भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 81

81.1

सर्वतथागतवज्रसमयात् महाकल्पराजाद् वज्रकुलकर्ममण्डलविधिविस्तरः समाप्तः ॥
छप्तेर् 10 मह-कल्प-विधि-विस्तर
एमनतिओन् ओf देइतिएस् fओर्म् समधि
अथ भगवान् पुनरपि सर्वतथागतवज्रसमयमुद्राधिष्ठानं नाम समाधिं समापद्येमां सर्वविद्योत्तममभाषत् ओं सर्वतथागतवज्रसमये हूं ॥
अथ वज्रपाणिर्महाबोधिसत्व इमां स्ववज्रससयमुद्रामभाषत् हुं वज्रि मट् ॥
अथ वज्रगर्भो बोधिसत्व इमां स्वरत्नसमयमुद्रामभाषत् हुं भृकुटिवज्रे रट् ॥
अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां स्वधर्मसमयमुद्रामभाषत् हूं पद्मवज्रि त्रिट् ॥
अथ वज्रविश्वो बोधिसत्त्वो महासत्व इमां स्वकर्मसमयमुद्रामभाषत् हूं वज्रकर्माग्रि कृट् ॥
देलिनेअतिओन् ओf थे मन्दल
अथ वज्रपाणिर्महाबोधिसत्वः पुनरपीदं त्रिलोकविजयचतुर्मुद्रामण्डलमभाषत् ।
अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं क्रोधवज्रमिति स्मृतं

81.2

महामण्डलयोगेन सूत्रयेत् सर्वमण्डलम् ।
त्रिलोकविजयाद्यांस्तु लिखेद्बुद्धस्य सर्वत ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc