सर्वतथागततत्त्वसंग्रह · अध्याय 73
भगेन तु प्रविष्ट्या वै मनसा यस्य कस्यचित् ।
हृदयाकर्षणाद्याति वशं स्वं वा यमस्य वे- ॥ इति 4 ॥
तत्रैषां हृदयानि भवन्ति ।
हुं वज्र वलित क्रोध मारय हुं फट् ॥
ओं वज्र सूक्ष्म श्वास विषं पातय हुं फट् ॥
ओं वज्र दृष्टि विषं नाशय हुं फट् ॥
हुं हृदयाकर्षण क्रोध प्रविश कायं हृदयं च्छिन्द भिन्द कड्ढाकड्ढ फट् ॥
ततो वज्रकुलधर्ममुद्राज्ञानं शिक्षयेत् ।
तत्र तावन्महामुद्राबन्धो भवति ।
वज्रज्ञानप्रयोगेण ज्वालामालाकुलप्रभान् ।
वज्रक्रोधान् स्वमात्मानं भावयं सिद्ध्यति क्षणाद् ॥ इति ॥
ततो वज्रकुलधर्मसमयमुद्राज्ञानं शिक्षयेत् ।
समाधिज्ञानसमया द्वि-हुं-कारसमन्धिता ।
यथा स्थानेषु संस्थेया सर्वसिद्धिप्रदावरम् ॥ इति ॥
ततो वज्रकुलधर्मसमयधर्ममुद्राज्ञानं शिक्षयेत् ।
फट् सट् मट् सट् रट् तट् धृट् हट्
पट् त्रट् घट् भट् कृट् रिट् खट् वट्
इति च प्रोक्ता धर्ममुद्राः समासत इति ॥
ततो वज्रकुलधर्मसमयकर्ममुद्राज्ञानं शिक्षयेत् ।
धर्ममुष्टिं द्विधीकृत्य यथा स्थानप्रयोगतः
कर्ममुद्राः समासेन सिद्धिं यान्ति यथाविधिर् ॥ इति ॥
सर्वतथागतवज्रसमयान्महाकल्पराजाद् वज्रकुलधर्मज्ञानसमयमण्डलविधिविस्तरः समाप्तः ॥
छप्तेर् 9 वज्र-कुल-कर्म-मन्दल-विधि-विस्तर
एमनतिओन् ओf देइतिएस् fरोम् समधि
अथ भगवान् सर्वतथागतवज्रकर्मसमयसंभवाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं सर्वतथागत कर्मेश्वरि हूं ॥
अथ वज्रपाणिर्महाबोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषत् ओं सर्वतथागतधर्मधातुस्फरणमहापूजाकर्मविधिविस्तरसमये त्रिलोकविजयंकरि सर्वदुष्टान् दामय वज्रिणि हूं ॥
अथ वज्रगर्भो बोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषत् ओं सर्वतथागताकाशधातुसमवसरणमहापूजाकर्मविधिविस्तरसमये हूं ॥
अथ वज्रनेत्रो बोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषत् ओं सर्वतथागतधर्मधातुस्फरणमहापूजाकर्मविधिविस्तरसमये हूं ॥
अथ वज्रविश्वो बोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषत् ओं सर्वतथागतसर्वलोकधातुविविधमहापूजाकर्मविधिविस्तरसमये हूं ॥
अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि स्वकुलपूजाविधिविस्तरदेवताः स्वहृदयादुत्पाद्य, सर्वलोकधातुषु सर्वतथागताकर्षणवशीकरणानुरागणसर्वकर्मसिद्धिकार्यकरणतासन्नियोजनादीनि सर्वतथागतर्द्धिविकुर्वितानि कृत्वा, पुनरपि भगवतो वैरोचनस्य वज्रधातुमहामण्डलयोगेन चण्द्रमण्डलान्याश्रित्यावस्थिता इति ।
देलिनेअतिओन् ओf थे मन्दल
अथ वज्रपाणिर्महाबोधिसत्व इदं वज्रकर्मसमयविधिविस्तरकर्ममण्डलमभाषत् ।
अथातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं कर्मवज्रमिति स्मृतं
महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं ।
मध्यमण्डलसंस्थेषु बुद्धबिम्बन् निवेशयेत्
बुद्धस्य सर्वपार्श्वेषु समयाग्र्यो निवेशयेत् ।
वज्रवेगैः समाक्रम्य मण्डलानां चतुष्टये
चत्वारो वज्रनाथाद्या यथावत्तु निवेशयेत् ।
तेषां सर्वेषु पार्श्वेषु महासत्व्यो निवेशयेद्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0