भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 72

72.1

इति ॥
तत्रैतानि हृदयानि भवन्ति ।
बोध्यग्र प्रपातय हुं ॥
सर्ववज्र प्रपातय हुं ॥
वज्रसत्व प्रपातय हुं ॥
बुद्ध प्रपातय हुं ॥
मुद्र
ततो वज्रकुलधर्मरहस्यमुद्राज्ञानं शिक्षयेत् ।
वज्र[क्रोधसमाप]त्या स्वकायं परिवेष्टयेत् ।
यस्य नाम्ना स म्रियते संवेष्टन् वज्रहुंकृतः

72.2

सूक्ष्मवज्रं समापद्य सूक्ष्मनासिकया सकृतः ।
श्वासहुंकारयोगेन त्रयोक्यमपि पातयेत्

72.3

सूक्ष्मवज्रविधिं योज्य क्रुद्धः सन् वज्रदृष्टितः ।
निरीक्षन्नन्धतां याति मरणं वातिगच्छति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc