सर्वतथागततत्त्वसंग्रह · अध्याय 90
इति ॥
अथात्र त्रिलोकचक्रमहामण्डले आकर्षणादिकर्म कृत्वा, स्वयं वज्राचार्यो वज्रक्रोधतेरिन्तिरिमुद्रां बध्वा, एवं ब्रूयाद्, "अहन्ते वज्रसमयज्ञानमुत्पादयिष्यामि । तत्त्वया न कस्यचिद्वक्तव्यं । मा ते विषमा परिहारेण कालक्रियया नरकपतनं स्याद्," इदमुक्त्वेदं शपथहृदयं दद्यात् । वज्रक्रोधतेरिन्तिरिमुद्रां बध्वा दर्शयेत् "अयं वज्रक्रोधसमयस्ते सन्दहेत् कुलन्, मुर्धादारभ्य कायं तु नाशयेत्, यद्यतिक्रमेत् समयं बन्धय" ॥
ततो वज्रधारि कर्ममुद्रां बन्धयेदनेन हृदयेन ओं सर्वतथागत वज्रधर गृह्ण बन्ध समय हूं ॥
अथास्या मुद्राया बन्धो भवति ।
कनिष्ठाङ्गुष्ठबन्धो तु हस्तौ द्वावधरोत्तरौ ।
मुद्रेयङ्कर्मसमय[वज्रबन्धेति] कीर्तिता ॥
ततो वज्र ओदकेनाभिषिञ्चेदनेन हृदयेन ओं वज्राभिषेकाभिषिञ्च वज्रधरत्वे समय ग्र ग्र ॥
ततो नक्तकेन मुखं बध्वा [प्रवेशयत्य] नेन हृदयेन ओं प्रविश वज्र प्रवेशय वज्र आविश वज्र आधितिष्ठ वज्र हूं ॥
ततः प्रवेश्य पुष्पाणि क्षिपेत् अनेन हृदयेन ओं प्रतीच्छाधितिष्ठ वज्र होः ॥
ततो यत्र पतति सो ऽस्य सिध्यति ।
ततो मुखबन्धं मुक्त्वा, मण्डलं यथानुपूर्वतो दर्शयेत् । न चास्य वक्तव्यं किं देव इति । तत्कस्माद्धेतोः? सन्ति सत्वा मिथ्यादृष्टयो ये न श्रद्धास्यन्ति, किमेतदमोघं बुद्धानां भगवतां ज्ञानं, यथा तथागता वज्रकुले वज्रपाणिनाभिषिक्तास्तथागता एवेति समयः । अन्यत्र ये देवे भक्तास्तेषां शपथहृदयं दत्वा वाच्यमिति ।
ततो वज्ररत्नचिन्हमालाभिषेकं दत्वा, कर्मवज्रं पाणिभ्यामभिप्रयच्छ्य, वज्रनाम कुर्यात्, यथा वज्रसमयमहामण्डल इति ॥
मुद्र
ततो महामुद्राबन्धं शिक्षयेत् ।
वज्रबन्धं दृढीकृत्य प्रविष्टाङ्गु ष्ठसंचयं ।
कुञ्चिताग्र्याषु गच्छन्नं सत्वोष्णीषेति संज्ञिता
वज्रबन्धं समाधाय समाङ्गुष्ठात्म्यमध्यमा ।
तेजोराशीति विख्याता तेजोराशेर्महात्मनः
वज्रमुद्राद्विकं बध्वा कनिष्ठाङ्गुष्ठसन्धितं ।
गाढमङ्कुशबन्धेन महाविद्योत्तमस्य तु
महाविद्योत्तममयीं मुद्रां बध्वा सुयन्त्रितां ।
हृद्यङ्गष्ठमुखानां तु बन्धनाद्धृदया स्मृता
तामेवानाममध्याभिरङ्गुलीभिः सुयन्त्रितां ।
वज्ररत्नप्रयोगेण परिवर्त्य मुखस्थिता
तामेवोत्तानसंस्थां स्वहृदये परिवर्त्य वै ।
चतुःपुष्पा तु नामेन पद्मविद्योत्तमस्य तु
तामेव मूर्धादारभ्य भ्रमत्कायाग्रमण्डला ।
वज्रविश्वस्य मुद्रेयं वज्रकर्मप्रसाधिके ॥ ति
सत्ववज्रां दृढीकृत्य कनिष्ठा वज्रसन्धिता ।
सर्वविद्धृदयस्यास्य मुद्रेयं सर्वसाधिका
कनिष्ठाङ्गुष्ठबन्धे तु वाममध्याङ्गुलित्रिके ।
त्रिशूले मध्यशूलं तु वज्रमुद्रापरिग्रहं
वज्रविद्योत्तमस्येयं वज्रशूलेति कीर्तिता ।
अतः परं प्रवक्ष्यामि मायावज्रादिसंज्ञिता
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0