भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 166

166.1

इनितिअतिओन् इन्तो थे मन्दल
अथात्र मण्डले यथावद् विधिविस्तरं कृत्वा, शिष्यानेवं ब्रूयात् । "न त्वया अदृष्टधर्ममण्डलस्य वक्तव्यं । मा ते मरणकालः शीघ्रमेवासिद्धस्य स्याद्" , इत्युक्त्वा, मणिकुलधर्मज्ञानान्युत्पादयेत् ।
वज्रगर्भ समालिख्य पटादिषु समाधिना ।
भावयन् याचयेदर्थान्देहि रत्न इति ब्रूवन्

166.2

वर्जगर्भं समालिख्य पटादिषु समाधिना ।
भावयन् याचयेद्रत्नां देहीति वाग् ब्रूवन्

166.3

वज्रगर्भं समालिख्य पटादिषु विभावयन् ।
समापत्त्या तु सद्धर्भं देहि ज्ञानेति याचयन्

166.4

वज्रगर्भं समालिख्य पटादिषु विभावयन् ।
समापत्त्या तु सत्कर्म देहीति याचयेदिति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc