सर्वतथागततत्त्वसंग्रह · अध्याय 51
अथैषां हृदयानि भवन्ति ।
ओं वज्र क्रोध कायावेशय हुं अः ॥
ओं वज्र विद्योत्तम महाक्रोधानय हो भगवन् वज्र हुं फट् ॥
ओं वज्र क्रोध दृष्टि हन दह पच विनाशय हुङ्कारेण पातय वज्र समय हुं फट् ॥
ओं मनोदृढ वज्र कवच क्रोध रक्ष हुं फट् ॥
ततः सर्वसत्वमुद्रणमुद्राज्ञानं शिक्षयेत् ।
वज्रक्रोधसमापत्त्या यस्य यस्य परिष्वजेत् ।
वज्रहुंकारजापेन मुद्रितो भवते स तु
संलपन्महता वाचा ट्टक्कि हूं फट् सकृद्वदेत् ।
यस्य क्रुद्धः स दीप्तेन वज्रेणाभिहतो भवेत्
वज्रदृष्टया निरीक्षेद्वै वज्रक्रोधसमाधिना ।
यस्य यस्य तु सत्वस्य सो सो मरणमाप्नुयात्
मनसा मारयामीति वज्रं हृदि तु भावयेत् ।
हुंकारेणैव सर्वेषां मुद्रयत्यभितः स्वयम् ॥ इति
यस्य सत्वस्य येनैव मनसा मुद्रयत्यसौ ।
आभिर्मुद्राभिरभ्यर्थ सर्वकर्माणि साधयेद् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0