भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 89

89.1

ततस्तु वज्रवेगेन लिखेद् द्वारचतुष्टये ।
वज्रशौण्डादयः सर्वे यथावदनुपूर्वशः ॥
तत्रैषां समयहृदयानि भवन्ति ।
ओं वज्रमद हुं ॥
ओं वज्रमाले हूं ॥
ओं वज्रार्थ हूं ॥
ओं वज्राशि हूं ॥
वज्रवेगेन चाक्रम्य तृतीये मण्डले लिखेत् ।
यथावदनुपूर्वेण स वज्रमुसलादयः ॥
तत्रैषां हृदयानि भवन्ति ।
ओं वज्रमुसल हूं ॥
ओं वज्रपट हूं ॥
ओं वज्रज्वाल हूं ॥
ओं वज्रग्रह हूं ॥
वज्रवेगेन चाक्रम्य चतुर्थे मण्डले लिखेत् ।
वज्राङ्कुशादयश्चेटा यथावदनुपूर्वशः ॥
तत्रैषां हृदयानि भवन्ति ॥
ओं वज्रदंष्ट्र हूं ॥
ओं वज्रामारण हूं ॥
ओं वज्रविध्न हूं ॥
ओं वज्रहरण हुं ॥
वज्रवेगेन निःक्रम्य बाह्यमण्डले संस्थिता ।
यथावदनुपूर्वेण संलिखेत्सर्वमातरः

89.2

वज्रद्वारेषु सर्वेषु द्वारपालास्त एव तु ।
अतः परं प्रवक्ष्यामि यथावद्विधिविस्तरम्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc