सर्वतथागततत्त्वसंग्रह · अध्याय 70
तत्रैषां हृदयानि भवन्ति ।
वैर वज्रक्रोध हुं फट् ॥
करुणा वज्रक्रोध हुं फट् ॥
हुं विशुद्ध वज्रक्रोध हूं फट् ॥
हुं विशोधन वज्रक्रोध हूं फट् ॥
वज्रबिम्बं समालिख्य मनसा यस्य कस्यचित् ।
पातयेद् गृहमध्ये तु तस्य तन्नश्यते कुलं
तथैव सूक्ष्मविधानेन हृद्वज्रं परिभावयेत् ।
बोधिसत्वमहाबिम्बं पातयेन्नाशयेत्कुलं
वज्रपाणिमहाबिम्बं भावयन् यत्र पातयेत् ।
तद् राज्यं विविधैर्दोषै राज्ञैव सह नश्यति
सर्वाकारवरोपेतं बुद्धबिम्बं तु भावयन् ।
पातयेद्यत्र राज्ये तु तद् राज्यन्नश्यते ध्रुवम्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0