भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 20

20.1

अथासां हृदयानि भवन्ति ।
वज्रदृष्टि मट् ॥
दीप्तदृष्ट्याङ्कु शिज्जः ॥
क्रोधदृष्टि हीः ॥
दृढदृष्टि त्रट् ॥
ततो वज्रगुह्यवाङ्मुद्राज्ञानं शिक्षयेत् ।
होः होः होः हो इति प्रोक्ते वाग्विवर्तितया क्षणात् ।
रागयेत् सर्वसत्वां सो वज्रवाचा परिस्फुटां

20.2

ज्जः ज्जः ज्जः ज्ज इति प्रोक्ते क्रोधवाचा परिस्फुटां ।
आकर्षयेज्जगत्सर्वमपि वज्रधरोपमम्

20.3

हुं हुं हुं हुं समाधाय शब्दवाचा परिस्फुटां ।
मारयेत् सर्वसत्वां सो मेरुमर्दनसन्निभाम्

20.4

हं हं हं हं इति प्रोक्ते सूक्ष्मवाचा परिस्फुटां ।
रक्षेत् सर्वमिदं लोचमपि वज्रात्मकं जिनम् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc