ग्रंथ पाठ
सर्वतथागततत्त्वसंग्रह · अध्याय 60
60.1
तत्रैतानि नृत्यहृदयानि भवन्ति ।
सिद्ध्य वज्र ॥
आनय वज्र ॥
रागय वज्र ॥
साधु वज्र ॥
ततः प्रतिनृत्योपहारः कर्तव्यः ।
तथैव नृत्यन् वामां तु गृह्य दक्षिणमुष्टिना ।
परिवर्त्य ललाटो तु निवेश्याग्र्या मुखेन तु
60.2
तथैव नृत्यं सूर्यान्तु परिवर्त समाव्हयेत् ।
वज्रकेतुं समुत्क्षिप्य हसेद् वज्राट्टहासया
60.3
अनेन पूजाविधिना राजादीन् सर्वमानुषान् ।
वशित्वाच्च सुतेजस्त्वाद् दानाच्चाशाच्च तोषयेत्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0