सर्वतथागततत्त्वसंग्रह · अध्याय 58
अथ सर्ववज्रकुलसर्वमुद्रासाधनं भवति ।
प्रत्यालीढकृतिङ्कृत्वा क्रोधवाचा प्रवर्तयन् ।
क्रोधदृष्ट्या तु संक्रुद्धः सर्वकर्माणि साधयेद् ॥ इति ॥
सर्वतथागतवज्रसमयान्महाकल्पराजात् त्रिलोकविजयमहामण्डलविधिविस्तरः समाप्तः ॥
छप्तेर् 7 क्रोध-गुह्य-मुद्र-मन्दल-विधि-विस्तर
एमनतिओन् ओf देइतिएस् fओर्म् समधि
अथ भगवान् पुनरपि वज्रधारणीसमयसंभववज्राधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं सर्ववज्रिणि वज्रमाते आनय सर्व वज्रसत्येन हूं ज्जः ॥
अथास्यां भाषितमात्रायां वज्रपाणिहृदयात्स एव भगवान् वज्रापाणिः वज्रपाणिसदृशसर्वात्मभावाः समन्तज्वालागर्भा वज्रक्रोधसमयमुद्रा देवता भूत्वा विनिःसृत्य, सर्वलोकधातुषु सर्वतथागतार्थान् निष्पाद्य, भगवतो वज्रसत्वस्य गुह्यभार्यताप्रच्छादनार्थ कायवाक्चित्तवज्रमुद्राबिम्बानि भूत्वा, भगवतो वैरोचनस्य त्रिलोकविजयमहामण्डलयोगेन चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयिंसुः ।
अहो हि सर्वबुद्धानां गुह्यज्ञानमनुत्तरं ।
यत् तथागतसौख्यार्थं भार्यात्वमपि कुर्वते ॥ ति ॥
हीः ॥
देलिनेअतिओन् ओf थे मन्दल
अथ वज्रापाणिः पुनरपि स्वकुलसमयमुद्रामण्डलवज्रसमयगुह्यन्नाममभाषत् ।
अथातः संप्रवक्ष्यामि वज्रमण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं क्रोधगुह्यमिति स्मृतं
महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं ।
पञ्चमण्डलसंस्थेषु गुह्यमुद्रान्निवेशयेत्
वज्रमण्डलमध्ये ऽस्मिं बुद्धबिम्बन्निवेशयेत् ।
बुद्धस्य क्रोधसमयान् यथावत्तु लिखेद्बुधः
वज्रवेगेन निःक्रम्य वज्रपाणेस्तु मण्डलं ।
तत्र मध्ये लिखेत् तिर्यक् शूलवज्रं प्रतिष्ठितं
ज्वालामध्ये लिखेत् तस्य यथावदनुपूर्वशः ।
वज्रं वज्राङ्कुशं चैव वाणं तुष्टिस्तथैव च
वज्र[वेगे]न चाक्रम्य द्वितीयं मण्डलोत्तमं ।
वज्ररत्नं लिखेत् चैव चक्रमध्ये प्रतिष्ठितं
वज्रभृकुटिमध्ये [वज्रसूर्यं त]था ध्वजं ।
दन्तपंक्ती तथा वज्रैतस्य पार्श्वेषु संलिखेत्
वज्रवेगेन चाक्रम्य तृतीयं मण्ड[लोत्तमं ।
वज्रपद्मं लिखेद् दिव्यं पद्ममध्ये प्रति]ष्ठितं
ज्वालामध्ये लिखेत्पद्मं खङ्गं चक्रन्तथैव च ।
वज्रजिव्हां यथावत् तु तस्याः पार्श्वेषु स[र्वेषु
वज्रवेगेन चाक्रम्य चतुर्थ मण्डलोत्त]मं ।
तिर्यग्वज्रे लिखेद् वज्रं वृतं वज्रैर्महाप्रभैः
तस्याः पार्श्वेषु सर्वेषु सर्वज्वालाकुलप्रभाः ।
[विश्ववज्रं सुकवचं वज्रदंष्ट्रमुष्टिं लिखेत् ॥]11 ॥
कोणेषु बाह्यसंस्थेषु यथावत्तु लिखेन्नयं ।
अतः परं प्रवक्ष्यामि मुद्राविद्याः समासतः
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0