भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 76

76.1

अथैषां हृदयमन्त्राणि भवन्ति ।
ओं सर्वपापदहनवज्राय स्वाहा ॥
ओं वज्रपुष्टये स्वाहा ॥
ओं वजायुषे स्वाहा ॥
ओं अप्रतिहतवज्राय स्वाहा ॥
समिद्भिः कडकैः पूर्व वज्रक्रोधसमाधिना ।
अग्निं [प्रज्वाल्य] कुञ्जैस्तु कण्टकैरभिकर्षितः

76.2

तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं सुरोषवान् ।
रक्तपुष्पफलान् चापि जुह्वन् रागयते जगत्

76.3

समि[द्भिरपि]कुपितो ह्यग्निं प्रज्वाल्य योगवान् ।
अयोरजांसि हि जुह्वन् वज्रबन्धो भविष्यति

76.4

तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं समाहितः ।
जुहेत् तिक्तफलं क्रोधान् मारिमुत्पादयेत्क्षणात्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc