सर्वतथागततत्त्वसंग्रह · अध्याय 168
अथैषां हृदयानि भवन्ति ।
ओं ज्ञानगर्भ देहि सर्वार्थान् ।
ओं ज्ञानगर्भ देहि सर्वरत्नान ॥
ओं ज्ञानगर्भ देहि सर्वधर्मान् ओं ज्ञानगर्भ देहि सर्वकर्मान् ॥
वज्रगर्भ हृदि लिख्यं भावयं सुसमाहितः ।
यदा तु हृदयं कंपेत् ततः सिद्धो धनं ददेत्
वज्रगर्भं ललाटे तु समालिख्य विभावयेत् ।
यदा तु कंपते शीर्षमभिषेकं स लप्स्यति
वज्रगर्भं मुखे विध्वा भावयेत् तत्र एव हि ।
यदा तु स्फुटते तत्तु तदा वागस्य सिध्यति
वज्रगर्भं स्वमूर्धे तु प्रतिष्ठाप्य विभावयेत् ।
यदा तु ज्वालते तत्तु तदैवोर्ध्वगमो भवेद् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0