सर्वतथागततत्त्वसंग्रह · अध्याय 40
ततः सर्वमुद्रारहस्यं ब्रुयात् ।
विदार्य स्वेन्द्रियं गृण्हेद्वज्रमुष्टिग्रहेण तु ।
तेन मुद्रां स्पृशेद्यां तु सा वशं याति तत्क्षणात् ॥
ततः सर्वमुद्राधर्मतां ब्रुयात् ।
सूक्ष्मवज्रविधिं योज्य ज्ञानमुद्रां तु बन्धयेत् ।
अनेन विधियोगेन ज्ञानमुद्रां वशन्नयेत् ॥
ततः सर्वमुद्राकर्म ब्रुयात् ।
गीतनृत्यरसाहारविहारादिसुखानि तु ।
निर्यातयंस्तु बुद्धेभ्यः कर्ममुद्रावशन्नयेद् ॥ इति ॥
ततः सर्वमण्डलसाधिकारहस्यमुद्राज्ञानं शिक्षयेत् ।
स्तब्धलिङ्गः स्वयंभूत्वा निपद्येत्पटके सिते ।
लिङ्गं चैत्यमधिष्ठाय वज्रधातुरहं स्वयं
वज्रबन्धं दृढीकृत्य मध्यमोत्थसमाङ्कुरा ।
कन्यसाग्र्या मुखोत्थानान्समयः समयाग्रीणां
सूक्ष्मवज्रप्रयोगेण भावयेत्स समाहितः ।
मण्डलं सूक्ष्मवज्रां तु समाधिवशितां नयन्
वज्रमुद्राद्विकं बध्वा गृण्हेद् वज्रन्तयोर्दृढम् ।
कनिष्ठाग्रा निबन्धेन वज्रकार्याग्रमण्डल
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0