सर्वतथागततत्त्वसंग्रह · अध्याय 161
तत्रैषां हृदयानि भवन्ति ।
वज्ररत्न[बिम्बाधितिष्ठ] ॥
वज्ररत्नबिम्ब प्रतिष्ठ ॥
वज्ररत्नबिम्बाविश ॥
वज्ररत्नबिम्ब कुरु ॥
सौवर्ण वाथ रौप्यं वज्ररत्नं तु भावयेत् ।
अन्यरत्नमयं वापि हृदि भाव्याभिषिच्यते
सौवर्णमन्यरत्नं वा वज्ररत्नं त्वनुत्तरं ।
स्थाप्य भूयो ललाटे तु भवेद्राजा महाधनः
सौवर्णमन्यरत्नं वा वज्ररत्नन्तु भावयेत् ।
स्वमुखे चैव प्रक्षिप्य भवेद्वाचां पतिस्तु सः
सौवर्णमन्यरत्नं वा वज्ररत्नन्तु भावयेत् ।
उष्णीषे भावयं भूयो सर्वकर्मपतिर्भवेद् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0