सर्वतथागततत्त्वसंग्रह · अध्याय 82
मुद्र
अथात्र चतुर्मुद्रामण्डले महामण्डलयोगेनाकर्षणादिविधिविस्तरंकृत्वा प्रवेश्य चतुर्मुद्रामण्डलं गुह्यमुद्राज्ञानं शिक्षयेत् ।
स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मतां ।
उच्चारयं स्त्रिया सार्धं संवसं सिद्धिराप्यते
स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मतां ।
उच्चारयन् रागेण स्त्रीं निरीक्षं सिद्धिराप्यते
स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मतां ।
प्रवर्तयं स्त्रियं कान्तां परिचुम्बंस्तु सिध्यति
स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मतां ।
उच्चारयं समालिङ्गेत्सर्वसिद्धिरवाप्यते
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0