भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 83

83.1

तत्रैताः शुद्धधर्मतामुद्रा भवन्ति ।
ओं सर्वतथागतविशुद्धधर्मते होः ॥
ओं वज्रविशुद्धदृष्टि ज्जः ॥
ओं स्वभावविशुद्धमुखे हुं ॥
ओं सर्वविशुद्धकायवाङ्मनःकर्मवज्रि हन् ॥
ततश्चतुर्मुद्रामण्डलगुह्यरहस्यमुद्रां शिक्षयेत् ।
प्रविश्य मण्डलमिदं पञ्चभिः कामसद्गुणैः ।
रमयन् परदाराणि सुतरां सिद्धिमाप्नुते ॥
अथास्या हृदयं भवति हो वज्रकाम ॥
ततो यथावद् वज्राक्रान्तित्रिशूलमुद्राद्याः चतस्रः समयमुद्राः सविधिविस्तराः शिक्षयित्वा, तेन चतुर्मुद्राप्रयोगेण वज्रवाद्यतूर्यतालान् निर्यात्य, वज्रसत्वसंग्रहहृदयगीतिं गायता मुद्राप्रतिमुद्रोपमुद्राज्ञानमुद्राभिर्नृत्योपहारपूजा कार्यति ।
तत्रेयं नृत्योपहारपूजा भवति ।
वज्रनृत्यप्रयोगेण वज्रक्रोधाङ्गु लिद्वयं ।
वज्रहुंकारमुद्रां तु हृद्ये तु निबन्धयेत्

83.2

तथैव नृत्यन् वामां तु गृह्य दक्षिणमुष्टिना ।
परिवर्त्य ललाटो तु निवेश्याग्र्या मुखेन त

83.3

ततैव नृत्यन्मुक्त्वा तु समकुड्मलसन्धिते ।
अग्र्याञ्जलिं हृदि स्थाप्य नमेदाशयकम्पितैः

83.4

वज्रक्रोधाङ्गुली सम्यगुत्तारमुखसन्धिते ।
परिवर्त्य तथोष्णीषे तु तर्जनी मुखसुस्थिता

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc