भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 167

167.1

तत्रैषां हृदयानि भवन्ति ।
ओं देहि सर्वार्थान् भगवन् वज्रगर्भ ॥
ओं देहि सर्वरत्नान् भगवन् वज्रगर्भ ॥
ओं देहि सद्धर्म भगवन् वज्रगर्भ सत्सत्व ॥
ओं देहि सत्कर्म भगवन् वज्रगर्भ ॥
आकाशे वान्यदेशे वाभावयं सुसमाहितः ।
आकाशगर्भं सत्सत्वं याचयेदर्थसंपदः

167.2

आकाशे वान्यदेशे वा भावयं सुसमाहितः ।
आकाशगर्भं सत्सत्वं याचयन् रत्नसंचयं

167.3

आकाशे वान्यदेशे वा भावयं सुसमाहितः ।
आकाशगर्भं सत्सत्वं याचयेद् धर्मसंपदः

167.4

आकाशे वान्यदेशे वा भावयं सुसमाहितः ।
आकाशगर्भं सत्सत्वं याचयेत्कर्मसंचयम् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc