ग्रंथ पाठ
सर्वतथागततत्त्वसंग्रह · अध्याय 187
187.1
त्याह भगवानवलोकितेश्वरः ॥
तत्रेदं मणिकुलमण्डलसिद्धिगुह्यतन्त्रं ।
सर्वार्थसिद्धियोगेन मण्डलानि समालिखेत् ।
महामणिकुलानां तु तं प्रविष्ट्वैव वाग्वदेत्
187.2
"सर्वाभिप्रायसिद्धीनां रागाशासिद्धिरुत्तमा ।
सिध्य सिध्य महासत्व भगवन् सर्वसिद्धये"
187.3
एवं ब्रूवंस्तु सर्वेषु मण्डलेषु प्रवेशतः ।
महासिद्धिमवाप्नोति पूजागुह्यमनुत्तरं
187.4
ततः प्रभृति सिद्धात्मा साधयन् सिद्धयः सदा ।
यदा न लघु सिद्धिः स्यात् सिध्यन्ते तत्वचोदनैर्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0