भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 170

170.1

अथैषां हृदयानि भवन्ति ।
ओं इलि ॥
ओं मिलि ॥
ओं चिलि ॥
ओं किलि ॥
मुद्र
ततो मणिज्ञानरहस्यमुद्राज्ञानं[शिक्षयेत् ॥]
द्वयेन्द्रियसमापत्त्या वज्रगर्भं तु भावयेत् ।
आकाशे वान्यदेशे वा परां सिद्धिमवाप्नुते

170.2

द्वयेन्द्रियसमापत्त्या वज्रगर्भं तु भावयन् ।
आलेख्य चित्रलिखितं प्राप्नुयादभिषेचनं

170.3

द्वयेन्द्रियसमापत्त्या वज्रगर्भं तु भावयन् ।
तं प्रियं यस्य रमयेत्सर्वलोकं स रागयेत्

170.4

द्वयेन्द्रियसमापत्त्या वज्रगर्भ तु भावयन् ।
सर्वाकाशरजोविश्वैः सर्वसिद्धिर्भवेद्रध्रुवम् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc