भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 49

49.1

अथासां ज्ञानमुद्राणां हृदयानि भवन्ति ।
हुं सत्व वज्र क्रोधाविश अः ॥
हो रत्न [वज्रक्रोध] त्रः ॥
हुं धर्म वज्रक्रोध फट् ॥
हं कर्म वज्रक्रोध रक्ष ॥
मुद्र
ततो देवाद्याकर्षणमुद्राज्ञानं शिक्षयेत् ।
वज्राङ्कुशं समा[लिख्य ताले हूंक]रसंज्ञितं ।
अङ्गुलीं चालयेत्क्रुद्धो देवाकर्षणमुत्तमं

49.2

वज्राङ्कुशं समालिख्य स्वपादतलमध्यतः ।
लिङ्गमाक्रम्य तेनैव दे[वा समाकर्षे]द् ध्रुवं

49.3

वज्राङ्कुशं समालिख्य स्वमेढ्रे तु समुत्थिते ।
चालयंस्तु समाकर्षेदुमाद्याः सर्वयोषितः

49.4

वज्राङ्कुशं समालिख्ये गुदे कुदे तथा ।
तेनाक्रमीत यं देवं तस्याकर्षणमुत्तमं

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc