भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 59

59.1

[सिः ॥
ओं वज्रक्रोधसमये सिः ॥
ओं वज्र]रोषाङ्कुश्यानय सर्व सिः ॥
ओं वज्ररोषे कामवज्रिणि वशं मे आनय हि सिः ॥
ओं वज्रतुष्टि[क्रोधे तोष्य सर्वाणि सिः ॥
वज्रसिंकारम]ण्डले ॥]
जिः ॥
ओं वज्रभृकुटिक्रोधे हर सर्वार्थ जिः ॥
ओं वज्रज्वालामालप्रभे महाक्रोधा[ग्नि ज्वालय सर्व विरोषे जिः ॥
ओं वज्र]ध्वजाग्रकेयूरमहाक्रोधे देहि मे सर्वं जिः ॥
ओं वज्राट्टहासनि हस हसाट्टाट्टहासेन [मारय जिः ॥
वज्रजिंकारमण्डले ॥]
दिः ॥
ओं वज्रशुद्धक्रोधे हन मारय दुष्टान् दिः ॥
ओं वज्रतीक्ष्णक्रोधेच्छिन्द वज्रकोशेन सर्वान् दिः ॥
ओं [वज्रहेतुमहा क्रोधे प्रवेश चक्र प्रवेशय सर्वान्] दिः ॥
ओं वज्रजिव्हे महाक्रोधभाषे वाचं मुञ्च दिः ॥
वज्रदिंकारमण्डले ॥]
न्हिः ॥
ओं सर्व मुखे [कर्मवज्रिणि महाक्रोधे कुरु सर्वान् न्हिः ॥
ओं वज्र] कवचक्रोधे रक्ष मां न्हिः ॥
ओं वज्रचण्डक्रोधे महायक्षिणि वज्रदंष्ट्राकरालभीषणि भीषा[पय न्हिः ॥
ओं वज्रक्रोधे मुष्टिबन्ध न्हिः ॥
वज्रन्हिं]कारमण्डले ॥]
ततः कोणमण्डलेषु वज्रनृत्यगुह्यपूजाविद्याहृदयानि भवन्ति ।
वज्र हूं र्ख्ने ॥
वज्र हूं घूं ॥
वज्र हूं र्ते ॥
वज्र हूं स्तें ॥
बहिःकोणेषु तूर्यपूजाहृदयानि भवन्ति ।
वज्र ती ते ॥
वज्र टं टः ॥
वज्र धा धू ॥
वज्र धौ धः ॥
द्वारपालानां पूजाहृदयानि भवन्ति ।
वज्र जः ज्जः ॥
वज्र हूं हूं ॥
वज्र वं वं ॥
वज्र अः अः ॥
इनितिअतिओन् इन्तो थे मन्दल
अथास्मिन् वज्रकुलगुह्यमण्डले प्रवेशविधिविस्तरो भवति । तत्रादित एव तावत् त्रिलोकविजयमहामण्डलप्रवेशविधिना प्रविश्य, वज्रगुह्यवज्रकुलसमयमुद्राप्रतिमुद्रोपमुद्राज्ञानमुद्राभिः वज्रधरपूजार्थ नृत्योपहारः कर्तव्य इति ।
तत्रेदं नृत्यप्रतिनृत्योपनृत्यज्ञाननृत्योपहारमुद्राज्ञानं भवति । [तत्रादित एव वज्रधातुसंग्रहहृदयं वज्रगीतेन गायन् सर्वतथागतानां स्तोत्रोपहारङ्कृत्वा, वज्राचार्येण सत्ववज्रिमुद्रा स्फोटयितव्या, ततो यथा प्र[विष्ट]मुद्राभिः समाविशन्ति ।
वज्रनृत्यप्रयोगेण वज्रक्रोधाङ्गुलिद्वयं ।
वज्रहुंकारमुद्रां तु हृदये तु निबन्धयेत्

59.2

ततस्तु नृत्यविधि[ना वज्र]क्रोधाङ्कुशेन तु ।
आकर्षयत् सर्वबुद्धान् वज्रवाणां परिक्षिपेत्

59.3

वज्रवाणपरिक्षेपाद् वज्रतुष्ट्या तु साधयेत् ।
मुक्त्वा मुद्रां यथा[विधि]तालया चैव बन्धयेत्

59.4

अनेन पूजाविधिना वज्रपाणिन्तु तोषयेत् ।
तुष्टः सत् सर्वकार्याणि साधयेद् रुचितः क्षणात्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc