भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 31

31.1

तत्रेमानि हृदयानि भवन्ति ।
समन्तभद्राविश ॥
सत्ववज्राविश ॥
वज्रसत्वसमाधिज्ञानाविश ॥
तथागतो ऽहं ॥
ततः सर्वतथागतधर्मतारहस्यमुद्राज्ञानं शिक्षयेत् ।
तथागतसमो ऽहं हि वज्रवाचा सकृद्वदन् ।
द्वयेन्द्रियसमापत्त्या सर्वसत्वां स मारयेत्

31.2

महावज्रसमो ऽहं हि वज्रवाचा सकृद्वदन् ।
द्वयेन्द्रियसमापत्त्या लोकमाकर्षयेद्ध्रुवं

31.3

वज्रधर्मसमो ऽहं हि वज्रवाचा सकृद्वदन् ।
द्वयेन्द्रियसमापत्त्या सर्वलोकं स नाशयेत्

31.4

विश्ववज्रसमो ऽहं हि वज्रवाचा सकृद्वदन् ।
द्वयेन्द्रियसमापत्त्या सर्वकर्म स साधयेद् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc