भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 50

50.1

तत्रैषां हृदयानि भवन्ति ।
ओं वज्र क्रोधाग्राकर्षय हुं फट् ॥
ओं वज्र क्रमाङ्कुशक्रोधाकर्षय हुं फट् ॥
ओं वज्र क्रोधदण्डाग्राकर्षय हुं फट् ॥
ओं वज्रक्रोधासनागच्छाकर्षयामि ते वज्र समयमनुस्मर हुं फट् ॥
ततश्चतुर्विधमुद्राज्ञानं शिक्षयेत् ।
प्रत्यालीढं समास्थाय वज्रावेशप्रयोगतः ।
क्षणाद्धुंकारमात्रेण सर्वमावेशयेज्जगत्

50.2

वज्रवाचा वदेत्सम्यग् चतुर्हुंकारसंयुतं ।
हृदयं सर्वबुद्धानां सर्वमप्यानयेद्ध्रुवं

50.3

वज्रक्रोधसमापत्त्या वज्रक्रोधाग्रदृष्टितः ।
मारयेत जगत्सर्व वज्रहुंकारयोगतः

50.4

मनसा वर्मयेत्कायमात्मनस्तु परस्य वा ।
महाकवचयोगेन रक्षेत्सर्वमिदं जगद् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc