भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 171

171.1

तत्रासां हृदयानि भवन्ति ।
आकाशगुह्यज्ञान साधय हूं ॥
चित्रगुह्यज्ञानाभिषिञ्च हूं ॥
प्रियानुस्मृतिज्ञानगुह्य सर्वलोकं रामय हूं ॥
सर्वगुह्यज्ञान सर्वसिद्धिं मे प्रयच्छ हूं ॥
ततो महामुद्रां यथावद् बध्नीयात् । तादृशा एव सिद्धिः ।
ततो वज्रमणिं वज्रज्ञानमण्डलयोगेन स्थापयेत् ॥
अथ धर्ममुद्रा भवन्ति ।
सः, राः, रा, साः, राः, तेः, केः, हाः,
धं, तीः, हे, भा, क, र, यः, सः ।
कर्ममुद्रा समासेन यथा स्थानेषु संस्थयेद् ॥ इति ॥
सर्वतथागतकर्मसमयात् महाकल्पराजाज्ज्ञानमण्डलविधिविस्तरः परिसमाप्तः ॥
छप्तेर् 22 कर्म-मन्दल-विधि-विस्तर
एमनतिओन् ओf देइतिएस् fरोम् समधि
अथ भगवान् पुनरपि सर्वतथागताभिषेककर्मसमयसंभवाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ओं सर्वतथागतकर्माभिषेके हूं ॥
अथ वज्रापाणिर्महाबोधिसत्व इमां स्वकर्मसंभवां विद्योत्तमामभाषत् ओं वज्रहुंकाराभिषेके ॥
अथ वज्रगर्भो बोधिसत्व इमां स्वविद्योत्तमामभाषात् ओं सर्वाकाशसमताभिषेके हूं ॥
अथ वज्रनेत्रो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ओं सद्धर्माभिषेकरत्ने ॥
अथ वज्रविश्वो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ओं विश्वाभिषेके ॥
देलिनेअतिओन् ओf थे मन्दल
अथाकाशगर्भो बोधिसत्वो महासत्व इदं स्वकुलकर्ममण्डलमभाषत् ।
अथातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं रत्नकर्ममिति स्मृतं

171.2

महामण्डलयोगेन सूत्रयेत्सर्वं मण्डलं ।
तस्य मध्ये यथान्यायं बुद्धबिम्बन्निवेशयेत्

171.3

महासत्वप्रयोगेण रत्नसत्व्यः समालिखेद् ॥ इति ॥

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc