भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 75

75.1

रितुअल्
अथात्र कर्ममण्डले यथावद् विधिविस्तरं कृत्वा, वज्रकुलकर्मज्ञानान्युत्पादयेत् ।
तत्रादित एव शान्तिकर्मादिज्ञानं शिक्षयेत् ।
समिद्भिर्मधुरैरग्निं प्रज्वाल्य सुसमाहितः ।
वज्रक्रोधसमापत्त्या तिलां हुत्वा अघान्दहेत्

75.2

तैरेव तु समिद्भिस्तु प्रज्वाल्य तु हुताशनं ।
तण्डुलांस्तु जुह्वन् नित्यं गृहपुष्टिर्भवेद् ध्रुवं

75.3

समिद्भिर्मधुरैश्चापि अग्निं प्रज्वाल्य पण्डितः ।
दूर्वाप्रवालां सघृतान् जुह्वन्नायुः प्रवर्धते

75.4

तैरेव तु समिद्भिस्तु प्रज्वाल्य तु हुताशनं ।
कुशप्रवालांस्तैलेन जुह्वन् रक्षा तु शाश्वतम् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc