवती विख्याता तस्यां पूजा महाफला
षोडशाब्दे कलापूर्णा षोडशाब्दे कला स्थिता ।
तदन्ते षोडशाब्दे च कला साध्यकला शिवे
प्. २८) श्रीदेव्युवाच -
देवेश करुणानाथ मम प्राणाधिक प्रिय ।
कला का परमेशान मम स्थाने प्रकाशय
श्रीशिव उवाच -
योनिस्थानं कला ज्ञेयं कामवायुयुतं यदि ।
कामवायुमुज्झितायाः पूजने नास्ति योग्यता
विभावे पशुभावे च गन्धपुष्पाक्षतादिभिः ।
कुमारीं पूजयेद्देवि कामभावेन [घ्: वीरभावेन] पूजयेत्
१० ॥
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे
अष्टमोल्लासः
नवमोल्लासः ।
तत्रान्तरे श्रीदेव्युवाच -
देवेश [इतः प्रभृति शमुद्रवऽऽ इत्यन्तं श्लोकपञ्चकं ऽऽघऽऽ
पुस्तके नास्ति । तत्र पाठोऽयं दृश्यते -
नारायणीतन्त्रे श्रीशिव उवाच -
त्रिधाचारं त्रिभावञ्च कौलाचारस्य कारणम् ।
पश्वाचारश्च वीरश्च दिव्यः कौलो न संशयः ।
सिद्धान्तं वा महेशानि कौलभावं समाश्रितम्
श्रीदेव्युवाच -
वैष्णवश्चैव शैवश्च शाक्तश्च परमेश्वर ।
दिव्यः सिद्धन्तः कौलश्च षट्प्रकारः कथं वद
श्रीशिव उवाच -
पश्वाचारं त्रिधा ज्ञेयं वीराचारस्त्रिधा प्रिये ।
चतुर्धा दिव्यः कौलश्च शक्तेश्च पुरुषस्य च
वैष्णवः शैवो दिव्यश्च कौलभावयुता पशुः ।
दक्षिणो वामसिद्धान्तः कौलयुक्तो हि शाक्तकः
]
प्राणनाथेश पार्वतीप्राणवल्लभ ।
षडाचारं चतुर्भावं कौल्ज्ञानञ्च किं वद
श्रीशिव उवाच -
पश्वाचारस्त्रिधा ज्ञेयो वीराचारस्त्रिधा शिवे ।
पौरुषस्य [क्: पौरुषस्य - पुंदेवतासाधकस्येत्यर्थः] च
शाक्तस्य [क्: शाक्तस्य - शक्तिदेवतासाधकस्येत्यथः]
चतुर्धाभावसंयुतात्
प्. ३०) पशुभावयुताः कौला वैद्य-वैष्णव-शैवकाः ।
वीरभावयुताः कौलाः सिद्धान्तो [ङ्: सिद्धन्तौ] वामदक्षिणौ
पशुश्च द्विविधो देवि सभावश्च विभावकः ।
वीरश्च द्विविधो देवि विभावश्च सभावकः
एवं चतुर्विधा भावाः पञ्चमी दिव्यभावकः ।
सर्वे कौलपथालम्बा नद्यादीनां समुद्रवत्
कौलं हि परमेशानि प्रकृति-पुरुषात्मकम् ।
द्वन्द्वातीतं क्रियातीतं केवलं भाववर्जितम् ।
कौलार्थं हि क्रियामात्रं कौलेषु मुक्तिभाग् भवेत्
अथ कौलज्ञानस्यकारणम् ।
ज्ञान्द्वीपे -
सर्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवोत्तमः ।
वैष्णवादुत्तमः शैवः शैवाच्च शाक्त उत्तमः
शाक्तश्च द्विविधो देवि वामदक्षिणभेदतः ।
दक्षिणादुत्तमो वामो वामात् सिद्धन्त उत्तमः
सिद्धान्तादुत्तमः कौलः कौलात् परतरो न हि ।
कौलाचारं सर्वबीजं कौलाचारमयं जगत् ।
कौलाचारं भावमात्रं कौलं हि भाववर्जितम्
[ग्, ङ्: सिद्धान्तौ] एतैराचारैर्योगाधिकारी निरूपितो यथा -
पिपीलिका क्षुद्रवृहच्च मण्डूकस्तिर्यक् कपिः पक्षि (?) रजागरो
यथा ।
श्रुत्यादि चाचारवशाद्भविष्यति योगाधिकारो क्रमशः
प्रतिष्ठः ॥
इति नागभट्टः ।
अथ पश्वाचारः ।
समयाचारतन्त्रे श्रीशिव उवाच -
वेदोक्तेन यजेद्देवं कामसङ्कल्पपूर्वकम् ।
य एव वैदिकाचारः [ङ्: वैष्णवाचारः] पश्वाचारः स एव हि
न मत्स्य - भोजनं देवि न स्त्रियं मनसा स्मरेत् ।
परद्रव्ये न लोभः स्यान्न भोगं मनसा स्मरेत्
सिन्धुतीरे कानने वा पर्वते वा सुरालये ।
बिल्वमूले विविक्ते च पुण्यक्षेत्रे सुशोभने
देवता शुद्धभावेन ध्यातव्या सुसमाहितः [क्: सुसमाहितैः] ।
न शूद्रदर्शनं कुर्यात् कौटिल्यं दूरतस्त्यजेत्
त्रिसन्ध्यां पूजयेद्देवं त्रिसन्ध्यां जपमाचरेत् ।
रात्रौ यन्त्रञ्च मालाञ्च स्पृशेन्नैव कदाचन
वीरकार्यकथालापं न कुर्याद् गुरुनिन्दनम् ।
निन्दनं कल्पनं ज्ञेयं गुर्वन्तर-गुरुर्यदि ।
यथात्मकल्पनं जीवं तत्त्वज्ञानस्य कारणम्
गुरुतन्त्रे गुरुनिन्दनम् ।
मधुलुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् ।
ज्ञानलुब्धस्तथा शिष्यो गुरोर्वुर्वन्तरं व्रजेत्
दीक्षाशिक्षाविभेदेन गुरुः स्याद्विविधः प्रिये ।
शिक्षागुरुं न कुर्वीत पशुभावयुतो यदि
पशुभावयुता नारी पतिं पत्युर्न कल्पयेत् ।
तथा गुरुं पशुर्देवि गुरोरन्ध्रं न कल्पयेत् [घ्: कारयेत्]
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे
नवमोल्लासः
दशमोल्लासः ।
गुरुतन्त्रे गुरुलक्षणम् ।
श्रीदेव्युवाच -
देवेश प्राणनाथेश नमामि चरणाम्बुजे ।
नानाचारयुतो लोको वद केन भविष्यति
केन रूपेण देवेश पश्वाचारं प्रजायते ।
वीरं दिव्यञ्च कौलञ्च सिद्धान्तं केन तद्वद
श्रीमहादेव उवाच -
गुरुश्च परमेशानि यदाचारी भवेन्मुदा ।
तदाचारयुतो मन्त्री भविष्यति युगे युगे
निरुत्तरे -
पशु-गुरोर्लब्धमन्त्री [घ्: मन्त्रलब्धः] पशुरेव न संशयः ।
वीरमुखान्मन्त्रलब्धो वीर एव न संशयः
सिद्धान्तान्मन्त्रसंलब्धः सिद्धान्तो नात्र संशयः ।
पश्वाचारं विना देवि पञ्चतत्वं युतं [घ्: पञ्चतत्त्वयुतं]
शुभम्
पश्वाचारस्तु विज्ञेयः पञ्चतत्त्वेषु [घ्: परतत्त्वेषु] निन्दकः ।
तस्मात् सर्वप्रयत्नेन पशोर्दीक्षां न कल्पयेत्
पञ्चतत्त्वं विना देवि शक्तिमन्त्रं वृथा भवेत् ।
अत एव पशोर्दीक्षां वीरभावी न चाचरेत्
पशूनाञ्चेद् गुरुः शाक्तो वीराणा`न्चेद्गुरुः पशुः ।
यथा वृद्धस्य तरुणी [घ्: रमणी] वृद्धायाः कैशरः (?) [च्:
शैशवः] पतिः
प्. ३३) निगम कल्पद्रुमे -
न रूपमस्यापि न भावभाविनी, रूपस्य भावस्य
सदात्मभाविनः ।
यथा जलं द्रव्यगुणेन शङ्कर ! नानाविवर्णं हि गुरुश्च
लक्षणम्
अथ शाक्तगुरुप्रशंसा ।
कौलिकान्मन्त्रं संगृह्य जपकर्मचरन् हर ।
यदि मुक्तिर्न जायेत तदा वाक्यं वृथा मम
पशोर्दीक्षां न कुर्वीत कुलधर्मपरायणः ।
पशोर्दर्शनमात्रेण कौलिकानां क्रियाक्षयः ।
तस्मात् सर्वप्रयत्नेन पशोर्दीक्षां विवर्जयेत्
भैरवतन्त्रे -
सभावानां विभावानां पशूनां परमेश्वरि ।
वीरभावान्वितो मन्त्री पशोर्दीक्षां विवर्जयेत्
सभावानां विभावानां वीरो दीक्षां करोत्यपि ।
कुलनाथं समाश्रित्य पुनर्दीक्षां समाचरेत्
सभावे दीक्षिते मन्त्रे रोगशोकभयानकः ।
विभावे दीक्षिते मन्त्रे केवलो भयमात्रकः
कुलाचाररतो विप्रः कुलशास्त्रार्थतत्त्ववित् ।
तन्मुखात् श्रवणान्मन्त्रः सर्वसिद्धिप्रदो भवेत् ।
तस्मात् सर्वप्रयत्नेन कुलीनं गुरुमाश्रयेत्
अथ गुरुलक्षणमाह -
स्थूलस्तेजस्तथा सूक्ष्मस्त्रिधामात्रं गुरुः शिवे ।
त्रिधैकं चिन्तयेद् यस्तु भावातीतं गुरुं प्रिये
प्. ३४) कदाचित् स सहस्रारे मन्त्रध्येयो गुरुः सदा ।
कदाचित् हृदयाम्भोजे [ग्: -म्बुजे] कदाचिद् दृष्टिगोचरे
सूक्ष्मध्यानं सहस्रारे तेजो ध्यानं हृदि प्रिये ।
स्थूलध्यानं बाह्यदेशे त्रिविध ध्यानजं फलम्
अथ श्रीगुरोः सूक्ष्मध्यानम् ।
गुरुगीतायां -
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम् ।
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्
एकं नित्यं विमलमचलं सर्वदा साक्षिभूतम् ।
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि
नित्यं शूद्धं निराभासं निर्विकारं निरञ्जनम् ।
नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम्
अथ श्रीगुरोस्तेजोध्यानम् ।
हृदम्बुजे [घ्: हृद्यम्बुजे] कर्णिकमधासंस्थं,
सिंहासनेसंस्थितदिव्यमूर्तिम् ।
ध्यायेद् गुरुं चन्द्रकलावतंसं, सच्चित् सुखाभीष्ट
वरप्रदानम्
श्वेताम्बरं श्वेतविलेपयुक्तं मुक्ताकलाभूषितदिव्यमूर्तिम् ।
वामाङ्ग [ग्: वामाङ्क] पीठेस्थितदिव्यशक्तिं मन्दस्मितं
पूर्णकृपानिधानम्
आनन्दमानन्दकरं प्रसन्नं ज्ञानस्वरूपं निजबोधयुक्तम् ।
योगीन्द्रमीड्यं भवरोग्वैद्यं, श्रीमद्गुरुं नित्यमहं
नमामि
अथ श्रीगुरोः स्थूलध्यानम् ।
यदाज्ञया स्थूलतेजः सूक्ष्माणि परमेश्वरि ।
त्रिधा ध्याने ध्याननिष्ठः स गुरुः स्थूलरूपकः
इति श्रीसर्वानन्दनाथविरचिते सर्वाल्लासे
दशमोल्लासः ।
एकादशोल्लासः ।
श्रीदेव्युवाच -
त्वदीयकृपया देव ध्यानं हि त्रिविधं श्रुतम् ।
अधुना श्रोतुमिच्छामि सद्गुरोर्लक्षणं प्रिय
अथ सद्गुरुलक्षणम् ।
श्रीशिव उवाच -
त्रिधामात्रं गुरोर्ध्यानं त्रिधापि सन्महेश्वरि ।
सहस्रारे हृद्म्भोजे बाह्येऽपि परमेश्वरि
स्थूले तेजसि सूक्ष्मेऽपि सत्शब्दं विनियोजितम् ।
सच्छन्दं च विना भद्रे गुरुशब्दं नचेत् क्वचित्
सद्गुरुः परमेशानि शुद्धवेशमनोहरः ।
सर्वलक्षणसम्पूर्णः सर्वावयव-शोभितः
सर्वागमार्थतत्त्वज्ञः सर्वशास्त्रविशारदः ।
लोके सम्मोहनकरो देवताभावदर्शकः
इत्यादि लक्षणोपेतः सद्गुरुः कथितः प्रिये ।
गुरुश्च परमेशानि केवलः श्रेष्ठबोधकः ।
श्रेष्ठातिश्रेष्ठं सच्छब्दं सौवर्ण कुण्डलं यथा
निरुत्तरे -
भावस्तु त्रिविधो देवि दिव्य-वीर-पशु-क्रमात् ।
गुरवश्च त्रिधा प्रोक्तास्तथैव मन्त्रदेवताः
कुलशास्त्ररता देवि गुरवो वहवः स्मृताः ।
कुलतत्त्व-विहितज्ञो गुरुरेको हि दुर्लभः
प्. ३६) वामकेश्वरे -
त्रिविधाचारसंयुक्ता गुरवोऽपि ह्यनन्तकाः ।
भावयुक्तं वरारोहे भाग्येन लभतेऽपि च
भाग्येन परमेशानि सद्गुरुं लभते यदि ।
कुलदीक्षां तदा कुर्याद् दृष्ट्वा श्रुत्वा न कारयेत्
कुलार्णवे -
पुस्तके लिखितं दृष्ट्वा कुलाचारं करोति यः ।
नाशयन्ति कुलं तस्य संक्रुद्धा योगिनीगणाः
गुरुं ज्ञात्वा भावयुक्तश्चरेदाचारसम्मतः ।
स्वेष्टविद्या भवेत् सिद्धिर्देहस्य [घ्: देहानां] देहिनं यथा
दृष्ट्वाचारं न भावाक्तो न गुरुञ्च कुलञ्चरेत् ।
वृथाचारो भवेत्तस्य न वन्धं जलसेचनम्
गुरुं विना महेशानि फलभाग् जायते यदि ।
कान्तं विना पुत्त्रवती तदा कान्ता भविष्यति
अत एव गुरुं कुर्याद् यथाभावविधानतः ।
तन्मुखात् श्रवणात् कार्ये फलभाग् जायते नरः
गुरूपदिष्टविधिना कौलाचारपरो नरः ।
संपूजा परमां देवीं स याति परमां गतिम्
गुप्तसाधनतन्त्रे -
त्रयोदश-गुणोपेतो गुरुरेको हि दुर्लभः ।
तेषां मध्ये गुणैकाक्तो दुर्लभो गुरुरीश्वरि
त्रयोदशगुणासक्तो गुरुः साक्षात् सदाशिवः ।
दर्शनात् मुच्यते पापात् क्रियापि सुफला भवेत्
प्. ३७) श्रीदेव्युवाच -
कुलेश प्राणनाथेश लक्षणं हि त्रयोदशम् ।
कथयस्व मम स्थाने यदि ते मययनुग्रहः
श्रीशिव उवाच -
शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेशवान् ।
शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान्
आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः ।
निग्रहानुग्रहे शक्तो गुरुरित्यवधीयते
अथ शान्तः ।
येन केनापि सन्तुष्टः क्रियायाञ्च सुदक्षकः ।
स शान्तो हि हृष्टमनाः सर्वदा देव-तत्परः
अथ दान्तः ।
भक्ताभक्ते ज्ञानवाक्यं सानन्देन प्रयच्छति ।
दयायुक्तो रागमुक्तो दान्तेति गुरुलक्षणम्
अथ कुलीनः ।
कुलाचारी कुलज्ञानी कुलतत्त्वप्रदायकः ।
कुलागारे क्रियायुक्तः [घ्: -शक्तो] कुलीनो गुरुरीश्वरि
अथ विनीतः ।
दयावाक्येन देवेशि ज्ञानवाक्यं मुहुर्मुहुः ।
अभक्तभक्तिजनको विनीतो गुरुलक्षणम्
प्. ३८) अथ शुद्धवेशः ।
भूषणं यस्य देवस्य धारयेत्तस्य भूषणम् ।
तदाचाररतो देवि गुरुः स्यात् शुद्धवेशवान्
अथ शुद्धाचारः ।
आचारं यस्य देवस्य तदाचारी भवेद् यदि ।
स्तुतिनिन्दाविनिर्मुक्तः शुद्धाचारो गुरुः स्वयम्
अथ सुप्रतिष्ठः ।
देवता शुद्धभावेन शुद्धज्ञानेन सेविता ।
सुप्रतिष्ठो गुरुर्देवि सर्वदानन्दपालकः [घ्:
सर्वानन्दप्रदायकः]
अथ शुचिर्दक्षः ।
अनाचाराचारयुक्तो नास्ति तीर्थेषु वासना ।
शुचिर्दक्षो गुरुर्देवि सर्वकार्येषु दक्षकः
अथ सुबुद्धिमान् ।
जीवात्मा परमेशानि परमात्मनि लीयते ।
सुबुद्धिमान् गुरुर्देवि सोऽहं ज्ञानं विनश्यति
अथाश्रमी ।
पुत्त्रदारादिसम्बन्धं सर्वभिष्टस्वरूपकम् ।
तस्मिन्नानन्दमाश्रित्य आश्रमी गुरुरीश्वरि
अथ ध्याननिष्ठः ।
त्रिविधं ध्यानमाश्रित्य आत्मानं पूजयेद् यदि ।
स गुरुः परमेशानि ध्याननिष्ठो भवेद् ध्रुवम्
प्. ३९) अथ मन्त्रतन्त्रविशारदः ।
मानसं त्रायते यस्तु मनः सन्देहनाशकृत् ।
स गुरुः परमेशानि मन्त्रतन्त्रविशारदः
अथ निग्रहानुग्रहे शक्तः ।
मुक्तस्य बन्धदातृत्वं बन्धस्य मुक्तदायकः ।
निग्रहानुग्रहे शक्तो गुरुरित्यवधीयते
इति श्रीसर्वानन्दनाथ-विरचिते सर्वोल्लासे
एकादशोल्लासः
द्वादशोल्लासः ।
अथ वैष्णवाचारः ।
सर्वधर्मान् परित्यजा इष्टभक्तिश्च जायते ।
स एव वैष्णवाचारः कामसङ्कल्पवर्जितः
समयाचारतन्ते -
वैष्णवः पशुभावेन पूजयेत् परमेश्वरम् ।
शक्तितन्त्रे वरारोहे पशुभावो भयङ्करः
पशुभावे यजेद्देवं भक्तिभावयुतः शिवे ।
यदि स्यात् पूजयेद्देवीं वृथा तस्य परिश्रमः
पशुभावे महेशानि मन्त्रवर्णस्वरूपकम् ।
वीरभावेऽपि तन्मन्त्रं चतुर्वर्गफलप्रदम्
पशुभावाश्रितो मन्त्री यदि कालीं प्रपूजयेत् ।
रौरवं नरकं याति यावदाहूतसंप्लवम्
अथ पशूनां शक्त्यर्चने निषेधः ।
कुलार्णवे -
मांसं भुक्ता सुरां पीत्वा गत्वा चैव रजस्वलाम् ।
पूजयेत् कालिकां देवीमन्यथा निष्फला भवेत्
अभुक्ता न यजेद्देवीं भुक्ता देवीं प्रपूजयेत् ।
अभुक्तः पूजनेनैव विष्ठायां जायते क्रिमिः
जितेन्द्रियो हविष्याशी शक्तिपूजां न चाचरेत् ।
अन्यार्चने महादेवि चेति भावेन पूजयेत्
प्. ४१) अन्यदेवार्चनश्रद्धामन्यदेवप्रपूजनम् ।
कुलस्त्रीवीरनिन्दाञ्च परद्रव्यापहारणम् ।
स्त्रीषु रोषं प्रहारञ्च [क्, ग्: नकर्तव्यं] वर्जयेत् परमेश्वरि
पिच्छिलायां -
गुरोराज्ञां समादाय शुद्धान्तःकरणो नरः ।
स्वेष्टदेवं स्तुवन् भाव्यमन्यदेवं न पूजयेत्
तीर्थ-पर्यटनं देव-पूजनं तर्पणादिकम् ।
वर्जयेत् परमेशानि गुरोरन्यं न भावयेत्
अथ वैष्णवस्य समाधिः ।
अन्यदेवं स्वेष्टरूपं रूपं ज्ञात्वा क्रियाञ्चरेत् ।
दर्पणेषु यथा बिम्बं तथान्यदेवरूपकम्
एकदेवं विना देवि नास्ति देवो महीतले ।
एकसूर्यं विना सूर्यो नास्तीह जगति यथा
बहुपात्रे स्थिते तोये बहुसूर्ये यथा प्रिये ।
बहुभावे तथा देवं बहुरूपेषु दृश्यते
निगमतत्त्वे -
धर्मस्वरूपं जगतां सर्वबीजं पुरातनम् ।
धर्मं त्यक्त्वा महादेवि किमालम्बितमास्थितः
श्रीदेव्युवाच -
सर्वधर्मान् परित्यज्य एकधर्मं समाश्रयन्
धर्मात्मनो देवतात्म-स्वात्मनोः परिचिन्तनम्
स्वेष्टविद्या धर्मरूपा नित्या स्वात्मप्रकाशिनी ।
यथा स्तनं बालकस्य पानं धर्मात्मवर्द्धनम्
इति सर्वानन्दनाथविरचिते सर्वोल्लासे
द्वादशोल्लासः
त्रयोदसोल्लासः ।
अथ इष्टभक्तिः ।
निगमतत्त्वे श्रीशिव उवाच -
त्वं देवि परमा पूर्णा सर्वसम्पत्फलप्रदा ।
किमिष्टं कापि भक्तिः स्यात् मम स्थाने प्रकाशय
श्रीदेव्युवाच -
गुरुवक्त्रे स्थितो देवस्तदेवेष्टस्वरूपकः ।
क्रियापि तस्य वाक्ये स्यात् क्रियेति भक्तिकल्पना
या क्रिया सापि भक्तिः स्याद् या भक्तिः सा क्रियापि च ।
भक्तिरूपा स्वेष्टविद्या विना भक्तिं न लभ्यते
विना भक्तिं न तज्ज्ञानमतो भक्तिरुदाहृता ।
सा भक्तिस्त्रिविधा देव चोत्तमा मध्यमाधमा
उत्तमा सात्त्विकी भक्ती राजसी भक्तिर्मध्यमा ।
तामसी भक्तिरधमा त्रिधा भक्तिर्महेश्वर
मानसी सात्त्विकी भक्तिर्वाह्यभक्तिश्च राजसी ।
तामसी दाम्भिकी भक्तिस्तासां भेदं वदम्यहम् [क्, ग्: तेषां
भेदमिदं शिव]
समयाचारतन्त्रे श्रीदेव्युवाच -
देवेश प्राणनाथेश लोकानां हितकारक ।
भावभेदेन कथय साधकस्यापि लक्षणम्
प्. ४३) श्रीशिव उवाच -
साधका स्त्रिविधाः प्रोक्ताः सात्त्विको राजसः प्रिये ।
तामसश्च महेशानि तेषां वक्ष्यामि लक्षणम्
अथ सात्त्विक-साधकलक्षणम् ।
अन्तःशुद्धो वहिःशुद्धः सदेश्वर-परायणः ।
सर्वेषां प्राणिनां देवि दयायुक्तः स सात्त्विकः ।
स सात्त्विको महेशानि सर्वदा देवतत्परः
अथ राजसिक-साधकलक्षणम् ।
श्रद्धयातिसुवस्त्राद्यैरात्मानं देवतां यजेत् ।
रागेण सर्वदा तुष्टो राजसः परिकीर्तितः ।
स राजसो महेशानि रागात्मा रागकाङ्क्षणः
अथ तामस-साधकलक्षणम् ।
बहुक्रोधी जल्पभाषी परद्वेषी प्रवञ्चकः ।
अश्रद्धया यजेद्देवं तामसः परिकीर्तितः
कुवेशं देवतां कृत्वा श्रद्धयाऽश्रद्धया यजेत् ।
क्रियायां दक्षिणाहीनः सोऽपि तामसलक्षणः
भावचूडामणौ श्रीदेव्युवाच -
केन रूपेण देवेश साधको मुक्तभाग् भवेत् ।
कथय प्राणनाथेश यदि ते मययनुग्रहः
श्रीमहादेव उवाच -
पूजामूलापि भक्तिः स्याद् विना पूजां न भक्तिभाक् ।
सा पूजा त्रिविधा प्रोक्ता चोत्तमा मध्यमाधमा
प्. ४४) सात्त्विकी त्रिविधा पूजा राजसी त्रिविधा शिवे ।
तामसी त्रिविधा पूजा तासां भेदं वदाम्यहम्
अथ त्रिविधसात्त्विकीपूजालक्षणम् ।
अहमेव परा देवी मयि सर्वमिदं जगत् ।
सा पूजा सात्त्विकी ज्ञेया पूजामध्येषु गोपिता
देवतनिजरूपं यत् मानसैश्चिन्तयेद् हृदि ।
सा पूजा सात्त्विकी ज्ञेया मध्यमा प्राणवल्लभे [घ्: कथितं]
मानसैः पूजयेद्देवीं श्रद्धया चोपचारकैः ।
सा पूज सात्त्विकी ज्ञेया चाधमा प्राणवल्लभे
अथ त्रिविधराजसीपूजालक्षणम् ।
आत्मवत् पूजयेद्देवीं श्रद्धया चोपचारकैः ।
कामसङ्कल्परहिता पूजा राजसिकोत्तमा
उपचारैर्यजेद्देवीं केवलं प्रीतिहेतवे ।
देव्याः सा राजसी पूजा मध्यमा प्राणवल्लभे
आत्मार्थे वा परार्थे वा श्रद्धया पूजयेत् शिवाम् ।
कामसङ्कल्पसंयुक्ता पूजा राजसिकाधमा
अथ त्रिविधतामसीपूजालक्षणम् ।
आत्मनोऽपि परस्यापि दाम्भिकार्थे यजेत् शिवाम् ।
श्रद्धान्विता कामयुक्ता सा पूजा तामसोत्तमा
लौकिकार्थे दाम्भिकार्थे सङ्कल्पेन यजेत् शिवाम् ।
सा पूजा तामसी ज्ञेया मध्यमा प्राणवल्लभे
प्. ४५) स्वलाभात् परहिंसार्थे श्रद्धया पूजयेत् शिवाम् ।
सा पूजा तामसी ज्ञेया चाधमा प्राणवल्लभे
श्रद्धाहीना च या पूजा सा पूजा न फलप्रदा ।
पूजामूला भवेद्भक्तिर्भक्तिमूलं हि पूजनम् ।
परस्परं विना न स्यात् ज्ञानं ज्ञेयं यथा प्रिये
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे
त्रयोदशोल्लासः
चतुर्दशोल्लासः
अथ बलिदानम् ।
ज्ञानार्णवे श्रीदेव्युवाच
देवदेव महादेव लोकानां ज्ञानदायक ।
भावभेदेन कथय बलिदानस्य लक्षणम्
श्रीशिव उवाच -
कलिश्च त्रिविधा देवि सात्विकी राजसी तमी ।
बलिदानं विना देवि पूजने नास्ति योग्यता
पूजासारं महादेवि बलिदानं यथाविधम् ।
बलिदानं भवेत् सारं पूजने ज्ञान्वान् यदि
अत एव महादेवि बलिं दद्यात् प्रयत्नतः ।
बलिदानं विधानेन किं न सिध्यति भूतले
अथ सात्विकी बलिः ।
सात्विकीबलिमाख्यातां मांसरक्तादिवर्जिताम् ।
यतो ब्रह्ममयं देहं घातयेत् केन कर्मणा
सत्सत्त्वं सृष्टिमात्रं हि भावमात्रं प्रकाशितम् ।
सत्त्वेवारम्भकं सृष्टिं बलिदानं लयं शिवे
अत एव महेशानि सत्त्वेन बलिदानकम् ।
मांसरक्तादिरहितं बलिदानं फलं शुभम्
नराश्वमेधं मद्यञ्च कलौ वर्ज्यं द्विजातिभिः [घ्:
विचक्षणैः] ।
प्रानिहिंसा नचेत् सत्ये त्रेतायां द्वापरे शुभम्
प्. ४७) नराश्वमेधं संवर्ज्यं कलौ न ज्ञानवान यतः ।
नरानुकल्पं महिषं महिषस्य च छागलम्
छागस्य कल्पनं मेषं मेषस्य पक्षिणं शिवे ।
पक्षिणश्चापि [क्, ग्, घ्, ङ्: पक्षिणस्यापि] मत्स्यं हि मत्स्यस्य
कीटमात्रकम्
अनुकल्पं कलौ भद्रे द्रव्याभावे परित्यजेत्
अर्चने महिषदानेऽपि चाश्वमेधफलं लभेत् ।
फल्भाग् जायते मन्त्री बलिं दद्याद् यथाविधि ।
बलिदानं विना देवि हिंसा सर्वत्र गर्हिता
तन्त्रचूडामणौ -
एणमप्यविधानेन छेदयेन्न कदाचन ।
विधिनापि द्विजं गाम्बा हत्वा पापैर्न लिप्यते
तथापि परमेशानि ज्ञानी नैवापि लुब्धकः ।
बलिमात्रं द्विधा ज्ञेयं तयोर्भेदं शृणुष्व मे
बलिः पूजोपहारः स्यात् प्राणिदानं द्वितीयकम् ।
बलिमाद्यं निवृत्ते तु प्रवृत्तिः स्यात् पशुं प्रिये ।
बलिहीना च या पूजा सा पूजा न फलप्रदा
अथ राज्सिकबलिः ।
राजसं बलिमाख्यातं सुवेशं रागसंयुतम् ।
मांसरक्तादिसंयुक्तं कृष्णवर्णं विशेषतः
कृष्णवर्णं नाधिकाङ्गभङ्गहीनमरोगिणम् ।
एवं दत्वा बलिं पूर्णं फलमाप्नोति साधकः
शिशुना बलिदानेन हन्ति पुत्रञ्च चण्डिका ।
वृद्धेनैव गुरुजनं [घ्: गुरुं हन्यात्] कृशेन बान्धवं तथा
प्. ४८) धनञ्चैवाधिकाङ्गेन हीनाङ्गेन प्रजान्तथा ।
कामिनीं शृङ्गभङ्गेन काणेन भ्रातरं तथा
घण्टिकेन भवेन्मृत्युर्विघ्नञ्च [घ्: विघ्नस्यात्] चित्रमस्तके ।
हतं मित्रं ताम्रपृष्ठे भ्रष्टश्रीः पुच्छहीनतः
मुण्डमालातन्त्रे -
मातुर्मायाश्रितो यावत्तवच्छिशुमुदाहृतम् [घ्: शिशुरुदाहृतः] ।
तस्यापि घातने भद्रे स्वात्मपुत्त्रं विनश्यति
निर्विकारमयं देहं कदाचिन्नैव घातयेत् ।
विकारे शुक्र-सम्भूते [सञ्जाते] घातनं विधिबोधितम् [घ्: -
बोधनम्] ।
शुक्रलीने [घ्: हीने]ऽपि वृद्धं हि घातनाद् गुरुघातनम्
अथ तामसिकबलिः ।
तामसस्तामसगुणैरालस्यादियुतः प्रिये ।
न श्रद्धया बलिं दद्यात् पूजादिषु तथा प्रिये ॥ २३ ।
साधकानां न ते देवि केवलं नाममात्रकम् ।
बलिदानं वृथा तस्य केवलं प्राणि [घ्: पशु-]घातनम्
तामसः साधको देवि कदाचिन्नैव नैव च ।
पूजाहीनस्य भ्रष्टत्वात् नाममात्रस्तु साधकः
बलिदानं प्रदातव्यं येन तेन कृतेन च [घ्: केन क्रमेण च] ।
विधानं नैव कर्तव्यं बलिदानं हि मात्रकम्
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे
चतुर्दशोल्लासः
पञ्चदशोल्लासः ।
वैष्णवो विष्णुभक्तञ्च विष्ण्वात्मात्मा यदा भवेत् ।
तदा ध्यानं सदा कार्यं वैष्णवीं परमां शिवाम्
पश्वाचारस्य यत् शेषं शाक्ताचारस्य पूर्वकम् ।
शैवाचारमिदं प्रोक्तं पश्वाचारेण पूजयेत्
प्रसादं च्यम्बकादिञ्च तान्त्रिकं हि महेश्वरि ।
वीराचारेण संपूज्यं पञ्चतत्त्वेन शङ्करि
अथ शैवाचरः ।
समयाचारतन्त्रे -
अष्टाङ्गयोगसंयुक्तो यजेद्देवं विधानतः ।
यावज्ज्ञानं [घ्: ध्यानं] समाधिः स्यात्तावत् शैवं
प्रचक्षते
अथाष्टाङ्गयोगः ।
कालिकाकुलसरस्वे -
यमनियमासनप्राणायामप्रत्याहारध्यानधारणसमाधि-
योगाङ्गाष्टानि पार्वति
आदौ यमलक्षणम् ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ।
क्षमाधृतिं [घ्: प्रीति] मिताहारं शौचञ्चेति यमा दश ।
दशधा लक्षणं प्रोक्तं योगाङ्गस्य यमस्य च
प्. ५०) अथ नियमलक्षणम् ।
तपः सन्तोषमास्तिक्यं दानं देवस्य पूजनम् ।
सिद्धान्तश्रवणञ्चैव ह्रीर्मतिश्च जपाहुतम् ।
दशधा नियमं प्रोक्तं योगाङ्गस्य च पार्वति
अथासनम् ।
१ । पद्मासनं स्वस्तिकाख्यं भद्रं वज्रासनं तथा ।
वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम्
सव्यं पादमुपादाय दक्षोरूपरि विन्यसेत् [घ्: दक्षोपरि-
न्यसेत्ततः] ।
तथैव दक्षिणं सव्ये चोपविष्टं [घ्: चोपविश्यं] विधानतः ।
पद्मासनमिति प्रोक्तं जपपूजादिषु प्रिये
२ । जानुभ्यामन्तरे सम्यक् कृत्वा पादतले उभे [घ्: शुभै] ।
ऋजुकायो विशेन्मन्त्री स्वस्तिकं तत् प्रचक्षते
सीमन्याः पार्श्वयोर्न्यस्याद् गुल्पयुग्मं सुनिश्चितम् ।
वृषणाधः स्थितौ पादौ पाणिभ्यां परिरक्षयेत् ।
भद्रासनमिदं प्रोक्तं योगिभिः परिकल्पितम् [ग्, घ्: सारकल्पितं]
उरौ पादौ क्रमे न्यस्य कृत्वा प्रत्यंमुखांगुलीम् ।
करौ निरुध्या[घ्: निदध्यात्]दाख्यातं वज्रासनमुदीरितम्
एकपादमधः कृत्वा विन्यस्योरौ तथेतरम् ।
ऋजुकायो विशेन्मन्त्री वीरासनमुदीरितम्
अथ प्राणायामः ।
प्राणायामं विना देवि पूजने नास्ति योग्यता ।
प्राणायामञ्चासनञ्च सर्वाचारस्य सम्मतम्
प्. ५१) त्रिपुरासारतन्ते -
मूलाधारे कुण्डलिनी स्वयम्भू निद्रिता यदा ।
तदा कार्यं न कर्तव्यं क्रियामात्रे हि सुन्दरि
प्राणायामेन सा देवी स देवः परमेश्वरः ।
निद्रां त्यक्त्वा स्वेष्टरूपं धारयेत् परमेश्वरि
अथ प्राणायामस्य फलम् ।
मूलबीजेन बीजेन प्राणायामं समाचरेत् ।
प्राणायामं हि कथनं देवतायाः स्वरूपकम्
स्वरूपकथने देव स्वरूपं दर्शनं शिवे ।
स्वरूपदर्शनात् शीघ्रं स्वरूपञ्च स्वयं भवेत्
प्रमाणान्तरमाह गुरुगीतायाम् -
कीटभृङ्गे वरारोहे यथा भवति पार्वति ।
गुरुध्यानात्तथा नित्यं देही ब्रह्ममयो भवेत्
त्रिपुरासारे -
प्राणायामपरो ब्रह्मा प्राणायामपरो हरिः ।
प्राणायामः शङ्करोऽपि सृष्टिस्थितिलयात्मकः
पूरकोऽपि भवेद्ब्रह्मा कुम्भकोऽपि हरिः स्वयम् ।
रेचकोऽपि स्वयं रुद्रः प्राणायामं गुणत्रयम्
कनिष्ठानामिकांगुष्ठैर्यन्नासापुटधारणम् ।
प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना
पूरकं वामनाड्यापि षोडशेन जपेन तु ।
कुम्भकं मध्यनाड्यापि चतुःषष्ट्या जपेन तु ।
रेचनं दक्षनाड्यापि तदर्द्धजपसंख्यया
प्. ५२) तन्त्रान्तरे -
पूरयेत् षोडशैर्वायुं धारयेत्तच्चतुर्गुणैः [ख्: धारयेत्तु
चतुगुणैः; घ्: कुम्भयेच्च चतुर्गुणैः] ।
रेचयेत् कुम्भकार्द्धेन अशक्त्या [घ्: यः शक्त्या] तत्तुरीयकम्
कुम्भकं पूरकं रेचमेवं (तदशक्तौ तच्चतुश्रमेव (ग,
घ)।] प्राणस्य संयमः ।
इडायां पूरयेद्वायुं धारयेद्दक्षनासिकाम्
सुषुम्नायां कुम्भयेच्च नासापुटञ्च धारणम् ।
पिङ्गलायां रेचयेच्च धारणाद् वामनासिकाम्
निरुत्तरे -
प्राणायामं द्विषट्केन प्रत्याहारः प्रकीर्तितः ।
प्रत्यहारद्विष्ट्केन जानीयाद्धरणं शुभम्
धारणं द्वादशं प्रोक्तं ध्यानं ध्यानविशारदः ।
ध्यानैर्द्वादशकैरेव समाधिरभिधीयते ।
समाधिमथ [घ्: समाधेरथ] कर्माणि करोति न करोति वा
केवलं कुम्भकाद्देवि [घ्: कुम्भकाद्धऽपि] किं न सिध्यति
भूतले ।
खेचरत्वं समाधित्वं काले मृत्युर्विनश्यति
त्रिपुरासारे समाधिः ।
श्रीदेव्युवाच -
देवेश प्राणनाथेश सदा तत्त्वप्रदायकः ।
अधुना श्रोतुमिच्छामि समाधिस्थस्य लक्षणम्
श्रीशिव उवाच -
शैवोऽपि शिवभक्तश्च शिवात्मात्मा यदा भवेत् ।
तदा ध्यानं सदा कार्यं शिवं शान्तं जगन्मयम्
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे
पञ्चदशोल्लासः
षोडशोल्लासः ।
अथ विभावपशुलक्षणम् ।
अनुकल्पैर्यजेद्देवीं वेदमार्गेण साधकः ।
पश्वाचारमिदं प्रोक्तं विभावस्य मतं शिवे [घ्: प्रिये]
भावचूडामणौ ।
अथ मद्यानुकल्पम् ।
गोक्षीरं वह्निना पाच्यं कर्जुरस्य रसं प्रिये ।
गुडं तस्य मद्यतुल्यं ताम्बूलं चूर्णसंयुतम्
व्यञ्जनं लवणैर्युक्तं आमान्नं घृतसंयुतम् ।
खर्जुरस्य रसञ्चैव [ङ्: गुढं] शर्करं गव्यसंयुतम् [घ्, ङ्:
परमेश्वरि] ।
महोषोद्भवं मद्यतुल्यं विभावस्य मतं पशोः [घ्, ङ्:
लवणं सैन्धवं विना]
अथ मांसानुकल्पम् ।
गोधूमं लोहितं चार्द्रं तिलं श्वेतं महेश्वरि ।
शरत्प्क्वं व्रीहिणञ्च लोहितं व्रीहिणं शिवे ।
[घ्: मद्यतुल्यं मांसखण्डं कुष्माण्डं परिकीर्तितम्]
कुष्माण्डं मांसवज्ज्ञेयं विभावस्य मतं पशोः [ग्: शिवे]
अथ मत्स्यानुकल्पम् ।
नारिकेलं श्रीफलञ्च धात्रीफल-हरीतकीम् ।
दग्धञ्चेत् परमेशानि पशोर्मत्स्यं हि कल्पनम्
प्. ५५) मुद्रानुकल्पम् ।
विना लवणतोयाभ्यां भर्जितं व्रीहिणं शिवे ।
मुद्रानुकल्पं परमे विभावस्य मतं पशोः
अथ मैथुनानुकल्पम् । [अत्र (घ) -पुस्तकीयः पाठः, -
पशूनां मैथुनं देवि स्वकरे यन्त्रकल्पनम् ।
तत्त्वमुद्धृत्य यत्नेन विना पर्वादिना शुभम् ॥
भक्षयेत् तत्परं द्रव्यं मूलेन मनुना शिवे ।
पञ्चतत्त्वं विना देवि देवीमन्त्रं वृथा भवेत् ॥
एतद्द्रव्यं न देवं हि न पेयं हि क्वचित् शिवे ।
वेदोक्तेन यजेद्देवं विभावस्य मतं पशोः ॥]
पशूनां मैथुनं नास्ति चिन्तनं परिकल्पितम् ।
सहस्रारे महापद्मे शिवशक्तिसमन्वितम्
तेनामृतेन परमे तर्पयेत् परदेवताम् ।
यत्स्तुष्टा भगवती स्वात्मबिम्बप्रकाशिनी
पञ्चतत्त्वं विना देवि देवीपूजा वृथा भवेत् ।
वेदोक्तेन यजेद्देवं विभावस्य मतं पशोः
अथ विभाववीरलक्षणम् ।
पिच्छिलायां श्रीदेव्युवाच -
महादेव महायोगिन् तत्त्वज्ञानमयं वपुः ।
वीराचारं विभावस्य मम स्थाने प्रकाशय [ग्, घ्: वद प्रभो]
श्रीशिव उवाच -
वीराचारस्य कथने शङ्काभून्मम मानसे ।
कदाचिन्नैव वक्तव्यं पाषण्डे नास्तिके नरे
प्. ५६) ममैव प्राणसर्वस्वं वीरभावं कुलेश्वरि [घ्:
महेश्वरि] ।
वीरभावं विना देवि देवीपूजा वृथा भवेत्
अथ विभाववीरः ।
न करोति महादेवि प्रकृत्यचारसंशयात् ।
मानसैकविभावेन पञ्चतत्त्वेन पूजयेत्
अथवा चानुकल्पैर्वा पूजयेत् परमेश्वरीम् ।
अनुकल्पैर्यजेद्देवीं तन्त्रमार्गानुसारतः ।
वीराचारमिदं प्रोक्तं विभावस्य मतं शिवे [ङ्: शाक्तानां
सुखमोक्षदम्]
मानसैः पञ्चतत्त्वैश्च पूजां कुर्याच्च मानसैः ।
पञ्चतत्त्वस्यानुकल्पैर्वाह्ये देवीं प्रपूजयेत्
अथ पञ्चतत्त्वप्रमाणम् ।
वीरतन्त्रे -
मद्यं मांस तथा मत्स्यं मुद्रा मैथुनमेव च ।
पञ्चतत्त्वमिदं प्रोक्तं शाक्तनां सुखमोक्षदम्
अथ मद्यानुकल्पम् ।
पिच्छिलायां -
नारिकेलोदकं कांस्ये तक्रं गुडसमन्वितम् ।
आर्द्रकं गुडसंयुक्तं सिद्धान्नं दग्धदुग्धकम् ।
मद्यानुकल्पं परमे ! चतुर्वर्गफलप्रदम्
निरुत्तरे -
ब्राह्मणो वीरभावेन सुरां पीत्वा जपेन्मनुम् ।
तदभावेऽपि गो-क्षीरं द्विजो दद्याद् युगे युगे
प्. ५७) ताम्बूलं ताम्रकूटञ्च त्वरिता ताडिता तथा ।
अहिफेणः खर्जुरसः धूस्तूरं सम्विदा तथा ।
एते चाष्टौ सुराः प्रोक्ताः साधकानन्ददायकाः
अथ मांसानुकल्पम् ।
लवणार्द्रकपिन्नाकस्तिलगोधूममासकाः ।
लसूनञ्च महेशानि मांसप्रतिनिधिः स्मृतः
अथ मत्स्यानुकल्पम् ।
मत्स्याभावे दग्धद्रव्यं चानुकल्प. युगे युगे ।
मुद्राभावेऽपि क्षणकं भर्जितं परमेश्वरि
इति मुद्रानुकल्पम् ।
अथ पञ्चमानुकल्पम् ।
वृहद्योनितन्त्रे -
साधकः कुलनिष्ठश्च यदि योनिं न पूजयेत् ।
क्रुद्धा भगवती तस्य निष्फलं जपपूजनम्
योन्यभावे महेशानि योनिरूपापराजिता ।
पूजयेत् साधकः श्रेष्ठो योनिपूजाफलाप्तये
श्रीदेव्युवाच -
योनिः प्रोक्ताः पुरा देव सर्वस्य सुखमोक्षदा ।
तस्याभावे कथं देव चानुकल्पापराजिता
कस्माज् जातमिदं पुष्पं केन वा पूजनं वद ।
मैथुनं केन देवेश तत्त्वं केन वद प्रभो
वृहद्योनितन्त्रे श्रीशिव उवाच -
शिखिपुच्छान्तरे योनिं संस्थाप्य प्रकृतिर्यदा ।
कृष्णोऽभूत् परमेशानि तदा जातापराजिता
प्. ५८) शिखिपुच्छाद् विनिःसृत्य योनिर्जाता महीतले ।
योनिचिह्नं स्थितं तत्र देवि कामकलात्मिकम्
विष्णुक्रान्तं समासाद्य लतारूपोऽभवद्धरः ।
योनिस्वरूपं तत् पुष्पं देव्याः प्रीतिकरं परम्
तत्पुष्पं परमेशानि रक्तचन्दनचर्चितम् ।
पूजयेद् वीरभावी च योनिपूजाफलं लभेत्
हयारिपुष्पगर्भस्थ [घ्: -गर्भमध्यस्थं] शिवलिङ्गेन पार्वति ।
मैथुनं जायते तेन शक्त्याभावेऽपि सुन्दरि
परपुष्पे क्षिपेद् गन्धं तत्र पुष्पं क्षिपेत् परम् ।
तस्मादुद्धृत्य तत्त्वञ्च तर्पयेत् परदेवताम्
स्वमूर्द्ध्नि तर्पणं कृत्वा पिबेदानन्दभाग् यदि ।
अपराइताया माहात्म्यं गदितुं नैव शक्यते ।
महापीठमयं पुष्पं सर्वदेवस्य दुर्लभम्
कुलचूडामणौ -
स्वलिङ्गं करवीरेषु संस्थाप्य पुरुषोत्तमः ।
राधिकाभून्महादेवः शृङ्गारानन्दहेतवे
प्रकृतेर्लक्षणं यद्यत् शिखिपुच्छे महेश्वरि ।
आत्मयोनिमिमां ज्ञात्वा स्वमूर्द्ध्नि धारयेद्धरिः
विश्वसारे -
शुक्ररक्तानुकल्पम् ।
शुक्रै रक्तैर्महेशानि पूजयेत् परमेश्वरीम् ।
तदभावे चानुकल्पैः साधकाभीष्टसिद्धये [घ्: -दायके]
रक्ताभावे चानुकल्पं रक्तानुलेपनं प्रिये ।
शुक्रभावे चानुकल्पं सुगन्धं मलयोद्भवम्
प्. ५९) चानुकल्पात् चानुकल्पं चतुर्वर्गफलप्रदम् ।
द्वयोर्योगान्महेशानि किं न सिध्यति भूतले
महापुष्पस्यानुकल्पं कल्पं पुष्पं मनोहरम् ।
ललाटे धारणाद् भद्रे शिवतुल्यो न संशयः
राधातन्त्रे -
शैवः शाक्तो गाणपत्यो वैष्णवः परमेश्वरि ।
पुष्पेण तिलकं भाले सदेव रूपवान् भवेत्
प्रत्यक्षैस्तिलकैर्देवि ! शिवसायुज्यमेव च ।
अनुकल्पैश्च तिलकैः सारूप्यमेति सुन्दरि
अथ तिलकप्रमाणम् ।
वामरेखात्मिका ब्रह्मा दक्षरेखा सदाशिवः ।
मध्यस्थाने वसेद्विष्णुः तत्स्थानं नैव लेपयेत्
निर्वाणतन्त्रे -
निराकारो महाविष्णुः साकारोऽपि क्षणे क्षणे ।
यदा साकाररूपोऽसौ द्विभुजो मुरलीधरः
राधातन्त्रे -
नादरूपा कुण्डलिनी तन्मूले स्थितिः सर्वदा ।
तदूर्द्धे बिन्दुरूपा च मूला त्रिपुरसुन्दरी
केवलं रुधिरेणापि बिन्दुमात्रं नियोजयेत् ।
कुण्डली मूलभागेऽपि तिलकं त्रिगुणात्मकम्
सव्ये वामे तथा मध्ये तिलकस्य महेश्वरि ।
जाह्नवी यमुनादेवी वाग्देवी सर्वदा स्थिता
त्रिपुण्ड्रं धारयेत् शैवः शाक्तश्च वर्तुलं शिवे ।
ऊर्द्धपुण्ड्रं गाणपत्यः साधकस्यापि लक्षणम्
प्. ६०) ज्ञानद्वीपे -
प्रथमे चानुकल्पैश्च प्रत्यक्षैश्च द्वितीयके ।
एवं क्रमेण देवेशि साधकोऽपि क्रियाञ्चरेत्
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे
षोडशोल्लासः
सप्तदशोल्लासः ।
अथ यन्त्रप्रमाणम् ।
वरदातन्त्रे श्रीदेव्युवाच -
तत्प्रसादान्महादेव विभावस्य मतं श्रुतम् ।
अधुना श्रोतुमिच्छामि यन्त्रप्रस्तावमुत्तमम्
सभावस्य पशोर्यन्त्रं विभावस्य पशोः प्रिय ।
वीरस्यापि विभावस्य सभावस्य वद प्रभो
श्रीशिव उवाच -
देहाकारं स्थूलरूपं पशोर्यन्त्रं सुरेश्वरि ।
कृत्रिमं स्वकृतं यन्त्रं विभावस्यानुकल्पनम्
विभावस्यापि वीरस्य यन्त्रं पुष्पादिकल्पनम् ।
वीरस्य यन्त्रं विज्ञेयं योनियन्त्रं [ग्, घ्: -रूपं] प्रकाशितम्
प्. ६१) यन्त्रं विना महेशानि पूजने नास्ति योग्यता ।
अत एव महेशानि कुर्यात् यन्त्रानुकल्पनम्
यन्त्रद्वयं न कर्तव्यं तथ मूर्तिद्वयं प्रिये ।
घटद्वयं न कुर्येयुः साधकाः सिद्धिहेतवे
तन्त्रान्तरे -
एकार्चनेऽप्येकदेवमेकवारं प्रपूजयेत् ।
एकयन्त्रं कल्पनीयं द्विकल्पे द्वित्वपूजनम्
मातृकाभेदे -
जन्मस्थानं महायन्त्रं यदि कुर्यात्तु साधकः ।
तत्र मूर्तिं न कुर्यात्तु कदाचिदपि मोहतः [ग्, ङ्: मोहितः । अतः
परं ऽऽकऽऽ पुस्तके पाठोऽयमतिरिक्तो दृश्यते - यदि मूरि
प्रकुर्यात्तु तन्त्रयन्त्रं न कारयेत् ।ऽऽ]
यदि कुर्यात्तु मोहेन यजेद् वारद्वयं प्रिये ।
द्विगुणं बलिदानं स्याद् द्विगुणं पूजनं ततः
द्विगुणञ्च जपेन्मन्त्रं द्विगुणं होममाचरेत् [घ्: होमयेत्ततः]
।
अन्यथा विफला पूजा विफलं बलिदानकम् ।
सर्वं हि विफलं यस्माद् यन्त्रं तस्मान्न कारयेत्
श्रीदेव्युवाच -
देवेश परमानन्द ज्ञानविज्ञानदायक ।
अर्चने वन्दने स्तोत्रे यन्त्राख्यां कथय प्रभो
श्रीशिव उवाच -
आब्रह्मस्तम्बपर्यन्तं कल्पनं यन्त्रमात्रकम् ।
तव स्नेहेन वक्तव्यं विशेषस्य विशेषकम्
प्. ६२) अथ विशेषयन्त्राख्याकथनम् ।
शालग्रामे मनो यन्त्रे प्रतिमायां घटे जले ।
पुस्तिकायाञ्च गङ्गायां शिवलिङ्गे प्रसूनके
अथ यन्त्रे पूजाफलम् ।
शालग्रामे शतगुणं मनौ लक्षगुणं लभेत् ।
यन्त्रे लक्षगुणं पुण्यं मूर्तौ लक्षं सुलोचने
घटे चैकगुणं पुण्यं जले चैकगुणं प्रिये ।
पुस्तिकायां सहस्रन्तु गङ्गायां तत्समं फलम्
शिलिङ्गे ह्यनन्तं हि विना पार्थिवलिङ्गके ।
पुष्पयन्त्रे महेशानि पूजनात् सर्वसिद्धिभाक्
शालग्रामे च पूजायां न लिखेद् यन्त्रमुत्तमम् ।
मनौ स्थिते महेशानि न लिखेद् यन्त्रमुत्तमम् ।
प्रमायाञ्च पूजायां न लिखेद् यन्त्रमुत्तमम्
तन्त्रान्तरे -
लिख्ययन्त्रे कृते भद्रे चान्ययन्त्रं न कल्पयेत् ।
यन्त्रे कृते महादेवि लिख्ययन्त्रं न कल्पयेत्
जन्मस्थानं महायन्त्रं देवतामूर्तिभेदकम् ।
एकार्चनेऽप्येकयन्त्रं यन्त्रेऽप्येकार्चनं शुभम्
ज्ञानद्वीपे -
श्रीदेव्युवाच -
पूजाधारं महायन्त्रं परिवारान् यजेत्ततः ।
यन्त्राभावे महेशान परिवारान् यजेत् कुतः
प्. ६३) श्रीशिव उवाच -
प्रतिमायाञ्च पुरतो घटं संस्थाप्य यत्नतः ।
परिवारान् यजेत्तत्र घटे तु परमेश्वरि
यन्त्राधिष्ठातृदेवानां घटवक्त्रे प्रपूजयेत् ।
समस्तदेवतारूपं घञ्च परिकल्पयेत् ।
सुरद्रुमस्वरूपोऽयं घटोऽयं परिचिन्तयेत्
कुलार्णवे -
केवलं प्रतिबिम्बेषु घटमात्रं प्रकल्पयेत् ।
पत्रं पुष्पं फलं दूर्वां तोययुक्तं घटं न्यसेत्
वरदातन्त्रे -
मङ्गलार्थं यदा देवि घटं हि परिकल्पयेत् [ग्: कल्पनञ्चरेत्] ।
तत्र पूजा न कर्तव्या यन्त्रानुकल्पनं विना
अथ प्रत्यक्षानुकल्पयोर्लक्षणम् ।
निगमानन्दे श्रीदेव्युवाच -
प्रत्यक्षे संस्थिते यन्त्रे चानुकल्पं न कल्पयेत् [घ्: कारयेत्] ।
अनुकल्पे स्थिते यन्त्रे प्रत्यक्षञ्चापि कल्पयेत्
स्वयं यत्र क्रियाशक्तो नास्त्यन्यत्र प्रकल्पनम् ।
तथा यन्त्रेऽपि प्रत्यक्षे करणीयं परित्यजेत्
अनुकल्पे स्थिते यन्त्रे चानुकल्पं नचेत् क्वचित् ।
प्रत्यक्षे संस्थिते यन्त्रे प्रत्यक्षं नैव कल्पयेत्
प्. ६४) श्रीशिव उवाच -
प्रत्यक्षञ्चानुकल्पञ्च कथयस्व महेश्वरि ।
आद्यबीजमयी नित्या [घ्: विद्या] त्वां विना को वदेत् प्रिये
श्रीदेव्युवाच -
यस्मिन् द्रव्ये महादेव ! भ्रमज्ञानं प्रजायते ।
तद्द्रव्यं परमं ज्ञात्वा तद्द्रव्यस्यानुकल्पनम्
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे
सप्तदशोल्लासः
अष्टादशोल्लासः ।
अथ शाक्ताचारः ।
निरुत्तरे -
शक्तियुक्तोऽपि शाक्तः स्यात् शक्तिपूजनतत्परः ।
शक्तिदेवीं विना देवि नान्यदेवं विचिन्तयेत्
पञ्चमेन यजेत् शक्तिं पञ्चतत्त्वेन पूजयेत् ।
शाक्ताचारमिदं ज्ञेयं [ज्: देव] सर्वाचारस्य सम्मतम् [च्, ज्: च
स्मृतः]
शाक्ताचारं विना देवि अन्याचारं शवं यथा ।
ततश्च परमेशानि शाक्ताचारं हि बीजकम्
प्. ९५) कामबन्धस्य [घ्, ज्: कर्मबन्धस्य] मुक्तासि मुक्तस्य
बन्धदायिनी ।
ततश्च परमेशानि शाक्ताचारं हि बीजकम्
शाक्ताचार-निन्दकस्य सङ्गं संत्यज्य यत्नतः ।
मयोक्तेनैव मार्गेण कुलकार्यं समाचरेत्
अथ संसर्गत्यागः ।
चिकित्सकानां विप्राणां स्त्रीणां विच्छेदकारिणाम् ।
गणकस्य च संसर्गं सर्वदा वर्जयेत् प्रिये
चुम्बकस्यापि धूर्तस्य संसर्गं परिवर्जयेत् ।
पशूनाञ्चैव संसर्गं वीराणां भ्रान्तचेतसाम् ।
कामुकानाञ्च संसर्गं सर्वदा परिवर्जयेत्
यथेष्टाचारशीलानां निन्दकस्य जनस्य च ।
गुरुभक्तिविहीनानां शक्तिद्वेषकरस्य च ।
सत्यं सत्यं पुनः सत्यं तत्संसर्गं परित्यजेत्
[श्लोकार्द्धोऽयं छ-ज-पुस्तकयोर्दृश्यते, नान्यत्र] [मयोक्तेनैव
मार्गेण कुलकार्यं समाचरेत्]
पशुसङ्गं परित्यज्य वीरसङ्गं समाचरेत् [ज्: समाश्रयेत्] ।
शाक्तश्च द्विविधो देवि वामदक्षिणभेदतः
अथ दक्षिणाचारशाक्तलक्षणम् ।
समयाचारतन्त्रे -
स्वधर्मनिरतो भूत्वा पञ्चतत्त्वैः प्रपूजयेत् ।
स एव दक्षिणाचारः शिवो भूत्वा यजेत् पराम्
प्. ६६) अथ स्वधर्मलक्षणम् ।
भैरवतन्त्रे -
यस्य यस्य च वर्णस्य यदाचारं महेश्वरि ।
स्वधर्म तद्विजानीयात् श्रुत्युक्तं परिकीर्तितम्
निरुत्तरे -
द्विजातीनाञ्च सर्वेषां द्विधा विधिरिहोच्यते ।
दिवा च पाशवं कर्म रात्रौ कर्म च कीलिकम्
पुरश्चर्यादिकं कर्म द्विविधं भावभेदितः ।
रात्रौ पूजां सदाकुर्याद् दिवा कुर्याच्च वैदिकीम् ।
दिवा रात्रौ यजेद् देवीं यथोक्तफलदं भवेत् ।
पूजनं लक्षगुणितं निशायां निर्जने शिवे
दिवार्चनं शतगुणं निशायाञ्च सहस्रकम् ।
निशीथे लक्षगुणितं पूजयेद् गोपनान्वितः
मुण्डमालातन्त्रे -
दिवार्चनं पशूनां हि वीराणाञ्च निशार्चनम् ।
निशीथे पञ्चमेनापि पञ्चतत्त्वेन वार्चयेत्
अथ वीरलक्षणम् ।
मद्यं मांसञ्च मत्स्यञ्च मुद्राञ्च मैथुनं प्रिये [ज्: शिवे]
।
वीराचारमिदं प्रोक्तं साधकस्यापि बीजकम्
प्. ६७) पञ्चतत्त्वेन संपूज्य आत्मानं देवतां शिवे ।
पञ्चमानन्दसंयुक्तः पञ्चतत्त्वेषु लिप्सितः
पञ्चमीं पञ्चतत्त्वेन पूजयेज्जगदम्बिकाम् ।
वीराचारमिदं प्रोक्तं साधकस्यापि बीजकम्
अथ वीराचारगोपनम् ।
भावचूडामणौ -
दिवाभागे यजेद्देवीं लोकाचारक्रमेण च ।
लोकाचारं विना देवि गोपनं नैव जायते ।
गोपनात् कार्यसिद्धिः स्यात् प्रकाशात् सिद्धिदा भवेत्
हंसमाहेश्वरे -
प्रकाशात् सिद्धिहानिः स्यात् प्रकाशाच्च दरिद्रता ।
अत एव महेशानि प्रकाशं नैव कारयेत्
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।
गोपयेच्च पशोरग्रे वीराग्रे नैव गोपयेत्
कुलार्णवे -
गुप्तं प्रत्यक्षकं कृत्वा [क्, ख्, ग्, घ्, च्: प्रत्येककं कृत्वा]
विचरन्ति च साधकाः ।
प्रकाशात् सिद्धिहानिः स्याद् गुप्तात् सिद्धिर्न संशयः
निजसाधकमध्ये तु न गोप्तव्यं कदाचन ।
गुप्तेऽपि सिद्धिहानिः स्यात् प्रकाशात् सिद्धिमान् भवेत्
निरुत्तरे -
दिव्यानाञ्चैव वीराणां फलदं गोपनात् शिवे ।
वीराग्रे गोपनाद्देवि रौरवं नरकं व्रजेत्
गोपनाच्च पशोरग्रे सिद्धिभाग् याति साधकः ।
वीराग्रे गोपनात् सर्वं निष्फलं नात्र संशयः
न पशोरालये कुर्यान्न पशोर्दृष्टि[घ्: ज्ञान]-गोचरे ।
न पशोः सन्निधानेऽपि पशोरेव न दर्शयेत्
पूजाद्रव्यं पानद्रव्यं पशुना वीक्षितं यदि ।
तद् द्रव्यं जलतः क्षिप्तं [ज्: क्षिप्त्वा] जपेद्देव्या महामनुम्
ज्ञानार्णवे -
पशुना वीक्षितं द्रव्यं न देव्यै विनिवेदयेत् ।
कुलपूजां कुलद्रव्यं कुलस्त्रीकुलसङ्गमम् ।
गोपनीयं पशोरग्रे प्रकाशान्मरणं भवेत्
श्रीदेव्युवाच -
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ।
केन रूपेण वा स्वामिन् पशोर्वीरस्य लक्षणम्
अनयोर्लक्षणं देव मम स्थाने प्रकाशय ।
इति ते प्रार्थितं देव यदि ते मययनुग्रहः
अथ पशुवीरलक्षणम् ।
श्रीशिव उवाच -
पञ्चधा पशवः प्रोक्ता स्तेषां भेदमिमं शृणु [घ्: प्रिये] ।
धूर्तं शठं चुम्बकञ्च मुखरं दाम्भिकं शिवे
एते च पशवः प्रोक्ता श्चान्याचारं न जायते ।
अन्याचारकृतो येन तद्वदामि प्रियम्बदे [ज्: वरानने]
वैदिकात् तान्त्रिकाद् भ्रष्टो नरके पच्यते ध्रुवम् ।
प्. ६९) अथवा पानभ्रष्टो यः स एव पशुलक्षणः ।
एतेषां ज्ञानमात्रेण कौलिकस्य क्रियाक्षयः
तन्त्रान्तरे -
यः शास्त्रविधिमुल्लङ्घ्य वर्तते कामचारतः ।
स पशुः परमेशानि पच्यते नरके ध्रुवम्
कुमारी तन्त्रे -
कुलकर्मप्रसङ्गस्तु पशूनां पुरतः शिवे ।
कदाच्चिन्नैव कर्तव्यः [ज्: वक्तव्यम्] शूद्रस्य वेदपाठवत्
इति श्रीसर्वानन्दनाथ-विरचिते सर्वोल्लासे
अष्टादशोल्लसः
ऊनविंशोल्लासः ।
अथ साधकलक्षणम् ।
कुलार्णवे श्रीदेव्युवाच-
लक्षणं वीरभावस्य किं वाप्याचारकं [छ्, ज:
किमप्याचारकं] शिव ।
ज्ञापितं परमानन्द मम स्थाने प्रकाशय
मद्यपानेन जानीयात् साधकस्यापि लक्षणम् ।
तत्पानं त्रिविधं प्रोक्तं दिव्य-वीर-पशु-क्रमात्
प्. ७०)
दिव्यो देव्युग्रतः पानं वीरो विसर्जनात् परम् [घ्:
मुद्रासमन्वितः] ।
स्वेच्छयापि पशोः पानमिति पानमुदाहृतम्
भक्ति-मुक्तिप्रदं दिव्यं वीरं भक्ति-समन्वितम् ।
पशुपानं नरकदमिति पानफलं शृणु
दिव्योऽपि वीरभावोऽपि प्राणान्तेऽपि कुलेश्वरि ।
पशुपानमकर्तव्यं शक्तिभक्त्याश्रितः पिवेत्
श्रीदेव्युवाच -
स्वेच्छापानं महादेव मम स्थाने प्रकाशय ।
केन रूपेण वा देव देव्यग्रे पानभाग् नरः
श्रीमहादेव उवाच -
चक्रभिन्ने चरेत् पानं स्वेच्छापानं प्रकीर्तितम् ।
सा स्वेच्छा द्विविधा ज्ञेयाऽज्ञानिज्ञानिविभेदतः
अज्ञानी मादकं पानं स्वानन्दे ज्ञानिनामपि ।
चक्रं कृत्वा पिवेन्मद्यं चक्रं हि शक्तिसंयुतम्
अथ चक्रलक्षणम् ।
श्रीदेव्युवाच -
चक्रस्य लक्षणं किञ्चित् ममस्थाने प्रकाशय ।
फलं किं प्राणनाथेश कथय [घ्: वदय] सिद्धिहेतवे
श्रीमहादेव उवाच -
श्रीचक्रे सेवतो [घ्, छ्, ज्: सेवनात्] मद्यं किं न सिध्यति भूतले ।
आयुर्वलं [घ्: वित्तं] यशो वृद्धिः षट्कर्मसाधनं प्रिये [ग्, घ्,
ज्: षट्कर्मस्य च साधनम्; छ्: षट्कर्मणोऽपि साधनम्]
प्. ७१)
मोक्षं वित्तं तथा पुष्टिं श्रीचक्राल्लभतेऽपि च ।
भोगेन लभते मुक्तिं सिद्धिं श्रीचक्रसेवनात्
चक्रमध्ये महेशानि मूलमन्त्रं जपेत्तु यः ।
एकवारजपेनैव लक्षवारफलं लभेत्
चर्व्यं चोष्यं तथा लेह्यं पेयं भोगं महेश्वरि ।
चक्रमध्ये प्रकर्तव्यमनन्तफलमीरितम् ।
चक्रञ्च द्विविधं प्रोक्तं दिव्य-वीर-मतं शिवे
अथ दिव्यचक्रप्रमाणम् ।
देव्या युक्तं दिव्यचक्रं भयलज्जाविवर्जितम् ।
दर्शनात् कामसिद्धिः [घ्: कार्य-] स्याद् वीरो भवति स्पर्शनात्
सेवनाच्च भवेन्मुक्तिः सिद्धान्ताचारसम्मतः ।
दिव्यचक्रमिदं प्रोक्तं वीरचक्रं ततः शृणु
शक्तिदेहे स्थितं चक्रं विनाशक्तिं न चक्रवान् ।
अत एव महेशानि शक्तियुक्तं [ज्: शक्तियुक्तः] पिवेन्मधु
निगमकल्पे श्रीमहादेव उवाच -
दिव्यचक्रे दिव्यशक्तिं रमणेन प्रपूजयेत् ।
वीरचक्रं रमेत् [घ्, ज्: यजेत्] शक्तिं गन्धपुष्पादिनापि वा
रागद्वेषविनिर्मुक्तं केवलं स्वात्महेतवे ।
दिव्यचक्रमिदं प्रोक्तं वीरचक्रं ततः [छ्, ज्: इदं] शृणु
स्वेष्टदेवं यजेत्तत्र पञ्चतत्त्वेन पार्वति ।
पञ्चमीं [छ्, ज्: पञ्चमी] पञ्चतत्त्वेन तच्चक्रं वीरभाषितम्
प्. ७२)
कुलार्णवे -
यत्रास्ति भोगो न च तत्र मोक्षो,
यत्रास्ति मोक्षो न च त्र भोगः ।
शिवापदान्भोजयुगार्चकानां,
भोगश्च मोक्षश्च करस्थ एव
याष्मद्यपायी स द्विजो न कश्चित्,
यो विप्र उक्तः स पिवेच्च मद्यम् ।
शिवापदाम्भोजयुगार्चकानां
भोगेन मद्येन करस्थमुक्तिः
यो भेदमार्गी न भवेत् स शाक्तो,
यः शाक्तको देवि क्वचिन्न भेदः ।
शिवापदाम्भोजयुगार्चकानां
भेदेऽप्यभेदो हि करस्थ एव
पञ्चयुक्तो भवेत् शाक्तः पञ्चमे ज्ञानवान् यदि ।
तदा [ग्: यदा] चक्रे महेशानि पिवेन्मद्यं रमेत् स्त्रियम्
शक्तिज्ञानं महीत्कृष्टं निर्वाणप्रथमांकुरम् ।
श्रीचक्रेऽपि पिवेन्मद्यं शक्तियुक्तं महेश्वरि
अथ वीरचक्रलक्षणम् ।
कुक्कुटतन्त्रे -
वीरचक्रं त्रिधा ज्ञेयं चतुर्धा पशुना सह ।
चोत्तमं मध्यमं ज्ञेयं चाधमञ्चाधमाधमम्
एका शक्तिर्यत्र देवि एको हि साधको यदि ।
चक्रोममिदं ज्ञेयं सा काली स च शङ्करः
प्. ७३)
[घ्, ज्: पाठोऽयं पुस्तकयोर्दृश्यतो, नान्यत्र [सिद्धिवर्त्म शृणु
प्राज्ञे यत् कृत्वा सिद्धिमाप्नुयात् ।
एकां शक्तिं समानीय एकैकः साधकः सदा
पूजयेद् बहुयत्नेन पञ्चतत्त्वेन कौलिकः ।
एवं कृत्वा लभेत् सिद्धिं नान्यस्य दृष्टिगोचरे ॥ ] २८ ॥
त्रिशक्याक्तो यदा [ज्: यत्र] देवि तिष्ठति [घ्: वर्त्तते] च त्रिसाधकः ।
मध्यमं चक्रविज्ञेयं [ज्: चक्रमाख्यातं] स वीरः सापि
भैरवी
षट्साधको यत्र चक्रे षट्शक्तिस्तिष्ठति प्रिये ।
अधमं चक्रविज्ञेयं सा साध्या स च साधकः
एतद्भिन्नं पशोश्चक्रं निन्दितं शक्तिवर्जितम् ।
शक्तिहीनञ्च यत्चक्रं केवलं मदकं शिवे
कुलचूडामणौ -
साधकैर्गणितां शक्तिं महाचक्रे निवेशयेत् ।
मध्यमे नवशक्तिञ्च हीनेऽपि शक्तिमात्रकम्
शक्तिहीनं यदा चक्रं पशुचक्रं महेश्वरि ।
तस्मिन् चक्रे साधकोऽपि कदाचिन्न प्रवेशयेत्
मधु मांसं मौथुनञ्च चक्रं न कारयेत् ।
श्रीचक्रे मैथुनं भद्रं शिवत्वं याति साधकः
चक्रान्तरे च रमणात् साधकोऽभून्महेश्वरि ।
वीरचक्रमिदं प्रोक्तं देवचक्रं ततः शृणु
प्. ७४)
अथ देवचक्रलक्षणम् ।
पेयं मद्यं देहमांसं जलजं मत्स्यकं शिवे ।
मुद्रापि चान्यद्रव्याणि सङ्गमं पञ्चभौतिकम् ।
सृष्टिरूपं महाचक्रं श्रीचक्रं परमेश्वरि
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे उन्विंशत्युल्लासः
विंशोल्लासः
अथ श्रीचक्रस्य स्थाननिरुपणम् ।
समयाचारतन्त्रे -
एकान्ते निर्जने रम्ये देशे वाधा-विवर्जिते ।
तत्र स्थाने चरेच्चक्रं यत्र स्याद् देवतागृह
अथवा देवतास्थाने तीर्थादिषु महेश्वरि ।
देवतावृक्षमूलेषु स्थानं कुर्यात् प्रयत्नतः
ज्ञानार्णवे -
शक्तिगेहं स्वगेहञ्च वेश्यालयमनामयम् ।
साधकस्य गृहं भद्रे श्रीचक्रस्थानमुत्तमम्
गुरोः स्थानं गुरोराज्ञां ज्ञात्वा स्थानं प्रकल्पयेत् ।
अथवा यस्य यत्स्थानं तस्याज्ञया प्रकल्पयेत्
यस्याज्ञया चरेत् चक्रं तत्रोद्वेगं भवेद् यदि ।
तदुद्वेगस्य यत्पापं तत्पापं तत्र गच्छति
प्. ७५)
अथ श्रीचक्रासनप्रमाणम् ।
ज्ञानार्णवे -
शवासनं विना देवि वीरकार्यं न चाचरेत् ।
शवासनाधिकं ज्ञेयं लतागेहप्रवेशनम्
शवाभावे महेशानि विष्टरं परिकल्पयेत् ।
योन्यभावे महेशानि त्रिकोणञ्चासनं शुभम्
भावचूडामणौ -
शवासनं विना देवि वीरकार्यं न चाचरेत् ।
शवाभावे विष्टरं हि वीरासनमुदीरितम्
शवासने शक्तिकार्यं शक्तियुक्तो महेश्वरि ।
शवैकमासनं भद्रे विष्टरं युग्ममासनम्
शवयुग्मं न कर्तव्यमेकेऽपि [छ्: एकोऽपि; ज्: एको हि] युगलं स्थितम्
।
अत एव महेशानि विष्टरं युग्मकल्पनम् ।
अन्यासनं चतुष्कोणं त्रिकोणं परिकल्पितम्
तन्त्रान्तरे -
काम्यार्थं कम्बलञ्चैव मोक्षञ्च रक्तकम्बलम् ।
कृष्णाजिने ज्ञानसिद्धिर्मोक्षञ्च व्याघ्रचर्मणि
कुशासने मन्त्रसिद्धिर्नात्र कार्यविचारणा ।
एतद्भिन्नञ्चासनं हि चित्रचित्रादि [ज्: चित्राचित्रादि] संयुतम्
चित्रासनं हि रक्तेन त्रिकोणं सुमनोहरम् ।
नानावर्णेन संयुक्तं विचित्रञ्चासनं शुभे ।
विष्टरं तत्र संस्थाप्य नियतं शक्तिकल्पितम्
प्. ७६)
गुप्तसाधनतन्त्रे -
एकान्ते निर्जने रम्ये देशे वाधाविवर्जिते ।
प्रशस्तेऽप्यासने रक्ते विचित्रे वा मनोहरे
सुखासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः ।
तृप्त्यर्थं देवतानाञ्च कूर्याद्वीरासनं शिवे
वीराणां दक्षिणानाञ्च वीरासनमुदीरितम् ।
वामसिद्धान्तदिव्यानां स्वेच्छासनमुदीरितम्
निरुत्तरे -
को विधिः को निषेधोऽपि कौलानाञ्चासनं प्रिये ।
वामसिद्धान्तदिव्यानां नियमं नैव कल्पितम्
अन्येषाञ्चासनं कुर्यात् शुद्धिं कृत्वोपवेशनम् ।
एकान्ते निर्जने रम्ये देशे वाधाविवर्जिते
आसनं तत्र संस्थाप्य साधयेत् मनुना शिवे ।
रुधिरेण वरारोहे त्रिकोणञ्चासने [ज्: आसने] लिखेत्
चतुष्कोणञ्चासनं हि त्रिकोणं योनिमण्डलम् ।
भूचक्रमासनं ज्ञेयं गन्धपुष्पाक्षतादिभिः
यजेदाधारशक्तिञ्च अथवा कमलासनम् ।
यजेदाधारशक्तिञ्च कमलान्तं त्रिधा शिवे
निगमकल्पलतायां श्रीशिव उवाच -
शुद्धार्थं परमं मन्त्रं बहुधा प्रकटीकृतम् ।
आजन्म कोट्यां तन्मन्त्रं ज्ञापितुं नैव शक्यते
प्. ७७)
श्रीदेव्युवाच -
भावं विना महेशान किञ्चिन्नैव प्रकाशितम् ।
प्रकाशितेऽपि योनिः स्यात् शुद्धिः स्याद् योनिलेखनात् ।
नातिनीचं नाति चोच्चं श्रीचक्रे चासनं प्रिय
अथ चक्रेश्वरनियमः ।
यामले -
पूजाभिषेकसंयुक्तः कुलशास्त्रार्थतत्त्ववित् ।
देवता-गुरु-भक्तोऽपि शक्तियुक्तः क्रियान्वितः
ताम्बूलपूरितमुखो धूपामोदसुगन्धितः ।
रक्तानुलेपैर्गन्धैश्च सुवेशैर्भूषितो गुरुः
ज्ञानार्णवे -
रुद्राक्षमालाधारी च श्वेतगन्धेन लेपितः [ज्: भूषितः] ।
रक्तचन्दनसंयुक्तो रक्तपुष्पविभूषितः
ब्राह्मणानामभावोऽपि क्षत्रियोऽपि गुरुर्भवेत् ।
तदभावेऽपि वैश्यः स्यान्नतु शूद्रः कदाचन
आचार्योऽपि भवेत् शूद्रोऽप्यभिषेककृतो यदि ।
अन्येषाञ्चाभिषेकाणां देवतारूपिणः प्रिये [घ्: शिवे] ।
तेषां करेण पानञ्चेदभिषेको भवेत् प्रिये
अथ चक्रमध्येप्रवेशलक्षणम् ।
गौतमीये -
चक्रेश्वरो वीरभावो सस्त्रीकः प्रणमेत् भुवि ।
मद्यभाण्डं करे कृत्वा चासने चोपवेशयेत्
प्. ७८)
कृत्वा वीरासनं मन्त्री पूजाद्रव्यं समानये ।
नाति नीचं नाति चोच्चं चतुरंगुलिमध्यगम् ।
तत्रासने वसेन्मन्त्री देवध्यानपरायणः [घ्:
देवताध्यानतत्परः]
उष्णतीक्ष्णगुणोपेतं मद्यं दुर्गन्धवर्जितम् ।
धृत्वा [ज्: ध्यात्वा] प्रणम्य प्रथमं श्रीचक्रेषु प्रवेशनम्
वामकरे च रमणीं दक्षिणे मध्यभाण्डकम् ।
आत्मपात्रं शक्तिकरे श्रीचक्रेषु प्रवेशनम्
चक्रेश्वरोऽपि यद्रूपे चक्रमध्ये प्रवेशयेत् ।
तद्रूपे [घ्, ज्: तद्रूपः] साधकः सर्वश्चक्रमध्ये प्रवेशयेत्
पूजाद्रव्यं पानद्रव्यं करे कृत्वा सुलोचने ।
शक्तिहस्ते पानपात्रं स्ववामे शक्तिधारणम्
निगमतत्त्वे -
वीरानन्दयुता शक्तिर्यदि चक्रेश्वरी भवेत् ।
तच्चक्रं परमेशान देवचक्रं न संशयः
करे वामे मद्यभाण्डं दक्षिणे रमणं [ज्: परमं] शिवम् ।
श्रीचक्रेषु प्रवेश्या सा भय-लज्जा-विवर्जिताः
तच्चक्रे परमेशान द्रव्यशुद्धिं न कारयेत् ।
तस्याः संस्पर्शनादेव [छ्, ज्: तस्याङ्गस्पर्शनादेव]
द्रव्यशुद्धिस्तु तत्क्षणात्
प्रतिपात्रे महेशान भगे लिङ्गं विचिन्तयेत् ।
पात्राद्विन्दुं समादाय प्रक्षिपेद् योनिमण्डले
चक्रेश्वरी महाहृष्टा यदि योनिं प्रकाशयेत् ।
गन्धापुष्पैर्धूपदीपैः कारणेन प्रपूजयेत्
प्. ७९)
रमणञ्च ततः कुर्याद यदि स्याद्रमणान्विता ।
रमणान्ते महेशान भगवारि पिवेन्मुदा
तदभावे जलं पेयं कारं विन्दुसंयुतम् ।
शक्तियन्त्रं जलं ज्ञेयं यतो मायाप्रबोधकम्
तत्तोयं रुधिराक्तञ्चेद् रेताक्तञ्चेद् गुणत्रयम् ।
ब्रह्म ज्ञेयं योनिरक्तं तोयं तस्या जनार्दनम् ।
शुक्रं तस्या महादेवं तदभावेऽनुकल्पनम् [छ्: तदभावाद्-]
कुशिदं भगरक्तञ्च शुक्रञ्च मलयोद्भवम् ।
भगवारीति तोयञ्च त्रिगुणाक्तं त्रिदेवता
भाग्येन लभते देव चक्रे चक्रेश्वरीं यदि ।
तद्देहं मम देहञ्च पुंदेहञ्च सदाशिवम्
तत्र चक्रे स्थिता शक्तिर्मम रूपा महेश्वर ।
साधकस्तव तुल्योऽपि देवचक्रे मनोहरे
अन्यचक्रे महेशान बहुविघ्नं प्रजायते ।
देवचक्रं देवचक्रं देवचक्रं कलौ युगे
देवचक्रस्य माहात्म्यं गदित्ं नैव शक्यते ।
स्वेच्छया गान-पानञ्च मैथुनञ्च सुखोदितम्
स्तोरञ्च जपकार्यञ्च सर्वं स्वेच्छासुखोदितम् ।
अत एव महेशान देवचक्रं कलौ युगे
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे विंशत्युल्लासः
एकविंशोल्लासः ।
अथ श्रीचक्रे जात्यभेदः ।
तारातन्त्रे -
आरम्भे भैरवीचक्रे सर्वे वर्णा द्विजोत्तमाः ।
निवृत्ते भैरवौचक्रे सर्वे वर्णाः पृथक् पृथक्
जातिभेदं विमूढात्मा श्रीचक्रेऽपि करोति यः ।
नरके दुष्करे घोरे पतत्येव न संशयः
वामकेश्वरे -
चक्रमध्ये विमूढात्मा जातिभेदं करोति यः ।
चण्डीकोपाद् भवेन्नष्टं कान्तिः पुष्टिर्बलं यशः
मदिरायां मैथुनेषु जातिभेदं न चाचरेत् ।
मैथुनस्य महासौख्यं बीजं मद्यञ्च सुन्दरि
बहुनापि किमुक्तेन चक्रमध्ये महेश्वरि ।
मद्रूपाः पुरुषाः सर्वे त्वद्रूपा योषितः प्रिये
भावचूडामणौ -
बहुगावोऽपि तिष्ठन्ति यथैकरज्जुवन्धिताः ।
तथा नराश्च तिष्ठन्ति जातिपाशेन वन्धिताः
मद्यासिना जातिपाशं संछेद्य शक्तिवाक्यतः ।
श्रीचक्रेऽपि पिवेन्मद्यं जातिभेदं परित्यजन्
श्रीदेव्युवाच -
जातिमात्रं सूक्ष्मबोधं जातीयं स्थूलबोधकम् ।
सूक्ष्मस्य केन वा नष्टं चोत्पत्तिः केन वा पुनः
प्. ८१)
श्रीशिव उवाच -
श्रीचक्रस्य जगत् सर्वं यस्य चेतसि भासितम् ।
ह्रासवृद्धी न चेद् जाते रमायां निशिनाथवत्
मद्यशक्तियुते चक्रे ह्रासवृद्धिः क्षणे क्षणे ।
चक्रस्य ह्रासवृद्ध्याक्ते जातेर्ह्रासस्य [ग्, ज्: -ह्रासश्च] वृद्धिता
नरस्य जातिपाशस्य परस्त्री मातृवत् शिवे ।
जातिभ्रष्टस्य कान्तापि मध्यभुक् रमणी शिवे
मद्यभुक् रमणीं त्यज्यां केवलां जननीं पराम् [ज्: रमणी
त्यज्या केवला जननी परा] ।
पूजयेत्तां महेशानि रमणं नैव कारयेत्
अन्या या मातृतुल्या सा श्रीचक्रे रमणी परा ।
पूजयेच्च रमेत् शक्तिं तस्यास्तस्यापि [ग्, घ्: तस्य तस्यापि] हर्षतः
जातिनष्टे कुत्र कार्ये तस्य दोषो भविष्यति ।
श्रीचक्रे परमेशानि जातिपाशं परित्यजेत्
यदि चक्रे महेशानि जातिपाशं समाश्रितः ।
वृथापानं भवेत्तस्य केवलं जातिनाशकम्
अथ श्रीचक्रे द्रव्यनिरूपणं ।
समयाचारतन्त्रे -
हेतुं [घ्: हेतुं मांसं पायसञ्च दधि-दुग्ध-घृतं प्रिये]
मांसं तथा दुग्धं पयो दधि घृतं प्रिये ।
नानाव्यञ्जनसंयुक्तमन्नं संस्थाप्य यत्नतः
पिण्याकं लशुनं भद्रे शर्करा मधु पिष्ठकम् ।
भक्षणञ्च विशेषञ्च सन्देशं विविधं प्रिये
प्. ८२)
मत्स्यं मांसञ्च मुद्राञ्च वीरद्रव्यं मनोहरं ।
श्रीचक्रे स्थापयेद्देवि देवतातृप्तिहेतवे
गुप्तसाधन तन्त्रे -
कुङ्कुमं शुद्धसिन्दूरं चन्दनं रोचनागुरुम् ।
कर्पूरं यावकं भद्रे श्रीचक्रे स्थापयेत् प्रिये [ग्, छ्: प्रियं]
नाना सुगन्धि-धूपेन चितामोदो यथा भवेत् ।
ततश्च धूप-पत्राणि श्रीचक्रे विनियोजयेत्
चर्व्यं चोष्यं तथा लेह्यं पेयं कांस्ये सुशोभितं ।
परमान्नञ्च तक्रञ्च सुवासित-जलं प्रिये
वीर तन्त्रे-
कट्वम्लकं तिक्तरसं वहूनि व्यञ्जनानि च ।
घृतेन ज्ञावितं मांसं विविधं स्थापयेत् प्रिये
हंसबीजं तथा क्षीरं लवणञ्च पिण्याककं ।
लशूनं श्रीचक्रमध्ये स्थापयेदार्द्रकं प्रिये
कालिकाकुलसर्वस्वे -
आर्द्रकं दग्धमीनञ्च चूर्णं त्रिकटुस्य च ।
लाजांश्चिपिटकञ्चैव श्रीचक्रे विनियोजयेत्
अथ श्रीचक्रे द्रव्यस्थापनं ।
पङ्क्त्याकारेण संस्थाप्य द्रव्याणि विविधानि च ।
शोधितं परमं द्रव्यं कांस्य-पात्रेषु संस्थितं ।
पङ्क्त्याकारे चक्रमध्ये स्थापयेत् परमेश्वरि
प्. ८३)
कुलतत्त्वसारे -
कांस्य पात्रे स्थितं द्रव्यं भोजनीयं महेश्वरि ।
शोधितं विधिवत् सर्वं पङ्क्त्याकारे नियोजयेत्
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे एकविंशत्युल्लासः
द्वाविंशोल्लासः ।
अथ श्रीपात्रनियमः ।
कालीकल्पे -
वश्याकर्षणकार्येषु हेमपात्रं सुशोभितम् [ग्, घ्: सुशोभनं]
।
शान्तिके पुष्टिके [ज्: पौष्टिके] कार्ये राजतं कारयेत् प्रिये
लौह पात्रं विजानीयात् मारणोच्चाटने शिवे ।
सर्वकार्येषु कर्तव्यं विश्वामित्रं कुलेश्वरि
ताम्र पात्रं कांस्य पात्रं पात्रं पित्तल सम्भवं ।
विल्व पात्रं महापात्रं सर्वकार्ये प्रशस्तकम् ।
कार्य भेदे पात्रभेदमभेदे स्थित पात्रकम् [च्, छ्, ज्:
अभेदस्थितपात्रकम्]
अथ श्रीपात्रस्थापन - लक्षणम् ।
तारा-तन्त्रे -
त्रिकोणं मण्डलं भूमौ चतुष्कोणं लिखेत्ततः ।
तत्राधारन्तु संस्थाप्य श्रीपात्रं स्थापयेत्ततः
प्. ८४)
अथ श्रीपात्राधार लक्षणम् ।
चतुर्धा धारकं प्रोक्तं त्रिपदम्बा चतुष्पदम् ।
षट्पदम्बा महेशानि पदञ्चाष्ट प्रकीर्तितम् ।
पदसंख्याञ्च कोणञ्च मण्डलं कारयेत् प्रिये
अथ पञ्चतत्त्व कथनम् ।
निर्वाणतन्त्रं श्रीदेव्युवाच -
देव देव [ग्, घ्: नास्ति] महादेव तत्त्वञ्च तत्त्वदायक ।
इदानीं श्रोतुमिच्छामि तत्त्वज्ञानञ्च तद्वद
श्रीशिव उवाच -
तत्त्वज्ञानानि [छ्, ज्: तत्त्वज्ञानस्य] कथने शङ्का चेन्मम
मानसे ।
येन तत्त्व प्रसादेन विष्णुस्तत्त्वगुणाश्रयः [छ्, ज्:
सत्त्वगुणाश्रयाः]
शृणु देवि प्रवक्ष्यामि ब्रह्माभूच्च पितामहः ।
तत्त्वज्ञानप्रसादेन शम्भुः संहारकारकः
अन्ये मुक्ताश्च ये सर्वे तोऽपि तत्त्वप्रसादतः ।
तत्त्वज्ञानं विना देवि मुक्तिर्हास्याय कल्पते
तत्त्वज्ञानं विना भद्रे निष्फलं नात्र संशयः ।
शृणु देवि प्रवक्ष्यामि तत्त्वं परम दुर्लभम्
श्रुत्वा गोपय यत्नेन स्व योनिरिव पार्वति ।
मद्यं मांसं तथा मत्स्यं मुद्राञ्च मैथुनं शिवे
पञ्चतत्त्वमिदं प्रोक्तं निर्वाण प्रथमांकुरम् ।
ऐश्वर्यं परमं हृष्टं मद्य-पानेन शैलजे
प्. ८५)
मांसभक्षणमात्रेण नरो [छ्, ज्: साक्षात्] नारायणो भवेत् ।
मत्स्यभोजनमात्रेण कालीप्रत्यक्षता भवेत्
मुद्रासेवनमात्रेण भूपूज्यो विष्णुरूपधृक् ।
मैथुनेन महायोगी मम तुल्यो न संशयः
निगमकल्पद्रुमे श्रीदेव्युवाच -
केवलेनाद्ययोगेन साधको भैरवो भवेत् ।
द्वितीयेन च तत्त्वेन महाभैरवतां व्रजेत्
तृतीयेन च तत्त्वेन साधकः शिवरूपधृक् ।
चतुर्थेन च तत्त्वेन रुद्ररूपधरः स्वयम् ।
परेण परतां याति तव [घ्, ज्: मम] तुल्योः न संशयः
अथ पञ्चतत्त्वस्य फलम् ।
निर्वाणतन्त्रे श्रीदेव्युवाच -
तत्त्वैकं परमेशान पञ्चधा केन तद्वद [क्, ग्, च्, छ्: भूद्वद]
।
अस्य भावं फलं किञ्च पञ्चधाप्येकधा च किम्
श्रीशिव उवाच -
तत्त्वैकं परमेशानि पञ्च तस्यापि [ज्: तत्त्वस्य] कारणम् ।
कार्यं नानामतं यस्य नानारूपं हि कारणम्
कारणञ्च भवेत् कार्यं कार्यं हि कारणं यथा ।
अस्त्रस्य कारणं लौहं लौहस्यास्त्रं हि कारणम्
पिपासा कारणं वारि वारिणः स्यात् पिपासकम् ।
कार्यभेदे कारणस्य देवि भेदं हि कल्पनम्
प्. ८६)
एकत्र पञ्चतत्त्वानि यत्रैव मिलनं [ज्: विमलं] भवेत् ।
तत्रैवाहं प्रगच्छामि ते नराः मत्समाः सदा [च्, ज्:
मत्स्यमांससदाः]
ये नराः साधुभावाश्च तत्त्वज्ञानपरायणाः ।
जीवन्मुक्ताश्च ते देवि ब्राह्मणाश्च न चान्यथा
यथा तोयं तोयमध्ये लीयते परमेश्वरि ।
तथैव तत्त्वसेवायां लीयते परमात्मनि
इति ते कथितं कान्ते तत्त्वज्ञानं विमोक्षदम् ।
येन विज्ञानमात्रेण मोक्षसिद्धिर्न संशयः
क्षितिं विना यथा नास्ति स्थितिरेव महेश्वरि ।
तोयं विना यथा नास्ति पिपासानाशकारणम्
तमोहन्ता यथा नास्ति भास्करेण विना प्रिये ।
विना वह्निप्रयोगेण यथा किञ्चिन्न पच्यते
विना चन्द्रेण देवेशि सुधावृष्टिर्न जायते ।
महोद्गर्भं विना कान्ते चोत्पत्तिर्नैव जायते ।
तत्त्वज्ञानं विना देवि तथा मुक्तिर्न जायते
इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे द्वाविंशत्युल्लासः
त्रयोविंशोल्लासः ।
कुलार्णवे श्रीमहादेव्युवाच -
देवेश प्राणनाथेश नमामि चरणाम्बुजे ।
अधुना श्रोतुमिच्छामि तत्त्वाद्यं लक्षणं महत्
प्. ८७)
अथाद्यतत्त्व लक्षणम् ।
श्रीमहादेव उवाच -
तत्वाद्यं परमेशानि सर्वतत्त्वस्य बीजकम् [ज्: कारणं] ।
बीजं विनान्यतत्त्वं यत् दिङ्मूढस्यापि पूर्ववत्
अत एव सुराः सर्वे हेतुञ्चामृतकल्पिताः [ज्: कल्पितम्] ।
अमृतं भोगमापन्ने मृतभावं विमुह्यिताः [ज्: विमुह्यति]
स्वर्गे यदमृतं प्रोक्तं तदेव लौकिकी सुरा ।
सुराञ्च [ज्: सुरायाः] भोगमापन्ने सुरत्वञ्च भविष्यति
अत एव द्विजाः सर्वे मद्योसक्ता युगे युगे ।
मद्यबीजं महेशानि वृक्षानन्दं [घ्, ज्: ब्रह्मानन्दं]
प्रकल्पयेत्
नृत्यगीतात्मिका शाखा वाक्यमात्रं दलं शिवे ।
महाशक्तिः पुष्परूपा मैथुनं फलरूपकम्
शुक्रपातं महाबीजं सृष्टिमात्रं हि कारणम् ।
वृक्षस्वरूपं तद्द्रव्यं [घ्, ज्: तद्रूपं] शक्तियुक्तं भवेद्
यदि
मातृकाभेद तन्त्रे -
ब्राह्मणस्य महामोक्षं मद्यपानेन शैलजे ।
ब्राह्मणः परमेशानि यदि पानादिकञ्चरेत् ।
तत्क्षणात् शिवरूपोऽसौ सत्यं सत्यं प्रियम्बदे
मद्यपानं विना देवि तत्त्वज्ञानं न लभ्यते [छ्, ज्: तज्ज्ञानं
न हि लभ्यते] ।
अत एव हि विप्रश्च सुरापानं सदाचरेत् [घ्, ज्: समाचरेत्]
वेदमाताजपेनैव ब्राह्मणो नहि शैलजे ।
ब्रह्मज्ञानं यदा देवि तदा ब्राह्मण उच्यते
प्. ८८)
तोये तोयं यथालीनं तैजसे तैजसं यथा [ज्: यथा तेजसि तैजसम्] ।
भग्ने घटे यथाकाशं महाकाशे [क्, घ्: यथाकाशे] प्रलीयते ।
तथैव सद्यभुग् विप्रो लीयते परमात्मनि
कुलार्णवे श्रीमहादेव्युवाच -
देवेश परमेशान ज्ञानाज्ञान प्रदायक ।
वेदस्य वर्जितं मद्यं कथमुक्तं सदाशिव
श्रीमहादेव उवाच -
सुरापानान्महापापं वेदादिषु निरूपणम् [ज्: निरूपितं] ।
अत एव क्रियाशक्तैर्मद्यं त्याज्यं युगे युगे
आवयोः पिशितं मांसं मद्यञ्चैव महेश्वरि ।
वर्णाश्रमोचितं धर्मं न विचार्य पिवन्ति ये ।
भूताः प्रेताः पिशाचाश्च ते नरा ब्रह्मराक्षसाः
मद्यपाने महादोषं वेदादिषु निरूपणम् ।
तथापि मुक्तिभाग्विप्रो मद्यपानं [ज्: मद्यपानात्] युगे युगे
न देयं हि न पेयं हि सत्यं सत्यं युगे युगे ।
तथापि ब्राह्मणाः सर्वे मद्यपानेषु लालिताः
अथाद्यतत्त्वस्यदोषोद्धारः ।
ज्ञानार्णवे श्रीशिव उवाच -
वृथापानं यः कुरुते सुरापानं तदुच्यते ।
स महापातकी चैव वेदादिषु निरूपणम्
अत एव हि विप्रेन्द्रो वृथापानं नचाचरेत् ।
वृथापाने महापापं सर्वशास्त्रस्य सम्मतः
प्. ८९)
ज्ञानस्य कारणं मद्यं मद्यं ज्ञानस्य नाशकम् ।
वायुना ज्वलितोऽग्निश्च वायुना लयवान् यथां
देवतार्थे पिवेन्मद्यं स्वानन्दार्थे पिवेद् यदि ।
तत्पानं कारणं पानं तदन्यद् विषभक्षणम्
येनैव विषखण्डेन म्रियन्ते सर्वजन्तवः ।
तेनैव विषखण्डेन विषं नाशयते भिषक्
ज्ञानस्य कारणं मस्यं ज्ञानं मुक्तेश्च कारणम् ।
मुक्त्याकांक्षी पिवेन्मद्यं तदन्यः पातकी भवेत्
हंसमाहेश्वरे -
गङ्गातु कारणं वारि मद्यं परम कारणम् ।
शोधितञ्चेदशुद्धञ्चेत् स्वर्गं नरकदायकम्
जन्मादौ परमेशानि बहुपुण्यार्ज्जितेन च ।
मुक्त्यर्थे कारणं पानं ज्ञानार्थेऽपि महेश्वरि
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे त्रयोविंशत्युल्लासः
चतुर्विंशोल्लासः ।
कालिकाकल्पे -
श्रीचक्रं रमणीयुक्तं हेतुना तत् प्रकाशितम् ।
हेतोरभावे श्रीचक्रं पूर्णानन्दं नचेत् क्वचित्
रमणीरहितं चक्रं श्रीचक्रं रमणीयुतम् ।
अन्यद्द्रव्यं हि श्रीचक्रे शक्तिवाक्यानुसारतः
प्. ९०)
तन्त्रान्तरे -
श्रीचक्रं स्वगृहं ज्ञात्वा [क्, ग्, च्: कृत्वा] स्वयं चक्रेश्वरो
भवेत् ।
चक्रेश्वरीं स्त्रियं कृत्वा कार्यकर्माणि चाचरेत्
एतज्ज्ञानप्रभावेण किं न सिध्यति पार्वति [ज्: भूतले] ।
तद्गृहात् कारणेनापि पूजयेत् परमेश्वरीम् ।
एतद्भिन्नन्तु तद्धेतुं [ज्: यद्धेतुं] शुद्धिं कृत्वा तु पूजयेत्
अथ द्रव्यभेदकथनम् ।
समयाचारतन्त्रे -
द्रव्यञ्च [घ्: मद्यञ्च] त्रिविधं प्रोक्तं मांसञ्च त्रिविधं
शिवे ।
उत्तमं मध्यमं ज्ञेयं चाधमं परिकीर्तितम्
स्वमन्दिरोद्भवं द्रव्यं चोत्तमं खलु पार्वति ।
शण्डिकागारसम्भूतं मध्यमं परिकीर्तितम् ।
अन्यजात्युद्भवं द्रव्यं [घ्: अन्यजातिसमुद्भूतं] चाधमं
परिकीर्तितम्
श्रीदेव्युवाच -
आनन्दार्थे पिवेन्मद्यं आनन्दं मुक्तिदायकम् ।
तस्योत्तमञ्चाधमञ्च मध्यमं केन तद्वद
श्रीशिव उवाच -
कालस्य दोषो नास्त्येव क्रियामुक्ते न दोषभाक् ।
तथा दोषो नास्ति हेतोः करणीयस्य दोषजम्
शुक्राधारं योनि - रन्ध्रं पुरुषस्य सुखोदितम् ।
शुक्रपाते यथा दोषं कारणस्य तथा शिवे
प्. ९१)
शाक्तस्य कारणं पाने नासि दोषो महेश्वरि ।
साधकस्य क्रियाभेदात्तावुभौ दोषभागिनौ
सर्वानन्दप्रदं तोयं समानं परमेश्वरि ।
तथापि रोगिणो देहे तज्जलं दुःखदायकम्
तथा मद्यं दुःखदेयमज्ञानस्यापि देहिनः ।
सालोक्यञ्चैव सारूप्यं सायुज्यञ्च महेश्वरि [छ्, ज्: सायुज्यं
परमेश्वरि]
अधमान्मध्यमाद् देवि चोत्तमं सेवनात् फलम् ।
मद्येषु शक्तौ दोषोऽस्ति केवलाज्ञानिनो वचः
अतश्च ज्ञानिनः सर्वे पिवेयुः स्वेच्छया मधु ।
अज्ञानस्य क्रियामूलं क्रियायाः शुद्धमूलकं
शोधितं रमणीमद्यं त्रिवर्गफलदायकम् ।
स्वेच्छयापि पिवेन्मद्यं ज्ञानी च मुक्तिभाग् भवेत् ।
तत्रापि शक्तिसंयुक्तं मद्यं कैवल्यदायकम्
तारातन्त्रे -
शक्तिभाग् मैथुनासक्तो ज्ञानभाग् मुक्तिकांक्षिकः ।
ज्ञानभाक् कारणासक्तस्तस्मान्मद्यं पिवेन्मुदा
अशोधितौ योनि मद्यौ महापापकराबुभौ ।
शोधितौ चेत् योनिमद्व्यौ सर्वपापप्रणाशकौ
मद्यञ्च कारणं योनेर्योनिर्मद्यस्य कारणम् ।
चित्तशुद्धे [घ्: शुद्धे शुद्धं महादेवि
शुद्धाभावेऽप्युशुद्धकम्] सर्वशुद्धं
शुद्धाभावेऽप्यशुद्धकम्
अशोधितं पिवेन्मद्यं रमणञ्चाप्यशिधितम् ।
पानेऽपि नरकं याति रमणं मरणं भवेत्
प्. ९२)
त्रिपुरासारे शक्तिशुद्धिः ।
आदौ कुर्यात् शक्तिशुद्धिं कारणञ्च ततः परम् ।
शक्तिं विना महेशानि कारणं मरणं समम् ।
शक्तिज्ञानं कारणेन ततः शक्तिञ्च शोधयेत्
कुलचूडामणौ -
आदौ कुर्यात् शक्तिशुद्धिं कारणं तदनन्तरम् [ज्: कारणञ्च
ततः परम्] ।
शक्त्यै दत्वा पिवेन्मद्यं शुद्धिं कुर्यात् क्रमेण च
शक्तिशुद्धिञ्चरेदादौ पशुसाधकसाधिका ।
शोधयितापि तां शक्तिं श्रीचक्रेषु प्रवेशयेत्
अथ पशुशक्तिलक्षणम् ।
कुलचूडामणौ श्रीदेव्युवाच -
देवेश प्राणनाथेश सर्वभूते सनातन ।
पशुशक्तिञ्च कां प्रोक्तां मम स्थाने प्रकाशय
श्रीमहादेव उवाच -
पुष्पहीना पशोः शक्तिर्वीरस्य पुष्पसंयुता ।
प्रथमे पुष्पिता नारी उभयोः पूजिता परा
प्रथमे पुष्पितां नारीं येन भावेन पूजयेत् ।
तद्भवे भाविता शक्तिः साधकः सिद्धिहेतवे [घ्: साधकस्य च
सिद्धये]
रमणार्थे कृता शक्ती रमणं वीरलक्षणम् ।
अत एव महादेवि सपुष्पा वीरपूजिता
अपुष्पायाः पशोः पूज्या पूज्या वीरस्य [ज्: वीरपूज्या तु] पुष्पिता
।
पुष्पितापि पशोः पूज्या पशुञ्चेद् वाञ्छिता यदि
प्. ९३)
पूजने शुद्धिता [ज्: शोधिता] शक्तिः सर्वाचारस्य [ग्:
सर्वशास्त्रस्य] सम्मतम् ।
शक्तिरूपा महाशक्तौ रमणार्थे गृहे स्थिता
यदर्चनेन सन्तुष्टा शुद्धिता [ज्: शोधिता] कामिनी तदा ।
मद्यं शक्तिमशुद्धञ्चेत् शुद्धं कुर्यात्तदर्चने [क्, ग्, च्, छ्:
कुर्यार्चने शिवे]
अथ पशुवीरयोः शक्तिशुद्धिः ।
अशोधितां शक्तियन्त्रं कदाचिन्नैव लङ्घयेत् ।
शोधितां योनिमाश्रित्य रमेद् वीरस्तदन्ततः
पशूनां रमणीशुद्धिं पञ्चगव्येन कारयेत् ।
वीराणां पञ्चतत्त्वेन रेतसा केवलेन वा
निर्वाणतन्त्रे -
रेतः पवित्रं परमं शक्तेर्मोक्षस्य कारणम् ।
पूजाहीना च या नारी जपहीना च या पुनः
धृत्वा साधकरेतश्च सा नारी कालिका स्वयम् ।
भ्रान्तिस्तत्र न कर्तव्या यदि मुक्तिञ्च कांक्षतिः
या नारी भक्तिसंयुक्ता सा गा कालिका तनौ ।
साधकञ्च शिवं कृत्वा [घ्: साधकस्य शिवं ज्ञात्वा]
वीपरीतेन तोषणात्
निगमानन्दे -
दिनत्रयं परित्यज्य दिने षोडश मध्यके ।
पञ्चगव्येन संशुद्धिं रमणञ्चाचरेत् ततः
पुष्पं दृष्ट्वा यदा देव तदा तत्त्वेन पूजयेत् ।
शुक्राक्तरूधिरेणैव पूजयेदिष्टदेवताम्
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे चतुर्विंशत्युल्लासः
पञ्चविंशोल्लासः
अथाशुद्धमद्यस्य दोषकथनम् ।
गौतमीये -
अशोधितं हि यन्द्यं महापापकरं परम् ।
शोधितं तत्परं मद्यं पापनाशकरं परम्
अविधानेन यत्पानं पशुपानमुदीरितम् ।
तत्पानं परमेशानि केवलं दुःखदायकम्
कुलार्णवे श्रीदेव्युवाच -
मद्यपाने विधानं किं कथय प्राणवल्लभ ।
श्रीशिव उवाच -
तव स्नेहेन वद्धोऽहं विधानं कथयाम्यहम् ।
शुद्धं कृत्वा पिवेन्मद्यं देवताप्रीतिपूर्वकम्
अथ मद्यशुद्धिः ।
कालिकाकुलसर्वस्वे -
उपविश्यासने शुद्धे [ज्: मन्त्री] प्राङ्मुखो वाप्युदङ्मुखः ।
सन्मुखे वामभागे वा मण्डलं चतुरस्रकम्
तत्र संस्थापयेत् कुम्भं देवताप्रीतिपूर्वकम् ।
स्वकीयवामभागे तु षट्कोणं विन्दुमध्यगम्
चतुरस्रं लिखेद् भूमौ गन्धपुष्पेण पूजयेत् ।
आधारशक्तिं मायाद्यं ङेयुतं परमेश्वरि [घ्, ज्: ङेयुतञ्च
नमोऽन्तकम्]
प्. ९५)
मन्त्रस्तु ।
ह्रीं आधारशक्तये नमः ।
तत्र कुम्भं हि संस्थाप्य पूजयेन्मनुना शिवे ।
प्रणवं वह्निबीजञ्च ङेयुतं वह्निमण्डलम् ।
दशकलेतिपदं दत्त्वा [छ्: कृत्वा] तदन्ते चात्मने नमः
मन्त्रस्तु ।
ओं रं [घ्, ज्: मं] वह्निमण्डलाय दशकलात्मने नमः ।
तत्राधारे स्थितं कुम्भं भूषयेद्रक्तवस्त्रकैः ।
कलसे पूजयेद्वीरः सकलं सूर्यमण्डलम्
प्रणवं पूर्वमुच्चार्य अं सूर्यमण्डलाय च ।
द्वादशेति पदं दत्त्वा नमोऽन्तेऽपि कलात्मने
मन्त्रस्तु ।
ओं अं सूर्यमण्डलाय द्वादशकलात्मने नमः ।
ततस्तु कारणं दिव्यं घटेऽपि स्थापयेत्ततः
वेष्टितं रक्तवस्त्रेण रक्तपुष्पेण भूषितम् ।
मण्डले कलसे द्रव्ये वह्न्यर्कसोममण्डलम् ।
विभाव्य मनसा मन्त्री पूजयेद्बहुयत्नतः
अथ कलसप्रमाणम् ।
तोडले -
योन्याकारं मुखं भद्रे वर्तुलं वा मनोहरम् ।
खण्डितं स्फुटितं भग्नं कृष्णवर्णं परित्यजेत्
प्. ९६)
नाति ह्रस्वं नाति दीर्घं सौवर्णं राजतं प्रिये [घ्:
रजतोद्भवं] ।
ताम्रं वा भूमयं वापि केवलं लौहवर्जितम्
मद्येन पूरयेत् कुम्भं मूलमन्त्रं समुच्चरन् ।
तत्र मध्ये यजेद् वीरः सकलं सोममण्डलम्
प्रणवं पूर्वमुच्चार्य उं सोममण्डलाय च ।
षोडशेति पदं दत्त्वा नमोऽन्तेऽपि कलात्मने
मन्त्रस्तु ।
ओं उं सोममण्डलाय षोडशकलात्मने नमः ।
दर्भैः संताड्य तद्द्रव्यं हुङ्कारेणावगुण्ठितम् ।
प्रदर्शेयेद्धेनुमुद्रां वं वर्णेन च साधकः
नमो गन्धं समादाय ओंकारेण प्रदापयेत् ।
ह्सौः ह्क्षौ। नमो ज्ञात्वा ह्सौः संलिख्य कारणे
अकथादिक्रमेणैव त्रिरेखां परिकल्पयेत् ।
हलक्षञ्च लिखेत् कोणे ह्सौः ह्क्षौ। तस्य [ज्: च] मध्यगे
अथ ह्सौः मन्त्रलक्षणम् ।
नारायणीतन्त्रे श्रीदेव्युवाच -
व्यञ्जनं पुरुषं देव स्वरञ्च शक्तिमीरितम् ।
एक - शक्तौ महादेव द्विलिङ्गं केन संयुतम्
श्रीमहादेव उवाच -
एकलिङ्गं महासूक्ष्मं ह-कारं मन्त्रमध्यगम् ।
स-कारं स्थूललिङ्गश्च हकारस्यापि मध्यगम्
चतुर्दश-स्वरेणापि द्विदेहमेकदेहकम् ।
स्वरेण षोडशेनापि कला षोडश वर्द्धिता
प्. ९७)
क्षयपूर्णं परित्यज्य [क्, ग्, च्: परित्यज्यं] चतुर्दश विभूषितम् ।
ह्सौः मन्त्रमिदं प्रोक्तं विसर्गः कर्मभाषितः
नादस्यार्द्धं [घ्, ज्: नादरूपं] हकारार्द्धं यन्त्रस्थानं
प्रकाशितम् ।
तत्र मध्ये महालिङ्गं हकारस्यापि शेषकम्
तस्याधः शक्तिसंयुक्तं सकारं पुंस्त्वबोधकम् [ज्:
पूर्णबोधकम्] ।
चतुर्दश स्वरं ज्ञेयमुभयोः करापादकम्
त्रयोदश करं ज्ञेयं चतुर्दश पदं शिवे ।
विसर्गः परमेशानि कामात्मानं विचिन्तयेत्
हकारेण सकाराक्तं सकारेण हकारकम् ।
अनयोः सूक्ष्मता यत्र प्रणवोऽभूच्चतुर्दशः
विन्द्वर्द्धं बिन्दुमेकञ्च विन्द्वर्द्धञ्च कला परा ।
त्रिवर्गस्य द्वितीयार्णं कलानादेन भाषितम् ।
तत्रमध्ये महाशून्यं प्रणवंवेदभाषितम्
निगमानन्दे श्रीशिव उवाच -
त्वं देवि परमा नित्या भोगमोक्षप्रदायिका [घ्: प्रदायिनी] ।
अधुना श्रोतुमिच्छामि ह्क्षौ। मन्त्रस्य लक्षणम्
श्रीदेव्युवाच -
ह-कारं शिवबीजं हि षकारं रजसात्मकम् ।
क-कारेण षकारं हि क्ष-कारं कामलालितम् [घ्, ज्:
कमलान्वितम्] ।
चतुर्दश-स्वरोपेतं ह्क्षौ। मन्त्रं प्रकीर्तितम् ।
शिवशक्तिमयं मन्त्रं रजोभावेन भाषितम् ।
षकारं रजोभावेन ह-कारं रजोभाषितम्
प्. ९८)
त्रिः श-कारं शक्तिरूपं गुणत्रयविभूषितम् ।
सत्त्वं रजस्तमो ज्ञेयमेकशक्तेस्त्रिधा परा [ज्: स्त्रिकारणम्]
कुलार्णवे -
त्रिकोणं तद्वहिर्न्यस्य मन्त्रद्वौ दशधा [छ्, ज्: मन्त्रं
द्वादशधा] जपेत् ।
मन्त्रस्तु ।
ह्रीं क्लीं परमस्वामिनि परमाकाशशून्यवाहिनि
चन्द्रसूर्याग्निभक्षिणि पात्रं विश स्वाहा ।
ऐ। ह्रीं श्रीं आनन्देश्वराय विद्महे सुधादेव्यै-
धीमहि तन्नोर्द्ध-नारीश्वरः प्रचोदयात् ।
ततः शापमोचनं कुर्यात् ।
ओं एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् ।
कचोद्भवां ब्रह्महत्यां तेन तेनाशयाम्यहम्
ओं सूर्यमण्डलसम्भूते वरुणालयसम्भवे ।
अमावीजमये देवि शुक्रशापाद्विमुच्यताम्
ओं वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि ।
तेन सत्येन ते देवि ब्रह्महत्यां व्यपोहतु
मन्त्रत्रयं घटं धृत्वा पठित्वापि त्रिवारकम् ।
कृष्णशापं शुक्रशापं ब्रह्मशापं विमोचयेत्
श्रीदेव्युवाच -
सुरापानेन देवेश देवत्वं हि भविष्यति ।
ततश्च बीजं मद्यं हि तत्र शापं कथं वद
प्. ९९)
श्रीमहादेव उवाच -
गौतमीये -
अमृतं शक्तिसंयुक्तं शक्तिहीनं हि मादकम् ।
शक्तिहीने मद्यपाने शुक्रो ब्रह्मा जनार्दनः
गुणं द्रव्यस्य संभ्राम्य शापं दद्यात् सनातनि ।
ततश्च परमेशानि शापं त्यज्य पिवेन्मधु
प्रत्येकं दशधा मन्त्रं कारणेऽपि जपेत्ततः ।
शापादिमोचनं द्रव्यं देवानामपि दुर्लभम्
अथ शापमोचनम् ।
ब्रह्मशापं शुक्रशापं कृष्णशापं महेश्वरि ।
मोचनार्थे त्रिधा मन्त्रं दशधा कारणे जपेत्
मन्त्रस्तु ।
ओं वां वीं वूं वैं वौं वः ब्रह्मशापविमोचितायै
सुधादेव्यै नमः ।
इति ब्रह्मशापमोचनम् ।
ओं शां शीं शूं शैं शौं शः शुक्रशापविमोचितायै
सुधादेव्यै नमः । इति शुक्रशापमोचनम् ।
ओं ह्री। ऐ। ह्री। श्रीं क्रां क्रीं क्रूं क्रैं क्रौं क्रः सुधे
कृष्णशापं मोचय, अमृतं श्रावय श्रावय स्वाहा । [छ्, ज्:
क्ला। क्ली। क्लू। क्ल। क्लौ। क्लः इति च पाठः] इति कृष्णशापमोचनम् ।
प्. १००)
वीर तन्त्रे -
आनन्दभैरवं ध्यात्वा तथैवानन्दभैरवीम् [घ्:
तथानन्दाख्यभैरवीं] ।
द्रव्यमध्ये गन्धपिष्पैर्यजेद् वीरस्त्रिवारकम्
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे पञ्चविंशत्युल्लासः
षड्विंशोल्लासः ।
वीरतन्त्रे तथैवानन्दभैरवी - ।
ध्यानं मे परमानन्दं कथय प्राणवल्लभ
श्रीशिव उवाच -
अथानन्दभैरवध्यानम् ।
सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ।
अष्टादशभुजं देवं पञ्चवक्त्रं त्रिलोचनम्
अमृतार्णवमध्यस्थं ब्रह्मपद्मोपरिस्थितम् ।
वृषारुढं नीलकण्ठं सर्वाभरणभूषितम्
कपालखट्वाङ्गधरं घण्टाडमरुवादिनम् ।
पाशाङ्कुशधरं देवं गदामुसलधारिणम्
खड्गखेटकपट्टिशमुद्गरं शूलदण्डकम् ।
विभ्रतं तोमरं मुण्डं वरदाभयपाणिकम्
प्. १०१)
लोहितं देवदेवेशं भावयेत् साधकोत्तमः ।
इति ध्यात्वा द्रव्यमध्ये यजेदानन्दभैरवम्
मन्त्रस्तु ।
ओं ह स क्ष म ल व र यूं आनन्दभैरवाय वषट् ।
त्रिवारं पूजयेदादौ भैरवं भैरवीं ततः ।
भैरवी मद्यसंरुपा भैरवानन्दरुपकः
अथानन्दभैरवीध्यानम् ।
भावयेच्च सुरां देवीम् [छ्, ज्: सुधादेवीं]
चन्द्रकोट्ययुतप्रभाम् [छ्, ज्: चन्द्रकोटिसमप्रभां] ।
हिममुन्देन्दुधवलां पञ्चवक्त्रां त्रिलोचनाम्
अष्टादशभुजैर्युक्तां सर्वानन्दकरोद्यताम् ।
ग्रहसन्तीं विशालाक्षीं देवदेवस्य सम्मुखीम्
इति ध्यात्वा त्रिवारं पूजयेत् ।
मन्त्रस्तु ।
ओं ह स क्ष म ल व र यीं सुधादेव्यै [छ्: आनन्दभैरव्यै] वौषट्
।
त्रिवारं पूजयेद्देवीं गुणत्रयविभेदतः
भावचूडामणौ -
अथवान्यप्रकारेण द्रव्यशुद्धिं वदाम्यहम् ।
निगमकल्पद्रुमे श्रीशिव उवाच -
द्रव्यशुद्धिं बहुविधं नानाभावस्य सम्मतम् ।
जन्मान्तर शतेनापि ज्ञापितुं नैव शक्यते ।
तेषां मध्ये साधकोऽपि केन वा साधनञ्चरेत्
प्. १०२)
अथ सक्षेपशोधनम् ।
श्रीदेव्युवाच -
द्रव्यमध्ये मातृकार्णं सविन्दु सुखमोक्षदम् ।
प्रतिवर्णं विन्दुयुक्तं बिन्दुनाद विभूषितम्
वामावर्तेऽपि [ग्: वामावर्तेन] तद्वर्णं त्रिकोणेषु महेश्वर ।
विलिखेत् त्रिकोणाकारमकथादि [ज्: त्रिकोणरुपम्] क्रमेण तु
वामावर्ते लिखेद्वर्णं पञ्चाशन्मणिमण्डलम् ।
ह ल क्षं तत्त्रिकोणेषु ब्रह्म विष्णु शिवात्मकम्
श्रीशिव उवाच -
कस्मिन् कोणे वसेद् ब्रह्मा कस्मिन् कोणे जनार्दनः ।
कस्मिन् कोणे वसेत् शम्भुः कथय प्राणवल्लभे
श्रीदेव्युवाच -
आदिकोणेऽप्यधोभागे ब्रह्मा च सृष्टिरुपकः [छ्: -कारकः] ।
मध्यकोणे वसेद्विष्णुः पालकोऽपि निरञ्जनः ।
अन्त्यकोणे महादेवः प्रकृत्याप्येकदेहकः
अथान्यप्रकारद्रव्यशुद्धिः ।
विन्दुरुपः शिवो ज्ञेयो नादरुपाच चण्डिका ।
नादबिन्दुमयं पीठं द्रव्यमध्ये लिखेद्बुधः
त्रिनादञ्च त्रिशक्त्याक्तं त्रिविन्दु त्रिदेवं परम् [घ्: त्रिदेव-प्रिय; ज्:
त्रिशिवं प्रिये] ।
लिखित्वा चिन्तयेद्द्रव्यं मृतभाव-विवर्जितम्
अथान्यप्रकारमाह -
गुरोः प्रकाशं यन्मन्त्रं नित्यं जपति साधकः ।
तेनैव मनुना देव द्रव्यं सप्ताभिमन्त्रितम् ।
सप्तवारजपेनैव द्रव्यशुद्धिस्तु तत्क्षणात्
इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे षड्विंशत्युल्लासः
सप्तविंशोल्लासः ।
अथ मांसलक्षणम् ।
कुलरहस्ये -
ऐश्वर्यदायकं मद्यं मैथुनं मुक्तिदायकम् ।
उभयोः कारणं ज्ञेयं गुणत्रयमहत् [ज्: -मयं] परम्
मांसं मत्स्यं हि मुद्राञ्च त्रिगुणं परिकीर्तितम् ।
कारणस्य कारणं हि रमणस्य महत् सुखम् [घ्: गुणत्रयमहत्
सुखम्]
मांसञ्च त्रिविधं प्रोक्तं जलभूचरखेचरम् ।
कपोतकस्य छागस्य कूर्मस्य परमेश्वरि
त्रिविधान्येव मांसानि वियद्भूजलचराणि च ।
आनीय तानि यत्नेन देव्याः सन्तुष्टहेतवे
प्. १०४)
यामले -
त्रिविधान्येव मांसानि वियद्भूजलचराणि च ।
आनीय तानि यत्नेन देव्यै चोद्दिश्य घातयेत्
देव्युदेशे घातनाच्च नास्ति पातकमम्बिके [ज्: पातकं नास्ति
सुन्दरि] ।
अन्यथा घातनाद्देवि रौरवं नरकं व्रजेत्
कुलार्णवे -
आत्मार्थे प्राणिनां हिंसा कदाचिन्नोदिता प्रिये ।
पितृदैवतयज्ञेषु प्राणिहिंसा विधीयते
अविधानेन यो हन्यात् प्राणिनं [ग्, च्: प्राणिनां] परमेश्वरि ।
विषमे दुर्गमे घोरे एतत्येव न संशयः
अनिमित्तं तृणं [क्, ग्, छ्: एणं] वापि छेदयेन्न कदाचन ।
देवतार्थे द्विजार्थे वा हत्वा पापैर्न लिप्यते
ज्ञानद्वीपे -
तृणंमप्यविधानेन छेदयेन्न कदाचन ।
देवतार्थे द्विजार्थे वा हत्वा पापैर्नलिप्यते
विधिनापि द्विजं गाम्बा हत्वा पापैर्न लिप्यते ।
तथापि परमेशानि ज्ञानिनां न शुभप्रदम् ।
पञ्चतत्त्वस्य माहात्म्यं फलञ्च पञ्चधा यतः
अथ मांसशुद्धिः ।
मण्डले स्थापितं मांसं किञ्चिद्द्रव्यं प्रविक्षिपेत् ।
त्रिवारं पठनात् मन्त्रं मांसशुद्धिस्तु तत्क्षणात्
प्. १०५)
मन्त्रस्तु ।
ओं प्रतद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा
इति मन्त्रं महेशानि मांसोपरि त्रिधा पठेत् [घ्: जपेत्] ।
मद्ययुक्तं मांसखण्डं शक्तिवक्त्रे प्रदापयेत् [घ्: निवेदयेत्]
अथ मत्स्यलक्षणम् ।
कुलतत्वसारे -
इल्लिशं कबजीं शालं वाचां शकुनप्रोष्ठिकाम् ।
सद्गुरञ्चैव वोदालं रोहितं चोत्तमं प्रिये
अन्यानि यानि मत्स्यानि स्त्रीणां प्रियकराणि च ।
शोधितं चेत् प्रदातव्यं शक्तिवक्त्रे महेश्वरि
मत्स्यं मांसं प्रदातव्यं भर्जितं हि विशेषकम् ।
तस्मात् प्रशस्तकं ज्ञेयं दग्धं हि वरवर्णिनि
तन्त्रान्तरे -
मांसं मत्स्यं शोधितव्यं स्त्रीणां प्रियकरं यदि [ज: परम्]
।
शक्तिवक्त्रे प्रदातव्यं कारणेन समन्वितम्
अथ मीनशुद्धिः ।
ओं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।
उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात्
मण्डले स्थापयेन्मीनं प्रक्षिपेत् कारणैः [ज्: कारणे] प्रिये ।
त्रिवारं पठनान्मन्त्रं मीनशुद्धिस्तु तत्क्षणात्
प्. १०६)
अथ मुद्रालक्षणम् ।
ब्रीहिणं भर्जितं [छ्: भुञ्जितं] प्रोक्तं शर्कराद्यैः
सुवासितम् ।
योनिपद्मकदम्बेति लक्षणं परिकीर्तितम्
अन्यानि द्रव्याणि भर्जिततानि [छ्: भुञ्जितानि] महेश्वरि ।
इति मुद्रा शोधितं चेत् देव्याः प्रीतिकरा परा
धान्यं भ्रष्टं वह्नियोगैश्चर्वणीयं महेश्वरि ।
इति मुद्रा कृता संज्ञा महामोदप्रदायिनी
अथ मुद्राशुद्धिः ।
मण्डले स्थापयेन्मुद्रां प्रक्षिपेत् कारणेन तु ।
मन्त्रद्वयं त्रिधा जप्त्वा मुद्राशुद्धिस्तु तत्क्षणात्
मन्त्रस्तु ।
ओं तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीव
चक्षुरातम्
ओं तद् विप्रासो विपन्य विपन्यवो जागृवांसः समिन्धते, विष्णोर्यत्
परमं पदम्
इति मुद्राशुद्धिः ॥
इति श्रीसर्वानन्दनाथविरचिते सर्व्वोल्लासे सप्तविंशत्युल्लासः
अष्टाविंशोल्लासः ।
कुलार्णवे -
द्रव्यभारसहस्रेण मांसभारशतेन [च्, छ्-शतानि] च ।
विना शक्तिं न सिद्ध्येत तस्मात् शक्तिं समाश्रयेत्
अथ शक्तिलक्षणम् ।
यामले -
स्वशक्तिं पर [घ्, छ्, ज्: वीर] शक्तिं वा दीक्षितां गुरुसन्निधौ ।
तत्र स्थिता देवतात्मा सा शक्तिः सर्वपूजिता
शक्तिमानीय यत्नेन सुशीलां प्रियवादिनीम् ।
गुरीरग्रे स्ववामे वा रक्तवस्त्रेण भूषिताम् ।
ततश्च साधकः श्रेष्ठो मूषयेद्बहुभूषणैः
वृहद् योनितन्त्रे -
आनीय प्रमदां कान्तां सुशीलां चारुहासिनीम् ।
गुरुभक्तिरतां देवि कुलसाधनतत्पराम्
दीक्षितां परकान्तां वा स्वकीयाम्बा महेश्वरि ।
तत्त्वानन्दयुतां शक्तिं परतत्त्वेषु लालिताम् ।
आनीय बहुयत्नेन जातिभेदं न चाचरेत्
विवर्जितघृणालज्जां सर्वदानन्दसंयुताम् ।
अथवा पानसंहृष्टां चक्रमध्ये समानयेत्
कालिकाकल्पे -
स्वेष्टदेवीं यजेत् चक्रे स्वस्त्रियं स्वेष्टभाविनीम् ।
अथवा स्त्रीसमीपे वा यन्त्रं कृत्वा प्रपूजयेत्
प्. १०८)
तन्त्रान्तरे -
स्त्रियः पूजा प्रकर्तव्या ज्ञात्वा स्वेष्टस्वरूपिणीम् ।
तत्समीपे कृतं यन्त्रं तदाज्ञाभावमानतः
ज्ञानार्णवे -
स्त्रीसमीपे यदा [घ्: कृता] पूजा जपश्च परमेश्वरि ।
कामरूपात् शतगुणंः समुदीरितमव्ययम्
शक्तिदोषं न वक्तव्यं यतो देवस्वरूपिणी ।
कुलनिष्ठश्च विप्रश्च तस्याः शुद्धिं न चाचरेत्
स्वशक्तिशोधनं नास्ति चैकात्माप्युभयोर्यतः ।
शोधयेत् परशक्तिञ्च द्वित्वात्मैकत्वहेतवे
साध्यात्मा [घ्: सा साध्या] साधकात्मा चेद् यदैकात्मा
भवेन्मूदा ।
तदा शुद्धिर्न कर्तव्या गङ्गाघनजलं [घ्, ज्:
गङ्गायामनधं] यथा
प्रायश्चित्तं प्रकर्तव्यं गङ्गा यत्र न तिष्ठति ।
शक्तिशुद्धिः प्रकर्तव्या यदैकात्मा न चेत् शिवे
साध्या साधकयोर्देवि यदैकात्मा महेश्वरि ।
आत्मशुद्धे [ज्: आत्मशुद्धिः] शक्तिशुद्धिस्तस्य सिद्धिदूरतः
निगमकल्पे श्रीमहादेव उवाच -
एकाचारी एकभावी एकानन्देषु मोहितः ।
शक्तेर्दोषं तदा कुत्र स्वयं तत्रैव संलयः
अज्ञात्वा कुलतत्त्वञ्च शक्तिशुद्धिं समाचरेत् ।
यस्य ज्ञानस्य मात्रेण पूर्णानन्दो भवेद्ध्रुवम् ।
तस्य शुद्धिः कथं भद्रे मनसा चिन्तनं [ग्: चिन्तय] यदि
प्. १०९)
श्रीदेव्युवाच -
कुलस्य दक्षिणे वामे मध्ये च परमेश्वर ।
जाह्नवी यमुना वाणी [ग्: वारि] सदा भातीति ज्ञानतः
एतैर्विशिष्टा शक्तिः स्यात् शरीरं देवतामयम् ।
साशुद्धिश्चेद् भवेद्देव तदाशुद्धिश्च देवता
अज्ञानिनां सदा शुद्धिर्मन्त्रादिना महेश्वर ।
मनसा चेत् न शुद्धिः स्यान्मन्त्रशुद्धिः सुदूरतः
कालीतन्त्रे -
अदीक्षिता च या शक्तिश्चक्रमध्ये प्रपूजयेत् ।
पूर्णचक्रं नचेत् तत्र पूर्णानन्दं नचेद् यतः
तस्मात् सुलक्षणां शक्तिं दीक्षिताञ्च प्रपूजयेत् ।
प्रणम्य देवतावुद्ध्या भोगपात्रं प्रदापयेत्
भोगपात्रं न दातव्यं विधवायै महेश्वरि ।
उच्चस्तनीं कामरतां विधवाञ्च प्रपूजयेत्
यो दद्याद् विधवाहस्ते भोगपात्रं महेश्वरि ।
तस्या योनिं लङ्घयित्वा तत्त्वं देव्यै निवेदयेत्
शङ्कया परमेशानि लज्जया नाचरेत् क्रियाम् ।
उभौ च दुःखौ परमे पशुपाशनियन्त्रितौ
विधवायोनिरमणं कारयेच्च तदाज्ञया ।
शुक्रपातं प्रकर्तव्यं तस्या वाक्यानुसारतः
यावन्न शुक्रपातं हि विधवायोनिमण्डले ।
तावच्च रमणं कुर्यात् पतनान्ते परित्यजेत्
प्. ११०)
शुक्रपाते यदा शक्तेराज्ञा नैव प्रजायते ।
निवेद्य कारणाक्तं हि भक्षयेन्मनुना शिवे
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे अष्टाविंशत्युल्लासः
ऊनत्रिंशोल्लासः ।
श्रीदेव्युवाच -
शक्तिं ब्रह्ममयीं साध्वीं निस्पृहां भक्तवत्सलाम् [छ्, ज्:
भक्तिवत्सलां] ।
तस्या दीक्षा कथं प्रोक्ता विधवा वा कथं वद
श्रीशिव उवाच -
आनन्दरहिता शक्तिर्विधा चाप्यदीक्षिता ।
आनन्देन भवेत् पूज्या सानन्दा वीरवन्दिता
तत्र कृत्वा महाचक्रं करेण [घ्: कारणे] मार्जयेद्वपुः ।
दीक्षिता सधवा ज्ञेया यद्यानन्दसमाश्रिता
वीरभावयुता शक्तिः शिवपत्नी महेश्वरि ।
वीरभावयुतः शाक्तः शिव एव न संशयः ।
शिवोऽहमिति संज्ञात्वा श्रीचक्रेषु रमेत् शिवाम्
भावचूडामणौ -
आत्मानन्दे महादेवि सर्वानन्दमयं जतत् ।
आत्मशुद्धे जगत् शुद्धमशुद्धे चाप्यशुद्धकम्
प्. १११)
नारायणीतन्त्रे -
शक्तिशुद्धिर्न कर्तव्या यतो ब्रह्म [क्, ख्, ग्, च्: देव; ज्: देवी]
स्वरूपिणी ।
आत्माऽशुद्धेऽप्यशुद्धा सा स्फाटिके रञ्जनं यथा
तथापि शुद्धं कर्तव्यं पशुपाशनियन्त्रितः ।
शक्तेर्दोषं महादेवि गृह्णाति नैव साधकः
तव रूपापि शक्तिः स्यात् यतो मुक्तिप्रदायिका ।
भोगमुक्तान्वितः शाक्तः [घ्, ज्: भोगमुक्तान्विता शक्तिः]
शक्तेर्दोषं न चाचरेत्
श्रीकालीतन्त्रे - [घ्, ज्: पुस्तकयोर्दृश्यते]
स्त्रीद्वेषो नैव कर्तव्यो विऽऽशेषात् पूजनं स्त्रियाम् ।
तासां प्रहारं निन्दाञ्च कौटिल्यमप्रियन्तथा
सर्वथापि न कर्तव्यमन्यथा सिद्धिरोधकृत् ।
स्त्रियो देवाः स्त्रियः प्राणा एव विभूषणम्
स्त्रीसङ्गिना सदा भाव्यमन्यथा स्वस्त्रियामपि ।
तद्धस्तावचितं पुष्पं तद्धस्तावचितं जलम्
तद्धस्तावचितं द्रव्यं देवताभ्यो निवेदयेत् ।
महाचीनद्रुमलतावेष्टितः साधकोत्तमः
रात्रौ यदि जपेन्मन्त्रं दुर्लभं तस्य किं भवेत् ।
महाचीनद्रुमलतावेष्टनेन च यत्फलम्
एतस्य षोडशांशेन कलां नार्हन्ति ते शवाः ।
शवासनाधिकफलं लतागेहे प्रवेशनम्
प्. ११२)
भोगार्थी शोधयेत् शक्तिं भोगानन्देषु मोहितः ।
आलापाद् गात्रसंस्पर्शात् कामान्देऽपि मोहिता [ज्: कामानन्देषु
मोहितः] ।
कामानन्दं विना देवि भोगमुक्तिर्न जायते
ज्ञानिनाञ्चेदिमां शुद्धिमज्ञानिनाञ्च मन्त्रजाम् ।
तथापि ज्ञानिनां मध्ये ज्ञान श्रेष्ठोऽपि यो नरः ।
शक्तिशुद्धिर्न कर्तव्या यतः स्वेष्टमयी प्रिये
अथ शक्तिशुद्धिः ।
प्रक्षाल्य गन्धतोयैश्च धूपयित्वा सुधूपकैः ।
सिन्दूररञ्जितां कृत्वा मूलमन्त्रं लिखेद् भगे
अदीक्षिताः स्त्रियः कुर्यात् सद्यसंस्कारमम्बिके ।
मन्त्रदीक्षः विधानेन शक्तिशुद्धिस्तु तत्क्षणात्
कुलार्णवे -
अदीक्षिता वामकर्णे मायाबीजं समुद्धरेत् ।
पूजयित्वा महेशानि भोगपात्रं प्रदापयेत्
यामलोक्तशुद्धिः ।
शक्तिगात्रे स्वकल्पोक्तन्यासजालं समाचरेत् ।
रक्तपुष्पेण निर्मञ्ज्य [घ्: निर्मज्य] योनिदेशे नियोजयेत्
ओं नमो वाग्भवं बीजं मायालक्ष्मीं ततः परम् ।
सम्बोधनान्तं त्रिपुरादेवीति पदमुद्धृतम् [घ्, ज्: -उद्धरेत्] २१ ॥
इमां [छ्: इमां शक्तिं परित्राणं क्रु कुरु मम शक्तिं कुरु
कुरु स्वाहा इति दशधा जपेत्] शक्तिं ततः प्रोक्ता पवित्रीकुरु
शब्दतः ।
मम शक्तिं कुरु द्वन्द्वं स्वाहेति दशधा जपेत्
प्. ११३)
[मन्त्रस्तु - ओं क्रीं ह्रीं श्रीं त्रिपुरादेवि इमां शक्तिं
पवित्रीकुरु मम शक्तिं कुरु कुरु स्वाहा]
पञ्चतत्त्वेन तां देवीं पूजयेद्विधिना शिवे ।
भोगपात्रं यदा देयं तदा रमणमाचरेत्
गुप्तसाधनतन्त्रे श्रीदेव्युवाच -
द्रव्यादिशोधनं सर्वं बहुधा प्रकटीकृतम् ।
लोकोपकारकात् [ज्: -कारकं] शुद्धं संक्षेपेण वद प्रभो
श्रीशिव उवाच -
गुरु [ज्: गुरोः] प्रकाशं यन्मन्त्रं नित्यं जपति वै नरः [घ्, ज्:
साधकः] ।
तेनैव मनुना देवि षडङ्गे [घ्, ज्: षडङ्गं] न्यासमाचरेत्
न्यासं कृत्वा ततो मन्त्री द्रव्यादीनभिमन्त्रयेत् ।
सप्ततिर्मन्त्रितं कृत्वा पूतं सर्वं भवेद् ध्रुवम्
गुरुं शिवं तथा देवीं निवेद्यञ्चैव कारणम् ।
जुहुयात् कुण्डलीवक्त्रे मूलमन्त्रेण सुन्दरि
मूलाधारे स्थिता देवि कुण्डली परदेवता ।
भोगकाले महेशानि आजिह्वान्तं विभावयेत्
शोधितान् मत्स्यमांसादीन् मुखेनाच्छाद्य यत्नतः ।
मूलमन्त्रं समुच्चार्य जुहुयात् कुण्डलीमुखे
प्रतिपात्रे प्रतिग्रासे एवं कुर्याद् विचक्षणः ।
भोजनेच्छा भवेत्तस्या निर्लिप्तो जीवसंज्ञकः
प्. ११४)
[कुलपूजाविनाशार्थं यः करोति हि दुर्मतिः ।
प्रयाति नरकं घोरमेकविंशकुलैः सह
देवान् पितॄन् समभ्यर्च्य कुलशास्त्रोक्तवर्त्मना ।
गुरुं स्मरन् पिवेन्मद्यं खादन् मांसं न दोषभाक्
सेवयेत् चेत् सुखार्थाय मद्यादीन् यः स पातकी ।
प्राशयेद्देवताप्रीत्यै साभिलाषविवर्जितः
]
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे ऊनत्रिंशदुल्लासः
त्रिंशोल्लासः ।
समयाचारतन्त्रे -
सम्बिदाग्रहणं कृत्वा कारणं तदनन्तरम् ।
कारणस्य कारणं हि सम्बिदेति प्रकल्पितम्
श्रीदेव्युवाच -
सम्बिदा का महादेव कारणं किं [ग्, च्: हि] वद प्रभो ।
कस्मात् पानं कारणं हि सम्बिदानन्दभाक् नरः
अथ सम्बिदाप्रकरणम् ।
श्रीशिव उवाच -
भावशक्तोऽप्यशक्तश्च साधको द्विविधः शिवे ।
भावाक्तं सम्बिदानन्दं मद्यानन्दमभेदकम्
प्. ११५)
भावेन भाव्यवान् [छ्: भाग्यवान्] भद्रे भावानन्देषु मोहितः
।
भावानन्देषु देवेशि मुक्तिभाग् जायते नरः
आद्यन्ते सम्बिदापानं कारणस्य महेश्वरि ।
तदा कैवल्यमुक्तिः स्यात् सत्यं सत्यं न संशयः
सालोक्यञ्चैव सारूप्यं सायुज्यं परमेश्वरि ।
इदं ज्ञानं सम्बिदोत्थं मुक्त्यर्थमुभयान्वितम्
निगमतत्वे श्रीदेव्युवाच -
आनन्दं ब्रह्मणे रूपं यस्य देहे व्यवस्थितम् ।
तस्य सर्वं महेशान सिद्ध्यानन्द [घ्, च्, ज्: सिद्धानन्द; छ्:
सदानन्द] प्रदायकम्
विनानन्देन [घ्: विनामद्येन] यद्ध्यानं सर्वं भवति
निष्फलम् ।
अत एव महादेव सम्बिदाग्रहणञ्चरेत्
यतिर्वा भूपतिर्वापि मद्यानन्दं समाश्रयेत् ।
सर्वदा परमेशान सिद्ध्यानन्दं क्वचित् क्वचित्
अन्येषां साधकानाञ्च सम्बिदानन्दवर्धिनी [छ्, ज्: सर्वदा] ।
मद्यानन्दं क्वचिद् देव पर्वणि मधुपानयुक्
कृष्णपक्षे पिवेन्मद्यं शुक्ले सिद्धिं पिवेन्मुदा ।
शुक्ले यदि पिवेन्मद्यं आद्यन्ते सम्बिदां पिवेत्
तन्त्रान्तरे -
कृष्णे शुक्ले पिवेन्मद्यं सम्बिदासंयुतं शिवे ।
शुक्ले चाद्यं पिवेत् सिद्धिं कृष्णे चाद्यं पिवेन्मधु
भावचूडामणौ -
सत्त्वोद्भवं सम्बिदाया मद्यस्य राजसोद्भवम् ।
त्वरितायास्तमोद्भूतमित्यानन्दस्य लक्षणम्
प्. ११६)
भावमात्रं क्रियात्यक्तं [छ्: क्रियेत्युक्तं; ज्: क्रियायुक्तं]
सत्त्वेऽपि परमेश्वरि ।
राजसीति क्रियाशक्तस्तामसीति क्रियाच्युतः
शक्तिं विना यथानन्दं मद्यस्य परमेश्वरि ।
तथा सिद्धिं विना देवि मद्यानन्दं हि निश्चितम्
समयाञ्च पिवेदादौ ततो मद्यं महेश्वरि ।
ततः शक्तिं यजेच्चक्रे ततः सिद्धिं पिवेन्मुदा
सिद्धिं विना महेशानि [छ्, ज्: कुलेशानि] कुलकार्ये न योगवान् ।
अत एव पिवेत् सिद्धिं शक्तियुक्तो महेश्वरि
शक्तिहीनं हि यत्पानं सम्बिदेति प्रकीर्तितम् ।
तदन्ते शक्तिसंयुक्ते सम्बिदा समया भवेत्
रमणं हि यदा देवि तदा सा विजया भवेत् ।
स्वेच्छाचारेऽपि रमणं निषेधविधिवर्जितम्
तदा सा सम्बिदा देवी सिद्धिरुपा सनातनी ।
शिवोद्भवं यदा द्रव्यं शक्तिः संहृह्य यत्नतः
तदा सा सम्बिदा देवी भङ्गरुपा प्रियम्वदा ।
पञ्चाङ्गसंयुतां देवि सम्बिदां सेवयेत्तु यः [ज्: सेवयेद्] ।
इहलोके सुखं भुक्त्वा यात्यन्ते परमां गतिम्
सम्बिदा समया देवि विजया सिद्धिरेव च ।
भङ्गश्च परमेशानि पञ्चधाख्यानुकीर्तितम् [छ्:
पञ्चधान्यानुकीर्तितम्; ज्: पञ्चधान्यानुकल्पितम्] ।
यः करोति त्रिसन्धायायां मम तुल्यो न संशयः
भुक्त्वा तु मादकं द्रव्यं भवेत् कुलपरायणः ।
साधकः क्षोभमापन्ने [छ्, ज्: क्षोभमात्रेण] मम क्षोभं
भवेद् ध्रुवम्
तस्मादादौ प्रकर्तव्यं सम्बिदासेवनं शिवे ।
सम्बिदासवयोर्मध्ये सम्बिदेव गरीयसी
प्. ११७)
विजया [घ्, ज्: सम्विदा] ग्रहणं कृत्वा ध्यानं यः कुरुते नरः ।
तदा ध्यानमयी मूर्तिः प्रत्यक्षा भवति ध्रुवम्
अतश्च सम्बिदां पीत्वा कारणं हि पिवेत्ततः ।
सम्विदासवयोर्मध्ये सम्विदेव गरीयसी
ग्रहणात् मुच्यते पाप्तात् ध्यानात् सिद्धिर्भविष्यति ।
ध्यानेन ध्येयं यद्रूपं सम्विदा नित्य [ज्: मुक्ति] दायिका
यथा नित्यं गृहानन्दं गृहिणीसंयुतं [ज्: -संयुता] तथा [ज्:
यदा] ।
आनन्दार्थी वरारोहे आनन्दे [ज्: आनन्दे] विजयां पिवेत् ।
क्रियामार्गी क्रियाशक्तः शुद्धेऽपि विजयां पिवेत्
अथ सम्विदाशुद्धिः ।
ओं सम्विदे ब्रह्मसम्भूते ब्रह्मपुत्रि सदानघे ।
भैरवाणाञ्च तृप्त्यर्थं पवित्रा भव सर्वदा ।
ओं ब्रह्माण्यै [घ्, ज्: ब्राह्मण्यै] नमः स्वाहा
ओं सिद्धिमूलाश्रये देवि हीनवोधप्रबोधनि ।
राजाप्रजावशङ्करि शत्रुकण्ठत्रिशूलिनि ।
ओं क्षत्रियायै नमः स्वाहा
ओं अज्ञानेन्धनदीप्ताग्ने ज्ञानाग्नेर्ज्वालरूपिणि ।
आनन्दस्याहुतिं प्रीतिं सम्यक् ज्ञानं प्रयच्छ मे ।
ह्री। वैश्यायै नमः स्वाहा
ओं नमस्यामि नमस्यामि योगमार्गप्रदर्शिनि [छ्: प्रदायिनी] ।
त्रैलोक्यविजये मातः समाधिफलदा भव ।
क्लीं [छ्: ह्री।] शूद्रायै नमः स्वाहा
प्. ११८)
आनन्दनन्दिनीनन्दे सदानन्दपदद्वयम् ।
उल्लासानन्दिनि कन्दे चिदानन्दस्वरूपिणि
दिव्या विमर्षिणी सिद्धा सुसिद्धा सिद्धिमूलिका [छ्:
सुसिद्धिसर्वमूलिका] ।
रोगघ्नी पशुपाशघ्नी कालघ्नी बोधरुपिणी ।
मनोन्मनि मधु द्राक्षा खेचरी विजया जया
इति स्तुत्वा -
धेनुमुद्रां योनिमुद्रां प्रदर्श्य मनुना शिवे ।
मूलञ्च दशधा जप्त्वा जुहुयात् कुण्डलीमुखे
श्रीनाथाय स्वेष्टदेव्यै साधककाय महेश्वरि ।
स्वमूर्द्धनि प्रदातव्यं मनुना च पिवेन्मुदा
पानमन्त्रस्तु -
(अत्र घ्: पुस्तकीयः पाठः :,-
ओं भङ्गे भङ्गे महाभङ्गे महाभैरवि मां संभावय
संभावय वद वद वाग्वादिनि मम जिह्वाग्रे स्थिरीभव
सर्वशत्रुवशङ्करि स्वाहा । अनेन मन्त्रेण कुण्डलीमुखे जुहुयात्
।) ओं भङ्गे भङ्गे महाभङ्गे महाभङ्गे भैरवाणां
स्तम्भय स्तम्भय वद वद वाग्वादिनि मम जिह्वाग्रे
स्थिरीभव सर्वशत्रुवशङ्करि स्वाहा ॥ इति पिवेत् ॥
श्रीदेव्युवाच
चतुर्द्धा सम्विदा प्रोक्ता जातिभेदेन भेदतः ।
सम्विदा परमा विद्या भोगमोक्षप्रदा शिवा
तस्या भेदं जातिपाशं कथमुक्तं सदाशिव ।
तस्याः शुद्धिं कथं [घ्: अस्या अशुद्धं किं] देव कथय
प्राणवल्लभ
प्. ११९)
श्रीमहादेव उवाच -
साधकस्य क्रियालोपात् जातिपाशेन बन्धिता ।
साधकानां साधनार्थे स्वयं जात्यभिसंयुता
सुवर्णैः केन देवेशि कुण्डलादिर्यथातथा ।
ज्ञानिनां ज्ञानभेदेन नानारूपा च सम्विदा
सम्विदाया नचेत् दोषं गुणो नास्ति महेश्वरि ।
दूषणं हि फलाक्तस्य गुणं ज्ञेयं हि तस्य तु
श्रीदेव्युवाच -
ज्ञातव्या सम्विदा देवी चतुर्धा परमेश्वर ।
लक्षणं हि तथा स्तोत्रं मम स्थाने प्रकाशय
श्रीमहादेव उवाच -
ब्राह्मणस्य श्वेतपुष्पं पश्वाचारयुतो यदि ।
अन्यथा सम्विदां विद्यां पिवेदानन्दहेतवे
क्षत्रियस्य रक्तपुष्पं पीतं वैश्यस्य पार्वति ।
कृष्णवर्णं हि शूद्रस्य पुष्पेण जातिमानकम् ।
पुष्पभेदेन देवेशि जातिभेदं विचिन्तयेत्
ज्ञानार्णवे श्रीदेव्युवाच -
का जातिर्मम नाथेश यदि ते मययनुग्रहः ।
कथय कथय देवं [घ्, ज्: कथस्व महादेव] हितार्त्थाय नरस्य
च
श्रीशिव उवाच -
स्व स्व जात्याश्रितं कर्म जातिपाशं प्रकीर्तितम् ।
कर्मनष्टे जातिनष्टेऽपि मुक्तिभाक्
प्. १२०)
आनन्दपटले श्रीशिव उवाच -
दुग्धाम्बुघृतमाध्वीकसैन्धवैर्लवणेन वा ।
सितयाथ गुडेनापि पक्वैः कदलिकैरपि
अमूल्यं मधुरं द्रव्यं पक्वाम्रं पनसादिकम् ।
तेन सर्वेण विजयां स्वीकुर्यात् साधकोत्तमः
दुग्धयोगेन विजया केवलानन्ददायिनी [ख्: -वर्द्धिनी] ।
महातेजस्करी चक्षुर्दोषादिकविनाशिनी
सा पुनर्जलयोगेन सर्वाजीर्णविनाशिनी ।
घृतेन मधुना धत्ते वाग्देवीवशकारिणी
प्रतिभामुत्तमां धत्ते धिषणाञ्चातिनिर्मलाम् ।
पित्तदोषान् श्लेष्मदोषान् मधुना सह नाशयेत्
सैन्धवेन महावह्निप्रदा स्याल्लवणेन च ।
सितयाथ गुडेनैव शूलघ्नी पित्तनाशिनी
अतिसारापशमनी श्वासकाशप्रमर्दिनी ।
आमवातसमुद्भूतग्रहणीविनिवारिणी
सर्वैः सुमधुरैर्युक्ता सर्वामयविनाशिनी ।
वलपुष्टिप्रदा चैव मधुरस्वरदायिनी
ज्ञानविज्ञानदात्री च शीलमार्गप्रदर्शिनी ।
बहुमूत्रं मूत्रघातं शर्करा च प्रणाशिनी ।
प्रकाशितं तव स्नेहात् सर्वागमेषु [क्: सवतन्त्रेषु] गोपितम्
अथ स्वीकृत्य विजयां सहस्रारे गुरुं यजेत् ।
गुरुमन्त्रं समुच्चार्य चतुर्थ्यन्तं निवेदयेत्
प्रणमेद् दण्डवद्भुमौ जप्त्वा श्रीगुरुपादुकाम् ।
इष्टदेवस्य तन्मन्त्रं प्रजपन् विहरेत् कृती
प्. १२१)
एवमभ्यासतो देवि [घ्, ज्: अभ्यासयोगेन] प्रत्यहं वत्सरं ततः ।
तेजस्वी वलवान् वाग्मी मेधावी प्रियदर्शनः
रूप यौवन सम्पूर्ण नानागुण समाश्रयः ।
भविष्यति न सन्देहो द्रव्यस्यास्य निषेवणात्
सम्विदासवयोर्मध्ये सम्विदेव गरीयसी ।
सम्वित् प्रयोगस्तेनैव कर्तव्यः साधकोत्तमः
एककालं द्विकालम्बा त्रिकालं पञ्चकालकम् ।
तोलकम्बा द्वितोलम्बा तोलकत्रयमेव वा
अन्यूना नाधिका मात्रा यथा भवति नित्यशः ।
न्यूनाधिकायां मात्रायां फलं न स्यात् कदाचन ।
तस्मात् प्रमाणमात्राहि कर्तव्या सिद्धिमिच्छता
एतत् ते कथितं सर्वं विजयाकल्पमुत्तमम् ।
प्रसादादचिरादस्याः सिद्धिर्भवति वाञ्छिता
प्रावर्य वेश्म श्मनस्य सलब्धकाम
मेतद्रहस्यमुदितं परमं निगूढम् ।
कुत्रापि नैव कथनीयमिदं कदाचिद्,
देवि त्वयापि विधिना प्रविधीयतां तत्
श्रीशिव उवाच -
त्रैलोक्यविजयापत्रं सबीजं घृतभर्जितम् ।
त्रिकटु त्रिफला शृङ्गी कृष्ण [घ्, ज्: कुष्ठं] धन्याक सैन्धवम्
शठी तालीशपत्रञ्च कक्कोलं नागकेशरम् ।
यमानीद्वयं [घ्, ज्: यमानीद्वयं - - तत्समम्, अत्र पुस्तकयोः
पाठान्तरमेतद् दृश्यते] मेथी च जीरकद्वयमेव च ।
एतानि समभागानि रौद्रे शुष्काणि चूर्णयेत्
प्. १२२)
गृहीत्वा चूर्णमेतेषां सम्वित्चूर्णन्तु तत्समम् ।
उभयोश्च समां दत्वा सितां तन्मिश्रयेद् दृढम्
मिश्रयित्वा चतुर्थांशं समं मधुघृतं तथा ।
पुनः शिलातले पिष्ट्वा त्रिसुगन्धिञ्च मिश्रयेत्
स्वर्णादिपात्रे पुरतः स्थापयित्वा ततः क्रमात् ।
चतुर्भिर्मन्त्रभिस्तासां शोधनं समुपाचरेत्
सेवनादस्य देवेशि किं न सिध्यति भूतले ।
मन्त्रसिद्धिस्तथा पूजाजपसिद्धिर्वरानने
ज्ञानसिद्धिर्महेशानि सेवनान्मोक्षमाप्नुयात् ।
सत्यं सत्युं महेशानि सत्यमेव न संशयः
अनेन पूर्णहृदयो जपपूजां समाचरेत् ।
एकोच्चारणमात्रेण तावच्च [घ्: भवेच्च] लक्षकोटयः
इति ते कथितं कान्ते सारात्सारं परात्परम् ।
यस्मै कस्मै न दातव्यं इति सत्यं कुरु प्रिये
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे त्रिंशदुल्लासः
एकत्रिंशोल्लासः ।
अथ श्रीचक्रमध्ये साधकस्य पात्राधारलक्षणम् ।
कुलार्णवे -
[पाठोऽयं छ्- पुस्तके अधिको दृश्यते] आधारे स्थापयेत् पात्रं
मनुना शिवे ।
आधारे स्थापयेत् पात्रं मृत्स्थितं मृत्युदायकम्
आधारं त्रिविधं प्रोक्तं षट्पद्म्बा चतुष्पदम् ।
अथवा वर्तुलाकारं त्रिकोणं त्रिपदान्वितम्
अथ साधकस्य पात्रलक्षणम् ।
कुलार्णवे -
पात्रं काञ्चन - रत्न काच घटितं मुक्ताकपालोद्भवम् ।
विश्वामित्रमयञ्च कामदमिदं हैमं तथा स्फाटिकम्
ज्ञानार्णवे -
त्रिकोणं मण्डलं वीरश्चतुष्कोणं लिखेद्भुवि ।
आधारं स्थापयेत्तत्र पात्रं तस्योपरि न्यसेत्
सौवर्णं राजतं वापि काचं मौक्तिकमेव च ।
खड्गञ्च नारिकेलञ्च ताम्रं जलजमेव च ।
पित्तलं कांस्यसम्भूतं मत्स्यञ्चैव च पार्वति
सर्वकल्याणदं प्रोक्तं सौवर्णं परिकीर्तितम् ।
राजतञ्च वरारोहे सर्वरोगविनाशनम्
अभिचारेषु सर्वेषु काचपात्रं विशिष्यते ।
पुत्रवृद्धिकरं प्रोक्तं मौक्तिकं परमेश्वरि
प्. १२४)
जलजं तु महेशानि भक्ति [ग्: भुक्ति] मुक्ति फलप्रदम् ।
पित्तलं सर्वदोषघ्नं ताम्रजं कीर्तिवर्द्धनम्
मृन्मयञ्च महेशानि चासुरेषु प्रदापयेत् ।
नृकपालं महापालं सर्वकार्ये प्रशस्तकम्
वाराही तन्त्रे -
स्वर्ण राजत ताम्राणि सर्वसिद्धिकराणि च ।
शान्तिके प्रस्तरं पात्रं स्तम्भने मृन्मयं शिवे
पित्तलं मारणे ज्ञेयं ताम्रमुच्चाटने शिवे ।
वशीकार्ये कांस्यपात्रं विद्वेषे काचपात्रकम् ।
विश्वामित्रं महापात्रं सर्वकार्येषु दुर्लभम्
अक्षया तन्त्रे -
स्वर्णरूप्य शिला कूर्म्म कपालं मृन्मयं प्रिये ।
नादिकेलञ्च शङ्खञ्च पात्रञ्च मत्स्यसम्भवम् [घ्, ज्:
मत्स्यञ्च परमेश्वरि]
विल्ववृक्षसमुद्भूतं पात्रं कुर्याद् विचक्षणः ।
कार्यभेदे पात्रभेदं कुर्यात् साधक ईश्वरि
माला [छ्, ज्: माया] पात्रं सर्वकार्ये सत्वरं फलदायकम् ।
नृ कपालसमुद्भूतं पात्रं शुद्धं प्रकीर्तितम्
हंसमाहेश्वरे -
प्राणिनां मानुषः श्रेष्ठो धर्माधर्मविभेदवान् ।
तत्कपालकृतं पात्रं सर्वं तस्य वृथा भवेत्
पात्रं कुर्यान्महेशानि धर्माधर्मेषु मूढकः ।
तस्य मुण्डं स्वयं छेद्य महापात्रं प्रकल्पयेत्
जात्याधमो महापापी युवापि व्याधिहीनकः ।
तस्य मुण्डोद्भवं पात्रं महापात्रं प्रकीर्तितम्
प्. १२५)
महापात्रं महामालामेकभावे प्रकल्पयेत् ।
महापात्रकृतो राजा यतः शास्ता महेश्वरि
स्वयं छेद्य कृतं पात्रं अन्यकृत् पातकी भवेत् ।
योन्याकारं हि यत् पात्रं महापात्रस्वरूपकम् ।
मम प्रीतिकरं पात्रं साधकप्रीतिदायकम्
योनिपात्रं वरारोहे महापात्रोत्तमं शिवे ।
त्वां विना तस्य माहात्म्यं को वेत्ति जगतीतले
योनेर्दोषं हि नास्त्येव तस्याः शुद्धिं न कारयेत् ।
योनिपात्रं विना पात्रं शुद्धं कृत्वा पिवेन्मधु ।
अशोधितं हि यत् पात्रं केवलं दुःखदायकम्
अथ पात्रशुद्धिः ।
समयाचारतन्त्रे -
पात्रमात्रं महेशानि योनिपात्रानुकल्पनम् ।
योन्यशुद्धे महेशानि पात्रमात्रेऽप्युशुद्धकम्
दर्शनात् स्पर्शनात् घ्राणात् सेवनान्मधुपानतः ।
सर्वं शुद्धं भवेद्देवि योनिज्ञानं भवेद् यदि
मूलेन पात्रं संस्थाप्य मूलेन वीक्षणं शिवे ।
शक्तिबीजं लिखेत् मध्ये त्रिकोणान्तर्गतं शिवे ।
पूरयेत् [घ्: पूजयेत्] कारणेनापि मूलेन गुरुवाक्यतः
अथवा सर्वपात्राणि सामान्यार्घक्रमेण च ।
पूरितानि महेशानि कारणेन महेश्वरि
इति पात्रशुद्धिः ॥
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे एकत्रिंशदुल्लासः
द्वात्रिंशोल्लासः ।
अथ श्रीचक्रे साधकपात्रस्थापनम् ।
योगिनीतन्त्रे -
श्रीपात्रस्य पश्चिमांशे चक्रदेवस्य [घ्: देवचक्रस्य] समुखे ।
स्थापयेत् सर्वपात्राणि सामान्यार्घक्रमेण तु
कालिकाकुलसर्वस्वे -
घट श्रीपात्रयोर्मध्ये सामान्यार्घक्रमेण तु ।
स्थापितानि च पात्राणि पूरयेत् कारणेन तु
अथ श्रीपात्रस्थापनस्थ नियमः ।
श्रीपात्रं स्थापयेद् वीरः सम्मुखे परमेश्वरि ।
पूर्वाद्यं चोत्तराग्रं वा दिवारात्रौ विभेदतः
तन्त्रान्तरे -
सामान्यार्घक्रमेणैव कारणे पूरितानि च ।
उत्तरायन्तु संस्थाप्य पश्चिमाग्रं महेश्वरि
नारायणीतन्त्र् -
पूर्वाग्रञ्चोत्तराग्रं वा दिवाचक्रं चरेद् [घ्: यजेद्] यदि ।
उत्तराग्रं पश्चिमाग्रं निशाचक्रं चरेद् [घ्: यजेद्] यदि
प्. १२७)
अथ पात्रस्य संख्याकथनम् ।
यामले -
नवमं सप्तमं पात्रं अथवा पञ्च पात्रकम् ।
त्रिपात्रं परमेशानि स्थापयेन्मनुना शिवे
अथ नवपात्रनामकथनम् ।
यामले -
देवीपात्रं गुरोः पात्रं भोगपात्रं महेश्वरि ।
योगिनी वलिपात्रञ्च शक्तिपात्रं महेश्वरि
वीरपात्रं पाद्यपात्रं पात्रमाचमनीयकम् ।
पात्रं नवममित्युक्तं चतुर्वर्गफलप्रदम्
अथ सप्तपात्रनामकथनम् ।
गुरुपात्रं भोगपात्रं शक्तिपात्रं महेश्वरि ।
योगिनी वीरपात्रञ्च वलिपाद्यं हि सप्तमम्
अथ पञ्चपात्रनामकथनम् ।
देवीपात्रं गुरोः पात्रं भोगपात्रं त्रयं शिवे ।
योगिनी - वलिपात्रञ्च पञ्चपात्रं महेश्वरि
अथ त्रिपात्रम् ।
देवीपात्रं भोगपात्रं गुरोः पात्रं महेश्वरि ।
त्रिपात्राणि च कर्तव्यमेकपात्रं न कारयेत्
एकपात्रं न कर्तव्यं यदि साक्षान्महेश्वरः ।
मन्त्रस्तस्य वृथा ज्ञेयः शक्तिकार्यं वृथा यतः
एकपात्रं हि कर्तव्यं स्वदेहं शक्तिभावितम् ।
निषेधञ्च विधिञ्चैव वामायां नास्ति चेद् यतः
प्. १२८)
तथापि परमेशानि ज्ञानी ध्यानी न कारयेत् ।
ध्याननिष्ठस्य देवेशि गुरोर्ध्यानं हि बीजकम् ।
गुरूपात्रोद्भवं मद्यमेकपात्रं पिवेन्मुदा
कुब्जिकातन्त्रे -
एकपात्रं समादाय यावदानन्दभाग् भवेत् ।
तावन्मद्यं पिवेद् भक्तो यावत् पानं क्रमात् क्र्मात्
अथ कुब्जिकातन्त्रोक्तपात्रनामकथनम् ।
देव्याः पात्रं गुरोः भोगपात्रं त्रयं मतम् ।
योगिनी बलिपात्रञ्च [पूजापात्रञ्चात्मपात्रं]
पञ्चपात्रमिदं मतम्
शक्तिपात्रं वीरपात्रं सप्तपात्रं महेश्वरि ।
पाद्यमाचमनीयञ्च नवमं परिकीर्तितम्
अथ पात्रदानक्रमः ।
देवीपात्रं ददेद् देव्यै गुरवे गुरुपात्रकम् ।
शक्तये भोगपात्रञ्च पूजापात्राद् यजेत् शिवाम्
कुलकुण्डलिनीवक्त्रे चात्मपात्रं नियोजयेत् [घ्, ज्: निवेदयेत्] ।
शक्तिमात्रे शक्तिपात्रं वीराय वीरपात्रकम्
श्रीपदे पाद्यपात्रञ्च मुखे आचमनीयकम् ।
श्रीपात्रादमृतेननापि यजेदर्घादिना प्रिये
यामले -
देव्याः पात्रं ददेद् देव्यै गुरवे गुरुपात्रकम् ।
भोगार्थं भोगपात्रञ्च शक्तये च प्रदापयेत्
योगिन्यै योगिनीपात्रं दद्याच्च कुलनायिके ।
वटुकक्षेत्रपालेभ्यो वलिपात्रं निवेदयेत्
प्. १२९)
शक्तये शक्तिपात्रञ्च वीराय वीरपात्रकम् ।
पाद्यपात्रं पदे [घ्: ददेत्] देव्या मुखे आचमनीयकम्
अन्यत् सर्वं वरारोहे श्रीपात्रादमृतं ददेत् ।
चरणामृतपानार्थं चरणे कारणं ददेत् ।
कारणं हि भवेत् कार्यं श्रीदेव्याश्चरणाम्बुजे
विष्णुयामले -
कारणं हि यदा देवि श्रीदेव्याः पदसंयुतम् ।
मृतभावं परित्यज्याप्यमरः साधको भवेत्
शक्त्युच्छिष्टं पिवेच्चक्रे वीरोच्छिष्टं हि चर्वणम् ।
अतश्च साधकाः सर्वे ददेयुः कारणं मुखे
ज्ञानार्णवे -
चक्रान्ते परमेशानि ददेदाचमनीयकम् ।
तदन्ते साधको देवि [ज्: परमेशानि] पिवेदोष्ठाधरं मधु
निगमकल्पलतायाम् -
यत्र स्थानेऽपि श्रीचक्रं तत्र गच्छामि शङ्कर ।
नारीदेहसंश्रिताहममृतपानमाश्रिता
तस्या दुःखेऽप्यहं दुःखी सुखेऽहं सुखभागिनी ।
यथा देहस्य दुःखेऽपि देही भवति दुःखभाक्
एकापि सुन्दरी देवी श्रीचक्रेषु त्रिधा परा ।
साधकस्यापि मुक्त्यर्थं पानाक्ता कामुकान्विता
सुन्दरी रमणीरूपा राजराजेश्वरी परा ।
परा श्रीकालिकारूपा [ज्: स्त्री-] श्रीचक्रपालने वरा
प्. १३०)
खड्गहस्ता ललजिह्वा मुक्तकेशी चतुर्भुजा ।
वराभयकरा घोरारावयुक्ता विभूषणा
स्वनाथस्य करं धृत्वा भ्रमन्ती चक्रपालिका ।
नग्ना मत्ता महादेवी सिंहपृष्ठे शवासना
योगिनी योगसंयुक्ता खड्गहस्ता दिगम्बरी ।
लक्ष लक्ष समायुक्ता श्रीचक्रं पालयेत् सदा
परा श्रीतारिणी विद्या श्रीचक्रे द्रव्यसंश्रिता [घ्: संस्थिता] ।
दर्शने घ्राणसंस्पर्शे पानानन्दप्रदायिका
संगृह्य पूर्णचषकं स्थापयेत् स्थण्डिलोपरि ।
पूजान्ते शक्तये दद्यात् पात्रं ग्राह्यं कृपान्वितम् [गृह्य
कृपान्विता]
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे द्वात्रिंशदुल्लासः
त्रयस्त्रिंशोल्लासः ।
अथ वटुकवलिः ।
कुलार्णवे -
यावन्न दद्यात् पात्रं हि वटुकाय कुलेश्वरि ।
सर्वदेवा न तृप्यन्ति स्मरणात् पूजनात् शिवे
वटुकादीन् यजेच्चक्रे गन्धपुष्पादिभिः क्रमात् ।
सर्वद्रव्यसमायुक्तं मनुना पात्रकं ददेत्
प्. १३१)
[अत्र ध छ ज पुस्तकेषु पाठोऽयं दृश्यते : -
अथ वटुकामन्त्रः ।
ओं ओं ओं देवीपुत्र वटुकनाथ कपिलजटाभार भास्वर
पिङ्गलत्रिनेत्र ज्वालामुख इमं वलिं गृह्ण गृह्ण स्वाहा ।
बलिदानेन सन्तुष्टो वटुकः सर्वसिद्धिदः ।
शान्तिं करोतु मे नित्यं भूतवेतालसेवितः ॥]
अथ वटुकमन्त्रोद्धारः ।
ज्ञानार्णवे -
एह्येहि देवीपुत्रान्ते वटुकान्ते च नाथ च ।
कपिलान्ते जटाभार भासुरान्ते त्रिनेत्र च
ज्वालामुखञ्च सर्वान्ते विघ्नान्नाशय नाशय ।
सर्वोपचारसहितवलिं हृह्ण द्विधापदम् ।
वह्निजायान्वितो मन्त्रो वटुकस्य उदाहृतः
मन्त्रस्तु ।
ओं एह्येहि देवीपुत्र वटुकनाथ कपिलजटाभार भासुरत्रिनेत्र
ज्वालामुख विघ्नान्नाशय नाशय सर्वोपचारसहितवलिं गृह्ण
गृह्ण स्वाहा ॥
बलिदानेन सन्तुष्टो वटुकः सर्वसिद्धीदः ।
शान्तिं करोतु मे नित्यं भूतवेतालसेवितः
[अत्र घ् छ् ज पुस्तकेषु पाठोऽयं दृश्यते -
ओं ओं ओं सर्वयोगिनीभ्यः सर्वभूतेभ्यो डाकिनीभ्यः शाकिनीभ्यः
त्रैलोक्यवासिनीभ्य इमां पूजावलिं गृह्ण गृह्ण स्वाहा ।]
अथ योगिनीबलिः ।
ऊर्द्धे ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वा,
पाताले वा अनले वा सलिलिपवनयोर्यत्र कुत्र स्थिते वा,
प्. १३२)
क्षेत्रे पीठोपपीठादिषु कृतपदा धूपदीपादिकेन,
प्रीता देव्यः सदा नः शुभवलिविधिना पान्तु देवेन्द्रवन्द्याः
ओं सर्वयोगिनीभ्यः सर्वभूतेभ्यो डाकिनीभ्यः ।
त्रैलोक्यवासिनीभ्य इमां पूजावलिं गृह्ण गृह्ण स्वाहा ॥
ओं यां योगिनीभ्य हु। फट् स्वाहा ॥
अस्योद्धारः ।
एतदन्ते महेशानि यां बीजं योगिनी ततः ।
भ्यः स्वाहा सर्ववर्णान्ते योगिनीपदमालिखेत्
कवचं चास्तमालिख्य वह्निजायां पुनर्लिखेत् ।
अनेन मनुना देवि योगिनीनां बलिर्भवेत्
ओं ये केचिद् योगिनी रुद्रा सौम्या घोरतरा परा ।
खेचरीषु भूचरीषु सा मे प्रीतास्तु सर्वदा
[अत्र घ् छ् ज् पुस्तकेषु पाठान्तरोऽयं दृश्यते -
ओं ओं ओं देव देव देवीपुत्र वटुकनाथ उच्छिष्टहारिणी मुहुर्मुहुः
क्षं क्षं क्षेत्रपाल सर्वविघ्नान्नाशय नाशय
सर्वोपचारसहितमिमां पूजावलिं गृह्ण गृह्ण स्वाहा ॥]
अथ क्षेत्रपालवलिः ।
षड्दीर्घं स्वरसं भिन्नं क्ष कारं विलिखेत् प्रिये ।
स्थानक्षेत्रपदं पानधूपदीपादि चालिखेत्
सहितं वलिमालिख्य गृह्ण गृह्ण ततो वदेत् ।
वह्निजायान्वितो मन्त्रः क्षेत्रपालस्य सुन्दरि
प्. १३३)
मन्त्रस्तु ।
ओं क्षां क्षीं क्षूं क्षैं क्षौं क्षः एह्येहि क्षेत्रपाल
धूपदीपादिसहितवलिं गृह्ण गृह्ण स्वाहा ।
यस्मिन् [ज्: योऽस्मिन्] क्षेत्रे निवासी च क्षेत्रपालस्य किङ्करः ।
प्रीतोऽयं बलिदानेन सर्वरक्षां करोतु मे
[पाठोऽयं घ् छ् ज् पुस्तकेषु न दृश्यते ।]
अथ गणेशवलिः ।
गां गीं गूं त्रयमालिख्य ङेन्तं गणपतिं ततः ।
वरान्ते वरदान्ते च सर्वान्ते जनमालिखेत्
मे वशं चालय प्रोच्य वलिं गृह्ण द्विधापदम् ।
वह्निजायान्वितो मन्त्रो गणेशस्य वलिं हरेत्
[पाठोऽयं घ् छ् ज् पुस्तकेषु न दृश्यते ।]
मन्त्रस्तु ।
गां गीं गूं गणपतये वरवरद सर्वजन मे वशं चालय
वलिं गृह्ण गृह्ण स्वाहा ॥
अथ सर्वभूतेभ्यो वलिः ।
ओं ओं ओं सर्वभूतेभ्यः सर्वभूतादिपतिभ्यो नमः ।
भूता ये विविधाकारा दिक्षु भुमान्तरीक्षगाः ।
पातालतलसंस्थाश्च शिवयोगेन भाषिताः
ध्रुवाद्याः सत्य [ज्: सर्व] गन्धर्वा ऐन्द्राद्याः सर्वदेवताः ।
तृप्यन्तु प्रीतिमनसो भूता गृह्णन्त्विमां बलिम्
प्. १३४)
अथ सामान्यवलिः ।
राजराजेश्वरवलिं सर्वदेवस्य सम्मतम् ।
यस्य नाम प्रदातव्यं तद्देवो वलिमिच्छति
तारत्रयं वदेत् पश्चात् अमुकं क्षेत्रपालकम् ।
राजराजेश्वर इमां पूजावलिं ततः परम् ।
गृह्ण युग्मं द्विधान्तोयं मनुः सर्वफलप्रदम्
मन्त्रस्तु ।
ओं ओं ओं अमुक क्षेत्रपाल राजराजेश्वर इमां पूजावलिं गृह्ण
गृह्ण स्वाहा ।
अनेन वलिदानेन वटुवर्गसमन्विताः ।
राजराजेश्वरो देवो मे प्रसीदतु सर्वदा
[२०-२३ संख्यकाः श्लोका घ् छ् ज् पुस्तकेषु न विद्यन्ते ।]
वामांगुष्ठानामिकाभ्यां वटुकस्य वलिर्भवेत् ।
दक्षांगुष्ठानामिकाभ्यां योगिनीनान्तु कथ्यते
दक्षिणामूर्तिसंहितायाम् -
वाममुष्टिं विधायादौ तर्जनीं शरणां कुरु ।
अनया मुद्रया देवि क्षेत्रपालवलिर्भवेत्
तथा मुष्टेसु मध्यस्थामंगुलीं दण्डवत् कुरु ।
गजतुण्डाख्यमहामुद्रा गाणपस्य [च्: गणेशस्य] वलिर्भवेत्
अनेन वलिदानेन वटुवर्गसमन्विताः ।
राजराजेश्वरी देवो मे प्रसीदतु सर्वदा
प्. १३५)
कुमारी तन्त्रे -
अथ कुलदीप दर्शनम् ।
कुलकार्ये महेशानि कुलदीपं प्रदापयेत् ।
कुलदीपं विना भद्रे ज्ञानदीपं नचेत् क्वचित्
श्रीदेव्युवाच -
कुलदीपं हि किं रूपं केन द्रव्येण वा कृतम् ।
निवेद्यं केन रूपेण कथय प्राणवल्लभ
श्रीशिव उवाच -
ईषद्रक्तपिष्टकेन त्रिकोणगर्त [क्: गर्थ] मानतान् ।
दीपान् डमरुकाराञ्च बृद्धस्य नखमानतः
आकर्षाह्ययुतान् [घ्: आकर्षाष्टयुतान्; ज्: आकर्षोह्ययुतान्] दीपान्
नवसप्तत्रिपञ्चमः ।
शतान्यूने महेशानि युग्मान्यं दीप कल्पनम्
शताधिक्यं युग्मदीपं सहस्रं परमेश्वरि ।
दीपसंख्यां परिभ्राम्य स्वतेजस्तेजसि लयम्
ज्ञानार्णवे -
रात्रौ कुलक्रियायाञ्च कुलदीपसहस्रकम् ।
शतं देयं दिवा कार्ये कुलनिष्ठश्च साधकः
अन्तस्तेजो वहिस्तेजोऽप्येकं कृत्वा महेश्वरि ।
त्रिधा देव्यग्रे संभ्राम्य कुलदीपं निवेदयेत्
मन्त्रस्तु ।
समस्तचक्रचक्रेशीयुतं देवि ममात्मकम् ।
आरक्तकामदं दीपं गृहाण मम सिद्धये
प्. १३६)
त्रिवारं दर्शयेद्दीपं चरणाच्छिरमानतः ।
पञ्चमं सप्तमं वापि नवमं वा विशेषकम्
कालीविलासतन्त्रे -
अथ पात्रस्वीकारः ।
आदौ यजेत् स्वेष्टदेवीं पाद्याद्यै [छ्: पाद्यार्घैः]
रूपचारकैः ।
ततः शक्तिं यजेत् चक्रे यया शक्त्यायुतः शिवे [घ्: प्रिये]
स्व स्व विद्योक्तमन्त्रेण विधानेन यजेत् शिवाम् ।
स्वशक्तिं परशक्तिं वा दीक्षिताञ्चेद् यजेत् शिवाम्
अभ्यर्च्य देवताबुद्ध्या [घ्: ध्यात्वा] भोगपात्रं निवेदयेत् ।
सा तु पात्रं [छ्, ज्: साऽत्मपात्रं] नमस्कृत्य
करसंपुटमुद्रया ।
त्रिशूलमुद्रया गृह्य पिवेदाचार्यवाक्यतः
अन्याभ्यश्च प्रदायेच्च [छ्, ज्: प्रदाव्यं] शक्तिभ्यश्च महेश्वरि ।
पृथक् पात्रं प्रदातव्यं मधुना सह भैरवि
पात्रं संगृह्य सा देवी प्रसादं पात्रशेषकम् ।
भैरवाय प्रदातव्यं भक्ताय सेवकाय च
गृहित्वा प्रथमं पात्रं स्थापितं मधुना सह ।
स्वष्टेदेवीं पूजयित्वा मूलमन्त्रं जपेत् प्रिये ।
मुद्रामांसैर्महेशानि [घ्: महादेवि] सुरादेवीं प्रपूजयेत्
अङ्गन्यासञ्च स्वीकृत्य कराङ्गन्यासमेव च ।
प्राणायामं ततः कृत्वा गृह्णीयात् पात्रमुत्तमम्
कुब्जिकातन्त्रे -
अङ्गन्यासं करन्यासं वर्णन्यासं महेश्वरि ।
स्वविद्योक्त ऋषिन्यासं व्यापकन्यासमेव च
पञ्चधा न्यासमाश्रित्य प्राणायामञ्चरेन्मुदा ।
ततः पात्रं नमस्कृत्य जुहुयात् कुण्डलीमुखे
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे त्रित्रिंशदुल्लासः
चतुस्त्रिंशोल्लासः ॥
श्रीदेव्युवाच -
फलं किं न्यासजालस्य कथय प्राणवल्लभ ।
अतिसूक्ष्मतमनाम्नः प्राणायामस्य किं फलम्
अथाङ्गन्यासादिफलम् ।
श्रीशिव उवाच -
अङ्गन्यासं करन्यासं मूलेन प्रणवेन वा ।
पञ्चाशन्मनुना देवि वर्णन्यासं समाचरेत्
अङ्गन्यासे षडङ्गानि देवाङ्गानि विचिन्तयेत् ।
करन्यासे करं ज्ञेयं देवस्य करमात्रकम्
पञ्चाशन्मातृकारूपी कोटी कोटी च देवता ।
वर्णन्यासे महेशानि देहो देवमयो भवेत्
ऋषिन्यासे स्वदेहं हि देवदेहं विचिन्तयेत् ।
सोऽहं ज्ञानेन देवेशि ऋष्यहं परिचिन्तयेत्
तन्त्रान्तरे -
गृहीत्वा देवतामन्त्रं साक्षाच्चेद् यदि देवता ।
तद्देहं देवतारूपं सोऽहं ज्ञानं सदा यदा
प्. १३८)
कुब्जिकातन्त्रे -
क्षितिर्जलं तेजो वायुर्व्योम देही तथा मनः [घ्, छ्, ज्: मनः शिवे] ।
सप्तधा न्यासजालेन सप्तैते देवरूपिणः
आपादशिरः पर्यन्तं मूलमन्त्रेण भाविनि ।
सप्तधा मन्त्रयेन्मन्त्री क्यापकन्यासकं शिवे
अथ प्राणायामफलम् ।
प्राणायामेन देवेशि निद्रां त्यक्त्वापि कुण्डली ।
भक्त्यापि यद्दीयमानं तद् गृह्णाति कुलेश्वरि
कारणपूरितं पात्रं गृह्णीयान्मनुना शिवे ।
आधारे मनुना स्थाप्य तर्पयेत् तदनन्तरम्
तर्पयेद् गुरुणा सार्द्धं स्व - स्व पात्राच्च कारणैः ।
गुरुशक्तिं तर्पयित्वा स्वेष्टदेवीञ्च तर्पयेत्
निगमतत्त्वे -
स्वेष्टदेवीं यदा देव स्वशक्तिं चिन्तयेत् परम् [ज्: स्वशक्तिचिन्तनात्
परम्] ।
शक्तयेऽपि [ज्: शक्तिमेति] तदा देव्याः पात्रं न संशयः ।
गुरोराज्ञानुसारेण तच्छक्तिरमणञ्चरेत्
यदा स्वेष्टस्य वामस्थां रक्तवर्णां विचिन्तयेत् ।
स्वशक्तिं परमेशान स्वेष्टदेवीञ्च चिन्तयेत् ।
गुरोराज्ञानुसारेण पात्रं दत्त्वा क्रियाञ्चरेत्
स्त्रीमात्रे हरपत्नी स्यात् पुमान् मात्रे च शङ्करः ।
विवाहं बन्धनं ज्ञेयं वर्तिस्थो वह्निवत् प्रिये
शिव - देवो गुरुः साक्षाद् गुरुदेवः सदाशिवः ।
तस्य वामे नारीमात्रं रमणञ्च तदाज्ञया
प्. १३९)
नारायणीतन्त्र -
यदाज्ञया महेशानि वीरकर्माणि साधयेत् ।
तदाज्ञया रमेत् शक्तिं मातृभावं परित्यजेत्
अथ तर्पणक्रमः ।
मांसेन कारणं मिश्रं पाणिभ्यां तत्त्वमुद्रया ।
विन्दुमात्रं क्षिपेन्मूर्ध्नि पादुकामन्त्रमुच्चरन् ।
श्रीगुरोश्चरणं ध्यायन् स्वमूर्ध्नि गुरुपादुकाम्
गुरुशक्तिं तर्पयित्वा तथैवानन्दभैरवीम् ।
आनन्दभैरवं देवं स्वेष्टविद्यां हि तर्पयेत्
त्रिवारं तर्पयेन्मूर्ध्नि हृदयेऽपि त्रिवारकम् ।
सहस्रारे स्वेष्टविद्यासहितं तर्पयेद् गुरुम्
हृदये तर्पयेद् रम्यं देवतायाः प्रभेदके ।
अभेदे तर्पयेद् भद्रे [छ्, ज्: भद्रं] सहस्रारे महापुरे
तर्पणेन भवेत् शान्तिर्देवता स्थिरता भवेत् ।
अतश्च तर्पयेद्देवान् तान्त्रिके वैदिकेषु च
मन्त्रस्तु ।
तारत्रयं समुच्चार्य श्रीगुरोर्नामपूर्वकम् ।
श्रीपादुकां तर्पयामि पूजयामीति वा प्रिये
अथ गुरुपंक्ति तर्पणम् ।
गुरुं परगुरुञ्चैव परापरगुरुन्ततः ।
परमेष्ठिगुरुं देवि तर्पयेत् त्रित्रिवारकम्
प्. १४०)
भावचूडामणौ श्रीपार्वत्युवाच -
को गुरुः परमेशान कोऽपि स्यात् परमो गुरुः ।
परापरगुरुः को वा परमेष्ठिगुरुश्च कः
श्रीशिव उवाच -
स्थूलसूक्ष्मोभयोरैक्यं गुरुर्ज्ञानस्य कारणम् ।
नानारूपं स्थूलमात्रं यथाग्निः काष्ठसंयुतः
सूक्ष्मस्य बोधं विज्ञेयं स्थूलबोधस्य बीजकम् ।
स्थूलस्य बोधं विज्ञेयं सूक्ष्मबोधस्य बीजकम् ।
ऐक्यं कृत्वा स्थूलसूक्ष्मं सर्वमेतत् प्रकाशितम्
मन्त्रदाता गुरुः प्रोक्तो मन्त्रस्तु परमो गुरुः ।
परापरगुरुस्त्वं हि परमेष्ठिगुरुर्ह्यहम्
अथ स्वेष्टविद्या तर्पणम् ।
हंसमाहेश्वरे -
आदौ मूलं समुच्चार्य सायुधां परिवारकम् ।
सवाहनां स्वेष्टदेवीं तर्पयामि द्विधाअन्तकः
ऐक्यज्ञानस्य बीजं हि निषेधविधिवर्जितम् ।
तर्पयेच्चेत् क्रियासङ्गाद् गुरुणा सह भाविनीम्
सत्त्वे श्वेतं गुरुं ध्यायेत् शक्त्या सह दयान्वितम् ।
श्वेतवर्णा द्विभुजाक्ता द्विनेत्रा तत्समायुतम्
रजे रक्ता तमे कृष्णा चतुर्वाह त्रिलोचना ।
तत्संयुक्तं गुरुं ध्यायेत् तर्पणादिकमाचरेत्
प्. १४१)
ततः क्रमः ।
ज्ञानार्णवे -
अंगुष्ठानामिकायोगाद् वामहस्तेन तर्पयेत् ।
अंगुष्ठतर्जनीयोगाद् दक्षिणे [ज्: दक्षेण] पुष्पपातनम्
अंगुष्ठो भैरवो देवोऽप्यनामिका च चण्डिका ।
उभयोर्योग [घ्: तयोः संयोग-] मात्रेण द्रव्यं स्यादमृतोपमम्
वृद्धांगुष्ठो भैरवोऽपि तर्जनी चण्डिका परा ।
अनयोर्योगमात्रेण द्रव्यं पुष्पं मनोहरम्
तर्जनी चण्डिकारूपा दक्षहस्तस्य शङ्करि ।
अंगुष्ठयोगात् सा देवी पुष्पिता कामविह्वला
दक्षिणे गृह्य पात्रेण वामेऽपि तत्त्वमुद्रया ।
मांसमात्रं कारणेन मूलेन तर्पणञ्चरेत् ।
तर्पयेद् योनिमध्ये तु योनिं संगृह्य तत्परम्
दक्षिणेन करेणापि योनौ पुष्प प्रपातनम् ।
बिन्दुमात्रेण द्रव्येण तुष्टा भवति कामिनी
निजशक्तेरभावेऽपि जले योनिं विचिन्तयेत् ।
तर्पणादि प्रकर्तव्यं जलमाया सनातनी
यथा वेश्या सर्वपूज्या सर्वस्य बन्धमुक्तिदा ।
तथा तोयं सर्वपूज्यं सर्वस्य बन्धमुक्तिदम्
ज्ञानार्णवे -
स्वदेहे तर्पणं भद्रं स्वदेहं देवदेहकम् ।
तर्पयेद् ज्ञानवान् देवि स्वमूर्ध्नि हृदये च वा
प्. १४२)
त्रिवारं तर्पणं देवि त्रिवारं पुष्प पातनम् ।
गुणत्रयस्य चैकत्वे तर्पणं चैकवारकम्
इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे चतुस्त्रिंशदुल्लासः
पञ्चत्रिशोल्लासः ।
अथ पात्रस्वीकारः ।
ततः पात्रं [छ्, ज्: तत्पात्रञ्च] नमस्कृत्य करसंपुटमुद्रया ।
त्रिशूलमुद्रया गृह्य प्रतिपात्रेषु वन्दनम्
ज्ञानद्वीपे -
शक्तिपात्रं नमेत् शक्तिर्बीरश्च वीरपात्रकम् ।
प्रतिपात्रं शुद्धियुक्तं सुरादेवीं विचिन्तयेत्
आधारे स्थापितं [घ्: स्थापयेत्] पात्रं संगृह्य दक्षिणे करे ।
परे वामे करे स्थाप्य सुरादेवीञ्च प्रार्थयेत्
अथ प्रार्थना ।
समुद्रे मध्यमाने तु क्षीराब्धौ सागरोत्तमे ।
तत्रोत्पन्नां सुरादेवीं कलौ कारणरूपिणीम् ।
अमृतं सत्यलोकेषु स्वर्गलोकेषु कारणम्
सुरासेवात् सुरत्वं हि देहि मे कामविह्वले ।
स्पर्शनात् कामदागृत्वं दर्शनात् पापहारिणी ।
आनन्दत्वं सेवनाच्च मुक्तित्वं रमणीयुतात्
प्. १४३)
त्रिपात्रं पञ्चपात्रं वा सप्तपात्रं महेश्वरि ।
पात्रञ्च नवमं देवि वन्दनीयं पिवेन्मधु
एकपात्रं युग्मपात्रं चक्रान्ते नैव कारयेत् ।
संख्याविरहितं पात्रं केवलं मृत्युदायकम्
तन्त्रान्तरे -
एकपात्रं न कर्तव्यं यदि साक्षान्महेश्वरः ।
तस्य मन्त्रो वृथा देवि पानं नरकदायकम्
कुलार्णवे -
त्रिपात्रं पञ्चपात्रान्तं नियमेन पिवेन्मधु ।
अत ऊर्द्धं महेशानि नियमः कः क्षमो भवेत्
सप्तमं नवमं यावद् यदि स्यान्नियमो भवेत् ।
सप्तमं नवमं यावद् यदि स्यान्नियमो भवेत् [छ्: तस्मान्न
नियमञ्चरेत्; ज्: तावन्न नियमञ्चरेत्]
तस्यार्थं वन्दनं मन्त्रं वक्ष्यामि शृणु पार्वति ।
पञ्चपात्रं वन्दनीयं नवमञ्च महेश्वरि ।
वन्दनीयं क्रमात् [छ्, ज्: क्रमे] कुर्यान्नियमेन पिवेन्मधु
अथ पञ्चपात्रवन्दनम् ।
श्रीमद्भैरवशेखरप्रविलसत्चन्द्रामृतप्लावितं,
क्षेत्राधीश्वरयोगिनीकुलगणैः सिद्धैः समाराधितम् ।
आनन्दार्णवकं महात्मकमिदं साक्षात्त्रिखण्डामृतं,
वन्दे श्रीप्रथमं कराम्बु जगतं पात्रं विशुद्धिप्रदम्
जुहोमि कुण्डलीवक्त्रे जुह्स्वेति वदेद् गुरुः ।
आजिह्वान्तं कुण्डलिनीं ध्यात्वा पानं चरेन्मधु
प्. १४४)
तन्त्रचिन्तामणौ -
वामहस्तेऽइ चषकं दक्षहस्तेन पार्वति ।
शुद्धिं कृत्वा [ग्, घ्, च्: धृत्वा] महेशानि चषके विनियोजयेत्
मूलेन पात्रं दातव्यं गृह्नीयान्मनुना [च्: मधुना] शिवे ।
कुलकुण्डलिनी-वक्त्रे दत्त्वा ध्यायेद् गुरुं स्वयम् [ज्: शिवे]
पुनः पात्रं मांसयुक्तं गृहीत्वा कुलनायिके [घ्:
ब्रह्मचिन्तनम्] ।
मूलेन कुण्डली वक्त्रे दत्त्वा ब्रह्म निरूपणम्
द्वितीयपात्रवन्दनम् ।
द्वितीयपात्रवन्दनम् ।
(२)
ओं हैमं मीनरसावहं दयितया दत्तञ्च पेयादिभिः,
किञ्चिच्चञ्चलरक्तपङ्जदृशा तस्यै समावेदितम् ।
वामे स्वादु [ज्: साधु] विशुद्धिकरणं पानं निधायात्मकं,
[घ्, छ्: विधायात्मकं; ज्: विधेयात्मकं]
वन्दे पात्रमहं द्वितीयमधुनानन्दैकसम्वर्द्धनम्
तृतीयपात्रवन्दनम् ।
(३)
सर्वाम्नाय कलाकलापकलितं [क्: -ललितं] कौतूहलद्योतकं [घ्
छ्: द्योतनम्; ज्: द्योतितम्]
चन्द्रोपेन्द्रमहेन्द्रशम्भुवरुणब्रह्मादिभिः सेवितम् ।
ध्यातं देवगणैः परं मुनिगणैर्ब्रह्मादिभिः [घ्, ज्:
मोक्षर्थिभिः] सर्वदा,
वन्दे पात्रमहं [ज्: पापहरं] तृतीयमधुना
चात्मावबोधक्षमम्
प्. १४५)
प्राणायामात् चरेत् पानं [घ्: पात्रं] प्राणायामं तदन्तरम् ।
तदन्ते रमणं कुर्यान्मूलमन्त्रजपान्वितम्
त्रिपात्रसंयुतं चक्रमिदमुक्तं महेश्वरि ।
पञ्चपात्रयुतं चक्रं वन्दनं शृणु पार्वति
चतुर्थापात्रवन्दनम् ।
(४)
ओं मद्यं मीनरसावहं हरिहरब्रह्मादिभिः सेवितं,
मुद्रामैथुनधर्मकर्मनिरतं क्षाराम्लतिक्ताश्रयम् ।
आचार्याष्टकसिद्धि [घ्: सिद्ध] भैरवकलामांसेनसंशोधितं,
पायात् पञ्चमकारतत्त्वसहितं पात्रं चतुर्थं नमः
पञ्चमपात्रवन्दनम् ।
(५)
आधारे भुजगाधिराजवलये पात्रं महीमण्डलं,
मद्यं सप्तसमुद्रवारिपिशितञ्चाष्टौ च दिग्दन्तिनः ।
सोऽहं भैरवमर्चयन् प्रतिदिनं तारागणै रक्षितैः,
रादित्यप्रमुखैः सुरासुरगणैराज्ञाकरैः किङ्करैः
अथ नवपात्रवन्दनम् ।
रुद्रयामले -
पात्रवन्दनमित्युक्तं नवमं सप्तमं प्रिये ।
यत्कृत्वा [घ्: कृते] साधकश्रेष्ठः शिवतुल्यो न संशयः
(१)
श्रीमद्भैरवशेखरप्रविलसत् चन्द्रामृतप्लावितं,
क्षेत्राधीश्वरयोगिनीगणमहासिद्धैः समावेदितम् ।
प्. १४६)
आनन्दार्णवकं नवात्मकमिदं [घ्: महात्मकम्]
साक्षात्त्रिखण्डामृतं,
तत्पात्रं प्रथमं समस्तजगतां सौख्याय वन्दे सदा
(२)
सर्वाम्नायमिलत् कलाकुलकलाकौतूहलद्योतक,
इन्द्रो [घ्: चन्द्रो] पेन्द्रमहेन्द्रचन्द्रकिरणैर्ब्रह्मादिभिः [घ्:
शम्भुवरुणं-] सेवितम् ।
ध्यानादेव परिश्रुतं विलयमुत्पादाय यत् सर्वदा,
लोकानां शुभवृद्धिदायकमिदं पात्रं द्वितीयं नमः
(३)
मद्यं मांसरसावहं हरिहरब्रह्मादिभिः सेवितं,
मुद्रामैथुनधर्मकर्मसुभगं क्षाराम्लातिक्ताश्रयम् ।
आचार्यष्टकसिद्धि [घ्: -सिद्ध्] भैरवकलामांसेन संशोधितं,
पायात् पञ्चमकारतत्त्वसहितं पात्रं तृतीयं नमः
(४)
विष्णुर्भूतसगोलसर्वसुखदं ब्रह्मादिसंचर्चितं,
सेव्यन्ते शिवशक्तिसंयुतमिदं पञ्चोपचारैः सदा ।
सत्स्यं छागकपोतमुत्तमरसं पात्रञ्च सर्वेश्वरम्,
तत्पात्रञ्च समस्तपुण्यसुखदं पात्रं चतुर्थं नमः
(५)
सर्वाम्न्यायकुलाकलागमपकं देव्यैर्मुखैर्भाषितं,
योगं योग [घ्, ज्: भोग] कुलाङ्गशास्त्रसततं गुप्तं
रहस्यान्वितम् ।
आनन्दोद्भव नादविन्दुकलया योगेन तैर्भैरवै,
पीतब्रह्मरसं सदोद्यतकरं पात्रं भजे पञ्चकम्
(६)
छत्रं चामरशक्तिपीठसदृशं संपूज्य शक्तिं सदा,
वामे वेश्यमनोहरां [घ्: वामावश्यमनोहरं] सुखकरां
[घ्: सुखकरं] कौतूहलं कौतुकम् ।
नाना भोगविलाससौख्यरमणं कामाङ्गनासेवितं,
श्रीमत् सुन्दरी तर्पणं द्रवरसं पात्रञ्च षष्ठं भजे
(७)
जाग्रत् - स्वप्न सुषुप्ति चिन्तनपरं, चैतन्यसाक्षिप्रदं
विद्युद्भास्करवल्लिसन्निभद्युति [छ्:
विद्युद्भास्करवल्लिभिद्युतिकरं] ज्योत्स्नाकलाव्यापितम् ।
इडापिङ्गलमध्यगा त्रिवलया स्यात् कुण्डलीमध्यगा,
पात्रं सप्तमपूरणे भवभयानन्दोऽधिकः पातु माम्
(८)
खड्गं पादुकमञ्चजनैक [ज्: मञ्जुलैकं] पुटिका [घ्:
गुटिकां] सारस्वतं सम्प्रदं [सम्प्रदं],
मृत्युर्वञ्जनमुग्रमार्तिहरहं रम्यं जगद्भाषितं,
पात्रञ्चाष्टममष्टसिद्धिकरणं प्रौढ प्रसन्नं सदा
(९)
आनन्दैकरसं सदाशिवपरं नन्दैकमुद्दीपनं
साम्राम्बा सुखदं मनोरथकरमज्ञानविध्वंसनम् ।
आयुःकान्ति यशोविवर्द्धनकरं संसारमोहाच्छदं [घ्:
मोहोच्छेदं; छ्: मोहच्छेदं],
पात्रं यन्नवनाथशक्तिसहितं सर्वार्थसिद्धिप्रदम्
इति श्रीसर्वानन्दनाथविरचिते सर्व्वोल्लासेपञ्चत्रिंशदुल्लासः
षट्त्रिंशोल्लासः ।
गुप्तसाधनतन्त्रे -
संगृह्य दिव्यचषकं स्थिरचित्तं समाहितः ।
विकल्पो नात्र कर्तव्यः कृते च मरणं भवेत्
अथ पाननियमः ।
कुलतत्त्वसारे -
आदौ देयं शक्तिपात्रं मूलेन मनुनाथवा ।
दीयमानं महामन्त्रं कथयामि शृणु प्रिये
मन्त्रस्तु ।
अलिपात्रं मया तुभ्यं दीयते पिशितान्वितम् ।
स्वीकृत्य सुभगे देवि जयं देहि पुनः पुनः
शक्तिप्रसादमानीय यत्नेन परमेश्वरि ।
स्वपात्रे कारणे मिश्रं पिवेदानन्दहेतवे
शक्त्युच्छिष्टान्वितं पात्रं केवलानन्ददायकम् ।
शक्तिरूपा महादेवी केवलानन्दवर्द्धिनी
शक्ति देहं स्थूलरूपं केवलं मोक्षभाक् शिवे ।
साधकस्य क्रियानन्दे तेजीयो रूपधारिणी
यथाकाशं महेशानि सर्वरूपस्य रूपकम् ।
तथा नारी नरस्यापि सर्वकार्यप्रकाशिका [छ्, ज्: प्रकाशिनी]
प्. १४९)
निर्वाणतन्त्रे -
पानं पञ्चविधं प्रोक्तं गुरुध्यानादिसंयुतम् ।
स्वीकृत्य कारणं देवि पश्चात् कार्याणि साधयेत्
प्रथमे च [घ्, ज्: श्री] गुरुध्यानं ततो ब्रह्म निरूपणम् ।
प्राणायामं गृतीये च चतुर्थे जपमाहरेत्
पञ्चमे पञ्चमं कृत्वा षष्ठेऽप्यानन्दमाचरेत् ।
पञ्चमं पात्रसहितं चक्रस्य लक्षणं शिवे
अथ नवमपात्रस्य लक्षणम् ।
गुरुध्यानं [ज्: गुरोर्ध्यानं] हि प्राणायामं जपम् मनुम्
प्रदक्षिणं नमस्कारं स्तोत्रं गानञ्च नृत्यनम् ।
मैथुनं परमेशानि दशमानन्दमाचरेत्
अथ श्रीगुरुध्यानम् ।
विश्वसारे -
सहस्रारे स्थितं ब्रह्म हंसहंसीसमन्वितम् ।
नादबिन्दुमयं पीठं हंसयुग्मं प्रकाशितम्
त्वदीय प्रतिबिम्बं यत् शुद्धदीपप्रकाशकम् ।
हृदये चिन्तयेद्देवं द्विभुजं शक्तिसंयुतम्
प्रमाणं गुरुगीतायां -
गृद्यम्बुजे कर्णिकमध्यसंस्थं
सिंहासने संस्थितदिव्यमूर्तितम् ।
ध्यायेद् गुरुं चन्द्रकलावतंसं,
सच्चित् सुखाभीष्टवराप्रदानम्
प्. १५०)
श्वेताम्बरं श्वेतविलेपयुक्तं
मुक्ताफलाफलभूषितदिव्यमूर्तिम् ।
वामाङ्कपीठेस्थितदिव्यशक्तिं
मन्दस्मितं पूर्णकृपानिधानम्
आनन्दमानन्दकरं प्रसन्नं,
ज्ञानस्वरूपं निजबोधयुक्तम् ।
गीन्द्रमीड्यं भवरोगवैद्यं,
श्रीद्गुरुं नित्यमहं नमामि
गुरुतन्त्रे -
सहस्रारे स्थितं ब्रह्म तदेव गुरुरुच्यते ।
ध्यानपूजादिकं सर्वं सहस्रारे प्रकल्पयेत्
कदाचित् स्व सहस्रारे मन्त्रध्येयो गुरुः सदा ।
ददाचित् हृदयाम्भोजे कदाचिद् दृष्टिगोचरे
दृष्टेऽपि गुरुरूपञ्च सहस्रारे न चिन्तयेत् ।
हृदये चिन्तनं नास्ति प्रतिविम्बेषु चिन्तयेत् ।
त्वदीय प्रतिविम्बेषु तज्ज्ञानं परिचिन्तनम्
हंसमाहेश्वरे -
सहस्रारे परं ब्रह्म हृदये प्रतिबिम्बकम् ।
प्रतिबिम्बस्य बिम्बं हि नरदेहप्रकाशकम्
तेजोविम्बं यथा देवि तेजीयः स्थूलमात्रकम् [ग्: स्थूलरूपकः] ।
स्थूलस्य विम्बं परमं तेजसि भाति सर्वदा
तन्त्रान्तरे -
गुरौ मनुष्यबुद्धिन्तु [घ्: बुद्धिस्तु] मन्त्रे चाक्षरभावनम् [घ्:
भावना] ।
प्रतिमासु [घ्: प्रतिमायां] शिलाज्ञानं कुर्वाणो नरकं व्रजेत्
प्. १५१)
अथ ब्रह्मनिरूपणम् ।
भावचूडामणौ -
पञ्चनादं षष्ठविन्दु षुषुम्णामध्यसंस्थितम् [ज्:
मध्यगं] ।
षट्पङ्कजमिदं प्रोक्तं सहस्रारं शिवस्थलम् [छ्, ज्:
शिवंपुरं] २३ ॥
पञ्चचक्रं पञ्चतत्त्वं षष्ठं तत्वविवर्जितम् (घ्, ज्:
व्योमातीतं शिवे] ।
तन्मनः परमेशानि मनोऽतीतं निरञ्जनम्
निरञ्जनं निराकारमवाङ्मनसो गोचरम् ।
वाचातीतं वचोज्ञेयप्रकाशं [ज्: वाचा-] प्रकाशकम्
चन्द्रसूर्याग्निभिर्यत्र प्रकाशञ्च न विद्यते ।
तत्प्रकाशे जगद्भाति नाभाति चाप्रकाशके
सहस्रारमिदं प्रोक्तं स्फाटिके रञ्जनं यथा ।
शिव शक्तिमयं बिन्दु सहस्रारं मनोहरम्
सहस्रारे प्रतिदले नादबिन्दुसहस्रकम् ।
प्रतिबिन्दु नादयुग्मं नादञ्च बिन्दुयुग्मकम्
नादं भावं महेशानि बिन्दुं भावविवर्जितम् ।
नादबिन्दुमयं सर्वं ब्रह्मज्ञानेन भाषितम्
ज्ञानस्य कारणं नादं बिन्दु ज्ञानस्य नाशकम् ।
नादाक्तबिन्दु ज्ञेयञ्च ब्रह्मज्ञानमिति प्रिये
अथ प्राणायामः ।
मूलाधारे कुण्डलिनी स्वयम्भू लिङ्ग वेष्टिता ।
महाशृङ्गारसंयुक्ता जीवात्म मोक्षदायिका
प्राणायामेन तां नीत्वा स्वाधिष्ठानेषु स्नापयेत् ।
मणिपुरेषु तां देवीं [ग्: नीत्वा] चिन्तामणि विभूषयेत्
प्. १५२)
अनाहते महापद्मे नीत्वा तां जगदम्बिकाम् ।
पूजयेद् वहुयत्नेन कारणादिप्रभेदकैः
अथ जपः ।
विभावे शक्तिमन्त्रञ्च सभावे शिवमन्त्रकम् ।
विशुद्धाख्ये जपेन्मन्त्रमाज्ञायां तत्समापनम्
तन्त्रान्तरे [छ्, ज्: इति मन्त्रान्तरे भावः । तदाज्ञायां
जपकर्माणि साधयेत्]
अनाहते महाशक्तिर्जीवात्म दीपवत्प्रभा ।
विशुद्धेऽपि शिवे मत्ता रमणाज्ञासमावृता [ज्: समाश्रिता]
पञ्चमे पञ्चमे तत्त्वे सहस्रारे महापुरे ।
शिवशक्तिमयं बिन्दुमेकदेहं विचिन्तयेत्
ततः पुनः प्रतिस्थाने प्रतिपद्मे दले दले ।
शिवशक्तिमयं देवि शक्त्या शिवमयं वपुः
ध्यात्वापि कारणं पात्रं जुहुयादिष्टसिद्धये ।
मूलाधारे त्रिकोणाक्ते भगक्षालितवारिणा
पूरयेत् कुण्डलीगर्तं मूलेन मनुना शिवे ।
कामरागेण [ज्: वाणेन] सन्तप्ता कामवारिपिपासिका
विसतन्तुसमाकारा [ज्: शिव] कारण्यवारिमज्जिता ।
एकास्यं लिङ्गरन्ध्रेऽपि परास्येन महेश्वरि ।
श्वासोच्छ्वासेन [क्, ग्: श्वासाश्वासेन्] देवानि स्थापितानि क्रमाणि
च
इति ते कथितं कान्ते [घ्: देवि] मधुपानस्य लक्षणम् ।
गोपनीयं गोपनीयं गोपनीयं पुनः पुनः
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे षट्त्रिंशोल्लासः
सप्तत्रिंशोल्लासः ।
नारायणीतन्त्रे श्रीदेव्युवाच -
अन्तःपूजा श्रुता नाथ वाह्यपूजाञ्च किं वद [घ्: कीदृशम्] ।
अन्तःपूजा मनो हृष्टं [ज्: हृद्यं] यदि स्यात्तु भविष्यति ।
तदन्ते साधको देव वाह्यपूजाञ्च काक्षति
अन्तःपूजा तदा पूर्णा यदान्ते [ज्: यदन्ते] देवदर्शनम् ।
वाह्यार्चनं तदा कार्यमन्यथाभूद् वृथेन्द्रियम् ।
अत एव महादेव श्रोतुमिच्छामि लक्षणम्
श्रीशिव उवाच -
यदुक्तं परमानन्दे लोकानां सिद्धिहेतवे ।
शृणुष्व जगतां मातः शृणुष्व प्राणवल्लभे
प्रथमे श्रीगुरुध्यानम् ।
यदाज्ञया महेशानि यत्कार्यं परिसाधयेत् ।
तत्कार्यफललाभार्थे तं गुरुं परिकल्पयेत् [क्, च्: परिकल्पितं;
परिचिन्तयेत्] ।
द्वितीये रूपचिन्तनम् ।
कारणानन्दरूपा हि आनन्दं कारणं शिवे ।
द्वितीयसहितं मद्यं द्वितीये रूपचिन्तनम्
प्. १५४)
तृतीये प्राणायामः ।
[शैवाचारे बहुधाप्रोक्तं प्राणायामफलम्]
अङ्गन्यासेऽप्यङ्गशुद्धं [घ्: अङ्गशुद्धिं] करन्यासे करं
शिवे ।
अङ्गुल्यङ्गुलिपर्वान्तात् [क्: -पर्वन्तन्] सार्द्धं सन्धिं करस्य च
चतुर्थे जपः ।
हृदये हस्तमारोप्य तिर्यक् कृत्वा कराङ्गुलीम् ।
आच्छाद्य वाससा हस्तौ दक्षिणेन सदा जपेत्
श्रीदेव्युवाच -
देवेश प्राणनाथेश नमामि चरणाम्बुजे ।
गोपनीयं कथं प्रोक्तं फलं किञ्च वद [घ्: किन्तद्वद] प्रभो
श्रीशिव उवाच -
मन्त्रं हि गोपनं भद्रं तथा जापकरं [क्, ख्, च्: जपं करं]
शिवे ।
कारणं हि तथा गोप्यं गोपनीयञ्च मैथुनम्
कुसङ्गात् [छ्, ज्: कुसङ्गे] फलहानिः स्यात् सुसङ्गे फलभाग्भवेत् ।
मुक्त्याकाङ्क्षी महेशानि सङ्गं त्यक्त्वा क्रियाञ्चरेत्
पञ्चमे मैथुनन् ।
उरुद्वन्द्वे पदद्वन्द्वं शिवागारे शिवं न्यसेत् ।
शुक्रपातं योनिरन्ध्रे [-मार्गे] मुक्तिस्तस्य करे स्थिता
प्. १५५)
षष्ठे प्रदक्षिणम् ।
यामले -
चण्ड्यामेकं रवौ सप्त त्रीणि कुर्याद्विनायके ।
चत्वारि केशवे कुर्याद शिवे चार्द्धप्रदक्षिणम्
शक्तिप्रदक्षिणक्रमः ।
दक्षिणाद्वायवीं गत्वा गतस्तस्याश्च शाम्भवीम् ।
तस्याश्च दक्षिणे गत्वा नमस्कारं त्रिकोणवत्
शिवप्रदक्षिणम् ।
वृषं चण्डं वृषञ्चैव सोमसूत्रं [ज्: -शुक्रं] तथा वृषम् ।
चण्डञ्च [ज्: वृषञ्च] सोमसूत्रञ्च [ज्: -शुक्रञ्च] पुनश्चण्डं
पुनर्वृषम्
पृष्ठे दक्षे [घ्: पृष्ठदेशे] तथा वामे वृषं चण्डञ्च
सोमकम् ।
सव्यासव्यक्रमेणैव सोमसूत्रं [ज्: -शुक्रं] न लङ्घयेत्
यत्प्रकारं यथासंख्यं पीठं यस्य महेश्वरि ।
तत्प्रकारं हि तत्संख्यं प्रादक्षिण्यं [घ्: प्रदक्षिणं]
समाचरेत्
अस्य फलम् ।
प्रदक्षिणेन देवेशि देवतापीठरोपणम् ।
यः कुर्याद्भक्तिभावेन देवे सोऽपि लयो भवेत्
सप्तमे नमस्कारः ।
यद्भागेऽपि नमस्कारं तद्भागे लयवान्भवेत् [क्: -भाग्] ।
अतस्त्वं [क्, ग्, घ्: त्वां] परमेशानि सर्वलोकस्य वन्दिता [क्, ग्, घ्:
वन्दितां]
प्. १५६)
नारायणीतन्त्रे -
स्ववामे प्रणमेद्विष्णुं दक्षिणे गौरोशङ्करम् ।
गुरुं नमेत् सम्मुखतो नान्यथा निष्फलं भवेत्
अष्टाङ्गेन नमेद्देवं पञ्चाङ्गेन महेश्वरि ।
हस्तेन शिरसा वापि शिरसा केवलेन च [छ्, ज्: वा]
अथाष्टाङ्ग नमस्कारः ।
पद्भ्यां कराभ्यां जानुभ्यां उरसा शिरसा दृशा ।
वचसा मनसा चैव प्रणामोऽष्टाष्ट ईरितः
उरसा शिरसा देवि वचसा मनसा दृशा ।
पञ्चाङ्गेन नमेद्देवं देवता लयभाग्भवेत्
सहस्रारे महापद्मे सर्वदेवालये शिवे ।
तत्तत् स्वरूपं संचिन्त्य सर्वानिष्टान्नमेद् यजेत् [ज्: जयेत्]
दुकूलं नादमाकारं गले दत्त्वा महेश्वरि ।
नमस्कारं तथा स्तोत्रं भक्तिमान् साधकश्चरेत्
अष्टमे स्तोत्रम् ।
तन्त्रान्तरे -
मनसापि पठेत् स्तोत्रं वाचा वापि जपेन्मनुम् ।
उभयोर्निष्फलं [ग्: विफलं] विद्यात् [क्, ग्, च्: देवि] भग्न [क्, ग्, च्:
भीन्न] भाण्डोदकं यथा
वीरतन्त्रे श्रीदेव्युवाच -
स्वेष्टदेवार्चने स्वेष्ट सर्वकार्याणि साधयेत् ।
तदन्यं पूजनं स्तोत्रं कथमन्यस्य कारयेत् [ज्: कारणम्]
प्. १५७)
श्रीशिव उवाच -
अनन्ताशयजीवोऽपि [घ्: अनन्तस्याशयजरो; च्: अनन्ताशयवीजो]
क्रियानन्तेषु लुब्धकः ।
अनन्तश्च फलाकाङ्क्षी अतो देवार्चनान्तकम् [ज्: देवोह्यनन्तकः]
एकध्यानमेकरूपमेकात्मात्मानमिच्छति [ज्: एकत्वात्मानम्] ।
स्तोत्रेणान्यं हि यद्देवं स्वेष्टदेवमयो भवेत् ।
अतश्च साधको देवि स्वेष्टान्यं स्तोत्रमाचरेत्
नवमे गायनम् ।
नवमे गायनं नृत्यं भगलिङ्गामृतं शिवे ।
नृत्यं शृङ्गारभावेन देवता प्रीतिभाग्भवेत्
देवतागुणकाक्यं वा गायनं भक्तिदायकम् ।
चक्र मध्ये [घ्, छ्, ज्: भिन्ने] चरेद्गानं भैरवो गाननायकः
[छ्, ज्: -नाशकः]
केवलं [ज्: केवले] गायनेनापि नवमं पात्रभक्षणम् [क्, च्, छ्: -
रक्षणम्] ।
ततश्च देही परमे दशमेऽपि लयो भवेत्
ज्ञानार्णवे -
प्रथमे भक्तिमात्रं हि द्वितीये रूप चिन्तनम् ।
तृतीये रोमहर्षञ्च चतुर्थेऽश्रुप्रपातनम्
पञ्चमे गद्गदं वाक्यं षष्ठे गानादिसङ्कुलम् ।
सप्तमे पतितो भूमौ ज्ञानाज्ञानोऽपि चाष्टमे
नवमे ज्ञानरहितो देहाज्जीवं विमुञ्चति [छ्: न-]
दशमे परमेशानि गाने पाने च जायते
प्. १५८)
निगमतत्त्वे श्रीदेव्युवाच -
गायनं भगलिङ्गस्य नृत्यं शृङ्गारभावकम् ।
देवतावेशसंग्राह्यनृत्यं वाद्यञ्च गायनम्
गाने नृत्ये यदानन्दं शक्त्याश्चापि [क्, च्: शक्त्या सापि; घ्:
शक्तिश्चापि] शिवस्य च ।
तदानन्दो यदा शक्तेः स शिवः सापि शङ्करी [ज्: शक्तिः सापि च
शङ्करी]
इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे सप्तत्रिंशदुल्लासः
अषृत्रिंशोल्लासः ।
अथ पात्रे मधुदानप्रमाणम् ।
विश्वसारतन्त्रे -
प्रथमे तोलकं पञ्च द्वितीयेऽपि चतुर्थकम् ।
तृतीयेऽपि त्रितोलं स्याच्चतुर्थेऽपि द्वितोलकम् ।
पञ्चमेऽप्ये कतोलं स्यात् ततः पूर्णं पिवेन्मधु
अथ नवमपात्रे मधुदानप्रमाणम् ।
पञ्चमं सप्तमं पात्रं नवमं वा महेश्वरि ।
तदूर्द्धं मधुपानेषु नियमः कः क्षमो भवेत्
यस्मित् चक्रे महेशानि यत्संख्यपात्रकल्पितम् ।
विपरीत क्रमे माने [घ्: क्रमेणैव] तोलकं प्रथमावधि
प्. १५९)
चक्रान्तेऽप्येकतोलं हि तदन्ते पूर्णपात्रकम् ।
तदन्ते मैथुनं कुर्याद् भगवारि पिवेन्मुदा
प्रथमे लवणं [छ्, ज्: केवलं] मद्यं द्वितीये मांससंयुतम् ।
मुद्रायुक्तं तृतीयेऽपि चतुर्थे मीनसंयुतम्
पञ्चमे सर्वसंयुक्तं नियमेन पिवेन्मधु ।
अथवा लवणे [नवमे] नापि सर्वपात्राणि कारयेत्
चर्व्यं चोष्यं लेह्यपेयं शक्तिवाक्यानुसारतः ।
ज्ञानी च परमेशानि स्वेच्छयापि पिवेन्मधु ।
चर्यंचोष्यं [घ्: चर्व्यं चोष्यं लेह्यं पेयं स्वेच्छया हि
महेश्वरि] तथा लेह्यं पेयं हि स्वेच्छया शिवे
चर्वणेन विना देवि केवलम् विषभक्षणम् ।
येन तेन प्रकारेण चर्वणं परिकल्पयेत् [छ्, ज्: परिकल्पनम्]
श्यामारहस्ये -
शक्तिं विना यथा मद्यं तथा मुद्रां विना शिवे ।
रेतो विना यथा क्रीडा विना क्रीडाञ्च रेतकम् ॥ [ज्: रेतनम्] ।
सर्वञ्च विफलं याति यथा वायुश्च यथा वायुश्च भक्षणम्
इति श्रीसर्वानन्दनाथविरचिते सर्वाल्लासे अष्टत्रिंशदुल्लासः
ऊनचत्वारिंशोल्लासः ।
श्रीदेव्युवाच -
क्रीडा का परमेशान रेतः किं वद शङ्कर ।
क्रीडया च किमद्भुतं कथय प्राणवल्लभ
श्रीशिव उवाच -
क्रीडापि शक्तिभिः सार्द्धं रेतः शृङ्गारसम्भवम् ।
फलमानन्दविज्ञेयं कारणोभयमीलितम्
अथ क्रीडा । भावचूडामणौ -
गुरोराज्ञां समादाय क्रियामात्रं समाचरेत् ।
अन्यथा या क्रिया प्रोक्ता व्यञ्जने लवणं [क्, ग्, च्: अलवणं] यथा
तथा च विश्वसारे -
गुरुं विना पिवेन्मद्यं विना शक्तिञ्च मैथुनम् ।
तद्द्रव्यं नैव गृह्णाति कुण्डलीपरदेवता
गुरोरभावे तच्छक्तौ पात्रं दत्त्वा पिवेन्मधु ।
अथवा तत्सुते दत्त्वा पानं तत् [क्, ख्, च्: यत्] फलदायकम्
गुरोः कृपां विना देवि सर्वं हि विफलं भवेत् ।
तैलं विना यथा दीपे वर्त्तिदानं तथा ध्रुवम्
गुरोराज्ञां समादाय क्रीडया शक्तिभिः सह ।
मधुपानेन संमतो घातयेद् योनिमण्डले
प्. १६१)
अथ क्रीडा लक्षणम् । निरुत्तरे -
आनीय सुन्दरीं कान्तां कुलभक्तां कुलार्च्चने ।
शक्तिचक्रं त्रिधा कृत्वा शक्ति भाले लिखेत् ततः
पिच्छिलायाम् -
श्वेतं रक्तञ्च मिश्रञ्च शक्तिचक्रेषु शोभनम् ।
त्रिधा कृत्वा लिखेद्भाले मध्ये मिश्रंनियोजयेत्
श्वेतसत्त्वं [ज्: श्वेतं-] रजोरक्तं तमोमिश्रं महेश्वरि ।
कृष्णोद्भूतं [च्: कृष्णोद्भवं] सर्ववर्णं लिखेच्चक्रस्य
मध्यवत्
ब्रह्मकोणं विष्णुकोणं सव्यासव्ये मेह्श्वरि ।
शिवकोणं मध्यदेशे त्रिविन्दु त्रित्वभाषितम्
विन्दुमात्रं कृष्णवर्णं मध्यवर्णं प्रकाशितम् ।
ऊर्द्धे रक्तम् अधः श्वेतं मिश्रं मध्ये नियोजयेत्
तत्र काम कलाबिन्दुं शिव कोणे प्रकाशितम् ।
शक्तावावाहनं नास्ति यतो देवी स्वरूपिणी
स्वेष्ट विद्यां स्वरूपां तां चिन्तयेत् कुल साधकः ।
पूजयित्वा रमेत् शक्तिं वीर्य पाते विसर्जनम्
श्री चक्रे देवताग्रे च पूजयेद् रमणे शिवां ।
सम्भोगे [घ्: देव्यग्रे सम्भोगेचैव; च्: शम्भोरग्रे च; ज्: देवताग्रे
तु सम्भोगे] चैव देव्यग्रे देवता प्रीतिभाग्भवेत्
हंसमाहेश्वरे -
मुहुर्मुहुः विवेद्द्रव्यं [ज्: मद्यं] पीत्वा पीत्वा जपेन्मनुम् ।
ध्यात्वा ध्यात्वार्च्चनं शक्तिं ज्ञात्वा ज्ञात्वा व्रजेत् स्त्रियम्
प्. १६२)
चक्रमध्ये साधकाग्रे [ज्: महेशानि] साध्यां शक्तिं रमेद्यदि ।
पूर्णानन्दो भवेत् सोऽपि सम्भोगं मम सम्मतम्
सम कार्यं कृतं तेन [घ्: येन] सत्यं सत्यं न संशयः ।
यदा रमेच्चक्रभिन्ने गुरोराज्ञानुसारतः
यदि भाग्येन देवेशि गुरूरमणमाचरेत् ।
सा नारी कालिकारूपा शुक्र पातं भगे [ज्: भवेद्] यदि
या [श्लोकोऽयं छ्: पुस्तके नास्ति] नारी परमेशानि गुरवे
भक्तिसंयुता ।
तदाज्ञयापि तद्योनौ गुरुश्च रमणञ्चरेत्
अन्यथापि न कर्त्तव्यं कृते सिद्धिर्न संशयः ।
यदि कुर्ययात् तु मोहेन शृङ्गारं शक्तिसंयुतम् ।
गुरुत्वं हि लयं यस्मात् पुनश्चक्रं नियोजये
नारायणीतन्त्रे -
अनिच्छया साधकस्य साध्यायाः परमेश्वरि ।
रमणं नैव कर्त्तव्यं कृतेऽपि पतितो भवेत्
मैथुनं मद्यसारं हि शुक्रं मैथुन सारकम् ।
शुक्र पातं विना कार्यं मद्यं मैथुन - वर्जितम् ।
सर्वं हि निष्फलं प्रोक्तं [घ्: कार्ययं] मृत पुत्रेण पुत्रिणी
ज्ञानार्णवे -
धृत्वा साधक रेतश्च सा नारी कालिका स्वयम् ।
अत एव महेशानि वेश्याशक्तिप्रफुल्लिका [घ्, च्: शक्तिः-]
साधको दर्शने यन्त्रं पापमुक्तो भविष्यति ।
स्पर्शनात् पुण्यभाग्लोको [घ्, च्: -लोके] घातनाच्च क्रियान्वितः
प्. १६३)
शुक्रपाते शिवोऽभूच्च नारी काली परा तदा ।
यद्योनिं [ज्: तद्-] भक्ति भावेन रमणञ्च करोति यः ।
पूतात्मा पुण्यभागीच क्रियाशक्तः शिवोभवेत्
पूजात् पुण्यं महेशानि पुण्यात् कार्येषु योग्यता ।
योग्यात् शिवत्वं सायुज्यं शक्रे निर्वाण भाग्भवेत्
गुप्तसाधनतन्त्रे -
शुभलग्ने शुभदिने शुभकार्ये शुभस्थले ।
मथुनं कारयेद् धीरस्तद्भिन्ने [ज्: वीर-] नरकं व्रजेत्
अविधानेन देवेशि मैथुनं नरकदायकम् ।
विधानेने वरारोहे किं न सिध्यति भूतले
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे ऊनचत्वारिंशदुल्लासः
चत्वारिंशोल्लासः ।
अथ मैथुन विधानम् । ज्ञानार्णवे -
श्रीदेव्युवाच -
देवेश प्राणनाथेश लोकानां ज्ञानदायक [ज्: त्राण-] !
मथुनं श्रोतुमिच्छामि यथाविधि विधानकम्
प्. १६४)
श्रीशिव उवाच -
पीत्वातु मादकं द्रव्यं मैथुनं यद्विधानकम् ।
मैथुनेन विना देवि सर्वकार्यं वृथा भवेत्
(श्लोकोऽयं छ्: पुस्तके दृश्यते, नान्यत्र) तान्त्रिकेऽपि स्वयं वैदिके
प्रतिकल्पनम् ।
अन्यथापि कृतं कार्ययं स चुम्बको न संशयः
ये वदन्ति महेशानि मैथुनं नरक दायकम् ।
तदर्थे मैथुनं देवि प्रोक्तं हि विधिबोधितम्
तेषां सङ्गकृतं देवि चुम्बकं नात्र संशयः ।
तं दृष्ट्वा साधको देवि योन्या घ्राणं समाचरेत्
तस्याङ्गस्पर्शनाद्देवि वीक्षयेद्योनिमण्डलम् ।
शक्तेराज्ञां विना देवि वलेन मैथुनं चरेत्
स धूर्त्तः परमेशानि असुरस्य मतान्वितः ।
शक्तेर्दुःखं महेशानि मैथुनेन ददेद् यदि ।
स शठः सापि शक्तिश्च तत्क्षणात्तं परित्यजेत्
वृथा वाक्येन देवेशि शक्तिचित्त प्रकाशकः ।
मुखरं [घ्, ज्: मूर्खञ्च] तं विजानीयात् तत्सङ्गं परिवर्जयेत्
दम्भेन परमेशानि शक्तिमानीय यत्नतः ।
दाम्भिकं तं विजानीयात् तस्या [ज्: तथा] लापं परित्यजेत्
अयत्नेन यदा शक्तिं दम्भेनाप्यानयेत् शिवे ।
तस्य [ज्: अस्य] सङ्गं [ज्: अङ्गं] तस्य वाक्यं साधकस्यापि
नाशकम्
चुम्बकस्यापि धूर्त्तस्य शठस्यापि महेश्वरि ।
मुखरस्य [घ्, ज्: मूर्खस्य] दाम्भिकस्य [घ्, ज्: दाम्भिकस्यापि]
कामुकस्य मतं विना ।
रमणं हि प्रकर्त्तव्यं सुरभावेन [च्: सुरा-] भावितः
प्. १६५)
वरदातन्त्रे -
ब्रह्म विष्णु शिवादीनां मैथुनस्य प्रसादतः ।
तत्र स्नेहेन वद्धोऽहं गोपनीयं मनः स्थिरम् ।
प्रकाशञ्च करोम्यद्य न प्रकाश्यं कदाचन
मैथुनार्थे.प्यहं देविपुं देहेषु सदा स्थितः ।
मैथुनार्थेऽपि त्वं देवि नारीदेहे सदा स्थिता
बहुनापि किमुक्तेन [ज्: नियुक्तेन] मैथुनस्य प्रसादतः ।
अहं ज्ञानं समाश्रित्य देहेषु दिहिनामधृक्
मैथुनं परमं ज्ञानं क्रियामात्रं जगन्मयम् ।
स्थूले सूक्ष्मे क्रियाशक्त स्तेजसि खलु पार्वति [घ्: शङ्करि]
निगमकल्पद्रुमे । श्रीदेव्युवाच -
क्रियया परमेशान मैथुनं तत् प्रकीर्त्तितं ।
मैथुनं पुण्यजनितं क्रियाक्तो ज्ञानवान् यदि
आविर्भावं तिरोभावं क्रियामात्रं सुनिश्चितम् ।
तेषां मध्ये चाद्यबीजं मैथुनाक्तं क्रियेति च
सूक्ष्मेऽपि या क्रिया प्रोक्ता मुखेन भाव वर्जिता ।
भावार्थेऽपि महादेव स्थूलदेहे क्रिया युता
अनन्त वचसा देव स्थिरबुद्धिर्विनश्यति ।
अत एव महादेव [घ्: महेशान] शक्ति [घ्: नारी] देहेषु मैथुनम्
कान्तायां मैथुनं देव पुंदेहेषु सुखोदितम् ।
पुरुषस्य सुखं देव नारीदेहेषु मैथुनम्
प्. १६६)
बहुधा वचसा किम्बा कथयामि महेश्वर ।
स्त्री पुंरूपमहं त्वञ्च रमणार्थे प्रकाशितं
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे चत्वारिंशदुल्लासः
एकचत्वारिंशोल्लासः ।
अथ पञ्चमानन्द कथनम् ।
निगम कल्पद्रुमे - श्रीशिव उवाच -
पञ्चतत्त्वं वरारोहे केवलानन्ददायकम् ।
रतेस्तुल्यं महानन्दं तेषां मध्ये न विद्यते
रतिमाहाम्त्य कथने यदानन्दं भवेद्ध्रुवम् ।
तदानन्दं कथं भद्रे चान्यतत्त्वेषु विद्यते
श्रीदेव्युवाच -
रतिप्रसादाद्देवेश तुष्टाहं सर्वदा त्वयि ।
शक्तिरूपाह्यहं तेन तिष्ठामि च गृहे गृहे
निर्विकारं निरालम्बं भावातीतं परं महत् ।
रति सन्तोष भोगार्थं [ज्: सम्भोगतोषार्थं] शिवस्त्वञ्च
शिवाप्यहम्
नारायणीतन्त्रे -
द्वयोर्ययोगाच्च सुभगे मैथुनं जायते ध्रुवम् ।
अहं त्वं स्त्री पुमान् रूपो [घ्: रूपे] तिष्ठामि भावहेतवे
प्. १६७)
स्वीरूपा ब्रह्मरूपाच पुंरूपो ब्रह्मविग्रहः ।
कीटादिषु वरारोहे मैथुनार्थे सदा स्थितः
येन येन प्रकारेण सानन्दं जायते ध्रुवम् ।
तेन तेन प्रकारेण विचरत्यपि भूतले
अन्यानन्दे वरारोहे स्थिरज्ञानं न जायते ।
स्थिरानन्दं पञ्चमेषु पञ्चमं मुक्तिदायकम्
आनन्दे मैथुने देवि सृष्टि स्थिति लयः क्षितौ ।
आनन्देन विना देही क्षणमात्रं न तिष्ठति
अतश्चानन्दकं ब्रह्म मैथुनं हि परात् परम् ।
यतश्च [घ्, छ्: अतश्च] मैथुनानदं प्रकृति पुरुषात्मकम्
ललिताख्यतन्त्रे -
वेदमाताजपेनैव ब्राह्मणे नहि शौलजे ।
ब्रह्म ज्ञानं यदा देवि तदा ब्राह्मण उच्यते
अत एव द्विजाः सर्वे मद्य मैथुन लालिताः ।
मद्यपाने भवेज्ज्ञानी मैथुने तत्तववान् भवेत्
ज्ञानार्णवे श्रीदेव्युवाच -
देवेश प्राणनाथेश [छ्, ज्: परमानन्द] परतत्त्वेषु मोहितः ।
भावभेदेन कथय साधकानन्द - लक्षणम्
श्रीमहादेव उवाच -
आनन्दार्थी क्रियामार्गी साधको द्विविधः स्मृतः [छ्: शिवे] ।
क्रियात्मनो लक्षणं हि बहुधा प्रकटीकृतम्
संक्षेपेऽप्यधुना प्रोक्तं क्रिया शक्तस्य लक्षणम् ।
येन मार्गेण देवेशि फलभाग् जायते नरः
प्. १६८)
अथ क्रियामार्गि साधक लक्षणम् ।
विना शक्तिं पिवेन्मद्यं विना मद्येन मैथुनम् ।
विना मुद्रां पिवेन्मद्यं निष्फलं नात्र संशयः
विना मीनं यजेत् शक्तिं विना मांसेन तर्पणम् ।
चर्व्वणेन विना मद्यं निष्फलं नात्र संशयः
अतिपानं न कर्त्तव्यं भावातीतं भवेद् यतः ।
भावातीते क्रिया नष्टा विद्या नष्टा कुलेश्वरि
ज्ञानार्णवे -
अतिपाने भवेद्दु.खं लोके [च्: लोक] निन्दा प्रवर्तते ।
अत एव क्रियामार्गी अतिपानं नचाचरेत्
अतिपाने महेशानि जप पूजादि निष्फलम् ।
अत एव क्रियामार्गी [ज्: महेशानि] ह्यतिपानं नचाचरेत्
आनन्द कारणं मद्यं आनन्दं मुक्ति दायकम् [घ्, छ्, ज्:
कारणम्] ।
आनन्देनैव ज्ञातव्यं साधकस्यापि लक्षणम्
खण्डानन्दं विना देवि पूर्णानन्दं न जायते ।
खण्ड ज्ञानं विना देवि पूर्णज्ञानं [छ्: पूर्णानन्दम्] न
जायते
उत्तमं सर्वदानन्दं हेतुना मध्यमं शिवे ।
मैथुनं रक्तरहितम् अधमानन्दकं शिवे
उत्तमस्यैक पात्रेऽपि मध्यमःस्यात् [ज्: मध्यमस्य] त्रिपात्रकम् ।
बहुपात्रे चाधमस्य क्वचिदानन्द मीरितम्
इति सर्वानन्दनाथविरचिते सर्वोल्लासे एकचत्वारिंशदुल्लासः
द्वाचत्वारिंशोल्लासः ।
अथानन्दार्थि साधक लक्षणम् ।
ज्ञानार्णवे श्रीदेव्युवाच -
क्रिया मार्गि साधकस्य लक्षणं बहुधा श्रुतम् ।
अधुना श्रोतुमिच्छामि साधकानन्द लक्षणम्
श्रीशिव उवाच -
क्रिमार्गी क्रियाशक्तः पञ्चतत्त्वेषु लुब्धकः ।
ज्ञानमार्गी त्रितत्वाक्तः [घ्, ज्: क्रियात्यक्तः] केवलानन्द
लुब्धकः
भावतीतो ज्ञान मार्गी भावातीतं हि मैथुनम् ।
भावातीतं पिवेन्मद्यं सर्व प्राणि हिते रतः
नारायणीतन्त्रे -
स्वेष्टविद्या सर्वरूपा स्वात्म ज्ञानेन भाषिता ।
प्राणि नष्टे चात्मनष्टं त्रितत्त्वं ज्ञानि सेवितम्
पञ्च तत्त्वस्य देवेशि फलं पञ्चविधं यतः [ज्: मतम्] ।
अत एव पङ्क तत्त्वं प्रत्येकं ज्ञान दायकम्
मद्यं मुद्रां मैथुनं हि त्रितत्त्वं त्रिगुणान्वितम् ।
सेवनात् प्रसभं [घ्, छ्: प्रसवं] सिद्धिः काली तारा च सुन्दरी
कालिका कल्पे -
वीरभावं द्विधा ज्ञेयं दैवमासुरमेव च ।
देवे त्रितत्त्वं परमं [ज्: परमे] पञ्चतत्त्वासुरे शिवे
प्. १७०)
आसुरेषु भवेन्मुक्तिर्दैवेषु मुक्ति भाग् नरः ।
अनयोश्च यथा भेदं तत् शृणुष्व महेश्वरि
पश्वाचारश्च शैवश्च वीरश्च दिव्यं एव च ।
सिद्धान्तश्च भवेद्भावः कौलश्च भाव वर्जितः
भावातीते भवेन्मुक्तिर्भावैर्वद्धो भवेन्नरः ।
कौलाचारस्य बीजं हि दिव्यः सिद्धान्त एव च
आसुरे दिव्य भावं हि दैवे सिद्धान्त एव च ।
दिव्यो देव स्वरूपश्च सिद्धान्तो देव एव च
निगमानन्दे श्रीदेव्युवाच -
दिव्य सिद्धान्तयोर्बीजं दक्ष वामीति शङ्कर ।
इमौ द्वौ सेवनीयौ चेत् कौल [छ्: कौलस्य] ज्ञानस्य हेतवे [छ्:
ज्ञानहेतवे]
इति श्रीसर्वानन्द नाथ विरचिते सर्वोल्लासे द्वाचत्वारिंशदुल्लासः
त्रिचत्वारिंशोल्लासः ।
अथ दैवानन्द लक्षणम् ।
यामले श्रीदेव्युवाच -
कीदृशः प्रथमोल्लासो द्वितीयश्च तृतीयकः ।
चतुर्थः पञ्चमः षष्ठः सप्ताष्ट नवमो दश [घ्, ज्:
सप्तमश्चाष्टम शिव] ।
आनन्दं प्रतिपात्रस्य मम स्थाने क्रमाद्वद
प्. १७१)
श्रीशिव उवाच -
इन्द्रियाकलितं सर्वं तत्तद्भाव विवर्जितम् ।
तन्मयं निश्चलं शान्तं उल्लासादिमुदीरितम्
१ उल्लासे प्रथमे प्राप्ते तन्मयञ्च जपेधृदि ।
नकुर्ययादधिकं हेतुं मुद्राचर्व्वणकानि च
२ समदृष्टं समैकत्वं मनो बुद्धि विवर्जितम् ।
लक्षमलक्षमन्यञ्च तन्मयञ्चद्वितीयकम्
प्राप्त्यानन्दमये कुर्वन् प्रत्येक कारणानि च ।
क्वचिद्ध्यानं जपादिञ्च क्वचिच्चर्वण माचरेत्
३ देहाभिमान गलित मुपलब्धि विवर्जितम् ।
विश्रान्ति वासना यत्राप्युल्लासं तत् तृतीयकम्
तृतीयोल्लासके [ग्, घ्, छ्: तृतीयोल्लासकं] प्राप्ते कुर्ययाद्धेतुं
यथार्पितम् ।
चर्वन्नपि तथैवान्यं विचरेत् शासने [क्, ख्, ग्: स्वासने]
स्थितः
४ अन्तर्लक्ष वहिर्दृष्टिर्निमेषोन्मेष वर्जितः ।
तन्मयञ्च तदाकारं चतुर्थानन्दमीरितम्
तूर्यानन्दमयं यत्र हेतुं शक्त्या पिवेत् सह ।
शक्ति वीरार्पितं यद्यत्तत्तद् ग्राह्याणि चर्वणम्
५ जीवन्मुक्तं मनोऽतीतं विश्रान्तिर्गुरु मण्डले ।
लक्षणञ्च वरारोहे पञ्चमं परिकीर्तितम्
नहि पात्रे विविक्तानि [घ्, ज्: विरिक्तानि] वीरश्चैवार्पितानि च ।
अन्यार्पितं हि यच्छेषं कारणं हि मुखं [च्, ज्: सुखं]
विना ।
प्. १७२)
६ वासना विलयं यत्र भावा भाव विवर्जितम् ।
लयेऽपि स्वाक्षरं मन्त्रं [घ्, ज्: मात्रं] देवात्माहं
विचिन्तनम् [ज्: विचिन्तयेत्]
षष्ठोल्लासेतु देवेशि तन्मयं हि जगत्त्रयम् ।
तदा तान्त्रिकता चक्रे मादनन्तु [च्: मोदन-] यथा सुखम्
७ स्ववाह्याभ्यन्तरं सर्वं आत्मरुपं विचिन्तनम् [छ्, ज्:
विचिन्तयेत्] ।
अद्वैतं परमानन्दं चिन्तनं सप्तमं प्रिये ।
सप्तमे समता [ज्: लयता] चक्रे तन्त्रे मिलनता भवेत्
८ पीतात् शेषं पुनर्ग्राह्यं योगिन्यै देयमुत्तमम् ।
न किञ्चिदृष्टमानन्दं कार्य कारणमेव च
एक एव हि निर्द्वन्द्वं चिन्मयञ्च चिदात्मकम् ।
पात्रं वा मुखपात्रं वा केवलास्येन [छ्, ज्: अन्येन] सेवितम्
।
नृत्य गीत सदोल्लासं कुर्याद्वीराङ्गना सह
९ उल्लासे नवमे प्राप्ते अनिर्वाद्यं तु यत् सुखम् ।
क्रियातीतं कलातीतं मनोऽतीतं सुनिर्मलम्
शिव शक्त्यात्मकं द्वन्द्वं नहि वर्ण विवेकता ।
प्राप्तिं वा मुख योन्यादीन् तत्र कुर्याद्यथार्पितम् ।
विश्राममुपविष्टा वा नोपविष्टं यथार्पितम्
१० न जानामि वरारोहे दशमानन्दजं सुखम् ।
कलातीतं मनोऽतीतं क्रियातीतं [छ्: भावातीतं]
परात्मकम्
तिष्ठन् गच्छन् स्वप्न् जाग्रत् क्रीडन् मीलन् मुहुर्मुहुः ।
स्वेच्छाचारं क्रियामात्रं केवलात्म सुखोदितम्
पीत्वा पीत्वा पुनः पीत्वा स्वेच्छया मैथुनोदितम् ।
उत्थाय पुनः पीत्वा, पीत्वा पीत्वापि मैथुनम्
अत एव महेशानि मैथुनं न परित्यजेत् ।
उत्पत्तेः कारणं बीजं मैथुनं परमेश्वरि ।
विनाश कारणं ज्ञेयं स्थितेः कारणमेव च
इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे त्रिचत्वारिंशदुल्लासः
चतुश्चत्वारिंशोल्लासः ।
अथ मैथुनम् ।
वीरतन्त्रे श्रीदेव्युवाच -
कुलेश प्राण नाथेश जगदानन्द रूपक ।
इदानीं श्रोतुमिच्छामि मैथुनस्य च लक्षणम्
श्रीशिव उवाच -
ब्रह्म विष्णु शिवादीनां मैथुनस्य प्रसादतः ।
तव स्नेहेन वद्धोऽहं गोपनीयं मनःस्थिरम्
प्रकाशञ्च करोम्यद्य न प्रकाश्यं कदाचन ।
चित्रासने नातिनीचे नातिचोच्चे महेश्वरि
आनीय सुन्दरीं कान्तां निर्लज्जां चारुहासिनीम् ।
मद्यं मांसञ्च मत्स्यञ्च मुद्राञ्च मैथुन [क्, ख्, च्:
मैथुनं] प्रियाम्
स्ववामे वाप्युरुस्थाने स्थापयेन्मनुना शिवे ।
कारणं पूरितं पात्रं मूले दत्त्वा मुखे मुहुः
प्. १७४)
पश्चात् स्वयं पिवेद् द्रव्यं [घ्: मद्यं] मांसं मत्स्यादिना
प्रिये ।
सर्वं दत्त्वा मुखे देव्यां पश्चादात्मनि योजयेत्
महाचक्रमिति प्रोक्तं मैथुनं संयुतं यदि ।
तच्चक्रस्य च माहात्म्यं वर्णितं नैव शक्यते
कुलचूडामणौ -
मूले वस्त्रं परित्यज्य मूलेन भग वीक्षणम् ।
मूलेन स्पर्शनं कृत्वा मूलेन लिङ्गवेशनम्
गण्ड द्वयं चुम्बनञ्च स्तन द्वन्द्वञ्च मर्दनम् ।
रसना चोषणं देवि मैथुनं तदनन्तरम्
मूलेन सर्वं कर्त्तर्व्यं शुक्रे शुक्र प्रपातनम् ।
गुरुं ध्यात्वा रमेत् शक्तिं पतनान्ते [घ्: पातनान्ते; ज्:
घातनान्ते] मनुंस्मरेत्
एवं दश शतं वापि सहस्रं [घ्, ज्: चायुतं] वा मनुं स्मरेत् ।
गुरवे दक्षिणार्थाय चाष्टवारं जपेन्मनुम्
शुक्र पातं ततः कुर्ययात् तदन्ते प्रपठेत् स्तुतिम् ।
आद्यन्ते प्रपठेत् स्तोत्रं शक्ति विद्यां विचिन्तयेत् ।
शिवोऽहमिति मत्वा च रमणं मम सम्मतम्
निगम कल्पद्रुमे -
योनिस्तोत्रं विना देव योनि ज्ञानं न जायते ।
योनि ज्ञानं विना देव मैथुनं न शुभ प्रदम्
कुल सम्भव पूजायामाद्यन्ते प्रपठेत् स्तुतिम् ।
मध्ये देवीं यजेद् गानं पानं नृत्यं जपञ्चरेत्
प्. १७५)
शृणु देवि सुर श्रेष्ठे सुरासुरनमस्कृते ।
इदानीं श्रोतुमिच्छामि स्तोत्रं हि सर्वदुर्लभम् ।
यस्यावबोधनाद्देहे देही ब्रह्म मयो भवेत्
श्रीपार्वत्युवाच -
शृणु देव सुरश्रेष्ठ सर्व बीजस्य [घ्, छ्, ज्: जीवस्य] सम्मतम् ।
न वक्तव्यं कदाचित्तु पाषण्डे नास्तिके नरे
ममैव प्राण सर्वस्वं लतास्तोत्रं दिगम्बर ! ।
अस्य प्रपठनाद्देव जीवन्मुक्तोऽपि जायते
१ ओं भग रूपा जगन्माता सृष्टिस्थितिलयान्विता ।
दशविद्यास्वरूपात्मा योनिर्मां पातु सर्वदा
२ कोण त्रय युता देवि स्तुति निन्दा विवर्जिता ।
जगदानन्द संभूता योनिर्मां पातु सर्वदा
३ रक्त रूपा जगन्माता योनिमध्ये सदा स्थिरा ।
ब्रह्म विष्णु शिव प्राणा योनिर्मां पातु सर्वदा
४ कार्त्तिकी कुन्तलं रूपं योन्युपरि सुशोभितम् ।
भुक्ति मुक्ति प्रदा योनिर्योनिर्मां पातु सर्वदा
५ वीरय रूपा शैलपुत्री मध्यस्थाने विराजिता ।
ब्रह्म विष्णु शिव श्रेष्ठा [ग्, छ्, ज्: -प्राणा] योनिर्मां पातु
सर्वदा
६ योनिमध्ये महाकाली छिद्ररूपा सुशोभना ।
सुखदा मदनागारा योनिर्मां पातु सर्वदा
७ काल्यादि योगिनी देवी योनिकोणेषु संस्थिता [घ्, ज्: सदा स्थिता] ।
मनोहरा दुःख लभा योनिर्मां पातु सर्वदा
प्. १७६)
८ सदा शिवो मेरु रूपो योनिमध्ये वसेत् सदा ।
कैवल्यदा कामयुक्ता [घ्, ज्: रता] योनिर्मां पातु सर्वदा
९ सर्व देव स्तुता [घ्, ज्: युता] योनिः सर्व देव प्रपूजिता ।
सर्व प्रसवकर्त्री त्वं योनिर्मां पातु सर्वदा
१० सर्व तीर्थ मयी योनिः सर्व पाप प्रणाशिनी ।
सर्व गेहे [घ्, ज्: देहे] स्थिता योनिर्योनिर्मां पातु सर्वदा
११ मुक्तिदा [ज्: भुक्तिदा] धनदा सुखदा कीर्त्तिदा तथा ।
आरोग्यदा वीर रता पञ्च तत्व युता सदा [घ्, ज्: युता]
१२ योनिस्तोत्रमिदं प्रोक्तं यः पठेत् योनि सन्निधौ ।
शक्तिरूपा महादेवी तस्य गेहे सदा स्थिरा
१३ तीर्थ पर्यटनं नास्ति नास्ति पूजादि तर्पणम् ।
पुरश्चरणं [घ्, ज्: पुरश्चर्यापि] नास्त्येव तस्य
मुक्तिरखण्डिता
केवलं मैथुनेनैव शिव तुल्यो न संशयः ।
सत्यं सत्यं पुनः सत्यं ममवाक्यं वृथा नहि
यदि मिथ्या मया प्रोक्ता तव हत्या सुपातकी ।
कृताञ्जलि पुटोभूत्वा पठेत् स्तोत्रं दिगम्बर !
सर्वतीर्थेषु यत् पुण्यं लभते च स साधकः ।
काल्यादि दश विद्याश्च गङ्गादि तीर्थ कोटयः ।
योनि [छ्, ज्: योनेः] दर्शन मात्रेण सर्वाः साक्षान्न संशयः
[छ्, ज्: चान्यथा]
कुल सम्भव पूजायामादौ चान्ते पठेदिदम् ।
अन्यथा पूजनाद्देव रमणं मरणं भवेत्
एकसन्ध्यां त्रिसन्ध्यां वा पठेत् स्तोत्रमनन्यधीः ।
निशायां सम्मुखे शक्त्याः स शिवो नात्र संशयः
प्. १७७)
इति योनि स्तोत्रम् ।
स्तोत्रान्ते परमेशान कारणं पानि पूरितम् ।
वामहस्ते प्रदातव्यं गुह्या दि मन्त्र पूर्वकम्
अथ श्रीचक्र पादोदक माहात्म्यम् ।
(श्लोकोऽयं घ्, छ्, ज् - पुष्तके नास्ति) गङ्गा पुष्कर नर्मदासु
यमुना गोदावरी गौतमी -
गङ्गा द्वार गया प्रयाग वदरी वाराणसी सिन्धुषु ।
रिवा सेतु सरस्वती प्रभृतिषु ब्रह्माण्ड भाण्डोदरे
तीर्थ स्नान सहस्र कोटि फलदं श्रीचक्र पादोदकम्
ततः -
भग क्षालित तोयेन पात्र क्षालित वारिणा ।
लिङ्ग क्षालित तोयेन प्रक्षिपेद् विन्दु बिन्दुभिः
योनौ हस्तं मुखे स्तोत्रं शक्ति हस्तेऽपि पात्रकम् ।
सुगन्धं शीतलं तोयं प्रक्षिपेत् तत्त्व मुद्रया
तन्त्रान्तरे -
पात्रं सुशीतलं कुर्ययात् श्रीपात्रादिक्रमेण च ।
गुरोः पात्राद् देव पात्रादात्म पात्रान्महेश्वरि
साधकस्यापि पात्राच्च तोयं क्षिप्तं महीतले ।
तत्तोयैः कर्दमं कृत्वा ललाटे तिलकं न्यसेत्
विभिन्न शक्ति पात्रञ्चेद् गुरु पात्रान्महेश्वरि ।
शक्ति पात्रात् पात्रमात्रात् तोयं क्षिप्तं महीतले
प्. १७८)
कुल तत्त्वसारे -
भगाल्लिङ्गात्तथा पात्रात् श्रीपात्रे शीतलं स्थितम् ।
तोयं क्षिपेत् स्वमूर्द्धादि बिन्दुञ्च तत्त्व मुद्रया
यं यं स्पृशामि पादेन यं यं पश्यामि चक्षुषा ।
स एव दासतां याति यदि शक्र समो भवेत्
इति मन्त्रेण देवेशि मूल मन्त्रेण वा पुनः ।
अवशिष्ट जलैर्देवि कर्दमे तिलकं न्यसेत्
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे चतुश्चत्वारिंशदुल्लासः
पञ्चचत्वारिंशोल्लासः ।
चक्रान्ते परमेशानि शान्ति स्तोत्रं पठेन्मुदा
अथानन्द स्तोत्रम् ।
कुलार्णवे -
१ [क्, ख्, ग्, च्: मनोभुवो मङ्गल मङ्गलात्मा सौन्दर्यलक्ष्मी
भुवि वैजयन्तीम्] नमो गुरो मङ्गल मूल मुद्रां,
सौन्दर्य लक्ष्मीं भुवि वैजयन्तीम् ।
श्रीसुन्दरीमिन्दु कलावतं सां,
सानन्दमानन्दमयीं स्मराइ [क् ख्, ग्, घ्, च्: भजामि]
प्. १७९)
२ श्रीसुन्दरी पूजन तत्पुराणां,
हालाभिरालोहित लोचनानाम् ।
अस्माकमानन्दित मानसानां,
माहेश्वराणां [घ्, च्: म-] दिवसाः प्रयान्तु
३ विधाय धारां वदने सुधायाः,
श्रीचक्रमभ्यर्च्य कुल क्रमेण ।
आस्वादयन्तः पिशितं मृगाक्षी-
मालिङ्ग्य मोक्षं सुधियः प्रयान्ति [घ्, छ्, ज्: सुधियोलभन्ते]
४ दिने दिने सिद्धि [क्, ग्, च्: शुद्धि] घटस्तु पूर्णो,
दिने दिने तर्पणमस्तु देव्याः ।
दिने दिने संघटतां द्वितीया,
दिने दिने साधक सङ्गमस्तु [ज्: सङ्गमोऽस्तु]
५ (श्लोकोऽयं ज पुस्तके दृश्यते नान्यत्र) आस्वादयन्तः
पिशितस्य खण्ड
माकण्ठपूर्णं मदिरां पिवामः ।
वामेक्षणासङ्गममादधाना
भुक्तिञ्च मुक्तिञ्च परां व्रजामः
६ (श्लोकोऽयं घ्, ज्: पुस्तकोयोर्दृश्यते) न स्वादु लाभः
पिशितस्य यस्मिन्,
पञ्चाक्षरी पूर्ण रतिर्न यत्र ।
न यत्र सङ्गो मृग लोचनाया-
स्तत्तद्दिनं दुर्दिनमेव मन्ये
७ प्रवर्त्तकानां सहस्राथ [क्, ग्, च्: सहसातु] लक्ष्मीः
प्रयाति गेहं वि पद [ज्: सुपद] क्रमेण ।
श्रीसुन्दरी साधक निन्दकाना-
[ज्: प्राणा धनानीह लयं प्रयान्ति] मायुः क्षयं गच्छति
तत्क्षणेन
प्. १८०)
८ अङ्गेषु कुष्ठादि गृहेष्वलक्ष्मी
र्मूकत्वमास्ये भवनं श्मशानम् ।
श्रीसुन्दरी साधक निन्दकानाम्
प्राणा [ज्: आयुःक्षयं गच्छति तत्क्षणेन] यतस्ते प्रलयं
प्रयान्ति
९ श्रीसुन्दरी साधक पुङ्गवानाम्
यथा यथा निन्दनमातनोति ।
जनः समः पुत्र कलत्र मित्रै -
स्तथा नाशमुपैति शीघ्रम्
१० हालां पिवन् [क्, ग्, च्: पिवन् दीक्षित मन्दिरेषु,
स्वपन्निशायां गणिका गृहेषु ।
गृहे गृहे भोजनमेव कुर्वन्,
वंभ्रम्यते कौलिक [ज्: साधक] चक्रवर्त्ति
११ अनन्तरं काल वशाच्च मोहम्,
सोऽहं भविष्यामि न मे विषादः ।
[क्, ख्, ग्: श्रीसुन्दरी जन्मनि जन्मलीलाम्] जन्मनि जन्मनि त्वाम्,
यद्भैरवोऽहं जननीं स्मरामि [क्, ख्, ग्, च्: समोहे]
१२ विकल्प वाटी तट सन्निकृष्टे,
प्रवर्त्तमानाः पशवो वराकाः ।
प्रविश्य मोहाम्बुनिधावगगाधे,
भ्रमन्त्यनास्वादित [छ्, ज्: अनासादित] कौल मार्गाः
प्. १८१)
१३ उन्मूलनं पातक भूरुहाणा-
मुन्मीलनं चित्त कुतूहलानाम् ।
आकर्षणं पङ्करुहेक्षणानां,
मैरेय [ख्, च्: नैवेद्य] पानं वयमाचरामः
१४ वाराणसि जह्नु सुता प्रयाग
[ज्: गोदावरी केदारतीर्थानि विलोकितानि] गोदावरीतीर्थ
विलोकनानि ।
तैनैव मन्ये जगतः कृतानि,
श्रीसुन्दरी चिन्तनमेव यस्य
१५ आयातयातेन भवाम्बुराशौ,
जातो महानेष मम प्रयासः ।
मोक्षाय नाथस्य पद प्रसादा -
दङ्गीकृतः सम्प्रति कौलमार्गः
१६ नान्यं विलोके न च वान्यमीहे,
नान्यं स्मरन्नापरमाश्रयामि ।
कदापि नाहं परमात्म रूपां,
श्रीसुन्दरीं चेतसि विस्मरामि
१७ विलोक्य [क्, ख्, ग्, च्: विलिख्य] सिन्दूर मयं सुधाभिः,
श्रीचक्रराजं निशि कॢप्तवन्तः [क्, ख्, ग्, च्: तर्पयन्तः] ।
श्रीसुन्दरीं चेतसि चिन्तयन्तो,
[क्, ख्, ग्, च्: हाला विलोलैर्विषयन्ति लोकान्] हेलाविलोकैर्वशयन्ति
लोकान्
१८ यत्रास्ति भोगो न च तत्र मोक्षो,
यत्रास्ति मोक्षो नच तत्र भोगः ।
[घ्: शिवापदाम्भोज युगार्चकानाम्] श्रीसुन्दरी पूजन
तत्पराणां,
भोगश्च मोक्षश्च करस्थ एव
१९ वामे वाला [घ्, ज्: रामा] रमण कुशला दक्षिणे पान
पात्रम्,
अग्रे न्यस्तं मरिचसहितं शूकरस्योष्ण मांसम् ।
स्कन्धे वीणा ललित सुभगा सत्कथा सद्गुरुणाम् [घ्, छ्, ज्:
सद्गुरूणां प्रवृत्तिः],
कौल धर्म्मः परम गहनो योगिनामप्यगम्यः
२० वामे चन्द्रमुखी मुखे च मधुरं पात्रं कराम्भोरुहे,
मूर्ध्नि श्रीगुरु चिन्तनं भगवती ध्यानास्पदं मानसे ।
जिह्वाह्यां जप साधनं परिणतिः कौल क्रमाभ्यासतो, [ज्:
कौलाङ्गनाध्यासने],
यः शान्तो नियतं [ज्: यत्पात्रं] पिवेत्तदमृतं भुक्तिञ्च
[छ्: भक्तिञ्च] भुक्तिं व्रजेत्
२१ एकेन शुष्क चणकेन घटं पिवामि,
वापीं पिवामि सहसा लवणार्द्रकेण ।
आस्वादयामि यदि शोधित मांस खण्डम्,
गङ्गां पिवामि यमुनां सह सागरेण
२२ करे पात्रं मुखे स्तोत्रमानन्दं हृदयाम्बुजे-
मूर्ध्नि श्रीनाथ पादाब्जं स्मरणं किमतः परम्
२३ अलि पिशित पुरन्ध्री योग [घ्, च्, छ्: भोग] पूजा परोऽहम्,
वहुविध जन भावारम्भ [ज्: कुलमार्गारम्भ]
सम्भावितोऽहम् ।
गुरु चरण रजोऽहं [घ् ज्: रतो] भैरवीमाश्रितोऽहम्,
पशुजन विमुखोऽहं [घ्, ज्: विरतो] भैरवोऽहं शिवोऽहम्
प्. १८३)
इति कुलार्णवोक्तानन्द स्तोत्रम् ।
[श्लोकोऽयं ज्: पुस्तके दृश्यते नान्यत्र] पीत्वा मद्यं पठेत्
स्तोत्रं साधकः कुलभैरवः ।
कुल स्त्री सङ्ग निरतः कुलकार्यं समाचरेत्
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे पञ्च चत्वारिंशदुल्लासः
षट्चत्वारिंशोल्लासः ।
अथाभिषेकः ।
ऊत्तरतन्त्रे श्रीमहादेव उवाच -
अभिषेकं विना देवि कुल कार्यं न चाचरेत् ।
पानञ्च विष पानं स्यात् मैथुनं पापदायकम्
अभिषेकं [घ्, ज्: अभिषेके] विना भूते आचार्यत्वं करोति यः ।
चत्वारि [क्, ख् ग्: चत्वारः] तस्य नश्यन्ति आयुर्विद्या यशो वलम्
गुप्तञ्च सर्वतन्त्रेषु तव स्नेहेन शङ्करि ।
अभिषेकं प्रवक्ष्यामि सर्वसिद्धि प्रदायकम्
धनं यशो वलायुष्यं महापातक नाशनम् ।
सर्वाशा पूरकं सर्व मन्त्र दोष विनाशनम्
सर्वार्थ साधनं देवि सर्वतीर्थ फलप्रदम् ।
अभिचार हरं सर्वं ग्रहदोष विनाशनम्
प्. १८४)
तेजो वृद्धि करं देवि वल वृद्धि करं परम् ।
तक्षकेणापि दष्टस्य विषपीडा विनाशनम्
तेजो ह्रासे वल ह्रासे बुद्धि ह्रासे धन क्षये ।
स्त्रीकृतेष्वपि दोषेषु शरीरे मानसे तथा
विकारे देशिकः [ज्: मानसे] कुर्यादभिषेकं विचक्षणः ।
असौभाग्ये च नारीणामभिषेकः प्रवर्त्तते
सर्व दोष हरो धर्मः सत्यं सत्यं हि शङ्करि [ज्: पार्वति] ।
नदी तीरे देव भूमौ तरु मूले चतुष्पथे
देवतायतने वापि स्थापयेद् घटमुत्तममम् [ज्: अव्रणम्] ।
नातिह्रस्वं नातिदीर्घं मृण्मयं स्वर्ण [घ्, च्, ज्: मृत्ताम्र
स्वर्ण] निर्मितम्
कामबीजेन (क्लीं) संप्रोक्ष्य वाग्भवेनैव (ऐ।) शोधयेत् ।
शक्त्या (ह्री।) कलसमारोप्य मायया (ह्री।) पूरयेज्जलैः ।
मन्त्रेणानेन देवेशि तीर्थान्यावाहयेत्ततः
ओं गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च ।
सर्वे समुद्राः सरितः सरांसि जलदा ह्रदाः [ घ्, ज्: नदाः]
सर्वे प्रस्रवणाः पुण्याः स्वर्ग पाताल भूगताः ।
सर्वेतीर्थानि पुण्यानि घटे कुर्वन्तु सन्निधिम्
रमाबीजेन (श्रीं) जप्तेन पल्लवैः प्रतिपादयेत् ।
कूर्चेन (ह्रूं) फलदानं स्यात् वधृबीजैः [ज्: स्त्रीबीजेन] (स्त्री)
स्थिराकृतिः
[ज्: सिन्दूरं वह्निबीजेन पुष्पं दद्याच्च वायुना] स्त्रीबीजेन
(स्त्रीं) च सिन्दूरं पुष्पं दत्त्वा तथा प्रिये [घ्: दद्यात् स्वरेण
च (फट्)] ।
मूलेन दूर्वां प्रणवैः कुर्यादभ्युक्षणं ततः
प्. १८५)
हु। फट्स्वाहेति मन्त्रेण कुर्याद्दर्भैश्च [क्: कुम्भस्य] ताडनम् ।
[पाठोऽयं ज्: पुस्तके दृश्यते नान्यत्र] विचिन्त्य देवी पीठन्तु
तत्रावाह्य प्रपूजयेत्
स्वतन्त्रोक्त विधानेन मन्त्रस्योच्चारणेन तु [छ्:
मन्त्रस्योद्धारणेन तु; ज्: स्वमन्त्रोद्धारणैः सह] ।
घटं संस्थापयेन्मन्त्री [घ्, ज्: पूजयेत्तद् घटं मन्त्री]
मन्त्रेणानेन देशिकः
ओं उत्तिष्ठ ब्रह्म कलस ! देवताभीष्ट सिद्धिद ।
सर्वतीर्थाम्बु सम्पूर्ण पूरयस्व [ज्: पूरयास्मत्] मनोरथम्
ईशानेन्दु स्वर क्षौणी [घ्, ज्: मन्त्रस्तु हसकल ह्री।] तदन्ते
भुवनेश्वरीइ ।
मन्त्रेणानेन वादित्र निर्घोषैश्चालयेद्घटम् [क्, ख्, ग्, च्:
वामुत्रनिर्घोषः]
अभिषिञ्चेद् गुरुः शिष्यं यद्वा देशिक नायकः ।
ज्वरे गात्रे ग्रहेऽश्वत्थपल्लवैर्भूत [क्, ख्, ग्, च्, छ्: गृहे] सङ्गमे
सिञ्चेदौडुम्बरैर्मन्त्र दोषे च करवीरजैः ।
यशो धनायुस्तेजःसु श्रीफलस्यापि पल्लवैः
[पाठोऽयं ज्: पुस्तके दृश्यते] तुलसी मञ्जरीभिश्च सर्व पाप
क्षयार्थिभिः ।
सर्व तीर्थ फल प्राप्त्यै शाक्तानां विल्व सम्भवैः (इतः परम् -
ज्: पुस्तके - अभिचारे नारसिंहैरभिषेकः प्रचक्षते । इत्यादि पाठो
दृश्यते
[ज्: कुर्याद्दर्भैश्च दोषेषु स्त्रीकृतेष्वखिलेषु च] कुर्याद्
दर्भैरदर्भेषु स्त्रीदिषेषु कृतेषु च ।
असौभाग्ये च नारीणां दूर्वाभिरभिषेचनम्
अथवा सर्व कार्येषु विदध्यादाम्र पल्लवैः
दक्षिणा मूर्तिः ऋषिरनुष्टुप्छन्दः शक्तिर्देवता
सर्वसङ्कल्पसिद्ध्यर्थे विनियोगः ।
प्. १८६)
१ ओं राजराजेश्वरी शक्तिर्भैरवी रुद्रभैरवी ।
श्मशान भैरवी देवी त्रिपुरानन्द भैरवी
त्रिकूटा त्रिपुटा [क्, ख्, च्, छ्: त्रिपुरा] देवी तथा त्रिपुरसुन्दरी ।
त्रिपुरेशी महादेवी तथा त्रिपुरमालिका
त्रिपुरानन्दिनी देवी तथैव त्रिपुरातनी ।
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा
२ छिन्नमस्ता महादेवी तथैवैकजटेश्वरी ।
तारापराजिता दुर्गा [ज्: तारा च जयदुर्गा च] शूलिनी
भुवनेश्वरी
त्वरिताख्या महादेवी तथा वश्या [क्, ख्, ग्: तथैवेश्य]
त्रिकण्ठकी ।
नित्या च नित्यरूपा च वज्रप्रस्तारिणी तथा ।
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा
३ अश्वारूढा महेशानी [ज्: महादेवी] तथा महिष मर्द्दिनी ।
दुर्गा च नवदुर्गा [घ्, ज्: रणदुर्गा] च श्रीदुर्गा
भगमालिनी
तथा भगन्दरी देवी भगक्लिन्ना तथा परा ।
सर्वचक्रेश्वरी देवी तथा नीलसरस्वती
सर्वसिद्धिकरी देवी सिद्ध गन्धर्व सेविता ।
उग्रतारा महादेवी तथा दक्षिण कालिका ।
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा
४ उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डी चण्डवती चैव चण्डरूपाति चण्डिका ।
एतास्त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा
५ उग्रदंष्ट्रा महादंष्ट्रा शुभदंष्ट्रा कपालिनी ।
भीमनेत्रा विशालाक्षी मङ्गला विजया जया ।
एतास्त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा
प्. १८७)
६ मङ्गला नन्दिनी भद्रा लक्ष्मीः कीर्तिर्यशश्विनी ।
पुष्टिर्मेधा शिवा साध्वी यशः शोभा जया धृतिः
सुनिन्दा [ज्: श्रीनन्दा] च सुनन्दा च नन्दिनी नन्दपूजिता ।
एतास्त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा
७ विजया मङ्गला भद्रा [ज्: धन्या] धृतिः शान्तिः शिवा
क्षमा ।
सिद्धिस्तुष्टिः रमा पुष्टिः श्रीर्-ऋद्धिश्च [ज्: भ्रान्तिः]
रतिस्तथा
दीप्ता कान्तिर्यशो लक्ष्मीरीश्वरी बुद्धिरेव च ।
चक्री जयावती ब्राह्मी जयन्ती चापराजिता
अजिता मानवी श्वेता दितिश्चादितिरेव च ।
मायाचैव महामाया मोहिनी क्षोभिणी तथा
अरुणा विमलाचैव शरण्या रतिरेव च ।
दुर्गा क्रियारून्धती च घण्टाकर्णा कपालिनी
रौद्री काली च कौमारी [ज्: मायूरी] त्रिनेत्रा चापराजिता ।
सुरूपा वृद्वरूपा च तथैव विग्रहात्मिका
चण्डी कामपरा [ज्: चर्चिका चापरा] ज्ञेया तथैव
सुरपूजिता ।
वैवस्वती च कौमारी तथा माहेश्वरी परा
वैष्णवी च महालक्ष्मीः कार्त्तिकी कौषिकी तथा ।
शिवदूती च चामुण्डा मुण्डमालाविभूषिता ।
एतास्त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा
(श्लोकोऽयं ज्: पुस्तके अस्तीति)
८ वाग्वादिनी कामाख्या च कमला बहुरूपिणी ।
प्रत्यङ्गिरा भवानी च वाला धूमावती तथा
षट्कुटा भैरवी वाला तथा त्रिपुरभैरवी ।
चैतन्यभैरवी रुद्रभैरवी पुरभैरवी
प्. १८८)
भुवनेशो भैरवी च तथान्नपूर्णभैरवी ।
विमला वरदा वाणी वृन्दा दिक्करवासिनी ।
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा
९ इन्द्रोऽग्निश्च यमश्चैव वरुणो नैर्-ऋतिस्तथा ।
पवनो धनदेशानौ ब्रह्मानन्तौ दिगीश्वराः ।
एतास्त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा
१० सम्वत्सरश्चायनश्च मास पक्ष दिनानि च ।
तिथयश्चाभिषिञ्चन्तु मन्त्रपूतेन वारिणा
११ रविः सोमः कुजः सौम्यो गुरु शुक्र शनैश्चराः ।
राहुः केतुश्च सततमभिषिञ्चन्तु ते ग्रहाः
१२ नक्षत्रं करणं योगोऽमृतं सिद्धिस्ततः परम् ।
दग्धं पापं तथा भद्रा योगो वाराः क्षणास्तथा
वारवेला कालवेला दण्ड वृद्धादयस्तथा ।
अभिषिञ्चन्तु सततं मन्त्र पूतेन वारिणा
१३ डाकिनी पुत्रकाश्चैव राकिणी पुत्रकास्तथा ।
लाकिनी पुत्रकाश्चान्ये काकिनी पुत्रकाऽपरे
शाकिनी पुत्रका भूयो हाकिनी पुत्रकास्तथा ।
ततश्च डाकिनी पुत्रा देवी पुत्रास्ततः परम्
मातॄणाञ्च तथा पुत्रा ऊर्द्ध मुख्याः सुताश्च ये ।
(श्लोकार्द्धोऽयं ज्: पुस्तके अधिको दृश्यते) अधोमुख्याः
सुताश्चान्ये लोपमुख्याः सुताश्च ये ।
अभिषिञ्चन्तु ते सर्वे मन्त्र पुतेन वारिणा
१४ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा
१५ असिताङ्गो रुरुश्चण्डो क्रोधश्चोन्मत्त भैरवः ।
कपाली भीषणाख्यश्च संहारश्चाष्टभैरवाः ।
अभिषिञ्चिन्तु सततं मन्त्र पूतेन वारिणा
प्. १८९)
१६ पुरुषः प्रकृतिश्चैव विकाराश्चैव षोडश ।
आत्मनश्च गुणाश्चैव स्थूल सूक्ष्माश्च ये परे [क्, ग्, च्:
स्थूलसूक्ष्मौ ये पराः ।
एते त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा
१७ (श्लोकार्द्धोऽयं ज्: पुस्तके अधिकोऽस्ति) वेदादिबीजं (ओं)
कूर्चबीजं (हु।) बीजं तन्मीनकेतनम् (क्ली।) ।
[ज्: शक्तिबीजं रमाबीजं मायाबीजं गुणाकरम्]
देवबीजं रमाबीजं (श्री।) शक्तिबीजं (ह्री।) गुणाक्षरम्
चिन्तारत्नं (गं) महाबीजं नारसिंहञ्च (क्ष्रौ।)
शाङ्करम् (हौ।) ।
मार्त्तण्ड भैरवं (ओं ह्री। हंसः) दौग (दू।) बीजं
श्रीपुरुषोत्तमम् (क्री।)
गाणापत्यञ्च (ग्लौ।) वाराहं (व्लुं) कालीबीजं (क्री।)
भयापहम् ।
एतानि त्वभिषिञ्चन्तु मन्त्रपूतेन वारिणा
१८ गङ्गा गोदावरी रेवा यमुना च सरस्वती ।
आत्रेयी भारती चैव सरयूर्गण्डकी तथा
करतोया चन्द्रभागा श्वेत गङ्गा च कौषिकी ।
भोगवती च पाताले स्वर्गे मन्दाकिनी तथा ।
एतास्त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा
१९ भैरवो भीमरूपश्च शोषो घर्घर एव च ।
सिन्धुश्चैव ह्रदः पातु पाताल सम्भवस्तथा ।
एते त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा
२० यानि कानि च तीर्थानि पुण्यानि पुण्यान्यायतनानि च ।
एतानि त्वा [ग्, घ्: तानि त्वाम्] भिषिञ्चन्तु मन्त्र पूतेन
वारिणा
२१ जम्बुद्वीपादयो द्वीपाः सागरा लवणादयः ।
अन्तन्ताद्यास्तथा नागाः सर्पा ये तक्षकादयः ।
एते त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा
प्. १९०)
२२ नभश्च [क्: नतिश्च] वल्लभा (स्वाहा) वह्नेर्वषट् कूर्च (हु।)
मतः प्रम् ।
वौषट्कारस्तु फट्कारोऽभिषिञ्चन्तु सर्वदा
२३ नश्यन्तु प्रेतकुष्माण्डा राक्षसा दानवाश्च ये ।
पिशाचा गुह्यका भूता अभिषेकेण ताडिताः
२४ अलक्ष्मीः कालकर्णी [क्, ग्, च्: काकाली] च पापानि सुमहान्ति च ।
नश्यन्तु चाभिषेकेण तारावीजेन (स्त्री।) ताडिताः
(चिह्निताः श्लोकाः ज्: पुस्तके दृश्यते)
२५ रोगाः शोकाश्च दारिद्र्यं दौर्वल्यं चित्तविक्रिया ।
नश्यन्तु चाभिषेकेण वाग्बीजेनैव (ऐ।) ताडिताः
(चिह्निताः श्लोकाः ज्: पुस्तके दृश्यन्ते)
२६ लोकानुराग त्यागश्च दौर्भाग्यमपि दुर्यशः ।
नश्यन्तु चाभिषेकेण मन्मथेनैव (क्ली।) ताडिताः
२७ तेजो ह्रासे बुद्धिह्रासे शक्तिह्रासे तथैव च ।
नश्यन्तु चाभिषेकेण शक्तिबीजेन (ह्री।) ताडिताः
(चिह्निताः श्लोकाः ज्: पुस्तके दृश्यन्ते)
२८ विषाविष्टमहारोगा डाकिन्यभिभवस्तथा ।
घोराभिचाराः क्रूराश्च ग्रहा रागास्तथैव च ।
नश्यन्तु चाभिषेकेण कालीबीजेन (क्री।) ताडिताः
२९ नश्यन्तु विपदः सर्वाः सम्पदः सन्तु सुस्थिराः ।
अभिषेकेण शाक्तेन पूर्णाः सन्तु मनोरथाः
इत्युत्तरतन्त्रे अभिषेकः ॥
इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे षट्चत्वारिंशदुल्लासः
सप्तचत्वारिंशोल्लासः ।
अथ दक्षिणाचार वीरस्य भावः ।
स्वधर्म - निरतो वीरः शिवो भूत्वा यजेत् पराम् ।
स एव दक्षिणाचारः सर्वतन्त्रेषु गोपितः
मुण्डमाला तन्त्रे -
मद्यं मांसं तथा मत्स्यं मुद्रा मैथुनमेव च ।
पञ्च तत्त्व युतो वीरः शिवः साक्षान्न संशयः
शङ्करोऽहमिति ज्ञात्वा कला माहात्म्यसंयुतः ।
कलां कालीं चिन्तयित्वा पूजयेद्रमणेन तु
साधकः शङ्करः साक्षान्नास्ति भेदो महेश्वरि [घ्: कियानपि] ।
मोहात् यः कुरुते भेदं रौरवं नरकं व्रजेत्
नाहं वसामि कैलासे न मेरौ न च भूतले ।
कुलज्ञा यत्र तिष्ठन्ति तत्र तिष्ठामि भाविनी
मत्स्यमांसासवासक्तो [छ्, ज्: -मांससुरासक्तो] लोलुपः स्त्रीषु
सर्वदा ।
शिवोऽहमिति संज्ञाय विहरेत् शक्ति सङ्कटे
सर्व जात्यधमो देवि श्वपचो नात्र संशयः ।
श्वपचोऽग्रि कुल ज्ञानी द्विजस्याप्यधिकं [ज्: द्विजादप्यधिकं]
शिवे ॥
इति श्रीसर्वानन्दनाथ विरचिते सर्वाल्लासे सप्तचत्वारिंशदुल्लासः
अष्टचत्वारिंशोल्लासः ।
अथ वामाचारः ।
समयाचार तन्त्रे -
स्वपुष्पैः पञ्च तत्त्वैश्च पूजयेत् कुलयोषिताम् ।
वामा चारः स विज्ञेयो वामा भूत्वा यजेत् पराम् [ज्: शिवाम्]
स्वपुष्पस्य प्रमाणमाह ।
निगम कल्पद्रुमे श्रीदेव्युवाच -
पञ्चपुष्पेण वा सप्त पुष्पेण पूजयेत् शिवाम् ।
पूजयित्वा निशीथे तु रमणं शक्तिमाश्रितम् [ज्: शक्तिभिः सह]
स्वपुष्पञ्च स्वयम्भुञ्च वज्रं कुण्डोद्भवं शिव ।
गोलकं पञ्चधा पुष्पैः पूजयेत् परमेश्वरीम्
गोपी चन्दन पुष्पेण वीर पुष्पेण शङ्कर [ज्: मरणेनाच्च
येच्छिवाम्] ।
सप्तपुष्पेण संपूज्य निशीथे रमणेन तु
उद्धृतेनैव पुष्पेण यन्त्रं कृत्वार्च्चयेत् शिवाम् ।
अनुद्धृतेन पुष्पेण रमणेनार्च्चयेत् शिवाम्
उद्धृत्य पुष्पं संशुद्धं कृत्वा देवीं यजेत् पराम् [घ्:
प्रपूजयेत्] ।
अनुद्धृतं स्वयं [ज्: अनुद्धृत धियं ] शुद्धं समुद्रस्य जलं
यथा
पुण्येन लभते पुष्पं शत जन्मार्जितेन च ।
स्वयम्भूकुसुमादिञ्च देवानामपि दुर्लभम्
प्. १९३)
अथ स्वयम्भू स्वपुष्प प्रभृति कुसुमानां
विधान निरूपणम् ।
निगम कल्पद्रुमे -
विवाहितायाः कन्यायाः प्रथमे ऋतु सम्भवे ।
तच्छोणितं महेशान स्वपुष्पं परिकीर्तितम्
अविवाहितायाः कन्याया लिङ्गस्पर्शाद्रजस्वला ।
तद् द्रव्यञ्च महादेव स्वयम्भु कुसुमं प्रभो
विवाहितायाः कन्यायाः पुरुषस्य च ताडनात् ।
यदि पुष्पं समुद्भूतं वज्रं तत् परिकल्पितम् [घ्, ज्: परिकीर्तितम्]
भर्त्तृयुक्ता च या [ज्: ऋतुयुक्ता यदा] नारी पुरुषान्यस्य योगतः ।
रक्तं समुत्क्षरेद् योन्या अथवा गर्भसंकटात् ।
कुण्डोद्भवं स विज्ञेयं शृणु गोलोद्भवं [ज्:
पूर्णकालोद्भवं] प्रिय
स्वामि शून्या च या नारी जार योगाद्रजस्वला [ग्, घ्, ज्: रजोयुता] ।
तद्रक्तं गोलकं ज्ञेयं सर्वकालोद्भवं शृणु
मासि मासि च यद्रक्तं क्षरते योनि मण्डलात् ।
तद्रक्तं परमेशान सर्व कालोद्भवं प्रिय
पुरुषे मैथुने युक्ते यद्रक्तं शुक्र मिश्रितम् ।
क्षरते च भगाद्रक्तं तद्द्रव्यं [घ्, ज्: रक्तं] गोपी चन्दनम्
स्व स्त्रीषु मैथुने देव यत् पुष्पं समुपस्थितम् ।
तत् पुष्पं वीर पुष्पञ्च स्वयम्भू कुसुमं शृणु
प्. १९४)
मासि मासि च [घ्, ज्: सर्वासामपि] नारीणां स्वयम्भू
कुसुमादिकम् ।
विशेषं गणिकायास्तु चाण्डाल्यास्तु विशेषकम् [घ्, ज्:
चाण्डाल्याः कुहुसम्भवं]
अथ स्वपुष्पादि शुद्धिः [ख-] ।
मातृकाभेदतन्त्रे -
अशौचितात्मा यस्यापि सर्वं तस्याप्यशौचितम् ।
पूतात्मनश्च पूतात्मा सर्वं पूतं महेश्वरि
अशौचितं त्रिधा ज्ञेयं शौचं शौचं ज्ञेयं त्रिधा प्रिये ।
कुलाचारात् कौलिकाद्वा [क्, ग्, च्: लौकिकाद्वा] मोह शास्त्रात् कुलेश्वरि
।
सर्वं पूतञ्चाशुचितं स्वकार्ये नाधिकारिता
तन्त्रान्तरे -
सर्वकार्येषु सर्वत्र वैदिक नान्त्रिकेषु च ।
अनास्थैव महेशानि सर्व कर्म विनश्यति
कौलाद्वा कौलिकाद्वापि [क्, ग्, च्: लौकिकाद्वापि] ज्ञान
शास्त्रान्महेश्वरि ।
सर्व पूतं हि विज्ञेयं सर्व कार्येऽधिकारिता
इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे अष्टचत्वारिंशदुल्लासः
ऊनपञ्चाशत्तमोल्लासः ।
अथ स्वपुष्पादि स्वयम्भवादि पुष्प शोधन मन्त्रः ।
निगम कल्पद्रुमे -
मायाबीजं समुद्धृत्य वह्नि बीजं समुद्धरेत् ।
चतुर्द्दश स्वरोपेतं नादविन्दु विभूषितम्
क्षकारं वह्निसंयुक्तं वामनेत्र विभूषितम् ।
शोधयेद्दशधा जप्त्वा स्वयम्भू कुसुमं प्रिय
मन्त्रस्तु ह्री। रौ। क्ष्री। ।
वाग्भवं बीजमुच्चार्य कामबीजं ततः परम् ।
तदन्ते वह्निबीजन्तु शुद्धं कुण्डोद्भवं प्रिय
मन्त्रसु ऐ। क्ली। र। ।
मायाबीजत्रयञ्चोक्त्वा शोधयेत् गोलकं प्रिय
मन्त्रस्तु ह्री। ह्री। ह्री। ।
कामबीजत्रयं मायां समुच्चार्य महेश्वर ।
सर्वकालोद्भवं द्रव्यं शोधयेत् बहुयत्नतः
मन्त्रस्तु क्ली। क्ली। क्ली। ह्री। ।
वधूबीजं कामबीजं समुच्चार्य द्वयं द्वयम् ।
गोपीचन्दनमीशान शोधयेत् बहुयत्नतः
मन्त्रस्तु स्त्री। स्त्री। क्ली। क्ली। ।
मूलेन शोधयेद्देव ! स्वपुष्पं वज्रपुष्पकम् ।
पूजयेत्तु कुलेशानीं कुलाचारेण साधकः
अन्यत् सर्व शक्तिजातं मूलेन मनुना प्रिय [घ्, ज्: शिव] ।
शोधयेत् पूजयेद्देवीं यत्र तत्रैव कल्पनम् [ख्: सिद्धये]
प्. १९६)
भग क्षालित तोयेन लिङ्ग क्षालित वारिणा ।
मूत्रोदकेन शुक्रेण यजेदावरणं यतः
भग लिङ्ग क्षालितञ्च शोधयेत् कार्यय सिद्धये ।
काम [क्, ग्, च्: रमा] बीजं वधूबीजं शब्दबीजं तथाहि फट्
मन्त्रस्तु क्ली। स्त्री। हु। फट् ।
मूत्रस्य शोधनं मन्त्रं शृणुष्व प्राण वल्लभ ! ।
शब्द बीजं फडन्तञ्च वह्नि जाया ततः परम् ।
नमोऽन्तोयं महादेव मूत्र शुद्धिर्विधीयते
मन्त्रस्तु हु। फट् स्वाहा नमः ।
शुक्रस्य शोधन देव इष्ट मन्त्रेण [घ्, ज्: वौषडन्तेन] मायया
मन्त्रस्तु इष्टमन्त्रः ह्री। च ।
(इति घ्: पुस्तके अधिकः पाठः) शुक्रद्वयं शोधितं स्यात्
मायया पुटितं वषट् ।
शब्द बीजन्तु तस्यान्ते फडन्त मन्त्रमीरितम्
मन्त्रस्तु - ह्री। वषट् ह्री। हु। फट् ।
एवं क्रमे महादेव शुद्धं कुर्यात् पृथक् पृथक् ।
भूमौ त्रिकोणमालिख्य वामेनैवार्घ्य वारिणा [घ्, ज्: बिन्दुना]
शुद्ध तोयेन संप्रोक्ष्य कारणेनाथवा सकृत् ।
मूलमन्त्रं समुच्चार्य पञ्च मुद्रां प्रदर्शयेत् ।
सामान्य शुद्धं तद्द्रव्यं विशेषं मन्त्र भाषितम्
अथ पञ्च मुद्रा प्रमाणम् ।
कुब्जिका तन्त्रे -
धेनुमुद्रा तत्स्यमुद्रा भूतिन्याकर्षिणी तथा ।
योनिमुद्रेति परमा पञ्च मुद्राः प्रकीर्तिताः
प्. १९७)
धेनुमुद्रामृतं द्रव्यं मत्स्येन वारिपूरितम् ।
भूतिनी पञ्चभूतञ्च मिलनाकर्षमुद्रया ।
योनिमुद्रा सृष्टि बीजं ज्ञात्वा [ज्: जप्त्वा] द्रव्यं हि शोधयेत्
अथ पञ्च तत्त्वेन पूजयेत् ।
पञ्चतत्व प्रकारं दक्षिणाचारे प्रोक्तम् ॥ इदानीं
संक्षेपेणोक्तम्,-
हंसमाहेश्वरे -
मांसं मत्स्यं तथा मुद्रा मद्यं मैथुनकं शिवे ।
पञ्चतत्त्वमिदं प्रोक्तं पञ्चतत्त्वोद्भवं ध्रुवम्
पञ्चतत्त्वोद्भवं तत्त्वम् [घ्: द्रव्यम्] एकदा मिलन यदा ।
तदा तत्त्वं भवेत् सिद्धिः पुनस्तत्त्वस्य तत्त्वकम् [ग्:
पञ्चतत्त्वमयं शुभम्]
क्षित्यंशेन भवेन्मांसं तोयांशेनापि मीनकम् ।
तेजोऽंशेन भवेन्मुद्रा वायवंशेनापि कारणम्
शून्यांशे मैथुनं प्रोक्तं पञ्चतत्त्वमयं शुभम् ।
क्षित्यंशं शुष्करूपं हि तोयांशेनापि चार्द्रयेत्
पुनश्च शोषयेद्देवि [घ्: शोधयेत्] मुद्रांशेनापि तज्जलम् ।
वायवंशेनापि तन्मुद्रां नानारूपधरां पराम्
मैथुनांशेन देवेशि सर्वमात्रं प्रकाशितम् ।
अथवा पञ्चतत्वेन पञ्चमेन यजेत् शिवाम्
केवलं पञ्चमेनापि वीरभावेन पूजयेत् ।
शक्त्याज्ञयापि शाक्तः स्यात् शक्ति ज्ञानेन कुत्रचित्
प्. १९८)
पञ्चतत्वे पञ्चमे वा चार्च्चनं हि तदाज्ञया ।
स्वदेहे चिन्तयेत् शक्तिं स्वदेहे रमणं शिवे ।
पञ्चतत्त्वेन संपूज्य स्वदेहं शक्तिसंयुतम्
इति श्रीसर्वानन्दनाथ विरचिते सर्वाल्लासे ऊनपञ्चाशदुल्लासः
पञ्चाशत्तमोल्लासः ।
अथ पूजयेत् कुलयोषिताम् ।
अथ कुलयोषितां लक्षणम् ।
कुलार्णवे श्रीदेव्युवाच -
देवेश प्राण नाथेश पञ्चतत्त्व प्रदायक ।
श्रोतुमिच्छामि प्राणेश लक्षणं कुलयोषिताम्
श्रीशिव उवाच -
मद्य पान रता या स्त्री कुलस्त्री सैव शङ्करि ।
मद्यपानेऽप्यशक्ता या कुलभ्रष्टा सनातनि
कुल स्थानं पालयित्वा केवलं निर्जने ददेत् ।
विपरीतं [घ्, ज्: -त] कुलद्रव्ये विज्ञेया कुलयोषिताम्
मद्यादि भोजनं कृत्वा कुलं ज्ञात्वा कुलं न्यसेत् ।
सा नारी परमेशानि विज्ञेया कुलयोषिता ॥ ४ ।
प्. १९९)
कुलद्रव्ये कुलं दत्त्वा कुलञ्च सेवयेत्तु या ।
सा नारी परमेशानि विज्ञेया कुलयोषिता
कुलद्रव्यं समानीय सेवयेत्तु कुले यदि ।
सा नारी परमेशानि विज्ञेया कुल योषिता
स्वकुलीनस्य सेवार्थं परकीयं यजेद् यदि ।
सा नारी परमेशानि विज्ञेया कुलयोषिता
तन्त्रान्तरे -
स्वकुलञ्च विना देवि स्वकुलं न प्रकाशितम् ।
विभिन्ने [च्: विस्तीर्णे] कुल दातव्यं स्वकुलानन्द हेतवे
सा नारी परमेशानि विज्ञेया कुलयोषिता ।
नारीमात्रेषु विज्ञेया देवेषु कुलयोषिता
तासां मध्ये विशिष्टा या तव स्थाने प्रकाशिता ।
तस्यार्च्चने महानन्दं जीवनं तस्य दुर्ल्लभम् ।
अत एव महावीरस्तदन्यां नैव लङ्घयेत्
निगमतत्वे कुल लक्षणम् ।
श्रीशिव उवाच -
मातर्दुर्गे महाभागे नमामि चरणाम्बुजे ।
कुलं किञ्च महादेवि मम स्थाने प्रकाशय
श्रीमहादेव्युवाच -
कुलस्त्री परमेशान कुलानन्देषु मोहिता ।
कुलागारे कुलद्रव्यं दातव्यं काङ्क्षिता सदा [ज्: कुलयोषिताम्]
प्. २००)
रागयुक्ता कामयुक्ता कामार्ता कामदायिका ।
परपुष्पाकृति स्थानं कुलागारं [ज्: -रे] प्रकाशितम्
कुलञ्च वारुणं बीजं कुण्डं चान्द्रं [घ्, ज्: चन्द्रं]
महेश्वर ।
तत्रैशानं नीयमानं [ख्, ज्: लीयमानं] सर्वं हि
पश्चिमाननम्
समयाचार तन्त्रे -
वारुणं चान्द्रमध्यस्थं सर्वदेवालयं शिवे ।
रन्ध्रं शिवं लौलितं [च्: लौहितं] मुक्तिं तद्ध्यान संयुतम्
कुल स्थानमिदं ज्ञेयं सृष्टि स्थित्यन्त कारकम् [घ्, ज्: -णं] ।
यथा क्रिया तथा ज्ञानं [क्, ग्, घ्, च्: ज्ञेयो] यथा ज्ञानमिदं
तथा [ज्: यथा ज्ञानं ज्ञेयं तथा]
समयाचारतन्त्रे -
योनिमध्ये स्थितं शून्यं शून्यमध्ये निरञ्जनम् ।
कुलस्थानमिदं ज्ञेयं सर्वबीजस्य बीजकम्
श्रीदेव्युवाच -
कुलस्थानं वारुणञ्च त्वयोक्तं परमेश्वर ।
शम्भु मध्यं चन्द्रबीजं नारीदेहस्य बीजकम् ।
तद्बीजं किं महेशानि तद्भिन्नं नारी वा कथम्
श्रीशिव उवाच -
वारुणं चन्द्रबीजान्तं परस्पर युतं [ज्: परपुष्प-] शिवे ।
कुलस्थानं विना शक्तिज्ञानमात्रं न जायते
प्. २०१)
पान युक्ता काम मत्ता सर्वदानन्द संयुता ।
नितम्ब जघन स्फीता परपुष्प भग प्रभा
कुलस्त्री [च्: अपुष्पा] चोत्तमा ज्ञेया मध्यमा पुष्पदर्शिता ।
हीनाऽपि परमेशानि पुष्पं मध्येषु गोपितम् [ग्: मध्येषु
गोपिता; ग्: मध्ये सुगोपितम्]
उत्तमे पूजिते यन्त्रे मुक्तिभाग् जायते नरः ।
मध्यमे पूजिते भक्तिर्हीनेऽपि कार्य साधनम्
पुष्प ज्ञानं विना देवि शक्ति ज्ञानं न जायते ।
पराजिता पुष्प रूपा कुलागारञ्च मध्यगम् [ज्: मध्यमम्]
शक्ति ज्ञानं सर्वबीजं तस्य बीजं न विद्यते ।
अण्ड जातं स्वेदजातं बीज जातं त्रिधा शिवे
शुक्र शोणित सम्भूतं मानुषं परिकीर्तितम् ।
लिङ्गमध्ये स्थितं शुक्रं योनिमध्ये च शोणितम्
सृष्टि बीजमिदं ज्ञेयं तस्येदं बीज मात्रकम् [ज्: अनयोश्च
परस्परम्] ।
तस्य बीजं न विद्येत गदितुं नैव शक्यते
वायवाधिक्ये डिम्बजातं तोयाधिक्येऽपि स्वेदजम् ।
तेजाधिक्ये बीज जातं क्षित्याधिक्येऽपि मानुषम्
शुक्र शोणित सम्भूतं देहमात्रं महेश्वरि ।
नरान्य सूक्ष्म भागाक्तं अण्डजादि [घ्, ज्: अण्डजाति-]
प्रभेदकम्
कुल स्थानस्य माहात्म्यं गदितुं नैव शक्यते ।
योन्यारूढान्महेशानि किं न सिध्यति भूतले ।
क्रियायोगो ध्यान योगो भक्ति योगो भविष्यति
प्. २०२)
वृहद्योनितन्त्रे -
अथ कुलस्य देवमय कथनम् ।
त्रिकोणे च [घ्, ज्: त्रिकोणेषु] महेश्वराः ।
त्रिकोणाकार रूपा सा सर्वदेवालया प्रिये [घ्: शिवे]
पार्श्वयोः कालिका तारा चोर्द्धे भुवनसुन्दरी ।
त्रिपुरेशी योनिमध्ये मूले वसति भैरवी
छिन्नमस्ता योनिगर्ते धूमा प्रान्ते विनिर्गता ।
रोम कूपे महाकाली मातङ्गी मेखलासु च
योनिक्षेत्रे च कमला कामाख्या योनिदेवता ।
बिन्दुपुष्पतरोर्मूले कुण्डली ब्रह्मविग्रहा
बिन्दु पुष्पं स्वयं रुद्रः प्रकृतिः पुष्परूपिणी ।
पीठं काम स्वरूपञ्च द्विविधं परमेश्वरि
व्यक्ताव्यक्त स्वरूपं हि व्यक्ताद्गुह्यं महाफलम् ।
प्रणवाकार रूपेण योन्याकारं विचिन्तयेत्
नारायणीतन्त्रे । श्रीदेव्युवाच -
व्यक्तायाश्चैव गुप्ताया लक्षणं किं प्रकाशय
श्रीशिव उवाच -
नारीदेहे स्थिता व्यक्ता पुंदेहे [घ्, ज्: स्व-] सूक्ष्मसंस्थिता ।
व्यक्तस्य पूजनाद्देवि लक्ष पीठ फलं लभेत् ।
गुप्तार्च्चनेऽपि मुक्तिः स्याद् भक्ति भाव युतो यदि
प्. २०३)
वृहद्योनि तन्त्रे -
एतत् प्रपूजनाद्देवि लक्ष पीठ फलं लभेत् ।
दर्शनात् लक्ष पीठानां फलं यद्वरवर्णिनि
तत् फलं लभते भक्त्या योनि पीठस्य दर्शनात् ।
स्पर्शनात् सर्व पीठानां फलमाप्नोति साधकः
यानि यानि च तीर्थानि त्रिषु लोकेषु सुन्दरि ।
तिष्ठन्ति तानि तीर्थानि योनि पीठेषु सुन्दरि
योनि दक्षिण पार्श्वेषु यमुना प्रवहेत् सदा ।
सरस्वती मध्यभागे वामेषु जाह्नवी परा
पुष्प स्थाने बिन्दुरूपं तीर्थं गर्तेषु पुष्करम् ।
क्षेत्रे तीर्थानि तिष्ठन्ति सर्वाणि [ज्: चान्यानि] परमेश्वरि
समयाचारतन्त्रे । श्रीदेव्युवाच -
तत् प्रसादान्महादेव ज्ञातव्या कुलयोषिता ।
अधुना श्रोतुमिच्छामि लक्षणं कुल योषिताम्
श्रीशिव उवाच -
यल्लक्षणान्विता ज्ञेया नारी च [ज्: या नारी] कुल योषिता ।
तल्लक्षणान्वितो ज्ञेयः साधकः कुल योषितः
नारीदेहे स्थूल रूपं पुंदेहे सूक्ष्म रूपकम् ।
ज्ञानिनां ज्ञानरूपेदं कुलस्य लक्षणं शिवे
तन्त्रान्तरे -
पुंकुलं नारीदेहेषु नीर्यापि पुरुषे कुलम् ।
स्थूलरूपं सूक्ष्मरूपमन्यान्यं ज्ञापितं प्रिये [घ्: शिवे]
इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे पञ्चाशदुल्लासः
एकपञ्चाशत्तमोल्लासः ।
अथ मैथुन लक्षणम् ।
निगम कल्पद्रुमे श्रीमहादेव उवाच -
रतिः केन प्रकर्तव्या [घ्: केनैव कर्तव्या] रतिर्वा कीदृशी शुभा ।
तव प्रीतिकरी देवि चोच्यतां भव बन्धनात्
देवि सर्व जगन्मातः कौलिकानां परायणि ।
योनि तत्त्वं विना नैव कुल धर्म [क्: धन] परायणः
मया यद् यत् कृतं कर्म तव योनि प्रसादतः ।
(ज्: पुस्तके अधिक पाठो दृश्यते नान्यत्र) तदेव च महादेवि
विस्मृतं साधनं महत् ।
विस्मृतं पुनरुच्येत शपथं मे पुनः पुनः
श्रीदेव्युवाच -
उन्मत्तं [ज्: उत्तमं] दुष्ट चित्तात्मा विस्मृतं साधनं महत् ।
न वक्तव्यं पुनर्ह्येतत् शपथं मे पुनः पुनः
गोपनीयं गोपनीयं गोपनीयं पुनः पुनः ।
रति सन्तोष तुष्ट्यर्थं [क्, ग्: तुष्टार्थं] पुनर्ह्येतत् प्रकाशितम्
योन्यन्तरे त्रिधा नाडी वारुणी रक्तिका तथा ।
शुक्रिया [च्: शुचिका] चेति कल्याणि सर्व देश रमोज्ज्वला [घ्:
रजोज्ज्वला; ज्: रजस्वला]
प्. २०५)
वारुण्याः [घ्: वारुणी] क्षरते तोयं रक्तिका रुधिरं तथा ।
शुक्रिका शुक्र [ज्: रेत] जननी तस्यां पूजा महाफला
मध्यभागे शुक्रिणी स्यात् दक्षे सव्ये रजोज्ज्वलाम् [ज्: वामे
रजस्वला] ।
ध्यात्वा कुर्यात् सदा सङ्गं शुक्रे बीज प्रपातनम्
तद्द्रव्यं कुंकुमैर्युक्तं [घ्, ज्: चन्दनै] सिन्दूरेणाथवा
पुनः ।
केवलं वापि पुष्पेण शोधितं तन्निवेदयेत्
तन्त्रान्तरे -
रक्तेन सहितं शुक्रं यदि स्यात् परमेश्वरि ।
तदा शुक्रेण दातव्यं चानुकल्पं कुलेश्वरि
अथानुकल्पं रक्तस्य शृणुष्व प्राणवल्लभे ।
प्रत्यक्षस्यापि योग्यत्वं चानुकल्पेषु संस्थितम्
गौतमीये -
रक्तानुकल्पं रक्ताक्तं श्वेतं शुक्रानुकल्पनम् [क्, ग्: कल्पकम्] ।
स्वस्ववर्णयुतं द्रव्यं तद् द्रव्यस्यानुकल्पनम्
पुष्पोद्भवेषु पुष्पेषु पुष्पात् पुष्पं नियोजयेत् ।
देवतार्थेऽपि वीरस्य आत्मार्थेऽज्ञानिनः [घ्: ज्ञानिनः] क्वचित्
गङ्गा च यमुनाचैव मध्यभागे सरस्वती ।
ध्यात्वा यजेन्महेशानि मध्ये [ज्: सव्ये] शुक्र प्रपातनम्
प्. २०६)
अथास्य भावः ।
वामा भूत्वा यजेत् पराम् ।
स्वदेहे वामाज्ञानम् । गुप्तसाधन तन्त्रे -
देवी बुद्धमिदं [ज्: बुध्या] सर्वं सर्व देहस्य बीजकम् ।
वृक्षस्यापि यथा भूमेर्वलं [क्: -वनं] देवि [क्: देवी; ज्: शक्तिः]
तथा प्रिये
शक्तियुक्तो भवेत् सृष्टिः शक्तिः स्यात् सृष्टिसंयुता ।
परस्परं भवेद्बीजं वायुराकाशयोर्यथा
सृष्टिरूपं महादेवं बीजं शक्ति स्वरूपकम् ।
बीजरूपं महादेवं सृष्टिशक्ति [क्, ग्: सृष्टिं-] स्वरूपकम्
बीजरूपा महादेवी सृष्टिरूपो महेश्वरः ।
प्रादुर्भावं तिरोभावं परस्पर विवक्षितम्
पञ्चभूतमये देहे स्थूलरूपे महेश्वरे ।
शक्तिस्तत्र महादेवि सूक्ष्मरूपेण भाषिता
पञ्चभूतमयं देहं केवलं शक्तिरूपकम् ।
पञ्चधाप्येकधा [क्, ग्: एकदा] यत्र नानारूपवती शिवा
कुब्जिका तन्त्रे -
नानारूपवती शक्तिः पुरुषस्येक रूपकः ।
यथा नानापि मुकुरे नानात्वं [ज्: मुकुले दर्शने] प्रतिबिम्बकम्
शिवोऽपि शक्तिरूपश्चेत् [क्: शक्तियुक्तः स्यात्] शक्तिः स्यात्
शिवयोगतः ।
अविनाभाव सम्बन्धं द्वयोरेव परस्परम्
प्. २०७)
शिव शक्तिद्वयं तत्त्वं तत्त्वं ज्ञानस्य कारणम् ।
शिवेन शक्तिर्विज्ञेया [क्: शक्तिं विज्ञेयां] ज्ञेयं
शक्त्याक्तशङ्करम् [ज्: शक्त्यातु शङ्करः]
पुरुषः प्रकृतौ [क्: प्रकृति] युक्तः सर्व कार्य प्रकाशवान् ।
शक्तिश्च पुरुषेष्वाक्ता [ज्: पुरुषेण] यदा सर्व प्रकाशिनी
शक्ति ज्ञानं विना देवि शिवज्ञानं न चेत् क्वचित् ।
शिव ज्ञानं विना किञ्चित् [क्: कश्चित्] शक्तिज्ञानं न जायते
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे एकपञ्चाशदुल्लासः
द्वापञ्चाशत्तमोल्लासः ।
अथ शक्ति ज्ञानम् ।
कुलचूडामणौ -
स्थूलज्ञानं विना देवि सूक्ष्म ज्ञानं न चेत् क्वचित् [ज्: न
जायते] ।
अतश्च बहुजन्मान्ते शक्ति ज्ञानं प्रजायते
शक्तिज्ञानं विना देवि मुक्तिर्हास्याय कल्पते [क्: कल्प्यते] ।
सा शक्तिर्वामा विज्ञेया पुरुषस्यापि मुक्तिदा
शक्ति ज्ञानं द्विधारूपं गुप्ता व्यक्ता कुलेश्वरि ।
गुप्ताशक्तिस्तु देहस्था [ज्: शक्तिः स्वदेहस्था] व्यक्ता रमण
दायिनी
प्. २०८)
व्यक्ता ज्ञानं विना भद्रे गुप्ता ज्ञानं न जायते ।
व्यक्ता रमण तुष्टा चेत् गुप्ता रमण तुष्टिता
अथ गुप्ताशक्ति लक्षणम् ।
शाक्तक्रम चन्द्रिकायाम् [घ्, ज्: -चन्द्रिकायाम्] -
शक्तिर्ब्रह्मा [क्, ख्, घ्, च्: ब्रह्म] शिवः शक्तिः शक्तिर्विष्णुश्च
वासवः ।
अन्येच वहवो देवाः शक्ति मूलाः प्रकीर्तिताः ।
अतस्तेभ्यः प्रधानं हि शक्तिं विद्धि महामते
ज्ञानद्वीपे -
यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता ।
सैव सर्वेश्वरी देवि [क्: देवी] स च सर्वो महेश्वरः
भाव चूडामणौ -
स्थूलेन्द्रिय महादेव [क्, ख्, च्: -देवं] स्तस्याधिष्ठात्री चण्डिका ।
कार्याकार्यं महेशानि तस्या एव न संशयः
शरीरमिन्द्रियार्थं [ज्: इन्द्रियाक्तं] हि चेन्द्रियं शक्ति संयुतम् ।
कार्याकार्यं भवेत् शक्तेर्निर्लिप्तः [ज्: यस्या-] पुरुषः शिवे
इच्छाशक्तेर्भवेदिच्छा ज्ञान शक्तेस्तु ज्ञानवान् ।
क्रिया शक्तेर्भवेत् कार्यं प्राणिनां सर्वसाधने
रमणं शक्तिसंयुक्तं जडं ज्ञेयं सदाशिवम् ।
अथवापि शिवं ज्ञेयं देहिनं शक्ति बीजकम्
देहं शरीरं विज्ञेयं देहीति शिव कीर्तितम् ।
वामाज्ञानं महेशानि स्थूल सूक्ष्म प्रमाणकम्
प्. २०९)
अथ व्यक्ताशक्ति लक्षणम् ।
निगमकल्पद्रुमे श्रीदेव्युवाच -
स्त्रियो देवाः स्त्रियः प्राणाः स्त्रियश्चैव विभूषणाः [ज्: -णम्] ।
स्त्रीसङ्गिना सदा भाव्याम [ज्: भाव्यम] भावे स्वस्त्रियामपि
श्रीमहादेव उवाच -
स्त्रीरूपं ब्रह्मरूपञ्च त्वयोक्तं वरवर्णिनि ।
अभावे स्वस्त्रियं देवि कथमुक्तं सदाशिवे
श्रीदेव्युच -
ब्रह्म दत्ता रुद्र दत्ता द्विविधा स्त्रीर्महेश्वर ।
ब्रह्म दत्ताग्निना हुत्वा शिव दत्ता तु कामतः
शिव कार्ये शिवा योज्या परा योज्यान्यकर्मणि ।
सन्देहो नैव कर्तव्यो मम वाक्यानुसारतः
निगमानन्दे -
वामाभावे महेशानि [घ्: -न] स्ववामां तोषयेन्मुदा ।
स्ववामा तोषणार्थेऽपि पर वामाञ्च तोषयेत्
परवामात्मनः तुल्यं स्वात्मानं चिन्तयेन्मुदा [ज्: चिन्तनं-] ।
तोषयेद् रमयेत् शक्ति [ज्: शाक्तः] तस्या वाक्येन [घ्, ज्: वाक्यानु]
मानतः ।
तोषयेत् परमेशानि [घ्: -न] वीरभाव समाश्रितः
प्. २१०)
अथ वामा पूजा लक्षणम् ।
गुप्तसाधन तन्त्रे -
स्वदेहं नारी देहञ्च स्वकार्यं रमणीयुतम् ।
रमणं शक्तिसंयुक्तं स्वदेहेषु विशेषकम्
रमणेन महेशानि वामापूजां प्रकल्पयेत् ।
स्वशक्ति रमणार्थेऽपि परशक्तिं रमेत् शिवे
रमणं शक्तिभिः सार्द्धं स्वदेहे परदेहके ।
स्वशक्तिं परशक्तिं वा चैकां ज्ञात्वा रमेत् शिवाम्
ज्ञानार्णवे -
रमणेन वरारोहे यादृक् मुखं भवेद् ध्रुवम् ।
तादृक् सुखं शरीरस्य कदाचिन्नैव जायते
रमणेन वरारोहे रमादेवीं प्रपूजयेत् ।
रमा पूजनमात्रेण रमा तस्य करे स्थिता
रमणेन भवेत् स्वर्गो दुःख मुक्तिर्महेश्वरि ।
अत एव कुलाचारी मुखेन भक्तिभाग् भवेत्
निषेधश्च विधिश्चैव वामाचारे [ज्: स्वेच्छाचारे] न चेत् क्वचित् ।
स्वेच्छाचारे योनि गर्ते लिङ्गं दद्यात् तदाज्ञया
निषेधश्च विधिश्चैव स्वेच्छाचारे न पार्वति ।
मैथुनं चेत् शक्ति युक्तं केवलं शक्तेराज्ञया
पुरुषस्यैव नियमो [ज्: पुरुषो नियमश्चैव] न योषित्सु कथञ्चन ।
अभिषेकस्य [क्, ग्: अभिषेकाद्य] भावेन चाधिकारी न संशयः
प्. २११)
स्वदेहे रमयेत् शक्तिं नान्यथा च कथञ्चन ।
स्वगेहे पायसं त्यक्त्वा भिक्षामटति दुर्मतिः
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे द्वापञ्चाशदुल्लासः
त्रिपञ्चाशत्तमोल्लासः ।
अथ सिद्धान्ताचारः ।
समयाचारतन्त्रे -
आत्मानं देवतां मत्वा [घ्: ध्यात्वा] यजेद्देवं विधानतः ।
सदानन्दः सदा शान्तः सिद्धान्ताचार उच्यते
(अत्र आत्मानं देवतां मत्वेति श्लोकस्य व्याख्यानं बोध्यम्)
(आत्मान्तं देवतां मत्वा ज्ञात्वा, एवं विधानतो यो यजेत्,
स सिद्धान्त चारः, पुनः कथम्भूतः, सदानन्दः सदा शान्तः
।)
अथास्य [क्: अथ सिद्धान्ताचारस्य] सिद्धान्ताचारस्य भावः ।
शाक्तक्रम - चन्द्रिकायाम् [तन्द्रि-] -
मन्यन्ते ये स्वात्मानं [क्, ग्: जनात्मानं] विभिन्नं [च्: विभिन्ने]
परमेश्वरात् ।
न ते पश्यन्ति तं देवं वृथा तेषां परिश्रमः
प्. २१२)
गौतमीये -
आत्मानं देवतां मत्वाप्यात्मानं तोषयेद्यदि ।
सिद्धान्ताचारो [क्: -चारविज्ञेयं] विज्ञेयस्तस्य जीवः शिवो भवेत्
तथा च कुलार्णवे -
घृणा लज्जा भयं शोकं जुगुप्सा चेति पञ्चमी [च्: -मम्] ।
कुलं शीलं तथा जातिश्चाष्टौ पाशाः प्रकीर्तिताः
पाशवद्धः सदा जीवः पाशमुक्तः सदाशिवः ।
एवं ज्ञात्वा महेशानि चात्मानं तोषयेद् यदि ।
स जीवः परमेशानि शिव एव न संशयः
गुप्तसाधन - तन्त्रे -
आत्मानं तोषयेद्देवीं [क्, ख्, ग्, घ्: आत्मातोषणमात्रेण] तुष्यन्ति
सर्वदेवताः ।
अत एव कुलाचारी आत्मानं तोषयेन्मुदा
कुलार्णवे -
यत्रास्ति भोगो न च तत्र मोक्षो,
यत्रास्ति मोक्षो न च तत्र भोगः ।
शिवा पदाम्भोज युगार्च्चकानाम्,
भोगश्च मोक्षश्च करस्थ एव
वैष्णवानाञ्च शाक्तानां शैवादीनां महेश्वरि ।
आत्मानं देवतां मत्वा तोषयेद्रमणादिना
आत्मस्थां [ज्: आत्मानं] देवतां त्यक्त्वा वहिर्देवं विचिन्तयेत् ।
करस्थं कौस्तुभं त्यक्त्वा भ्रमते काच तृष्णया
प्. २१३)
पञ्चतत्वेन देवेशि स्वेच्छाचारेण वा पुनः ।
जीवं देव [घ्, ज्: ब्रह्म] मयं ज्ञात्वा तोषयेद् भोजनादिषु
हंसमाहेश्वरे -
यानि यानि च तीर्थानि ये ये देवा महेश्वरि ।
शरीरं ज्ञापितं सर्वं जीवरूपं सनातनि [क्, ख्, ग्, च्: -नम्]
भावचूडामणौ -
शरीर [क्: -रं] व्यापितं रक्तं जीवो [क्: जीव ज्ञेयं] ज्ञेयो
महेश्वरि ।
मृतदेहे वरारोहे रुधिरं नैव तिष्ठति ।
सुखदुःखादयः सर्वे जीवस्यापि महेश्वरि
ज्ञानद्वीपे -
एकैव हि महामाया नाम भेदेन संस्थिता ।
विमोहनाय लोकानां तस्मात् सम मना भवेत्
देवी विष्णु शिवादीनामेकत्वं परिचिन्तयेत् ।
भेद भाव [क्: -भावो] मनो यस्य तस्य मोक्षो न जायते
कुलरहस्ये -
अथा दुर्गा तथाविष्णुर्यथा विष्णुस्तथा शिवः ।
नानाभाव मनो यस्य तस्य मोक्षो न जायते ।
सर्वं देहमयं [ज्: देव] ज्ञात्वा देहं [ज्: अयं] शिवे
प्. २१४)
देह ज्ञानं विना देवि जीव ज्ञानं न चेत् क्वचित् ।
जीव ज्ञानं विना देवि शिव ज्ञानं न चेत् क्वचित्
शिव ज्ञानं विना जीवः शिवोऽभूच्च न चेत् क्वचित् ।
आत्मब्रह्मेति संज्ञात्वा देवब्रह्मेति भावयेत्
देवतात्माऽभिन्नो यस्तस्य जीवः शिवो भवेत् ।
शरीरं व्यापितं यद्यत् जीवं [ज्: शिवं] ज्ञेयं कुलेश्वरि
इति स्थिरतरं यस्य तस्य जीवः शिवो भवेत् ।
आदौ देहं ततो जीवं ततो देवं [क्: देहं] विचिन्तयेत् ।
ततो देवमयं जीवं देहं जीवमयं स्मरेत्
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे त्रिपञ्चाशदुल्लासः
चतुःपञ्चाशत्तमोल्लासः ।
अथ मैथुनानन्द लक्षणम् ।
निगम तत्त्वसारे श्रीशिव उवाच -
मद्यानन्दं महादेवि बहुधापि प्रकाशितम् ।
इदानीं श्रोतुमिच्छामि मैथुनानन्द लक्षणम्
श्रीदेव्युवाच -
मैथुनानन्द कथने शङ्काऽभूत् मम मानसे ।
नियोज्य नन्दिनं द्वारे निर्गच्छ [क्: निर्गत्य] रति मन्दिरम्
प्. २१५)
तव स्नेहात् प्रवक्तव्यं साधनं परमं महत् ।
यत् कृत्वा साधक श्रेष्ठः शिवोऽभूत् परमेश्वर
मैथुनेन विना देव मद्यपानं हि दुःखदम् ।
मद्यपानं विना देव मैथुनं पापदायकम्
पानान्ते मैथुनं भद्रं मैथुनान्तेऽपि कारणम् [क्: पानकम्]
।
पानं मैथुन संयुक्तं जीवस्य मुक्ति दायकम्
पूर्णानन्दे महादेव मैथुनं नैव जायते ।
इन्द्रियाकलितं सर्वं रूप मानादिवर्जितम्
अत एव कुलज्ञानी मद्य पानं यथासुखम् ।
आनन्दं द्विविधं प्रोक्तं खण्डं पूर्णं कुलेश्वर
खण्डानन्दि [क्: -नन्दी] क्रियामार्गी योनि लिङ्गस्य दर्शनात् [क्:
घर्षणात्] ।
अतिपानं न कर्त्तव्यमतिपात्रं न दापयेत्
ज्ञानार्णवे -
आनन्दे जनिते देवि बहु पात्रं ददेद्यदि ।
दीयमाने क्रिया लुप्ते क्रुद्धा भवति कामिनी
निगम तत्त्वे -
शक्तिरूपा महामाया सर्व गेहेषु संस्थिता ।
यदानन्दयुता नारी तदा मच्छरीरं शिव
देहं जीवं तथा प्राणं मनो बुद्धिञ्च भोजनम् ।
करोम्यहं गानपानं स्वयं देवीस्वरूपिणी
सानन्द ज्ञान मात्रेण हृत्पद्मेऽहं प्रकाशिता ।
प्रकाशेऽपि स्वयं देवी साक्षाद्भवति साधकः
प्. २१६)
साधकस्त्वं महादेव साध्याहं नात्र संशयः ।
आनन्दं [ज्: आनन्दे] साधकं दृष्ट्वा तथा साध्याञ्च
शङ्करीम्
दर्शनाच्च भवेन्मुक्तिः सालोक्यं परमेश्वर ।
स्वकान्तां परकान्तां वा सालोक्यं दर्शने शिवे
सालोक्यं चैव सारूप्यं सायुज्यं परमेश्वरि ।
निर्वाणञ्च यदानन्दं [ज्: दया-] मम स्थाने प्रकाशय
अथ चतुर्विध मुक्त्यानन्द कथनम् ।
श्रीदेव्युवाच -
कान्तायाः षोडशे वर्षे दर्शनात् [क्: दर्शने] यत् सुखं प्रिय ।
तत् सुखं सर्वदा देव सालोक्ये [ज्: सालोक्यं] नात्र संशयः
कान्तायाः षोडशे वर्षे स्पर्शने यत् सुखं प्रिय ।
तत्सुखं सर्वदा देव सारूप्ये नात्र संशयः
कान्तायाः षोडशे वर्षे सङ्गमे यत् सुख प्रिय ।
तत्सुखं सर्वदा देव सायुज्ये [ज्: सायुज्य] नात्र संशयः
शुक्रोत्सारण काले तु यत्सुखं प्रिय तत्सुखम् ।
जायते सर्वदा देव निर्वाणे नात्र संशयः
इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे चतुःपञ्चाशदुल्लासः
पञ्चपञ्चाशत्तमोल्लासः ।
अथ पूर्णानन्दस्य माहात्म्यम् ।
निगमतत्त्वसारे श्रीशिव उवाच -
मातर्दुर्गे महाभागे ममैव प्राण वल्लभे ।
पूर्णानन्दस्य माहात्म्यं मम स्थाने प्रकाशय
श्रीदेव्युवाच -
देही ब्रह्ममयं ज्ञात्वा [क्, ग्, च्: ब्रह्मेति संज्ञात्वा] सर्वं
ब्रह्मेति भावयेत् ।
जन्ममृत्युमयं [क्, ग्, च्: -भयं] घोरं कदाचिन्नैव पश्यति
देही देहे स्थिते देव पूर्णानन्द न जायते ।
भावातीतं यदा ज्ञानं पूर्णानन्दं तदा भवेत्
भावातीतमयं भावं भावं भावातीतमयम् [च्:
भावातीतमय शिव] ।
पूर्णानन्दं तदा ज्ञेयं गान पानेषु [क्, ग्, च्: गाने पानेषु]
जायते
गानेन [क्, ग्, घ्, च्: ज्ञानेन] जायते पानं पानाच्च गायनं शिव
।
आनन्दस्य क्रमं कुत्र निश्चितं केन वर्त्मना
किं वा कार्यमकार्यं किं वर्णितुं नैव शक्यते ।
भावातीतमयं वाक्यं भावातीतमयं स्तवम्
भावातीतमयं ज्ञानं भावातीतं हि मैथुनम् ।
भावातीतमयं पानं भावातीतं हि गायनम् ।
भावातीतमयं ध्यानं भावातीतमयी [क्, ग्, घ्, च्:
भावातीतमया] क्रिया
प्. २१८)
गुप्तसाधन तन्त्रे श्रीशिव उवाच -
क्वचित् पानं क्वचिद्गानं क्वचिच्चर्वणमाचरेत् ।
क्वचिद् ध्यानं जपादिञ्च क्वचिन्मैथुनमाचरेत्
पानान्ते चर्वणं देवि चर्वणान्ते पिवेन्मधु ।
मांसं मुद्रां मीनयुक्तं [ज्: -युक्तां] पानमानन्द
सम्मतम् [ज्: संयुताम्]
चर्व्यं चोष्यं तथा लेह्यं पेयञ्च परमेश्वरि ।
मुखे यद् यत् प्रदातव्यं भोजनानन्द सम्मतम्
निगम तत्वे श्रीदेव्युवाच -
पूर्णानन्दे महादेव मैथुनं नैव जायते ।
इन्द्रियाकलितं सर्वं प्रकाशक विवर्जितम्
यदि दैवात् साधकेन्द्रः क्रियाकाङ्क्षी भवेत् शिव ।
सर्वत्र योनिं ज्ञात्वाऽपि घातं कृत्वा मुहुर्मुहुः
क्वचिद् योनौ क्वचित् पार्श्वे क्वचित् पृष्ठे महेश्वर ।
क्वचिदास्ये क्वचित् कर्णे मूर्ध्नि देशे क्वचित् क्वचित्
भावातीतक्रमेणैव घातं कुर्यानुमुहुर्मुहुः ।
क्वचिल्लिङ्गेन हस्तेन क्वचिदंगुलिना शिव
क्वचिन्नासा पुटेनैव क्वचिन्नेत्रेण घातनम् ।
क्वचित् पादेनांगुलिना मूर्ध्नापि जिह्वया क्वचित् ।
दन्तघातं सर्वगात्रं चोष्यमाणं मुहुर्मुहुः
इति श्रीसर्वानन्दनाथ विरचिते सर्वाल्लासे पञ्चपञ्चाशदुल्लासः
षट्पञ्चाशत्तमोल्लासः ।
श्रीशिव उवाच -
कुलेशि श्रोतुमिच्छामि शक्त्यानन्दस्य लक्षणम्
श्रीदेव्युवाच -
शक्त्यानन्दं महादेव बहुभाग्ये प्रकाशितम् ।
प्रकाशिते प्रेमानन्दे [ज्: महेशान] सर्वानन्दस्य तुल्यता
भावातीतो यथा शाक्तस्तथा शक्तिर्महेश्वर ।
आनन्दस्यापि तुल्यत्वं पानं रमण तादृशम्
शक्तिर्वा पुरुषो [क्, ग्, च्: साधको] वापि पतितो यदि भूतले ।
(चिह्नित सार्द्ध श्लोक द्वयं ज्: पुस्तके अधिकं विद्यते)
तत्क्षणाद्रमणं कुर्यात् घृणा लज्जा विवर्जिता
साधकः पतितो भूमौ साध्या रमणमाचरेत् ।
साध्यापि पतिता भूमौ साधको रमणञ्चरेत्
अनिच्छायां न कर्त्तव्यं कर्तव्यमाज्ञयापि च ।
अन्यथापि न कर्त्तव्यं उभौ [घ्: कर्तव्यावुभौ] नरकगामिनौ
शक्त्यानन्दे यजेत् शाक्तः शिवानन्दे यजेत् शिवाम् ।
आनन्देन युतो देव कुक्कुरोऽपि शिवो भवेत्
इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे षट्पञ्चाशदुल्लासः
सप्तपञ्चाशत्तमोल्लासः ।
अथ शक्ति माहात्म्यम् ।
तोडलतन्त्रे -
आत्म शक्तिर्वरारोहे देहोऽयं (?) जडिता स्थिता ।
वशीकर्त्तुं न शक्नोति वाह्य शक्तेस्तु का कथा
वाह्य शक्तिर्वरारोहे स्व शक्तिर्ज्ञायते यदि ।
तोषयेद् बहु यत्नेन राग द्वेष विमुक्तकः [ख्, च्: विमोहकः]
शाक्तक्रमचन्द्रिकायाम् [घ्, ज्: -तन्द्रिकायाम्] -
विवाहितायाः कन्याया [ज्: कान्तायाः] यद्यन्यो रमणं चरेत् ।
तासां प्रहारं निन्दाञ्च कौटिल्यं नैव कारयेत्
शक्तिरूपं क्रियार्थं हि विवाहं परिभाषिकम् ।
स्त्रीमात्रे हर पत्नी च पुमान्मात्रे च शङ्करः
शङ्करोऽहं वरारोहे शक्तेर्ज्ञानं न संशयः ।
इच्छा शक्तेर्भवेदिच्छा क्रिया शक्तेः क्रिया भवेत्
ज्ञान शक्तेर्भवेज्ज्ञानं भवेल्लज्जापि लज्जया ।
बन्धं मोक्षं वरारोहे इच्छा शक्तेर्न संशयः
अत एव महादेवि [क्, ग्, च्: महादेव] देह [ग्: सर्वां] शक्तिं
प्रकीर्तितम् ।
योऽन्येभ्यो दर्शनेभ्यश्च भुक्तिं [घ्, च्: भक्तिं] मुक्तिञ्च
कांस्क्षति ।
स्वप्न लब्ध धनेनैव धनवान् स भवेद्यदि
प्. २२१)
उपास्या बहवो देवा यदुक्तास्तव सुव्रते [क्, ग्, च्: -ताः] ।
पूज्या [घ्, ज्: पूजा] प्रधाना तत्रैव शक्तिरादौ दृढ [क्, च्:
दृढः] व्रतः
शक्तिर्ब्रह्मा शिवः शक्तिः शक्तिर्विष्णुश्च वासवः ।
अन्ये च बहवो देवाः शक्ति मूलाः प्रकीर्तिताः
शक्तिं विना यतो ह्येषामसमर्थं प्रकीर्तितम् ।
अतस्तेभ्यः प्रधानं हि शक्तिं विद्धि महामते
शुक्तौ रजतवद्भ्रान्तिर्यथा [घ्: -भातिर्यथा] जायेत पार्वति ।
तथान्य [क्, ग्, च्: अथान्य; घ्: अन्यथा] दर्शनेभ्यश्च भुक्तिं
मुक्तिञ्च कांक्षति
(श्लोकोऽयं घ्, ज्: पुस्तकयोरधिको दृश्यते)
मन्यते ये स्वमात्मानं विभिन्नं परमेश्वरात् ।
न ते पश्यन्ति तं देवं वृथा तेषां परिश्रमः
सर्व देवमयीइं देवीं सर्व देवमयीं पराम् ।
आत्मानं चिन्तयेद्देवीं परमात्म स्वरूपिणीम्
निर्वाण तन्त्रे -
देव्यात्मानं स्वमात्मानं भावयेद् यतमानसः ।
ऐक्यं संभावयेन्नित्यं स्वगुरूं देवतात्मकम्
आत्मानं चिन्तयेद्देवीं शक्तिमात्र स्वरूपिणीम् ।
आत्माभेदेन यश्चिन्त्यो [ज्: आत्माभेदे लयश्चिन्त्यो] याति तन्मयतां
नरः
सोऽहमित्यस्य सततं चिन्तनात् तन्मयो भवेत् ।
अहं देवो न चान्योऽस्मि मुक्तोऽहमिति भावयेत्
रुद्रस्य चिन्तनाद्रुद्रो विष्णुः स्याद्विष्णुः स्याद्विष्णु चिन्तनात् ।
दुर्गायाश्चिन्तनाद् दुर्गा भवत्येव न संशयः
प्. २२२)
एवमभ्यासयोगस्तु अहन्यहनि [क्, ग्:
एवमभ्यासमानन्त्वप्यहन्यहनि] पार्वति ।
जरा मरण कुःखाद्यैर्मुच्यते भव बन्धनात्
इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे सप्तपञ्चाशदुल्लासः
अष्टपञ्चाशत्तमोल्लासः ।
हंस बीजस्य माहात्म्यम् ।
महानिर्वाण तन्त्रे श्रीदेव्युवाच -
देवेश प्राण नाथेश [ग्, ज्: परमेशान] त्रिगुणे त्रिगुणात्मक ।
अधुना हंस बीजस्य माहात्म्यं कथय प्रिय
श्रीशिव उवाच -
हंस बीजस्य माहात्म्यं गदितुं नैव शक्यते ।
तव स्नेहेन बद्धोऽहं किञ्चिद्भावं प्रकाशितम्
देवालयं भवेद्देहं हंसेन मनुना शिवे ।
हंस बीजं समाश्रित्य देही देहे सदा स्थितः
हकारः शङ्करश्चैव सकारः शक्तिरीरितः ।
शिव शक्त्यात्मकं मन्त्रमजपेति प्रकीर्तितम्
षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः ।
अजपा नाम गायत्रीं जीवो जपति सर्वदा
प्. २२३)
श्रीपार्वत्युवाच -
शिव शक्त्यात्मकं मन्त्रं जीवो जपति सर्वदा ।
प्रजपेत् केन मूलञ्च सोऽहं केन विचिन्तयेत्
श्रीशिव उवाच -
कुम्भकं स्याद् हं कारेण सः कारेणापि रेचनम् ।
कुम्भकेषु [ज्: कुम्भकेऽपि] जपेन्मन्त्रं प्रत्येके प्रत्येकाक्षरम्
तन्त्रान्तरे -
हकारं शिव बीजं स्यात् शक्तिबीजं सकारकम् ।
जीवात्मानं नादरूपं बिन्दुञ्च परमात्मकम्
विसर्गः कर्म्म सङ्गः स्यात् हंस बीजं प्रकीर्तितम् ।
विन्दु द्वयं विसर्गः स्यात् सृष्टिः स्थितिर्महेश्वरि
एक बिन्दुं लये देवि द्विविन्दुं सृष्टिरूपकम् ।
त्रिविन्दुं स्थिति रूपञ्च बिन्दुमेकं लये पुनः
शैव शक्तिमयं देहं जिवात्मा कर्म्म रूपकम् ।
परमात्मा बिन्दुरूपं हंस बीजेन भाषितम्
सृष्टि स्थिति लयं ज्ञेयं हंस बीजं सुलोचने ।
हंस ज्ञाने भवेत् सृष्टिः सोऽहं ज्ञाने स्थितिः प्रिये ।
नाहं ज्ञाने लयं देवि भावा भाव प्रबोधकम्
नारायणी तन्त्रे -
स्वभावे हंस बीजेन देह भेदेन चिन्तनम् ।
सोऽहं भावेन परमेऽप्येकदेहं विचिन्तयेत्
हकारेण सकारञ्च सकारेण हकारकम् ।
पूजनं सर्वदा कुर्यात् वाम दक्ष विभेदतः
प्. २२४)
नारायणी तन्त्रे -
शिव बीजं हकारञ्च पुंदेह शिव रूपकम् ।
(पाठोऽयं ग्: पुस्तके अधिको दृश्यते) शक्तिबीजं सकारं हि
पुंदेहं शिव रूपकम्
शक्ति बीजं सकारं हि शक्तिदेहः प्रकाशितः ।
सोऽहं शक्तिमयं ध्यानात् [क्, ग्, च्: भावात्] ज्योतिर्ध्यानं
प्रकाशितम्
सूक्ष्म ध्यानमहं ब्रह्म सर्व व्यपि निरञ्जनम् ।
(पाठो ग पुस्तके अधिको दृश्यते) स्थूल ध्यानं हंस बीजं
भेद ज्ञानाच्च लभ्यते ।
सोऽहं ज्ञानाद् भवेल्लभ्यं ज्योतिर्ध्यानं सुनिर्मलम्
नाहंज्ञानाल्लभ्यते च वाचातीतं निरञ्जनम् ।
स्थूलं तेजस्तथा सूक्ष्मं ध्यानं त्रिविध लक्षणम्
स्थूलमिन्द्रियसंयुक्तं योनि लिङ्गादिसंयुतम् ।
ज्योतिर्ध्यानमभेदं हि सोऽहंज्ञानयुतो यदि ।
सूक्ष्मं नित्य निराकारं गगनादपि निर्मलम्
इति सर्वानन्दनाथविरचिते सर्वोल्ल्लासे अष्ट पञ्चाशदुल्लासः
ऊनपष्टितमोल्लासः ।
श्रीपार्वत्युवाच -
ध्यानत्रयस्य मध्येषु सोःअं केन प्रजायते
श्रीशिव उवाच -
स्थूल ध्यानं हंस बीजं सेव्य सेवक भेदकम् ।
तेजः सूक्ष्मभेदं हि सेव्य सेवक वर्जितम्
भावातीतं हि यद्ध्यानं सोऽहं ज्ञानात् परं शिवे ।
यस्य यस्य पदार्थस्य या या शक्तिरुदीरिता [ख्, ग्, ज्: उदाहृता] ।
सैव सर्वेश्वरी देवी स च सर्वो महेश्वरः
महानिर्वाण तन्त्रे -
स्वदेहे पूजयेद्देवं नान्य देहे कदाचन ।
स्वगेहे पायसं त्यक्त्वा भिक्षामटति दुर्मतिः
स्थूलध्यानान्महादेव [क्, ग्, च्: महादेव !] स्तेजोध्यानाद्धि [ज्:
ध्यानादि] शङ्करी [ज्: शङ्करि !] ।
सूक्ष्म ध्यानाद् भवेन्मुक्तिरोङ्कारं तत्र सम्भवम् [घ्:
कुम्भकम्]
भिन्न देहं शिवं शक्ति तेजोध्यानमभेदकम् ।
शिव शक्त्यात्मकं सूक्ष्मं ओं तत्सद् व्यापितं जगत्
विन्दु त्रयं नाद युग्मं बिन्दु युग्मञ्च नादकम् ।
बिन्दुमेकं नाद युग्मं ओंकारं ब्रह्म बोधकम्
कुण्डलिन्यङ्कुशाकारा बिन्दुरूपः सदाशिवः ।
अङ्कमात्रं महादेवि शिव शक्ति प्रबोधकम्
प्. २२६)
बिन्दु द्वयं विना देवि किञ्चिन्मात्रं न जायते ।
वामे च परमा शक्तिर्दक्षिणे परमः शिवः
शिव शक्त्यात्मकं ब्रह्म वाचातीतं सुनिर्मलम् ।
तकारं शङ्करं ज्ञेयं तकारं पुंस्त्व विग्रहम्
ब्रह्म बोधमयं देवि तत् शब्दं [ज्: सर्वं] शक्ति गोपितम् ।
बिन्दुयुग्मं नादमेकं तकारं ब्रह्म बोधकम्
तत् शब्दं परमेशानि ओंकारस्यापि बोधकम् ।
विना स्वरेण देवेशि व्यञ्जनं नैव तिष्ठति
तद्वर्णं सकलं बोधं भाव रूपं प्रकाशितम् ।
सकारः शङ्करी ज्ञेया तकारो नाद रूपकः
शक्तिब्रह्ममयं ज्ञानं सत् [ज्: तत्] शब्दं भाव बोधकम् ।
व्यञ्जनं पुरुषं ज्ञेयं स्वरं ज्ञेयञ्च शङ्करीम् [ज्:
शङ्करी]
शिव शक्त्यात्मकं ब्रह्म सत् शब्देनापि भाष्टितम् [ज्: बोधितम्] ।
सकारञ्च तकारञ्च पुरुषं परमेश्वरि
शक्ति ज्ञानं मध्य [क्, ग्, च्: मध्ये] लुप्तं अकारं शब्द [ज्:
सर्व] बोधकम् ।
पञ्चनादं सप्तबिन्दुमेकाङ्गं परमेश्वरि
एतैर्युक्तं सकारं हि त्रि वकारं प्रकाशितम् ।
सत्वं रजस्तमश्चैव त्रि वकारेण भाषितम्
पञ्चनादं पञ्चतत्त्वं बिन्दु स्वर्ग बिभूषितम् ।
त्रिगुणाक्तं त्रिकोणञ्च प्रतिकोणं त्रयान्वितम् [क्, ग्, घ्:
त्रियान्वितं; ख्, च्: क्रियान्वितम्]
कोण मात्रे बिन्दुमात्रं मध्ये नादं महेश्वरि ।
सर्व वर्ण क्रममिदमङ्गं ज्ञेयं शिवोपरि
बिन्दु द्वयं विना भद्रे अङ्कमात्र न जायते ।
नाद विन्द्वङ्क युङ्वर्ण [घ्, च्: नादबिन्दुयुतं] ब्रह्म ज्ञानस्य
कारणम्
प्. २२७)
तत्शब्दं ज्ञेय सत्शब्दं सर्वभाव प्रकाशितम् ।
तत्सत् ज्ञेयं ब्रह्म बीजं ओंकारेऽभूत् प्रकाशितम्
ओंकाराद् जायते सर्वं ओंकारे च प्रलीयते ।
सृष्टि बीजं हि ओंकारं लय बीजं त्रिलोचने
हंस बीजात् [क्, ग्, च्: मन्त्रात्] समुद्भूतं भावं भावातीतं
ध्रुवम् ।
दक्षिणानाञ्च वामानां सिद्धान्तानां महेश्वरि
हंसः सोऽहञ्च नाहञ्च भेदाभेदात्मनात्मकम् ।
कौलानाञ्चैव दिव्यानां भावातीतं हि केवलम्
इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे ऊनषष्ट्युल्लासः
षष्टितमोल्लासः ।
श्रीपार्वत्युवाच -
केन [ज्: येन] मार्गेण वा स्वामिन् भावातीतं प्रकाशितम् ।
प्रकाशितेऽपि कौलानां दिव्यानां भेदकं वद
श्रीशिव उवाच -
यन्मार्गिणा भवेत् कौलो दिव्योऽभूत् तेन मार्गिणा ।
उभयोरेक भावेन भावातीतमयो भवेत्
दिव्यानाञ्च जगद्दिव्यं कौलानां दिव्य [ग्: भाव] वर्जितम् ।
दिव्यस्तु देववत् प्रायो वीरश्चोद्धत मानसः ।
दिव्य वीरे च यो भेदः स भेदः परिकथ्यते
प्. २२८)
निगम तत्वे -
कौलानां नियमो नास्ति निषेधयस् विधेः शिवे [घ्: निषेधञ्च
विधिः शिवः] ।
दिव्यानाञ्च तथा ज्ञेयं मुक्तिमात्रं विभेदकम् [ग्: -
मात्रभेदकम्]
दिव्यानां तेजसि भावे भावातीतं प्रकाशितम् ।
तेजः स्यात् परमाणुश्च सर्व व्यापिनिरञ्जनम्
कौलानाञ्च तथैवोक्तमभावे भाव वर्जितं ।
प्रसङ्गात् कथयाम्यद्य दिव्यस्यापि च लक्षणम्
तथा च समयाचारतन्त्रे -
यद्वर्णा देवता [क्, ग्, च्: देवताः] यस्य [क्, ग्, च्: सर्वं] तत्तेजः
पुञ्ज पूरितम् ।
तेजोमयं जगत् सर्वं विभाव्य मूर्त्ति कल्पनम् [ज्: कल्पितम्]
इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे सिद्धान्ताचार कथने
षष्ट्युल्लासः
एकषष्टितमोल्लासः ।
अथ कौलाचारः ।
निर्द्वन्द्व मानसो भूत्वा ज्ञात्वा काम कला तनुम् ।
इदं वीर कुलं देवि ज्ञेयं रम्यं मनोहरम्
[निर्द्वन्द्वमानसो भूत्वा अस्यभावः (च्: अस्यभावः प्रकाशितः)
यामले]
द्वन्द्वातीतो भवेदेक एको भावातीतः शिवे ।
प्रकाश वाक्यं निर्द्वन्द्वमेकं ह्रस्वं हि दीर्घकम्
प्. २२९)
ह्रस्व दीर्घ क्रमेणैव जगत् स्थावर जङ्गमम् ।
गुरुं लघुं दीर्घं वाचातीतं वचः शिवे
भावातीतं जगत् सर्वं ज्ञानं ज्ञेयमयं शिवं ।
(श्लोकार्द्धोऽयं क्, च्: पुस्तकयोर्विद्यते) ज्ञानमेतत् जगत् सर्वं
ज्ञानं ज्ञेयमयं शिवे
ज्ञानमेतत् जगत् सर्वं मनोज्ञेयं महेश्वरि ।
ज्ञानज्ञेयं मनो देवि भावातीतं सुनिर्मलम्
ज्ञानार्णवे -
स्थूल सूक्ष्म मनश्चापि भावाद् भावातीतं शिवे ।
भावातिताद् भवेद्भावो बीज वृक्षेव पार्वति
आब्रह्मस्तम्ब पर्यन्तं प्रभाति मानसे [क्, ग्, च्: मानसी; ज्: मनसि]
सदा [ज्: शिवे] ।
अत एव महेशानि मनोऽतीतं निरञ्जनम्
ज्ञात्वा काम कला तनु मस्य भावः ।
कुलार्णवे -
कामेन कामनासिद्धिर्निष्कामी मोक्षतां [ज्: क्षेमताम्] व्रजेत् ।
अत एव जगत् सर्वं कामभावं सुलोचने ।
सदा कामेन सा भाति कलारूपा सनातनी
अथ कला प्रमाणमाह ।
नीलतन्त्रे -
कुलाकुलं श्मशानञ्च लता वेश्यञ्च वारुणम् ।
पीठं निगूढा प्रकृतिं योनिं चाख्यानुकीर्त्तितम् [क्, च्:
चाख्यानकीर्त्तनं]
प्. २३०)
निरुत्तरे -
कला चानुकलापञ्च कलामात्र प्रकीर्तिता ।
कला च द्विविधा प्रोक्ता गुप्ता व्यक्ता महेश्वरि
गुप्ता च प्रकृतिरूपा व्यक्ता रमणदायिनी ।
श्मशान वासिनो वीराः कलां पूजन्ति सर्वदा
श्मशान वासिनो वीराः गुप्तायोनिं प्रपूजयेत् ।
व्यक्तायोनिं [व्यक्तायोनिं यजेद्वीरोऽश्मशाने गोपने शिवे ।
इति क्, ग्: पुस्तकीयपाठः ।
व्यक्तायोनिं महेशानि श्मशाने गोपने शिवे ।
इति च्: पुस्तकीयपाठः ।] यजेद्वीरः श्मशाने गोपने शिवे
कलाञ्च पूजयेद्गुप्तां मानसी (?) परमेश्वरि ।
व्यक्तापि (?) पूजयेद्वीरो वाह्येऽपि निर्जने प्रिये
व्यक्तायोनिं महेशानि द्विविधां मुक्तिदायिनीम् ।
उदासिनां श्मशानञ्च गृहिणामर्च्चयेद्भगम्
श्मशान पूजनाद्वीरो भग पूजाधिकारकः ।
शवारूढात् तथा देवि भगारूढाधिकारकः
भेदज्ञानात् यथा देवि एकज्ञानाधिकारकः ।
श्मशान द्विविधं देवि चितायोनिः प्रकीर्तिता ।
चिता व्यक्तापि देवेशि गुप्तयोनीति कीर्तिता
निर्वाणतन्त्रे -
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च परमेश्वरि ।
कलावासव योगेन कला पूजां प्रकल्पयेत्
कुलार्णवे -
आसवेन विना देवि मैथुनं नैव कारयेत् ।
मैथुनेन विना देवि मद्यपानं न चाचरेत्
प्. २३१)
अत एव महेशानि गृह धर्म्म प्रशस्तकः ।
शवासनमुदासिनां गृहिणामासवासनम् ।
गतासूनशवः प्रोक्तो मद्य पानासवः प्रिये
तन्त्रान्तरे -
शवे वाप्यासवे वापि कार्य सिद्धिर्न संशयः ।
शवासने भेदकार्यमभेदमासवासने
शक्ति देहे महेशानि न कुर्याच्च शवासनम् ।
शक्तिदर्शनमात्रेणाप्युदासिनां क्रिया क्षयः
आसवस्यासनं देवि पुंदेहं [ग्: -देहे] शक्ति देहकम् ।
पुरुषस्यासनं शक्तिः शक्तेः पुरुष देहकम्
इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे एकषष्ट्युल्लासः
द्वाषष्टितमोल्लासः ।
अथ प्रकृति स्वरूप लक्षणम् ।
वृहद्योनि तन्त्रे -
प्रकृतिं व्यर्थतां ज्ञात्वा यच्च कालीं प्रपूजयेत् ।
वृथा पूजा भवेत्तस्य न बीजं जल सेचनम्
अज्ञात्वा प्रकृतिं देवि [ज्: देवीं] ब्रह्मज्ञानं करोति यः ।
वृथा ज्ञानं भवेत्तस्य क्लीवमालिङ्गनं यथा [क्, च्: शक्तिषु
शक्तिसङ्गमम्]
प्. २३२)
(श्लोकोऽयं ग्, घ्, ज्: पुस्तकेष्वधिको दृश्यते) प्रकृतिज्ञानमालभ्य
ब्रह्मज्ञानं करोति यः ।
वृथा ज्ञानं भवेत्तस्य शक्तिषु शक्तिसङ्गमम्
केचिद्ध्यायन्ति प्रकृतिं केचिच्च पुरुषं शिवे [ज्: प्रिये] ।
ते ब्रह्मज्ञानिनः सन्तः प्रकृतिं पुरुषात्मकम्
विना न प्रकृतिं ब्रह्म विना ब्रह्म न तत् शिवाम् ।
उभयोर्ज्ञानयोगेन ब्रह्मजानीति निश्चितम्
सिद्धलाहरीतन्त्रे -
केचिद् वदन्ति प्रकृतिं केचित् पुरुष कीर्त्तनम् ।
उभयोरेकभावेन ब्रह्मज्ञानीति निश्चितम्
पार्वत्युवाच -
वाचातीतं क्रियातीतं मनोऽतीतं सनातनम् ।
ब्रह्मज्ञानमिदं देव प्रकृतिः का वदस्व मे [ज्: प्रकृतिं कां
वद प्रभो]
वृहद्योनितन्त्रे । श्रीशिव उवाच -
या प्रोक्ता प्रकृतिर्नित्या जगदम्बे सनातनि [घ्, ज्: सनातनी] ।
सैव योनि स्वरूपा च [घ्: सा] जगदुत्पत्ति कारिणी
सिद्धलाहरीतन्त्रे -
सत्त्वादयो गुणा देवि जायन्ते प्रकृतेर्ध्रुवम् ।
ब्रह्म विष्णु शिवादीनां मूलाः सत्त्वादयो गुणाः
कोणत्रयेषु देवेशि गुणत्रयं सुतिष्ठति ।
स्थूल सूक्ष्ममयं ज्योतिर्व्यापिता प्रकृतिः स्थिता
प्. २३३)
सत्त्वादयो गुणास्तस्याः सापि सत्त्वादयो गुणाः ।
गुणातीता भवेत् सापि वाचातीता हि वाचिका [ग्, घ्: वाचका; ज्:
वाचकम्]
ब्रह्म विष्णु शिवादिश्च भवेद् यस्या [घ्, ज्: तस्या] निजेच्छया ।
पुनः प्रलीयते यस्या [घ्, ज्: तस्यां] तस्याश्च जायते पुनः
प्रकृतिर्विकृतिमापन्ने सर्वं पश्यति पार्वति ।
विकृतिः प्रकृतिमापन्ने ततः किञ्चिन्न पश्यति
तन्त्रान्तरे -
या प्रोक्ता प्रकृतिर्नित्या विकृतिः सा महेश्वरि [ज्: स्यान्महेश्वरि] ।
सत्वं रजस्तमो देवि केचिद्भिन्नं वदन्ति च ।
गुण बद्धाश्च ते जीवा मोक्षस्य नाधिकारिता [क्, ग्, च्:
नाधिकारिताः; ज्: नाधिकारिणः]
श्रीपार्वत्युवाच -
त्रिगुणेन [ग्: त्रिकोणेन] महादेव त्रिविधा चेत् क्रियास्थिता ।
त्रिगुणेऽप्येकभावोऽपि गुणश्च केन जायते
श्रीमहादेव उवाच -
गुणत्रय विभेदेन [क्, ग्, च्: विभागेन] विकृतिः स्यात् प्रियम्वदे ।
एकभावेन प्रकृतिश्चणकाकार रूपकः
तन्त्रान्तरे -
या प्रोक्ता प्रकृतिर्नित्या चणकाकार [क्, ग्, च्: चणकाकृति] रूपिणी ।
विभिन्ने शिव शक्तिः स्यादभिन्ने चणकः शिवे
प्. २३४)
त्रिगुणाक्तं [ज्: त्रिगुणानां] त्रिकोणञ्च चणकं त्रिगुणात्मकम् ।
ग्रिगुणः परमेशानि भूर्जलं [घ्: क्षितिर्भूः; च्: उज्ज्वलं; ज्:
क्षितिःकं] पावको ध्रुवम्
तमः सत्वं रजश्चैव [ग्, घ्, ज्: तमोरजश्च सत्त्वञ्च] त्रिकोणेषु
[घ्, ज्: त्रिगुणेषु] सदा स्थितः ।
त्रिगुण [ज्: त्रिकोण] व्यापितं सर्वं जगत् स्थावरे जङ्गमम्
आद्याशक्तियुतो देवश्चणकाकार रूपकः ।
निर्गुणस्यालयः साक्षान्महाकाल्यालयः प्रिये
आनन्दस्याहुतिं यत्र [क्, ग्, च्: तत्र] स एवानन्द रूपकः ।
तदाकृतिः [ज्: प्रकृतिः] स्थूलभूता [घ्: -भूत्वा] नारीदेह [ज्: -
देहे] प्रकाशिता ।
सूक्ष्मदेह [ज्: देहे] समुद्भूता पुंदेहेषु प्रकाशिता
निगमकल्पद्रुमे -
लिङ्गं कृच्छ्रं भगं कृच्छ्रं वेष्टितं भुवन त्रयम् ।
लिङ्गमध्ये स्थिता योनिर्योनिमध्ये च लिङ्गकम् ।
उभावुभौ च संत्यक्त्वा क्षणमात्र न तिष्ठति
समयाचार तन्त्रे -
निर्गुणं यत् परं ब्रह्म शरीरादिषु वर्जितम् ।
साकारं यद्भवेद्देवि केवलं बोध हेतवे
यथा सूर्यस्य बिम्बञ्च बहुधा दर्पणादिषु ।
दृश्यते परमेशानि तथा सर्वमिदं जगत्
एक एव परं ब्रह्म ज्योतीरूपं निरञ्जनम् ।
साकारं यदि जायेत स्वेच्छयापि तदा प्रिये
प्. २३५)
ज्योती रूपा महायोनिः स्थूल सूक्ष्म प्रबोधिनी ।
साकारं स्वेच्छया तस्या निराकारञ्च स्वेच्छया
यदा साऽप्येक रूपा च तदा सूक्ष्मा सनातनी ।
यदा चेद् बहुधा भूता [ज्: भूत्वा] तदा ज्योतीति कीर्तिता
शरीरादियुता चेत् स्यात् साकारं परमेश्वरि ।
बहुना [घ्, ज्: बहुधा] रमणेनापि चाभावे भाबबोधकम्
अभावाज् जायते सर्वं जगत् स्थावर जङ्गमम् ।
रूपत्रयं भावबोधं सृष्टि स्थिति लयः प्रिये
प्रकृतिश्च पुमांश्चैव तयोर्वीजं हि भौतिकम् ।
भौतिकां प्रकृतिं ज्ञेयां [ज्: भौतिका प्रकृतिर्ज्ञेया] भौतिकं
पुरुषं शिवे
वदामि भौतिकं ब्रह्म प्रकृति पुरुषात्मकम् ।
भगञ्च प्रकृतिं ज्ञेयं पुमान् ब्रह्मेति पार्वति
प्रकृत्याञ्च [क्, ग्, च्: प्रकृत्यायाः; घ्: प्रकृत्या] पुमान् [घ्:
पुरुष] ब्रह्म पुंसि प्रकृतिरीश्वरी ।
सर्वदा वायुना देवि तत्र शृङ्गारकावुभौ
वायुराकाश संयुक्तो वायवाक्तः सर्वभूतकः [ग्:
सर्वभौतिकः; घ्: पञ्चभूतकः] ।
यथाङ्गाङ्गी ममाहञ्च [ज्: मदङ्गञ्च] तथापि
पाञ्चभौतिकः [घ्, च्: -भौतिकम्]
अनित्यं पञ्चधा ज्ञेयं पञ्चैक्यं नित्यकल्पनम् ।
कल्पनायां भवेत् सृष्टिः कल्पनायां लयो भवेत् ।
कौल ज्ञानमिदं देवि कल्पातीतं निरञ्जनम्
इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे द्वाषष्ठ्युल्लासः
त्रिषष्टितमोल्लासः ।
तन्त्रान्तरे । श्रीपार्वत्युवाच -
रूपत्रयञ्च किं देव ब्रह्मज्ञानञ्च किं प्रभो ।
कैवल्यं कीदृशं ज्ञानं कथय प्राण वल्लभ
श्रीशिव उवाच -
स्थूलरूपं ज्योतीरूपं सूक्ष्मरूपं सुलोचने [ज्: त्रिलोचने] ।
रूपत्रयमिदं ज्ञेय.ं [ग्: प्रोक्तं] ब्रह्म ज्ञानस्य कारणम्
अथ ब्रह्मज्ञानम् । श्रीशिव उवाच -
आकाशाज्जायते वायुर्वायोरुत्पद्यते रविः ।
रवेरुत्पद्यते तोयं तोयादुत्पद्यते मही
पञ्चभूतात्मकं यद्यत् स्थूलरूपं महेश्वरि ।
अण्डजः स्वेदजश्चैव उद्भिज्जश्च जरायुजः
अण्डजाः पक्षि सप्राद्याः स्वेदजा मशकादयः ।
वृक्ष गुल्मादयो देवि उद्भिज्जाहि हि विचेतनाः
जरायुजा महादेवि [घ्, ज्: महेशानि] मनुजाः पशवस्तथा ।
तेषां मध्ये मनुष्येषु ब्रह्मज्ञानञ्च जायते
चतुर्विंशति तत्त्वञ्च ज्योतीरूपं प्रकाशितम् ।
तन्नाशे परमेशानि सूक्ष्मदेही प्रकाशितः
चतुर्विंशतितत्त्वानि शृणुष्व प्राण वल्लभे ।
क्षितिर्जलं तथा तेजो वायुराकाश एव च
प्. २३७)
प्राणापानसमानश्च व्यानोदानौ [क्, च्: श्चोदानव्यानौ] च
वायवः ।
श्रवणं दर्शनं घ्राणं स्पर्शनं रस बोधनम्
गुदं लिङ्गं हस्तपादौ वाक्यञ्च परमेश्वरि ।
(पाठोऽयं घ्, ज्: पुस्तकयोर्नास्ति) त्यागं शृङ्गारश्चित्तेन्द्रिय
चतुष्टयम् ।
चतुर्विंशति तत्त्वानि शक्तिरत्र पृथक् पृथक्
श्रीपार्वत्युवाच -
चतुर्विंशति तत्त्वानि कथितानि त्वया प्रभो ।
अधुना श्रोतुमिच्छामि तत्तत् शक्त्यनुकीर्त्तनम्
श्रीम्हादेव उवाच -
अनन्ताः शक्तयो देवि देहमध्ये प्रकाशिताः ।
गदितुं नैव शक्नोमि ब्रह्माण्डान्तेऽपि पार्वति
तासां मध्ये श्रेष्ठं [ज्: सृष्टि] रूपा चतुर्विंशति रूपिका ।
तासां मध्ये श्रेष्ठ [ज्: सृष्टि] रूपा चतुर्द्दश परात्मिका
तासां मध्ये चतुर्द्धा च शक्तिरात्मा [क्, ख्: शक्तिरुक्ता; च्:
शक्तिरूपा च] महेश्वरि ।
(पाठोऽयं ज्: पुस्तके अधिको विद्यते) त्रिधैकात्मा चतुर्धा च
शक्तिरुक्ता महेश्वरि
सुन्दरी बुद्धिरूपा च मनोरूपा च कालिका ।
चित्तरूपा च तारा [घ्: तारिणी चित्तरूपा च] स्यात् [ज्: स्युः]
त्रिधैकोक्ता [घ्: त्रिधैकात्मा] क्रियात्मिका
शङ्करोऽभून्महादेवोऽप्यहङ्कार स्वरूपकः ।
विनाहङ्कारमात्रेण किञ्चिन्मात्रं न जायते
प्. २३८)
आत्मनोऽपि निर्विकल्पादहङ्कारः प्रजायते ।
अहङ्कारस्य निर्लेपादहं ब्रह्मेति भाष्यते
मृत्तिकायां घटो देवि हाटके कटकं यथा ।
शुक्तौ रजतवत्तोये तरङ्ग बुद्बुदौ [क्, ग्: तरङ्गं बुद्बुदं]
यथा
रज्जौ भुजङ्गवद्देवि स्फाटिके रञ्जनं यथा ।
तथा देहो महेशानि देहिमध्ये प्रकाशितः
घटे नाशे मृत्तिका स्यात् कटके हाटकं तथा [घ्: यथा] ।
तरङ्ग बुद्बुदौ नाशे तोयमात्रं न संशयः
भुजङ्ग नाशे रज्जुः स्यात् रञ्जने स्फाटिकं तथा [घ्: यथा] ।
देहनाशे तथा देहो केवलोऽहं निरञ्जनः [ज्: निरंजनम्]
स्वरूपं शून्यं यद्ध्यानं तत् समाधिर्न संशयः ।
अद्वैतं [ज्: अर्थैतत्] परमं ब्रह्म केवलोऽहं निरञ्जनः [ख्, ग्,
च्, ज्: -नम्]
सर्वातीतं परं शान्तं स्वात्म ज्ञान प्रबोधकम् ।
प्रबोधे तु परे तत्त्वे केवलोऽहं निरञ्जनः [ग्, ज्: -नम्]
निरञ्जनमिदं ज्ञेयमवाङ्मनस गोचरम् ।
गदिते [ज्: -तुं] तत् परं ब्रह्म सर्वं व्याप्यैक [ज्: व्याप्यैव]
संस्थितम्
तस्मिन् [ज्: तस्मात्] जातं जगत् सर्वं तस्मिन्नेव स्थितं सदा ।
प्रलीनं हि पुनस्तस्मिन् क्षितौ वृक्षेव [ज्: ब्रह्मैव] पार्वति
उत्पत्ते [क्, ख्, च्: उत्पत्ति] र्व्युत्क्रमेणैव सृष्टिर्व्रह्मणि [ज्: ब्रह्मव]
लीयते ।
सृज्यते च पुनस्तस्मात् [घ्: तस्मिन्] स्वेच्छया निज मायया
प्. २३९)
ब्रह्मखेला जगत् सर्वं ब्रह्म रूपमिदं जगत् ।
सर्वं हि खल्विदं ब्रह्म तदन्यन्नास्ति किञ्चन
विश्वसारे -
आब्रह्म स्तम्ब पर्यन्तं परं ब्रह्मस्वरूपकम् ।
स्थावरं जङ्गमं व्याप्तं प्रणमामि जगन्मयम्
तन्त्रान्तरे -
भावातीतं परं भावं ध्यानातीतं हि ध्यानकम् ।
क्रियातीतं क्रियायुक्तं सर्वं व्याप्यैक संस्थितम्
सर्वातीतं सर्व रूपं निर्विकल्पञ्च कल्पितम् ।
निर्विकारं विकाराक्तं सर्वं व्याप्यैक संस्थितम्
यल्लाभान्नापरं लाभं यत् सुखान्नापरं सुखम् ।
यजज्ञानान्नापरं ज्ञानं तद्ब्रह्मे त्यवधारयेत्
तन्त्रान्तरे -
मही विलीयते तोये तोयं विलीयते रवौ ।
रविर्विलीयते वायौ वायुर्विलीयते च खे
व्योम विलीयते सत्ये सत्यं विलीयते शिवे ।
शिवो विलीयते शक्तौ ततो ब्रह्म निरूपणम्
निगमतत्त्वसारे -
ब्रह्मानन्दमयं सर्वं यदि जानाति तत्त्वतः ।
तदा मुक्तिमवाप्नो यदा [घ्, ज्: यथा] ब्रह्मप्रविन्दति
वामे प्रकृति रूपा च दक्षिणे पुरुषाकृतिः ।
तयोः सङ्गम [घ्, ज्: संयोग] मात्रेण शरीरं जायते ध्रुवम्
प्. २४०)
तदिच्छया भोजनादि सर्वमेतत् तदीच्छया ।
सुखेच्छापि च दुःखेच्छा परं ब्रह्म प्रकारकम् [ख्:
प्रकारणम्; घ्: प्रकाशकम्]
ब्रह्म खेला [ज्: ब्रह्मत्वेन जगत् सर्वं दोषादोषं न चाचरेत् ।
दोषोऽपि ब्रह्मणः सर्वं गुणमेव च तस्य तु [ज्:
हास्यकौतूहलादिकम्]
नृत्य गानादिकं [क्, ज्: गीता] सर्वं ऐन्द्रजालिकवत् प्रिये ।
लीलया ब्रह्मणः सर्वं हास्य कौतूहलादिकम्
खेलार्थञ्च [घ्: खेलार्थं; ज्: खेलार्थ हि] परं [घ्: परमं]
ब्रह्म साकारोऽस्ति क्षणे क्षणे [घ्: साकारश्च युगेयुगे; ज्:
साकारोहि युगेयुगे] ।
दिव्ये शरीरे सोऽप्यस्ति तथा कीटादिकेषु च
सर्वं ब्रह्ममयं ज्ञात्वा सर्वकर्माणि साधयेत् ।
पीत्वा तु मोहमदिरां [घ्, ज्: पीत्वा मोहमदिराञ्च] उन्मत्तेव
स्वयं विभुः
मानुषी तनुमाश्रित्य सुखं मोक्षञ्च काङ्क्षति ।
भूत प्रकृतिमाश्रित्य देहिनां देहनाशकृत्
धानिनां धन नाशाय दस्युरूपधरोऽव्ययः ।
निर्ममो [ज्: निर्मलो] निरहङ्कारः सदा ज्योतिर्मयः स्मृतः
क्वचित् शोकादि व्याक्रान्तः क्वचित् सौख्यादि संकुलः ।
क्वचिद्धास्यादि संयुक्तो धनवानति [क्, ग्, च्: धन नारीति] कश्चन
कामिनी रूपमाश्रित्य कामिनीनां कलेवरे ।
कामोन्मत्ता काममयी [घ्: कामोन्मत्तः कामयते] परं
ब्रह्मैव सर्वथा ।
मदनं रूपमाश्रित्य पुरुषो विह्वलायते
गुरुरूपं समाश्रित्य लोकः मन्त्रायते भवात् ।
आत्मेच्छया कृतं कर्म दोषादोषं न चाचरेत्
प्. २४१)
ब्रह्मरूपमिदं सर्वं ब्रह्मरूपं जगन्मयं ।
ऊर्द्धशून्ये गतिस्तस्य मध्यशून्ये व्यवस्थितः
अधः शून्ये च गमनं को वा जानाति तत्त्वतः ।
ऊर्द्ध शून्ये स्वप्न भावं ब्रह्म रन्ध्रं प्रकीर्तितम्
मध्यशून्यं [ज्: -शून्ये] भ्रुवोर्मध्ये तस्मिन् ज्ञानादि चिन्तनम्
।
मूलाधारे अधः शून्यं तत्र कामादि चिन्तनम्
शून्यान्ते क्रीडति ब्रह्म अज्ञोऽपि [च्, ज्: आज्ञा] नहि लभ्यते ।
स तिष्ठति परं ब्रह्म स्वेच्छया लीलयापि च
ज्ञानात् सिद्धिमवाप्नोति न ज्ञानान्न च सिद्धिभाक् ।
ब्रह्मज्ञानमिदं वत्स यो न जानाति तत्त्वतः ।
ध्यान पूजादिकं सर्वं तस्य सिद्धिर्न जायते
ब्रह्मज्ञानं विना सर्वमसिद्धिकारणं स्मृतम् ।
अत एव महेशान कलौ सिद्धिर्न जायते
सिद्धेर्हि कारणं ब्रह्म सर्वथैव कुलेश्वर ।
यो विजानाति तत्त्वेन देहान्ते ब्रह्मभाग् भवेत्
इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे त्रिषष्ट्युल्लासः
मूल पाठ: sarvollāsatantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0