सर्वतथागततत्त्वसंग्रह · अध्याय 169
तत्रैषां हृदयानि भवन्ति ।
ओं हृदय गर्भ देहि धनं ॥
ओं रत्नाभिषेकगर्भाभिषिञ्च ॥
ओं वाग्गर्भ सिध्य ।
ओं रत्नगर्भोष्णीषाकाशं गच्छ ॥
वज्रगर्भमहामुद्रां भावयं सुसमाहितः ।
याचयेद् देहि सिद्धिं मे इति-रत्नेति सिध्यति
आकाशगर्भ समयीम्बध्वा तु सुसमाहितः ।
याचयेदभिषेकाणि मिलि-रत्नेति लप्स्यति
वज्रगर्भसमाधिन्तु भावयं सुसमाहितः ।
याचयेद् देहि मे धर्म चिलि-रत्नेति लप्स्यति
आकाशगर्भकर्माग्रीं बध्वा तु सुसमाहितः ।
याचे[त्सर्वर]त्नानि किलि-रत्नेति लप्स्यतीति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0